॥सूत उवाच॥
विश्वास-प्रस्तुतिः
गन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्त्तिताः।
चित्रसेनोग्रसेनश्च ऊर्णायुरनघस्तथा ॥ ८.१ ॥
मूलम्

धृतराष्ट्रः पुलोमा च सूर्यवर्च्चास्तथैव च।
युगपत्तृणपत्कालिर्दितिश्चित्ररथ स्तथा ॥ ८.२ ॥

त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः।
कलिः पञ्चदशश्वैव नारदश्चैव षोडशः।
इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः ॥ ८.३ ॥

चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः ।
अन्तरा दारवत्या च प्रियमुख्या सुरोत्तमा ॥ ८.४ ॥

मिश्रकेशी तथा शाची पर्णिनी वाप्यलम्बुषा।
मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ॥ ८.५ ॥

अद्रिका लक्षणा चैव देवी रम्भा मनोरमा।
सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ॥ ८.६ ॥

पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा।
हेमासरा सुती चैव सुवृत्ता कमला च या ॥ ८.७ ॥

सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा।
गन्धर्वाप्सरसो ह्येता मौनेयाः परिकीर्तिताः ॥ ८.८ ॥

गन्धर्वाणां दुहितरो मया याः परिकीर्त्तिताः।
तासां नामानि सर्वासां कीर्त्त्यमानानि मे श्रृणु ॥ ८.९ ॥

सुयशा प्रथमा तासां गान्धर्वी तदनन्तरम् ।
विद्यावती चारुमुखी सुमुखी च वरानना ॥ ८.१० ॥

तत्रेमे सुयशापुत्रा महाबलपराक्रमाः।
प्रचेतसः सुता यक्षास्तेषां नामानि मे श्रृणु ॥ ८.११ ॥

कम्बलो हरिकेशश्च कपिलः काञ्चनस्तथा।
मेघमालीतु यक्षाणां गण एष उदाहृतः ॥ ८.१२ ॥

सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः।
तासां नामानि वै सम्यग् ब्रुवतो मे निबोधत ॥ ८.१३ ॥

लोहेयी त्वभवज्ज्येष्ठा भरता तदनन्तरम्।
कृशाङ्गी च विशाला च रूपेणाप्रतिमा तथा ॥ ८.१४ ॥

ताभ्योऽपरे यक्षगणाश्चत्वारः परिकीर्त्तिताः।
उत्पादिता विशालेन विक्रान्तेन महात्मना ॥ ८.१५ ॥

लोहेयो भरतेयश्च कृशाङ्गेयश्च विश्रुतः ।
विशालेश्च यक्षाणां पुराणे प्रथिता गणाः ॥ ८.१६ ॥

इत्येतैरसुरैर्घोरैर्महाबलपराक्रमैः।
लोकैर्यक्षगणैर्व्याप्ता लोकालोक विदांवराः ॥ ८.१७ ॥

गन्धर्वाश्चाथ वालेया विक्रान्तेन महात्मना।
उत्पादिता महावीर्या महागन्धर्वनायकाः ॥ ८.१८ ॥

विक्रमौदार्यसम्पन्ना महाबलपराक्रमाः।
तेषां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥ ८.१९ ॥

चित्राङ्गदो महावीर्यश्चित्रवर्मा तथैव च।
चित्रकेतुर्महाभागः सोमदत्तोऽथ वीर्यवान्।
तिस्रो दुहितरश्चैव तासां नामानि वक्ष्यते ॥ ८.२० ॥

प्रथमा त्वग्निका नाम कम्बला तदनन्तरम्।
तथा वसुमती नाम रूपेणाप्रतिमौजसः ॥ ८.२१ ॥

ताभ्यः परे कुमारेण गणा उत्पादितास्त्विमे।
त्रयो गन्धर्वमुख्यानां विक्रान्ता युद्धदुर्मदाः ॥ ८.२२ ॥

आग्नेयाः काम्बलेयाश्च तथा वसुमतीसुताः।
तैर्गणैर्विविधैर्व्याप्तमिदं लोकचराचरम् ॥ ८.२३ ॥

विद्यावन्तश्च तेनैव विक्रान्तेन महात्मना।
उत्पादिता महाभागा रूपविद्याधनेश्वराः ॥ ८.२४ ॥

तेषामुदीर्ण वीर्याणां गन्धर्वाणां महात्मनाम्।
नामानि कीर्त्त्यमानानि श्रृणुध्वं मे विवक्षतः ॥ ८.२५ ॥

हिरण्यरोमा कपिलः सुलोमा मागधस्तथा।
चन्द्रकेतुश्च वै गाङ्गो गोदश्चैव महाबलः ॥ ८.२६ ॥

महाविद्यावदातानां विक्रान्तानां तपस्विनाम्।
इत्येवमादिर्हि गणो द्वे चान्ये च सुलोचने ॥ ८.२७ ॥

शिवा च सुमनाश्चैव ताभ्यामपि महात्मना।
उत्पादिता विश्रवसा विद्याचरणगोचराः ॥ ८.२८ ॥

शैवेयाश्चैव विक्रान्तास्तथा सौमनसो गणाः।
एतैर्व्याप्तमिदं लोकं विद्याधरगणैस्त्रिभिः ॥ ८.२९ ॥

एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम्।
लोके गणशतान्येव विद्याघरविचेष्टितात् ॥ ८.३० ॥

अश्वमुखाश्च तेनैव विक्रान्तेन महात्मना।
उत्पादिता ह्यश्वमुखाः किन्नरांस्तान्निबोधत ॥ ८.३१ ॥

समुद्रः सेनः कालिन्दो महानेत्रो महाबलः।
सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ॥ ८.३२ ॥

इत्येवमादिर्हि गणः किन्नराणां महात्मनाम्।
हयाननानां विद्वद्भिर्विस्तीर्णः परिकीर्त्त्यते ॥ ८.३३ ॥

तथासमुत्थितेनैव विक्रान्तेन महात्मना।
उत्पादिता नरमुखाः किन्नराः शांशपायनाः ॥ ८.३४ ॥

हरिषेणः सुषेणश्च वारिषेणश्च वीर्यवान्।
रुद्रदत्तेन्द्रदत्तौ च चन्द्रद्रुम महाद्रुमौ ॥ ८.३५ ॥

बिन्दुश्च बिन्दुसारश्च चन्द्रवंशाश्च किन्नराः।
इत्येते किन्नराः श्रेष्ठा लोके ख्याताः सुशोभनाः ॥ ८.३६ ॥

नृत्यगीतप्रगल्भानामेतेषां द्विजसत्तमाः।
लोके गणशतान्येव किन्नराणां महात्मनाम् ॥ ८.३७ ॥

