००९

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

एवं प्रजासु सृष्टासु कश्यपे न महात्मना।
प्रतिष्ठितासु सर्वासु स्थावरासु चरासु च ॥ ९.१ ॥

मूलम्

अभिषिच्याधिपत्येषु तेषां मुख्यः प्रजापतिः।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ ९.२ ॥

द्विजातीनां वीरुधाञ्च नक्षत्राणां ग्रहैः सह।
यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत ॥ ९.३ ॥

बृहस्पतिं तु विश्वेषां ददावङ्गिरसां पतिम्।
भृगूणामधिपञ्चैव काव्यं राज्येऽभ्यषेचयत् ॥ ९.४ ॥

आदित्यानां पुनर्विष्णुं वसूनामथ पावकम् ।
प्रजापतीनां दक्षञ्च मरुतामथ वासवम् ॥ ९.५ ॥

दैत्यानामथ राजानं प्रह्लादं दितिनन्दनम्।
नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ॥ ९.६ ॥

विप्रचित्तिञ्च राजानं दानवानामथादिशत्।
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम्।
यक्षाणां राक्षसानाञ्च पार्थिवानां धनस्य च ॥ ९.७ ॥

वैवस्वतं पितॄणाञ्च यमं राज्येऽभ्यषेचयत्।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ ९.८ ॥

शैलानां हिमवन्तञ्च नदीनामथ सागरम्।
गन्धर्वाणामधिपतिं चक्रे चित्ररथं तदा ॥ ९.९ ॥

उच्चैःश्रवसमश्वानां राजानञ्चाभ्यषेचयत्।
मृगाणामथ शार्दूलं गोवृषञ्च चतुष्पदाम् ॥ ९.१० ॥

पक्षिणामथ सर्वेषां गरुडं पततां वरम्।
गन्धानां मातुलञ्चैव भूतानामशरीरिणाम् ॥ ९.११ ॥

शब्दाकाशबलानाञ्च वायुं बलवतां वरम्।
सर्वेषां दंष्ट्रिणां शेषं नागानामथ वासुकिम् ॥ ९.१२ ॥

सरीसृपाणां सर्पाणां नागानाञ्चैव तक्षकम्।
सागराणां नदीनाञ्च मेघानां व्रषितस्य च।
आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान् ॥ ९.१३ ॥

सर्वाप्सरोगणानाञ्च कामदेवं तथैव च।
ऋतूनामथ मासानामार्त्तवानां तथैव च ॥ ९.१४ ॥

पक्षाणाञ्च विपक्षाणां मुहूर्त्तानाञ्च पर्वणाम्।
कलाकाष्ठाप्रमाणानां गते रयनयोस्तथा।
गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ॥ ९.१५ ॥

प्रजापतिर्वै रजसः पूर्वस्यान्दिशि विश्रुतम्।
पुत्रं नाम्ना सुधामानं राजानं सोऽभ्यषेचयत् ॥ ९.१६ ॥

पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम्।
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ ९.१७ ॥

मनुष्याणामधिपतिं चक्रे चैव सुतं मनुम्।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ॥ ९.१८ ॥

स्वायम्भुवेऽन्तरे पूर्वं ब्रह्मणा तेऽभिषेचिताः।
नृपा ह्येतेऽभिषिच्यन्ते मनवो ये भवन्ति वै ॥ ९.१९ ॥

मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः।
एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः।
अतीतानागताः सर्वे स्मृता मन्वन्तरेश्वराः ॥ ९.२० ॥

राजसूयेऽभिषिक्तश्च पृथुरेभिर्नरोत्तमैः।
वेददृष्टेन विधिना कृतो राजा प्रतापवान् ॥ ९.२१ ॥

एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात् ।
पुनरेव महाभागः प्रजानां पतिरीश्वरः ॥ ९.२२ ॥

कश्यपो गोत्रकामस्तु चचार परमं तपः ।
पुत्रौ गोत्रकरौ मह्यं भवेतामित्यचिन्तयत् ॥ ९.२३ ॥

तस्य प्रध्यायमानस्य कश्यपस्य महात्मनः।
ब्रह्मणोंऽशौ सुतौ पश्चात् प्रादुर्भूतौ महौजसौ ॥ ९.२४ ॥

