विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा वचस्तस्य सुतस्य विदितात्मनः।
उत्तरं परिपप्रच्छुः सूतपुत्रं द्विजातयः ॥ १०.१ ॥
मूलम्

कथं द्वितीयमुत्पन्ना भवानी प्राक्सती तु या।
आसीद्दाक्षायणी पूर्वमुमा कथम जायत ॥ १०.२ ॥

मेनायां पितृकन्यायां जनयामास शैलरुट्।
केचैते पितरश्चैव येषां मेना तु मानसी ॥ १०.३ ॥

मैनाकश्चैव दौहित्रो दौहित्री च तथा ह्युमा।
एकपर्णा तथा चैव तथा या चैकपाटला ॥ १०.४ ॥

गङ्गा चैव सरिच्छ्रेष्ठा सर्वासां पूर्वजा तथा।
पूर्वमेव मयोद्दिष्टं श्रृणुध्वं मम सर्वशः ॥ १०.५ ॥

अनेके पितरश्चैव वर्त्तन्ते व्क च वा पुनः।
श्रोतुमिच्छामि भद्रन्ते श्राद्धस्य च परं विधिम् ॥ १०.६ ॥

पुत्राश्च ते स्मृताः केषां कथञ्च पितरस्तु ते ।
पितरः कथमुत्पन्नाः कस्य पुत्राः किमात्मकाः ॥ १०.७ ॥

स्वर्गे तु पितरोऽन्ये ये देवानामपि देवताः।
एवं वै श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम्।
यथावद्दत्तमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥ १०.८ ॥

यदर्थं तेन दृश्यन्ते तत्र किं कारणं स्मृतम्।
स्वर्गे हि के तु वर्त्तन्ते पितरो नरके तु के ॥ १०.९ ॥

अभिसन्धाय पितरं पितुश्च पितरं तथा।
पितुः पितामहञ्चैव त्रिषु पिण्डेषु नामतः ॥ १०.१० ॥

कानि श्राद्धानि देयानि कथं गच्छन्ति वै पितॄन् ।
कथञ्च शक्तास्ते दातुं नरकस्थाः फलं पुनः ॥ १०.११ ॥

के चेह पितरो नाम कान् यजामो वयं पुनः ।
देवा अपि पुतॄन् स्वर्गे यजन्तीति हि नः श्रुतम् ॥ १०.१२ ॥

एतदिच्छामि वै श्रोतुं विस्तरेण बहुश्रुत।
स्पष्टाभिधानमर्थं वै तद्भवान्वक्तुमर्हति ॥ १०.१३ ॥

ऋषीणान्तु वचः श्रुत्वा सूतस्तत्त्वार्थदर्शिवान्।
आचचक्षे यथाप्रश्रं ऋषीणां मानसं ततः ॥ १०.१४ ॥

अत्र वो वर्णयिष्यामि यथाप्रज्ञं यथाश्रुतम्।
मन्वन्तरेषु जायन्ते पितरो देवसूनवः ॥ १०.१५ ॥

अतीतानागते ज्येष्ठाः कनिष्ठाः क्रमशस्तु ते।
देवैः सार्द्धं पुरातीताः पितरो येऽन्तरेषु वै।
वर्त्तन्ते साम्प्रतं ये तु तान्वै वक्ष्यामि निश्चयात् ॥ १०.१६ ॥

श्राद्धञ्चैषां मनुष्याणां श्राद्धमेव प्रवर्त्तते।
देवानसृजन् ब्रह्मा नायक्षन्निति वै पुनः ।
तमुत्सृज्य तदात्मानमसृजंस्ते फलार्थिनः ॥ १०.१७ ॥

ते शप्ता ब्रह्मणा मूढा नष्टसञ्ज्ञा भविष्यथ।
न स्म किञ्चिद्विजानन्ति ततो लोके ह्यमुह्यत ॥ १०.१८ ॥

ते भूयः प्रणताः सर्वे याचन्ति स्म पितामहम्।
अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः ॥ १०.१९ ॥

प्रायश्चित्तं चरध्वं वै व्यभिचारो हि यः कृतः ।
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥ १०.२० ॥

ततस्ते स्वान्सुतांश्चैव प्रायश्चित्तजिघृक्षवः।
अपृच्छन् संयतात्मानो विधिवच्च मिथो मिथः ॥ १०.२१ ॥

तेभ्यस्ते नियतात्मानः पुत्राः शंसुरनेकधा।
प्रायश्चित्तानि धर्मज्ञा वाङ्मनः कर्मजानि तु ॥ १०.२२ ॥

ते पुत्रानब्रुवन्प्रीता लब्धसञ्ज्ञा दिवौकसः।
यूयं वै पितरोऽस्माकं ये वयं प्रतिबोधिताः।
धर्मज्ञानञ्च कामश्च को वरो वः प्रदीयताम् ॥ १०.२३ ॥