यक्षा यक्षोपशान्तश्च लौहेया रूपशालिनी।
दुहीता सुरविन्देति प्रकाशा सिद्धसम्मता ॥ ८.३८ ॥

उपायाकेतनस्याहि स्वयमुत्पादितो गणः ।
करालकेन भूतानां तेषां नामानि मे श्रृणु ॥ ८.३९ ॥

भूता भूतगणैर्ज्ञेया आवेशकनिवेशकाः।
इत्येवमादिर्हि गणो भूमिगोचरकः स्मृतः ॥ ८.४० ॥

विज्ञेय इह लोकेऽस्मिन् भूतानां भूतनायकः।
ये उत्कृष्टा भवन्त्येषामम्बरान्तरचारिणाम्।
वृक्षाग्रमात्रमाकाशं ते चरन्ति न संशयः ॥ ८.४१ ॥

तत्रेमे देवगन्धर्वाः प्रायेण कथिता मया।
देवोपस्थाननिरता विज्ञेयास्ते यशस्विनः ॥ ८.४२ ॥

नारायणं सुरगुरुं विरजं पुष्करेक्षणम्।
हिरण्यगर्भञ्च तथा चतुर्वक्त्रं स्वयम्भुवम् ॥ ८.४३ ॥

शङ्करञ्च महादेवमीशानञ्च जगत्प्रभुम्।
इन्द्रपूर्वांस्तथा दित्यान् रुद्रांश्च वसुभिः सह ॥ ८.४४ ॥

उपतस्थुः सगन्धर्वा नृत्त्यगीतविशारदाः।
त्रिदशाः सर्वलोकस्था निपुणा गीतवादिनः ॥ ८.४५ ॥

हंसो ज्येष्ठः कनिष्ठोऽन्यो मध्यमौ च हहा हुहूः।
चतुर्थो धिषणश्चैव ततो वासिरुचिस्तथा ॥ ८.४६ ॥

षष्ठस्तु तुम्बुरुस्तेषां ततो विश्वावसुः स्मृतः।
इमाश्चाप्सरसो दिव्या विहिताः पुण्यलक्षणाः ॥ ८.४७ ॥

सुषुवेऽष्टौ महाभागा वरिष्ठा देवपूजिताः।
अनवद्यामनवशामन्वतां मदनप्रियाम्।
अरूषां सुभगां भासी मरिष्टाऽष्टौ व्यजायत ॥ ८.४८ ॥

मनोवती सुकेशा च तुम्बुरोस्तु सुते उभे।
पञ्चचूडास्त्विमा दिव्या दैविक्योऽप्सरसो दश ॥ ८.४९ ॥

मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला।
घृतस्थला घृताची च विश्वाची पूर्वचीत्यपि।
प्रम्लोचेत्यभिविख्यातानुम्लोचन्ती तथैव च ॥ ८.५० ॥

अनादिनिधनस्याथ जज्ञे नारायणस्य या।
ऊरोः सर्वानवद्याङ्गी उर्वश्येकादशी स्मृता ॥ ८.५१ ॥

मेनस्य मेनका कन्या ब्रह्मणो हृष्टचेतसः ।
सर्वाश्च ब्रह्म वादिन्यो महायोगाश्च ताः स्मृताः ॥ ८.५२ ॥

गणा अप्सरसाङ्ख्याताः पुण्यास्ते वै चतुर्द्दश।
आहूताः शोभयन्तश्च गणा ह्येते चतुर्द्दश ॥ ८.५३ ॥

ब्रह्मणो मानसाः कन्याः शोभयन्त्यो मनोः सुताः।
वेगवन्त्यस्त्वरिष्टाया ऊर्ज्जायाश्चाग्निसम्भवाः ॥ ८.५४ ॥

आयुष्मन्त्यश्च सूर्यस्य रश्मिजाताः सुभा स्वराः।
वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ॥ ८.५५ ॥

वायूत्पन्ना मुदा नाम भूमिजाता भवास्तु वै ।
विद्युतश्च रुचो नाम मृत्योः कन्याश्च भैरवाः ॥ ८.५६ ॥

शोभयन्त्यः कामगुणा गणाः प्रोक्ताश्चतुर्द्दश।
सेन्द्रोपेन्द्रैः सुरगणैः रूपातिशयनिर्मिताः ॥ ८.५७ ॥

शुभरूपा महाभागा दिव्या नारी तिलोत्तमा।
ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती।
रूपयौवनसम्पन्ना उत्पन्ना लोकविश्रुता ॥ ८.५८ ॥

वे दीतलसमुत्पन्ना चतुर्वक्त्रस्य धीमतः।
नाम्ना वेदवती नाम सुरनारी महाप्रभा ॥ ८.५९ ॥

तथा यमस्य दुहिता रूपयौवनशालिनी।
वरहेमविभा हेमा देवनारी सुलोचना ॥ ८.६० ॥
मूलम्
तथा यमस्य दुहिता रूपयौवनशालिनी।
वरहेमविभा हेमा देवनारी सुलोचना ॥ ८.६० ॥
विश्वास-प्रस्तुतिः
इत्येते बहुसाहस्रं भास्वरा ह्यप्सरोगणाः।
देवतानामृषीणाञ्च पत्न्यस्ता मातरश्च ह ॥ ८.६१ ॥

सुगन्धाश्चम्पवर्णाश्च सर्वाश्चाप्सरसः समाः।
सम्प्रयोगे तु कान्तेन माद्यन्ति मदिरां विना।
तासामाप्यायते स्पर्शादानन्दश्च विवर्द्धते ॥ ८.६२ ॥

पर्वते नारदे पूर्वं रेतः स्कन्नं प्रजापतेः।
पर्वतस्तत्र सम्भूतो नारदश्चैव तावुभौ॥
तयोर्यवीयसी चैव तृतीयारन्धती स्मृता।
देवरुख्यो सूर्यजन्म तस्मिन्नारदपर्वतौ॥(पाठभेदः)
विश्वास-प्रस्तुतिः
विनतायास्तु पुत्रौ द्वावरुणो गरुडश्च ह।
षट्त्रिंशत्तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ॥ ८.६३ ॥

गायत्र्यादीनि च्छन्दांसि सौपर्णेयाश्च पक्षिणः।
इत्येवाहानि सर्वाणि दिक्षु सन्निहितानि च ॥ ८.६४ ॥

कद्रूर्नागसहस्रं वै चरा चरमजीजनत् ।
अनेकशिरसां तेषां खेचराणां महात्मनाम्।
बहुधानामधेयानां प्रायशस्तु निबोधत ॥ ८.६५ ॥