वत्सारश्चासितश्चैव तावुभौ ब्रह्मवादिनौ।
वत्सारान्निध्रुवो जज्ञे रैभ्यश्च स महायशाः ॥ ९.२५ ॥

रैभ्यस्य रैभ्या विज्ञेया निध्रुवस्य निबोधत।
च्यवनस्य सुकन्यायां सुमेधाः समपद्यत ॥ ९.२६ ॥

निध्रुवस्य तु या पत्नी माता वै कुण्डपायिनाम्।
असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ॥ ९.२७ ॥

शाण्डिल्यानां वचः श्रुत्वा देवलः सुमहायशाः।
निध्रुवाः शाण्डिल्या रैभ्यास्त्रयः पश्चात्तु कश्यपाः ॥ ९.२८ ॥

वरप्रभृतयो देवा देवलस्य प्रजास्त्विमाः।
चतुर्युगे त्वतिक्रान्ते मनोर्ह्येकादशे प्रजाः।
अथावशिष्टे तस्मिस्तु द्वापरे सम्प्रवर्तते ॥ ९.२९ ॥

मानसस्य चरिष्यन्तस्तस्य पुत्रो दमः किल।
मानसस्तस्य दायादस्तृणबिन्दुरिति श्रुतः ॥ ९.३० ॥

त्रेतायुगमुखे राजा तृतीये सम्बभूव ह।
तस्य कन्या त्विडविडा रूपेणाप्रतिमाभवत्।
पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ ९.३१ ॥

ऋषिरिडविडायान्तु विश्रवाः समपद्यत।
तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धनाः ॥ ९.३२ ॥

बृहस्पतेर्बृहत्कीर्त्तिर्देवाचार्यस्य कीर्त्तितः ।
कन्यां तस्योपयेमे स नाम्ना वै देववर्णिनीम् ॥ ९.३३ ॥

पुष्पोत्ककटाञ्च वाकाञ्च सुते माल्यवतः स्थितौ।
कैकसीं मालिनः कन्यां तासान्तु श्रृणुत प्रजाः ॥ ९.३४ ॥

ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी।
दिव्येन विधिना युक्तमार्षेणैव श्रुतेन च।
राक्षसेन च रूपेण आसुरेण बलेन च ॥ ९.३५ ॥

त्रिपादं सुमहाकायं स्थूलशीर्षं महातनुम्।
अष्टदंष्ट्रं हरिच्छ्मश्रुं शङ्कुकर्णं विलोहितम् ॥ ९.३६ ॥

ह्रस्व बाहुं प्रबाहुञ्च पिङ्गलं सुविभीषणम्।
वैवर्तज्ञानसम्पन्नं सम्बुद्धं ज्ञानसम्पदा ॥ ९.३७ ॥

एवंविधं सुतं दृष्ट्वा विश्वरूपधरं तथा।
पिता दृष्ट्वाब्रवीत्तत्र कुबेरोऽयमिति स्वयम् ॥ ९.३८ ॥

कुत्सायां क्वितिशब्दोऽयं शरीरं बेरमुच्यते ।
कुबेरः कुशरीरत्वान्नाम्ना तेन च सोऽङ्कितः ॥ ९.३९ ॥

यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव।
तस्माद्वैश्रवणो नाम नाम्ना लोके भविष्यति ॥ ९.४० ॥

ऋद्ध्यां कुबेरोऽजनयद्विश्रुतं नलकूबरम्।
रावणं कुम्भकर्णञ्च कन्यां शूर्पणखान्तथा।
विभीषणं चतुर्थांस्तान्कैकस्यजनयेत्सुतान् ॥ ९.४१ ॥

शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्द्धजः।
चतुष्पाद्विंशतिबुजो महाकायो महा बलः ॥ ९.४२ ॥

जात्याञ्जननिभो दंष्ट्रो लोहितग्रीव एव च।
राजसेनो जययुक्तो रूपेण च बलेन च ॥ ९.४३ ॥

सत्यबुद्धिर्दृढतनू राक्षसैरेव रावणः ।
निसर्गाद्दारुणः क्रूरो रावणाद्रावणस्तु सः ॥ ९.४४ ॥

हिरण्यकशिपुस्त्वासीत्स राजा पूर्वजन्मनि।
चतुर्युगानि राजात्र त्रयोदश स राक्षसः ॥ ९.४५ ॥