पुनस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः।
तस्माद्यदुक्तं युष्माभिस्तत्तथा न तदन्यथा ॥ १०.२४ ॥

उक्तञ्च पितरोऽस्माकमिति वै तनयाः स्वकाः।
पितरस्ते भविष्यन्ति तेभ्योऽयं दीयतां वरः ॥ १०.२५ ॥

तेनैव वचसा पुत्रा ब्रह्मणः परमेष्ठिनः।
पुत्राः पितृत्त्वमाजग्मुः पुत्रत्वं पितरः पुनः ॥ १०.२६ ॥

तस्मात्ते पितरः पुत्राः पितृत्वे तेषु तत्स्मृतम् ।
एवं स्मृत्वा पितॄन् पुत्रान्पुत्राश्च पितरस्तथा।
व्याजहार पुनर्ब्रह्मा पिदॄनात्मविवृद्धये ॥ १०.२७ ॥

यो ह्यनिष्ट्वा पितॄञ्छ्राद्धे क्रियां काञिचित्करिष्यति।
राक्षसा दानवाश्चैव फलं प्राप्स्यन्ति तस्य तत् ॥ १०.२८ ॥

श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम्।
आप्याय्यमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यशः ॥ १०.२९ ॥

श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ।
कृत्स्रं सपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ॥ १०.३० ॥

श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः।
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥ १०.३१ ॥

श्राद्धे येभ्यः प्रदास्यन्ति त्रीन् पिण्डान् नामगोत्रतः।
सर्वत्र वर्त्तमानास्ते पितरः प्रपितामहम्।
तेषामाप्याययिष्यन्ति श्राद्धदानेन वै प्रजाः ॥ १०.३२ ॥

एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना।
तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः ॥ १०.३३ ॥

ते तु ज्ञानप्रदातारः पितरो वो न संशयः।
इत्येते पितरो देवा देवाश्च पितरः पुनः ।
अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह ॥ १०.३४ ॥

एतद्ब्रह्मवचः श्रुत्वा सूतस्य विहितात्मनः ।
पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ॥ १०.३५ ॥

कियन्तो वै पितृगणाः कस्मिन्काले च ते गणाः ।
वर्त्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ॥ १०.३६ ॥

एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम्।
शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ॥ १०.३७ ॥

बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम्।
पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ॥ १०.३८ ॥

क एते पितरो नाम कियन्तः के च नामतः।
समुद्भूताः कथञ्चैते पितृत्वं समुपागताः ॥ १०.३९ ॥

कस्माच्च पितरं पूर्वं यज्ञे युज्यन्ति नित्यशः।
क्रियाश्च सर्वा वर्त्तन्ते श्राद्धपूर्वा महात्मनाम् ॥ १०.४० ॥

कस्मै श्राद्धानि देयानि किञ्च दत्तं महाफलम्।
केषु वाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ॥ १०.४१ ॥

केषु वै सर्वमाप्नोति श्राद्धं कृत्वा द्विजोत्तमः।
कश्च कालो भवेच्च्राद्धे विधिः कश्चानुवर्त्तते ॥ १०.४२ ॥

एतदिच्छामि भगवन् विस्तरेण यथातथम्।
व्याख्यातुमानुपूर्व्येण यत्र चोदाहृतं मया ॥ १०.४३ ॥

बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः।
व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः ॥ १०.४४ ॥

कथयिष्यामि ते तात यन्मां त्वं परिपृच्छसि।
विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ॥ १०.४५ ॥

द्यौरन्तरिक्षं पृथिवी नक्षत्राणि दिशस्तथा।
सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च ॥ १०.४६ ॥

न बभूवुस्तदा तात तमोभूतमिदं जगत्।
ब्रह्मैको दुश्चरं तत्र चचार परमं तपः ॥ १०.४७ ॥

शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम्।
सर्वदैव व्रतस्नातं सर्वज्ञानविदांवरम् ॥ १०.४८ ॥

कीदृशं सर्वभूते शस्तपस्तेपे प्रजापतिः।
एवमुक्तो बृहत्तेजा बृहस्पतिरुवाच तम् ॥ १०.४९ ॥

सर्वेषां तपसां युक्तिस्तपोयोगमनुत्तमम्।
ध्यायंस्तदा तद्भगवांस्तेन लोकनवासृजत् ॥ १०.५० ॥

भूतभव्यानि ज्ञानानि लोकान्वेदांश्च कृत्स्नशः।
योगमाविश्य तत्सृष्टं ब्रह्मणा योगचक्षुषा ॥ १०.५१ ॥

लोकाः सान्तानिका नाम यत्र तिष्ठन्ति भास्वराः।
ते वैराजा इति ख्याता देवानां दिवि देवताः ॥ १०.५२ ॥

योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः।
देवानसृजत ब्रह्मा योगं युक्त्वा सनातनम् ॥ १०.५३ ॥

आदिदेवा इति ख्याता महासत्त्वा महौजसः।
सर्वकामप्रदाः पूज्या देवदानवमानवैः ॥ १०.५४ ॥

तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः ।
अमूर्त्तयस्त्रयस्तेषां चत्वारस्तु सुमूर्त्तयः ॥ १०.५५ ॥

उपरिष्टात्रयस्तेषां वर्त्तन्ते भावमूर्त्तयः।
तेषामधस्ताद्वर्त्तन्ते चत्वारः सूक्षममूर्त्तयः ॥ १०.५६ ॥

ततो देवास्ततो भूमिरेषा लोकपरम्परा।
लोके वर्त्तन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसम्भवः ।
वृष्टिर्भवति तैर्वृष्ट्या लोकानां सम्भवः पुनः ॥ १०.५७ ॥

आप्याययन्ति ते यस्मात्सोमञ्चान्नञ्च योगतः।
ऊचुस्तान्वै पितॄंस्तस्माल्लोकानां लोकसत्तमाः ॥ १०.५८ ॥

मनोजवाः स्वधाभक्षाः सर्वकामपरिच्छदाः।
लोभमोहभयापेता निश्चिताः शोकवर्जिताः ॥ १०.५९ ॥

एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान्।
दिव्याः पुण्या महात्मानो विपाप्मानो भवन्त्युत ॥ १०.६० ॥

ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः।
प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्त्तयः ॥ १०.६१ ॥

व्यक्ताव्यक्तं परित्यज्य महायोगबलेन वा ।
नश्यन्त्युल्केव गगने क्षीणविद्युत्प्रभेव च ॥ १०.६२ ॥

उत्सृज्य देहजातानि महायोगबलेन च।
निराख्योपाख्यतां यान्ति सरितः सागरे यथा ॥ १०.६३ ॥

क्रियया गुरुपूजाभिर्ये च कुर्वन्ति नित्यशः।
ताभिराप्याययन्त्येते पितरो योगवर्द्धनाः ॥ १०.६४ ॥

श्राद्धे प्रीताः पुनः सोमं पितरो योगमास्थिताः।
आप्याययन्ति योगेन त्रैलोक्यं येन जीवति ॥ १०.६५ ॥

तस्माच्छ्राद्धानि देयानि योगिभ्यो यत्नतः सदा।
पितॄणां हि बलं योगो योगात्सोमः प्रवर्त्तते ॥ १०.६६ ॥

कल्पितानां सहस्रेण स्नातकानां शतेन च।
योगाचार्येण यद्भुक्तं त्रायते महतो भयात् ॥ १०.६८ ॥

गृहस्थानां सहस्रेण वानप्रस्थशतेन च।
ब्रह्मचारिसहस्रेण योगी ह्येको विशिष्यते ॥ १०.६९ ॥

नास्तिको वा विकर्मा वा सङ्कीर्णस्तस्करोऽपि वा।
नान्यत्र कारणं दानं योगेष्वाह प्रजापतिः ॥ १०.७० ॥

पितरस्तस्य तुष्यन्ति सुवृष्टेनेव कर्षकाः।
पुत्रो वाप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति ॥ १०.७१ ॥

अलाभे ध्यानिभिक्षूणां भोजयेद्ब्रह्मचारिणौ ।
तदलाभेप्युदासीनं गृहस्थमपि भोजयेत् ॥ १०.७२ ॥

यस्तिष्ठेदेकपादेन वायुभक्षः शतं समाः ।
ध्यानयोगी परस्तस्मादिति ब्रह्मानुशासनम् ॥ १०.७३ ॥

सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम्।
तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः ॥ १०.७४ ॥

पूजयेच्चार्घ्यपात्रेण वेश्मना भोजनेन च।
ऊर्वोः सागरपर्यन्तां देवा योगेश्वराः सदा।
नानारूपैश्चरन्त्येते प्रजा धर्मेण पालयन् ॥ १०.७५ ॥

तस्माद्दद्याच्च वै दानं विप्रायातिथये नरः।
प्रदानानि प्रवक्ष्यामि फलञ्चैषां तथैव च ॥ १०.७६ ॥

अश्वमेधसहस्रेण राजसूयशतेन च।
पुण्डरीकसहस्रेण योगिष्वावसथो वरम् ॥ १०.७७ ॥

आद्य एष गणः प्रोक्तः पितॄणाममितौजसाम्।
भावयन्सप्तकालान्वै स्थित एष गणस्तदा ॥ १०.७८ ॥

अत ऊरद्ध्वं प्रवक्ष्यामि सर्वान् पितृगणान्पुनः ।
सन्ततिं संस्थितिञ्चैव भावनाञ्च यथाक्रमम् ॥ १०.७९ ॥