तेषां प्रधाननागाश्च शेषवासुकितक्षकाः।
सकणीरश्च जम्भश्च अञ्जनो वामनस्तथा ॥ ८.६६ ॥

ऐरावतमहापझौ कम्बलाश्वतरावुभौ।
ऐलपत्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥ ८.६७ ॥

महाकर्णो महानीलो धृतराष्ट्रबलाहकौ।
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥ ८.६८ ॥

शिलीमुखो दधिमुखः कालीयः शालिपिण्डकः ।
बिन्दुपादः पुण्डरीको नागश्चापूरणस्तथा ॥ ८.६९ ॥

कपिलश्चाम्बरीषश्च धृतपादश्च कच्छपः ।
प्रह्लादः पझचित्रश्च गन्धर्वोऽथ नमस्विकः ॥ ८.७० ॥

नहुषः खररोमा च मणिरित्येवमादयः।
काद्रवेया मया ख्याताः खशायांस्तु निबोधत ॥ ८.७१ ॥

खशा विजज्ञे पुत्रौ द्वौ विश्रुतौ पुरुषादकौ।
ज्येष्ठं पश्चिमसङ्ख्यायां पूर्वस्यां मनुजास्तथा ॥ ८.७२ ॥

विलोहितं विकर्णञ्च पूर्वं साऽजनयत् सुतम्।
चतुर्भुजं चतुष्पादं द्विमूर्द्धानं द्विधागतिम् ॥ ८.७३ ॥

सर्वाङ्गकेशं स्थूलाङ्गं तुङ्गनासं महोदरम्।
स्थूलशीर्षं महाकर्णं मुञ्जाकेशं मनोरथम् ॥ ८.७४ ॥

हस्त्योष्ठं दीर्घजङ्घञ्च अश्वदंष्ठ्रं महाहनुम्।
रक्तजिह्वं जटाक्षञ्च स्थूलास्यं दीर्घनासिकम् ॥ ८.७५ ॥

गुह्यकं शितिकर्णञ्च महानन्दं महामुखम्।
एवंविधं खशापुत्रं विजज्ञे साऽतिभीषणम् ॥ ८.७६ ॥

तस्यानुजं द्वितीयन्तु खशा चैव व्यजायत।
त्रिशीर्षञ्च त्रिपादञ्च त्रिहस्तं कृष्णलोचनम् ॥ ८.७७ ॥

ऊर्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् ।
ह्रस्व कायं सुबाहुञ्च महाकायं महाबलम् ॥ ८.७८ ॥

आकर्णदारितास्यञ्च लम्बभ्रूं स्थूलनासिकम्।
स्थूलोष्ठमष्टदंष्ट्रञ्च द्विजिह्वं शङ्कुकर्णकम् ॥ ८.७९ ॥

पिङ्गलोद्वृत्तनयनं जटिलं पिङ्गलं तथा।
महाकर्णं महोरस्कं कटिहीनं कृशोदरम्।
नखिनं लोहितग्रीवं सा कनिष्ठं प्रसूयते ॥ ८.८० ॥

सद्यः प्रसूयमात्रौ तु विवृद्धौ च प्रमाणतः।
उपभोगसमर्थाभ्यां शरीराभ्यामुपस्थितौ।
सद्योजातविवृद्धाङ्गौ मातरं पर्यभूष्यताम् ॥ ८.८१ ॥

ज्यायांस्तयोस्तु यः क्रूरो मातरं सोऽभ्यकर्षत।
अब्रवीन्मातरायाहि भक्षार्थे क्षुधयार्द्दितः ॥ ८.८२ ॥

न्यषेधयत् पुनर्ह्येनं ज्यायांसन्तु कनिष्ठकः।
अब्रवीत् सोऽसकृत्तं वै रक्षेमां मातरं खशाम्।
बाहुभ्यां परिगृह्यैनं मातरं तां व्यमोचयत् ॥ ८.८३ ॥

एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता ।
तौ दृष्ट्वा विकृताकारौ वसतां हीत्यभाषत ॥ ८.८४ ॥

तौ तु तं पितरं दृष्ट्वा बलवन्तौ त्वरान्वितौ ।
मातुरेव पुनस्वाङ्के प्रलपेतां स्वमायया ॥ ८.८५ ॥

अथोऽब्रवीदृषिर्भार्यामावाभ्यामुक्तवत्यसि ।
पूर्वमाचक्ष्व तत्त्वेन तथैवाभ्यां व्यतिक्रमम् ॥ ८.८६ ॥

मातुलं भजते पुत्रः पितॄन् भजति कन्यका।
यथाशीला भवेन्माता तथाशीलो भवेत् सुतः ॥ ८.८७ ॥

यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम्।
मातॄणां शीलदोषेण तथा शीलगुणैः पुनः।
विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ॥ ८.८८ ॥

बलशीलादिभिस्तासामदितिर्धर्मतत्परा।
धर्मशीलादिभिश्चैव प्रबोधबलशालिनी ॥ ८.८९ ॥

गीतशीला तथाऽरिष्टा मायाशीला दनुः स्मृता।
विनता तु पुनर्द्देवी वैहायसगतिप्रिया ॥ ८.९० ॥

तपोमयेन शीलेन सुरभिः समलङ्कृता।
क्रोधशीला तथा कद्रूः क्रोधेनासुखशीलका ॥ ८.९१ ॥

दनायुषायाः शीलं वै वैरनुग्रह लक्षणम्।
त्वञ्च देवि महाभागे क्रोधशीला मतासि मे ॥ ८.९२ ॥

इत्येतानि सशीलानि स्वभावाल्लोकनान्नृणाम्।
कर्मतो यत्नतो बुद्ध्या रूपतो बलतस्तथा।
क्षमातश्चैव भिन्नानि भावितार्थबलेन च ॥ ८.९३ ॥

रजःसत्त्वतमोवृत्तेर्विश्वरूपाः स्वभावतः।
मातुलन्त्वनुयातास्ते पुत्रका गुणवृत्तिभिः ॥ ८.९४ ॥

इत्येवमुक्त्वा भगवान् खशामप्रतिमां तदा।
पुत्रावाहूय साम्ना वै चक्रे सोममभीतयः ॥ ८.९५ ॥

ताभ्याञ्च यत् कृतं तस्यास्तदाचष्ट तदा खशा।
मात्रा यथा समाख्यातं कर्म ताभ्यां पृथक् पृथक्।
तेन धात्वर्थयोगेन तत्त्वदर्शी चकार ह ॥ ८.९६ ॥

यक्ष इत्येष धातुर्वै खादने कृषणे च सः।
यक्षयेत्युक्तवान् यस्मात् तस्माद्यक्षो भवत्ययम् ॥ ८.९७ ॥