ताः पञ्चकोट्यो वर्षाणामाख्याताः सङ्ख्यया द्विजैः।
नियुतान्येकषष्टिश्च सङ्ख्याविद्भिरुदाहृता ॥ ९.४६ ॥

षष्टिशतसहस्राणि वर्षाणान्तु स रावणः ।
देवतानां ऋषीणाञ्च घोरं कृत्वा प्रजागरम् ॥ ९.४७ ॥

त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात्।
रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ॥ ९.४८ ॥

महोदयः प्रहस्तश्च महापांशुखरस्तथा।
पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा ॥ ९.४९ ॥

त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः।
कन्या ह्यसलिका चैव वाकायाः प्रसवाः स्मृताः ॥ ९.५० ॥

इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश।
दारुणाबिजनाः सर्वे देवैरपि दुरासदाः ॥ ९.५१ ॥

सर्वे लब्धवराश्चैव पुत्रपौत्रसमन्विताः।
यक्षाणाञ्चैव सर्वेषां पौलस्त्या ये च राक्षसाः ॥ ९.५२ ॥

आगस्त्यवैश्वामित्राणां क्रूराणां ब्रह्मरक्षसाम्।
वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ॥ ९.५३ ॥

तेषामैडविडो राजा पौलस्त्यः सव्यपिङ्गलः।
इतरे वै यज्ञमुखास्तेन रक्षोगणास्त्रयः ॥ ९.५४ ॥

यातु धाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः ।
निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ॥ ९.५५ ॥

पौलस्त्या नैऋताश्चैव आगत्स्याः कौशिकास्तथा।
इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ॥ ९.५६ ॥

तेषां रूपं प्रवक्ष्यामि स्वभावेन व्यवस्थितम्।
वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ॥ ९.५७ ॥

अष्टदंष्ट्रा शङ्कुकर्णा ऊर्ध्वरोमाण एव च।
आकर्णदारितास्याश्च मुञ्जधूमोर्ध्वमूर्द्धजाः ॥ ९.५८ ॥

स्थूलशीर्षाः सिताभाश्च ह्रस्वकाश्च प्रवाहुकाः।
ताम्रास्या लम्बजिह्वौष्ठा लम्बभूस्थूलनासिकाः ॥ ९.५९ ॥

नीलाङ्गा लोहितग्रीवा गम्भीराक्षा विबीषणाः ।
महाघोरस्वराश्चैव विकटा बद्धपिण्डिकाः ॥ ९.६० ॥

स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः।
दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्मिणः ॥ ९.६१ ॥

सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः।
विचित्र वस्त्राभरणाश्चित्रस्रगनुलेपनाः ॥ ९.६२ ॥

अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः।
इत्येतद्रूपसाधर्म्यं राक्षसानां बुधैः स्मृतम्।
न समस्तबलं बुद्धं यतो मायाकृतं हि तत् ॥ ९.६३ ॥

पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ।
भूताः पिशाचाः सर्पाश्च भ्रमरा हस्तिनस्तथा ॥ ९.६४ ॥

वानराः किन्नराश्चैव यमकिम्पुरुषास्तथा।
येऽन्ये चैव परिक्रान्ता मायाक्रोधवशानुगाः ॥ ९.६५ ॥

अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे।
न तस्य पुत्रः पौत्रो वा तेजः सङ्क्षिप्य वा स्थितः ॥ ९.६६।
अत्रेर्वंशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः।
तस्य पत्न्यश्च सुन्दर्यो दशैवासन्पतिव्रताः ॥ ९.६७ ॥

भद्राश्वस्य धृताच्यां वै दशाप्सरसि सूनवः।
भद्रा शूद्रा च मद्रा च शलदा मलदा तथा ॥ ९.६८ ॥

वेला खला च सप्तैता या च गोचपला स्मृता ।
तथा मानरसा चैव रत्नकृटा च ता दश ॥ ९.६९ ॥

आत्रेयवंशकृत्तासां भर्त्ता नाम्ना प्रभाकरः।
भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ॥ ९.७० ॥

स्वर्भानुना हते सूर्ये पतमानो दिवो महीम्।
तमोऽभिभूते लोकेऽस्मिन् प्रभा येन प्रवर्त्तिता ॥ ९.७१ ॥