रक्ष इत्येष धातुर्यः पालने स विभाव्यते।
उक्तवांश्चैव यस्मात्तु रक्ष मे मातरं खशाम्।
नाम्नाऽयं राक्षसस्तस्मात् भविष्यति तवात्मजः ॥ ८.९८ ॥

स तदा तद्विधान् दृष्ट्वा विस्मितः परिमृग्य च।
तयोः प्रादिशदाहारं प्रजापतिरसृग्वसे ॥ ८.९९ ॥

पिता तौ क्षुधितौ दृष्ट्वा वरञ्चेमं तयोर्ददौ।
युवयोर्हस्तसंस्पर्शो नक्तमेन तु सर्वशः ॥ ८.१०० ॥

नक्ताहारविहारौ च दिवा स्वप्नोपभोगिनौ।
नक्तञ्चैव बलीयांसौ दिवा सुप्तावुभौ युवाम् ॥ ८.१०१ ॥

मातरं रक्षतञ्चैव धर्मश्चैवानुशिष्यताम्।
इत्युक्त्वा कश्यपः पुत्रौ तत्रैवान्तरधीयत ॥ ८.१०२ ॥

गते पितरि तौ वीरौ निसर्गादेव दारुणौ।
विपर्ययेण वर्त्तन्तौ किम्भक्षौ प्राणिहिंसकौ ॥ ८.१०३ ॥

महाबलौ महासत्त्वौ महाकायौ दुरासदौ।
मायाविनौ च दृश्यौ तावन्तर्द्धानगतावुभौ ॥ ८.१०४ ॥

तौ कामरूपिणौ घोरौ विकृताज्ञौ स्वभावतः।
रूपानुरूपैराहारैः प्रभवेतामुभावपि ॥ ८.१०५ ॥

देवा सुरानृषींश्चैव गन्धर्वान् किन्नरानपि।
पिशाचांश्च मनुष्यांश्च पन्नगान् पक्षिणः पशून् ॥ ८.१०६ ॥

भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ।
इन्द्रेण तु वरौ चैव धृतौ दत्त्वा सुवध्यताम् ॥ ८.१०७ ॥

यक्षस्तु न कदाचिद्वै निशीथै ह्येककश्चिरम्।
आहारं स परीप्सन् वै शब्देनानुचचार ह ॥ ८.१०८ ॥

आससाद पिशाचौ द्वौ जन्तुचण्डौ च तावुभौ।
पिङ्गाक्षावूर्ध्वरोमाणौ वृत्ताक्षौ तु सुदारूणौ ॥ ८.१०९ ॥

असृङ्मांसवसाहारौ पुरुषादौ महाबलौ।
कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ॥ ८.११० ॥

द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे।
आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ॥ ८.१११ ॥

तेऽपश्यन् राक्षसं तत्र कामरूपं महाबलम्।
सहसा सन्निपाते तु दृष्ट्वा चैव परस्परम् ॥ ८.११२ ॥

रक्षमाणौ ततोऽन्योन्यं परस्परजिघृक्षवः।
पितरावूचतुः कन्ये युवामानयत द्रुतम् ॥ ८.११३ ॥

जीवग्राहं विगृह्यैनं विस्फुरन्तं पदे पदे।
ततः समभिसृत्यैनं कन्ये जगृहतुस्तदा।
गृहीत्वा हस्तयोस्ताभ्यामानीते पितृसंसदि ॥ ८.११४ ॥

ताभ्यां करे गृहीतं तं पिशाचमथ राक्षसम्।
पृच्छतां कोऽसि कस्य त्वं स च सर्वमभाषत ॥ ८.११५ ॥

तस्य कर्माभिविज्ञातं ज्ञात्वा तौ राक्षसर्षभौ।
अजञ्च शण्डं तस्यैते प्रत्यपादयतां सुते।
तौ तुष्टौ कर्मणा तस्य कन्ये द्वे ददतुः सुते ॥ ८.११६ ॥

पैशाचेव विवाहेन सुदत्या बुद्धवाहनः।
अजः खण्डश्च ताभ्यां तौ तदाश्रावयतां धनम् ॥ ८.११७ ॥

इयं ब्रह्मधना नाम मम कन्या ह्यलोमिका ।
ब्रह्मसत्त्वधनाहारा इति खण्डोभ्यभाषत ॥ ८.११८ ॥

इयं जन्तुधना नाम कन्या सर्वाङ्गसुन्दरी।
जन्तवोऽस्या धनाहारास्तावश्रावयतां धनम् ॥ ८.११९ ॥

सर्वाङ्गकेशी नाम्ना च कन्या जन्तुधना तथा।
अकर्णान्ताप्यरोमा च कन्या ब्रह्मधना तु या ॥ ८.१२० ॥

ब्रह्मधनं प्रसूता सा धनानाच्चैव कन्यका।
एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम्।
तयोः प्रजाविसर्गञ्च ब्रुवतो मे निबोधत ॥ ८.१२१ ॥

हेतिः प्रहेतिरुग्रश्च पौरुषेयो वधस्तथा।
विस्फूर्जिश्चैव वातश्च आपो व्याघ्रस्तथैव च ॥ ८.१२२ ॥

सर्पश्च राक्षसा ह्येते यातुधानात्मजा दश।
सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति च ॥ ८.१२३ ॥

हेतिपुत्रस्तथा लङ्कुर्लङ्कोर्द्वावेव चात्मजौ।
माल्यवांश्च सुमाली च प्रहेतितनयान् श्रृणु।
प्रहेतितनयः श्रीमान् पुलोमा नाम विश्रुतः ॥ ८.१२४ ॥

वधपुत्रो निकुम्भश्च क्रूरो वै ब्रह्मराक्षसः।
वातपुत्रो विरागस्तु आपपुत्रस्तु जम्बुकः ॥ ८.१२५ ॥

व्याघ्रपुत्रो निरानन्दो जन्तूनां विघ्नकारकः।
इत्येते वै परिक्रान्ताः क्रूराः सर्वे तु राक्षसाः ॥ ८.१२६ ॥

कीर्तिता यातुधानास्तु ब्रह्मधानान् निबोधत।
यज्ञः पिता धुनिः क्षेमो ब्रह्मा पापोऽथ यज्ञहा ॥ ८.१२७ ॥

स्वाकोटकः कलिः सर्पो ब्रह्मधानात्मजा दश।
स्वसारो ब्रह्मराक्षस्यस्तेषाञ्चेमाः सुदारुणाः ॥ ८.१२८ ॥

रक्तकर्णा महाजिह्वाऽक्षया चैवोपहारिणी।
एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥ ८.१२९ ॥