स्वस्ति तेऽस्त्विति चोक्तः स पतन्निह दिवाकरः।
ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ॥ ९.७२ ॥

अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ।
यज्ञेष्वत्रिघनश्चैव सुरैर्यश्च प्रवर्त्तितः ॥ ९.७३ ॥

स तास्वजनयत् पुत्रानात्मतुल्याननामकान्।
दश तास्वेव महता तपसा भावितप्रभा ॥ ९.७४ ॥

स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ।
तेषां विख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ ॥ ९.७५ ॥

दत्तात्रेयस्तस्य ज्येष्ठो दुर्वासास्तस्य चानुजः ।
यवीयसी सुता तस्या मबला ब्रह्मवादिनी।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ॥ ९.७६ ॥

अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम्।
दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ॥ ९.७७ ॥

तस्य गोत्रान्वये जाताश्चत्वारः प्रथिता भुवि।
श्यामाश्च मुद्गलाश्चैव बलारकगविष्ठिराः।
एते नृणान्तु चत्वारः स्मृताः पक्षा महौजसाम् ॥ ९.७८ ॥

कश्यपान्नारदश्चैव पर्वतोऽरुन्धती तथा।
जज्ञिरे च त्वरुन्धत्यास्तान्निबोधत सत्तमाः ॥ ९.७९ ॥

नारदस्तु वसिष्ठायारुन्धतीं प्रत्यपादयत्।
ऊर्ध्वरेता महातेजा वृक्षशापात्तु नारदः ॥ ९.८० ॥

पुरा देवासुरे तस्मिन्सङ्ग्राम तारकामये।
अनावृष्ट्या हते लोके व्यग्रे शक्रे सुरैः सह।
वसिष्ठस्तपसा धीमान्धारयामास वै प्रजाः ॥ ९.८१ ॥

अत्रौषधं मूलफलमोषधीश्च प्रवर्त्तयन् ।
तास्तेन जीवयामास कारुण्यादोषधेन तु ॥ ९.८२ ॥

अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयद्द्विजाः।
सागरञ्जनयच्छक्तेरदृश्यन्ती पराशरम् ॥ ९.८३ ॥

काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम्।
द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ॥ ९.८४ ॥

उत्पद्यन्ते च पीवर्यां षडिमे शुकसूनवः।
भूरिश्रवाः प्रभुः शम्भुः कृष्णो गौरश्च पञ्चमः ॥ ९.८५ ॥

कन्या कीर्तिमती चैव योगमाता दृढव्रता।
जननी ब्रह्मदत्तस्य पत्नी सत्त्वगुहस्य च ॥ ९.८६ ॥

श्वेताः कृष्णाश्च गौराश्च श्यामा धूम्राः समूलिकाः।
ऊष्मपा दारकाश्चैव नीलाश्चैव पराशराः।
पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ॥ ९.८७ ॥

अत ऊर्ध्वं निबोधध्वमिन्द्रप्रतिमसम्भवम्।
वसिष्ठस्य कपिञ्जल्यां घृताच्यां समपद्यत।
कुशीतियः समाख्यात इन्द्रप्रतिम उच्यते ॥ ९.८८ ॥

पृथोः सुतायाः सम्भूतः पुत्रस्तस्या भवद्वसुः।
उपमन्युः सुतस्तस्य यस्येमे उपमन्यवः ॥ ९.८९ ॥

मित्रावरुणयोश्चैव कुण्डिनो ये परिश्रुताः।
एकार्षेयास्तथैवान्ये वसिष्ठा नाम विश्रुताः।
एते पक्षा वसिष्ठानां स्मृता एकादशेव तु ॥ ९.९० ॥

इत्येते ब्रह्मणः पुत्रा मानसा ह्यष्ट विश्रुताः।
भ्रातरः सुमहाभागा तेषां वंशाः प्रतिष्ठिताः ॥ ९.९१ ॥

त्रींल्लोकान्धारयन्तीमान्देवर्षिगणसङ्कुलान् ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः।
यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ ९.९२ ॥

इति श्रीमहापुराणे वायुप्रोक्ते ऋषिवंशानुकीर्त्तनं नाम नवमोऽध्यायः ॥ ९ ॥ *