श्लेष्मातकतरुष्वेते प्रायशस्तु कृतालयाः।
इत्येते राक्षसाः क्रान्ता यक्षस्यापि निबोधत ॥ ८.१३० ॥

चकमेऽप्सरसं यक्ष पञ्चस्थूलां क्रतुस्थलीम्।
तां लिप्सुश्चिन्तमानश्च नन्दनं स चचार ह ॥ ८.१३१ ॥

वैभ्राजं सुरभिञ्चैव तथा चैत्ररथञ्च यत्।
दृष्टवान् नन्दने तस्मिन्नप्सरोभिः सहासतीम् ॥ ८.१३२ ॥

नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन्।
दूषितः स्वेन रूपेण कर्मणा तेन दूषितः ॥ ८.१३३ ॥

ममोद्विजन्ते भूतानि भयावृत्तस्य सर्वशः।
तत्कथं नाम चार्वङ्गीं प्राप्नुयामहमङ्गनाम् ॥ ८.१३४ ॥

दृष्ट्वोपायं ततः सोऽथ शीघ्रकारी व्यवर्त्तत।
कृत्वा रूपं बहुमतं गन्धर्वस्य तु गुह्यकः।
ततः सोऽप्सरसां मध्ये तां जग्राह क्रतुस्थलीम् ॥ ८.१३५ ॥

बुद्ध्वा च सुरुचिं तं सा भावेनैवाभ्यवर्त्तत।
संवृतः स तया सार्द्धं दृश्यमानोऽप्सरोगणैः ॥ ८.१३६ ॥

स तत्र सिद्धकरणः सद्यो जातः सुतोऽस्य वै ।
परिणाहोच्छ्रयैर्युक्तः सद्यो वृत्तो ज्वलन् श्रिया ॥ ८.१३७ ॥

राजाहमिति नाभिर्हि पितरं सोऽभ्यभाषत।
तवात्र जाते न भीतिः पिता तं प्रत्युवाच ह ॥ ८.१३८ ॥

मात्रानुरूपो रूपेण पितुर्वीर्येण जायते।
जाते स तस्मिन् हर्षेण स्वरूपं प्रत्यपद्यत ॥ ८.१३९ ॥

स्वभावं प्रतिपद्यन्ते बृहन्तो यक्षराक्षसाः ।
म्रियमाणाः प्रसुप्ताश्च क्रुद्धा भीताः प्रहर्षिताः ॥ ८.१४० ॥

ततोऽब्रवीदप्सरसः स्मयमानः स गुह्यकः।
गृहं मे गच्छ सुश्रोणि सपुत्रा वरवर्णिनी ॥ ८.१४१ ॥

इत्युक्त्वा सहसा तञ्च दृष्ट्वा स्वं रूपमास्थितम्।
विभ्रान्ताः प्राद्रवन् भीताः क्रोधमानाऽप्सरोगणाः ॥ ८.१४२ ॥

गच्छन्तीरन्वगच्छद्या पुत्रस्तां सान्त्वयन् गिरा।
गन्धर्वाप्सरसां मध्येतां नीत्वा स न्यवर्त्तत ॥ ८.१४३ ॥

ताञ्च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः।
यक्षाणां त्वं जनित्रीति प्रोचुस्तां वै क्रतुस्थलीम् ॥ ८.१४४ ॥

जगाम सह पुत्रेण ततो यक्षः स्वमालयम्।
न्यग्रोधरोहिणं नाम गुह्यका यत्र शेरते।
तस्मान्निवासो यक्षाणां न्यग्रोधः सर्वतः प्रियः ॥ ८.१४५ ॥

यक्षो रजतनाभस्तु गुह्यकानां पितामहः।
अनुह्रादस्य दैत्यस्य भद्रामतिवरां सुताम्।
उपयेमे स भद्रायां यस्यां मणिवरो वशी ॥ ८.१४६ ॥

जज्ञे सा मणिभद्रञ्च शक्रतुल्यपराक्रमम्।
तयोः पत्न्यौ भगिन्यौ तु क्रतुस्थल्यात्मजे शुभे ॥ ८.१४७ ॥

नाम्ना पुण्यजनी चैव तथा देवजनी च या।
विजज्ञे मणिभद्रात्तु पुत्रान् पुण्यजनी शुभान् ॥ ८.१४८ ॥

सिद्धार्थं सूर्यतेजञ्च सुमन्तं नन्दनं तथा।
कन्यकं यविक्ञ्चैव मणिदत्तं वसुं तथा ॥ ८.१४९ ॥

सर्वानुभूतं शङ्खञ्च पिङ्गाक्षं भीरुमेव च।
तथा मन्दरशोभिञ्च पझं चन्द्रप्रभं तथा ॥ ८.१५० ॥

मघपूर्णं सुभद्रञ्च प्रद्योतञ्च महौजसम्।
द्युतिमत्केतुमन्तौ च मित्रं मौलिसुदर्शनौ ॥ ८.१५१ ॥

चत्वारो विंशतिश्चैव पुत्राः पुण्यजनाः शुभाः ।
जज्ञिरे मणिभद्रस्य ते सर्वे पुण्यलक्षणाः ।
तेषां पुत्राश्च पौत्राश्च यक्षा पुण्यजनाः शुभाः ॥ ८.१५२ ॥

विजज्ञे देवजननी पुत्रान् मणिवरात्मजात् ।
पूर्णभद्रं हेमरथं मणिमन्नन्दिवर्द्धनौ ॥ ८.१५३ ॥

कुस्तुम्बुरुं पिशङ्गाभं स्थूलकर्णं महाजयम्।
श्वेतञ्च विपुलञ्चैव पुष्पवन्तं भयावहम् ॥ ८.१५४ ॥

पद्मवर्णं सुनेत्रञ्च यक्षं बालं बकं तथा।
कुमुदं क्षेमकञ्चैव वर्द्धमानं तथा दमम् ॥ ८.१५५ ॥

पद्मनाभं वराङ्गञ्च सुवीरं विजयं कृतिम्।
पूर्णमासं हिरण्याक्षं सुरूपञ्चैवमादयः ॥ ८.१५६ ॥

पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः ।
सुरूपाश्च विरूपाश्च स्रग्विणः प्रियदर्शनाः।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ८.१५७ ॥

खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः ।
तेषां यथा प्रधानान् वै वर्ण्यमानान्निबोधत ॥ ८.१५८ ॥

लालाविः कुथनो भीमः सुमाली मधुरेव च।
विस्फूर्ज्जितो विद्युज्जिह्वो मातङ्गो धूम्रितस्तता ॥ ८.१५९ ॥

चन्द्रार्कः सुकरो बुध्नः कपिलोमा प्रहासकः।
क्रीडः परशुनाभश्च चक्राक्षश्च निशाचरः ॥ ८.१६० ॥

त्रिशिराः शतदंष्ट्रश्च तुण्डकेशश्च राक्षसः।
यक्षश्चाकम्पनश्चैव दुर्मुखश्च शिलीमुखः ॥ ८.१६१ ॥

इत्येते राक्षसवरा विक्रान्ता गणरूपिणः.
सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः ॥ ८.१६२ ॥
विश्वास-प्रस्तुतिः
सप्त चान्या दुहितरस्ताः श्रृणुध्वं यथाक्रमम्।
तासाञ्च यः प्रजासर्गो येन चोत्पादिता गणाः ॥ ८.१६३ ॥

आलम्बा उत्कचा कृष्णा निऋतो कपिला शिवा।
केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः ॥ ८.१६४ ॥

ताभ्यो लोकामिषादश्च हन्तारो युद्धदुर्मदाः।
उदीर्णा राक्षसगणा इमे उत्पादिताः शुभाः ॥ ८.१६५ ॥

आलम्बेयो गणः क्रूर उत्कचेयो गणस्तथा।
तथा कार्ष्णेयशैवेया राक्षसा ह्युत्तमा गणाः ॥ ८.१६६ ॥

तथैव नैऋतो नाम त्र्यम्बकानुचरेण ह।
उत्पादितः प्रजासर्गो गणेश्वरचरेण तु ॥ ८.१६७ ॥

उत्पादिता बलवता उदीर्णा यक्षराक्षसाः ।
विक्रान्ताः शौर्यसम्पन्ना नैऋता देवराक्षसाः।
येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः ॥ ८.१६८ ॥

तेषां गणशतानेका उद्धृतानां महात्मनाम्।
प्रायेणानुचरन्त्येते शङ्करं जगतः प्रभुम् ॥ ८.१६९ ॥

दैत्यराजेन कुम्भेन महाकाया महात्मना ।.
उत्पादिता महावीर्या महाबलपराक्रमाः ॥ ८.१७० ॥
विश्वास-प्रस्तुतिः
कपिलेया महावीर्या उदीर्णा दैत्यराक्षसाः।
कम्पनेन च यक्षेण केशिन्यास्ते परे जनाः ॥ ८.१७१ ॥

उत्पादिता महावाता उदीर्णा यक्षराक्षसाः।
केशिनीदुहितुश्चैव नीलायाः क्षुद्रमानसाः ॥ ८.१७२ ॥

आलम्बेयेन जनिता नैकाः सुरसिकेन हि।
नैला इति समाख्याता दुर्जया घोरविक्रमाः ॥ ८.१७३ ॥

चरन्ति पृतिवीं कृत्स्नां तत्र ते देवलौकिकाः।
बहुत्वाच्चैव सर्गस्य तेषां वक्तुं न शक्यते ॥ ८.१७४ ॥

तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी।
दुहिता स्वभावविकचा मन्दसत्त्वपराक्रमा ॥ ८.१७५ ॥

तस्या अपि विरूपेण नैऋतेनेह च प्रजाः।
उत्पादिताः सुरा घोराः श्रृणु तास्त्वनुपूर्वशः ॥ ८.१७६ ॥

दंष्ट्राकरालविकृता महाकर्णा महोदराः।
हारका भीषकाश्चैव तथैव क्रामकाः परे ॥ ८.१७७ ॥

वैनकाश्च पिशाचाश्च वाहकाः प्राशकाः परे।
भूमिराक्षसका ह्येते मन्दाः पुरुषविक्रमाः ॥ ८.१७८ ॥

चरन्त्यदृष्टपूर्वाश्च नानाकारा ह्यनेकशः।
उत्कृष्ट बलसत्त्वा ये ते च वै खेचराः स्मृताः ॥ ८.१७९ ॥

लक्षमात्रेण चाकाशं स्वल्पाः स्वल्पं चरन्ति वै ।
एतैर्व्याप्तमिमं लोकं शतशोऽथ सहस्रशः ॥ ८.१८० ॥

भूमी राक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः।
नानाप्रकारैराक्रान्ता नानादेशाः समन्ततः ॥ ८.१८१ ॥

समासाभिहताश्वैव ह्यष्टौ राक्षसमातरः।
अष्टौ विभागा ह्येषां हि विख्याता अनुपूर्वशः ॥ ८.१८२ ॥

भद्रका निकराः केचिद्यज्ञनिष्पत्तिहेतुकाः।
सहस्रसतसङ्ख्याता मर्त्त्यलोकविचारिणः ॥ ८.१८३ ॥

पूतना मातृसामान्यास्तथा भूतभयङ्कराः।
बालानां मानुषे लोके ग्रहा वैमानहेतुकाः ॥ ८.१८४ ॥

स्कन्दग्रहादयश्चैव आपकास्त्रासकादयः।
कौमारास्ते तु विज्ञेया बालानां ग्रहवृत्तयः ॥ ८.१८५ ॥

स्कन्दग्रहविशेषाणां मायिकानां तथैव च।
पूतनानामभूतानां ये च लोकविनायकाः ॥ ८.१८६ ॥

सहस्रशत सङ्ख्यानां मर्त्यलोकविचारिणाम्।
एवं गणशतान्येव चरन्ति पृथिवीमिमाम् ॥ ८.१८७ ॥

यक्षाः पुण्यतमा नाम तथा ये केऽपि गुह्यकाः।
यक्षा देवजना श्चैव तथा पुण्यजनाश्च ये ॥ ८.१८८ ॥

गुह्यकानाञ्च सर्वेषामगस्त्या ये च राक्षसाः ।
पौलस्त्या राक्षसा ये च विश्वामित्राश्च ये स्मृताः ॥ ८.१८९ ॥

यक्षाणां राक्षसानाञ्च पौलस्त्यागस्त्ययश्च ये ।
तेषां राजा महाराजः कुबेरो ह्यलकाधिपः ॥ ८.१९० ॥

यक्षा दृष्ट्वा पिबन्तीह नृणां मांसमसृग्वसाम्।
रक्षांस्यनुप्रवेशेन पिशाचाः परिपीडनैः ॥ ८.१९१ ॥

सर्वलक्षणसम्पन्नाः समक्षेत्राश्च दैवतैः।
भास्वरा बलवन्तश्च ईश्वराः करामरूपिणः ॥ ८.१९२ ॥

अनाभिभक्षा विक्रान्ताः सर्वलोकनमस्कृताः।
सूक्ष्माश्चौजस्विनो मेध्या वरदा यज्ञियाश्च ये ॥ ८.१९३ ॥

देवानां तुल्यधर्माणां ह्यसुराः सर्वशः स्मृताः।
त्रिभिः पाधैस्तु गन्धर्वा देवै र्हीनाः प्रभावतः ॥ ८.१९४ ॥

गन्धर्वेभ्यस्त्रिभिः पादैर्हीना वै सर्वगुह्यकाः।
प्रभावतुल्या यक्षाणां विज्ञेयाः सर्वराक्षसाः।
ऐश्वर्यहीना यक्षेभ्यः पिशाचास्त्रि गुणं पुनः ॥ ८.१९५ ॥

एवं धनेन रूपेण आयुषा च बलेन च।
धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः ॥ ८.१९६ ॥

देवासुरेभ्यो हीयन्ते त्रीन् पादान् वै परस्परम्।
गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ॥ ८.१९७ ॥

अतः श्रृणुत भद्रं वः प्रजाः क्रोधवशत्मकाः ।
क्रोधायां कन्यका जज्ञे द्वादश ह्यात्मसम्भवाः।
ता भार्याः पुलहस्यासन्नामतस्ता निबोधत ॥ ८.१९८ ॥

मृगी च मृगमन्दा च हरिभद्रा इरावती।
भूता च कपिशा दंष्ट्रा निशा तिर्या तथैव च।
श्वेता चैव स्वरा चैव सुरसा चेति विश्रुताः ॥ ८.१९९ ॥

मृग्यास्तु हरिणाः पुत्रा मृगाश्चान्ये शशास्तथा।
न्यङ्कवः शरभा ये च रुरवः पृषताश्च ये ॥ ८.२०० ॥

मृगराजा मृगमन्दाया गवयाश्चापरे तथा।
महिषोष्ट्रवराहाश्च खड्गगौरमुखास्तथा ॥ ८.२०१ ॥

हरेस्तु हरयः पुत्रा गोलाङ्गुलतरक्षवः ।
वानराः किन्नराश्चैव व्याघ्राः किम्पुरुषास्तथा।
इत्येवमादयोऽन्येऽपि इरावत्या निबोधत ॥ ८.२०२ ॥

सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः।
हस्ताभ्यां परिगृह्याथ रथन्तरमगायत ॥ ८.२०३ ॥

साम्ना प्रसूयमानेन सद्य एव गजोऽभवत्।
स प्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः ॥ ८.२०४ ॥

इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः ।
देवराजोपवाह्यत्वात् प्रथमः स मतङ्गराट्।
शुभ्राभ्रभाश्चतुर्द्दंष्ट्रः श्रीमानैरावतो गजः ॥ ८.२०५ ॥

अप्सुजस्यैकमूलस्य सुवर्णाभस्य हस्तिनः ।
षड्दन्तस्य हि भद्रस्य औपावाह्यश्च वै बलः ॥ ८.२०६ ॥

तस्य पुत्रोऽञ्जनश्चैव सुप्रतीकोऽथ वामनः।
पद्मश्चैव चतुर्थोऽभूद्धस्तिनी चाभ्रमुस्तथा ॥ ८.२०७ ॥

दिग्गजांस्तांश्च चत्वारः श्वेताऽजनयताशुगान् ।
भद्रं मृगञ्च मन्दं च सङ्कीर्णं चतुरः सुतान् ॥ ८.२०८ ॥

सङ्कीर्णोऽप्यञ्जनो यस्तु उपवाह्यो यमस्य तु।
भद्रो यः सुप्रतीकस्तु हरितः स ह्यपाम्पतेः ॥ ८.२०९ ॥

पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य सः।
मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः ॥ ८.२१० ॥

पद्मोत्तरस्तु यः पद्मौ गजो वै वरुणो गणः।
उपलेपनमेषश्च तस्याष्टौ जज्ञिरे सुताः ॥ ८.२११ ॥

उदग्रभावेनोपेता जायन्ते तस्य चान्वये।
श्वेतबालनखाः पिङ्गा वर्ष्मवन्तो मतङ्गजाः।
मतङ्गजान् प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥ ८.२१२ ॥

कपिलः पुण्डरीकश्च सुमनाभो रथान्तरः।
जातौ नाम्ना सुतौ ताभ्यां सुप्रतिष्ठप्रमर्द्दनौ ॥ ८.२१३ ॥

शूलाः स्थूलाः शिरोदान्ताः शुद्धबालनखास्तथा।
बलिनः शक्तिनश्चैव स्मृतास्त्वाकुलिका गजाः ॥ ८.२१४ ॥

पुष्पदन्तो बृहत्सामा षड्दन्तो दन्त पुष्पवान्।
ताम्रवर्णश्च तत्पुत्रः सहचारिविषाणितः ॥ ८.२१५ ॥

अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शिनः।
श्यामाः सुदर्शनाश्चण्डा नानापीडायताननाः ॥ ८.२१६ ॥

वामदेवोऽञ्जनश्यामः साम्नो जज्ञेऽथ वामनः।
भार्या चैवाङ्गदा तस्य नीलवल्लक्षणौ सुतौ ॥ ८.२१७ ॥

चण्डश्चात्रशिरो ग्रीवा व्यूढोरस्कास्तरस्विनः।
नरैर्बद्धाः कुले तेषां जायन्ते विकृता गजाः ॥ ८.२१८ ॥

सुप्रतीकस्तु रूपेण नास्त्यस्य सदृशो गजः ।
तस्य प्रहारी सम्पाती पृथुश्चित्तिसुतास्त्रयः ॥ ८.२१९ ॥

पशवो दीर्घताल्वौष्ठाः सुविभक्तशिरोदराः।
जायन्ते मृदुसम्भूता वंशे तस्य मतङ्गजाः ॥ ८.२२० ॥

अञ्जनादञ्जना साम्नो विजज्ञे चाञ्जनावती।
एवं माता तयोश्चापि प्रथितायुरजःसुतौ ॥ ८.२२१ ॥

महाविभक्तशिरसः स्निग्धजीमूतसन्निभाः।
सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः।
शूनाः पीतायतमुखा गजास्तस्यान्वयेऽभवन् ॥ ८.२२२ ॥

जज्ञे चन्द्रमसः साम्नः पिङ्गला कुमुदद्युतिः।
पिङ्गलायाः सुतौ तस्या महापद्मोर्मिमालिनौ ॥ ८.२२३ ॥

समायवरदांश्चण्डान् प्रवृद्धबलिनोदरान् ।
हस्तियुद्धे प्रियान्नागान् विद्धि तस्य कुलोद्भवान् ॥ ८.२२४ ॥

एतान् देवासुरे युद्धे जयार्थे जगृहुः सुराः।
कृतार्थैश्च विसृष्टास्तैः पूर्वोक्ताः प्रययुर्दिशः ॥ ८.२२५ ॥

एतेषामन्वये जातान् विनीतांस्त्रिदशा ददुः ।
अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् ॥ ८.२२६ ॥

द्विरदो द्विरदाभ्याञ्च हस्ताद्धस्ती करात्करी।
वरणाद्वारणो दन्ती दन्ताभ्यां गर्जनाद्गजः ॥ ८.२२७ ॥

कुञ्जरः कुञ्जचारित्वान्नागो नगविरोधतः ।
मतङ्गादिति मातङ्गो द्विपो द्वाभ्यामपि स्मृतः।
सामजः सामजातत्वादिति निर्वचनक्रमः ॥ ८.२२८ ॥

एषां जिह्वापरावृत्तिरिवाक्तं ह्यग्निशापजम्।
बलस्यानवतो या तु या चैषां गूढमुष्कता।
उभयं दन्तिनामेतत्स्वयम्भूसूरशापजम् ॥ ८.२२९ ॥

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः।
कन्यासु जाता दिङ्नागैर्नानासात्त्वास्ततो गजाः ॥ ८.२३० ॥

सम्भूतिश्च प्रबूतिश्च नामनिर्वचनं तथा।
एतद्गजानां विज्ञेयं येषां राजा विभावसुः ॥ ८.२३१ ॥

कौशिकाद्याः समुद्रात्तु गङ्गायास्तदनन्तरम्।
अञ्जनस्यैकमूलस्य प्राच्यान्नागवनन्तु तत् ॥ ८.२३२ ॥

उत्तरा तस्य विन्ध्यस्य गङ्गाया दक्षिणञ्च यत्।
गङ्गोद्भेदात्करूषेभ्यः सुप्रतीकस्य तद्वनम् ॥ ८.२३३ ॥

अपरेणोत्कलाच्चैव ह्यावेदिभ्यश्च पञ्चमम्।
एकभूतात्मनोस्यैतद्वामनस्य वनं स्मृतम् ॥ ८.२३४ ॥

अपरेण तु लौहित्यमासिन्धोः पश्चिमेन तु।
यमस्यैतद्वनं प्रोक्तमनुपर्वतमेव तत् ॥ ८.२३५ ॥

भूतिर्विजज्ञे भूतांश्च रुद्रस्यानुचरान् प्रभोः।
स्थूलान् कृशांश्च दीर्घांश्च वामनान् ह्रस्वकान् समान् ॥ ८.२३६ ॥

लम्बकर्णान् प्रलम्बोष्ठान् लम्बजिह्वास्तनोदरान्।
एकरूपान् द्विरूपांश्च लम्बस्फिक्स्थूलपिण्डिकान् ॥ ८.२३७ ॥

सरोवरसमुद्रादिनदीपुलिनवासिनः।
कृष्णान् गौरांश्च नीलांश्च श्वेतांश्च लोहितारुणान् ॥ ८.२३८ ॥

बभ्रून् वै शबलान् धूम्रान् कद्रून् रासभदारूणान्।
मुञ्जकेशान् हृषीकेशान् सर्पयजोपवीतिनः ॥ ८.२३९ ॥

विसृष्टाक्षान् विरूपाक्षान् कृशाक्षानेकलोचनान्।
बहुशीर्षान् विशीर्षांश्च एकशीर्षांश्च शीर्षकान् ॥ ८.२४० ॥

चण्डांश्च विकटांश्चैव विरोमान् रोमशांस्तथा।
अन्धांस्व जटिलांश्चैव कुञ्जान् हेषकवामनान् ॥ ८.२४१ ॥

सरोवरसमुद्रादिनदीपुलिनसेविनः।
एककर्णान् महाकर्णान् शङ्कुकर्णानकर्णिकान् ॥ ८.२४२ ॥

दंष्ट्रिणो नखिनश्चैव निर्द्दन्तांश्च द्विजिह्वकान्।
एकहस्तान् द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ॥ ८.२४३ ॥

एकपादान् द्विपादांश्च त्रिपादान् बहुपादकान् ।
महायोगान् महासत्त्वान् सुतपक्वान् महाबलान् ॥ ८.२४४ ॥

सर्वत्रगानप्रतिघान् ब्रह्मज्ञान् कामरूपिणः ।
घोरान् क्रूरांश्च मेध्यांश्च शिवान् पुण्यान् सवादिनः ॥ ८.२४५ ॥

कुशहस्तान् महाजिह्वान् महाकर्णान्महाननान्।
हस्तादांश्च मुखादांश्च शिरोदांश्च कपालिनः ॥ ८.२४६ ॥

धन्विनो मुद्गरधरानसिशूलधरांस्तथा।
दीप्तास्यान् दीप्तनेत्रांश्च चित्र माल्यानुलेषनान् ॥ ८.२४७ ॥

अन्नादान् पिशितादांश्च बहुरूपान् सुरूपकान् ।
रात्रिसन्ध्याचरान् घोरान् व्कचित्सौम्यान् दिवाचरान्।
नक्तञ्चरान् सुदुष्प्रेक्ष्यान् घोरांस्तान् वै निशाचरान् ॥ ८.२४८ ॥

परत्वे च भयं दैव सर्वे ते गतमानसाः।
नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः ॥ ८.२४९ ॥

शतन्तानि सहस्राणि भूतानामात्मयोगिनाम्।
एते सर्वे महात्मानो भूत्याः पुत्राः प्रकीर्त्तिताः ॥ ८.२५० ॥

कपिशा चैव कूष्माण्डीकूष्माण्डाञ्जज्ञिरे पुनः ।
मिथुनानि पिशाचानां वर्णेन कपिशेन च।
कपिशत्वात् पिशाचास्ते सर्वे च पिशिताशनाः ॥ ८.२५१ ॥

युग्मानि षोडशान्यानि वर्त्तमानास्तदन्वयाः।
नामतस्तान् प्रवक्ष्यामि पुरुषादांस्तदन्वयान् ॥ ८.२५२ ॥

छगलश्छगली चैव वक्रो वक्रमुखी तथा।
षोडशानां गणाश्चैव सूची सूचीमुखस्तथा ॥ ८.२५३ ॥

सुम्भपा त्रश्च कुमभी च वज्रदंष्ट्रश्च दुन्दुभिः।
उपचारोपचारश्च उलूखल उलूखली ॥ ८.२५४ ॥

अनर्कश्च अनर्का च कुखण्डश्च कुखण्डिका।
पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा ॥ ८.२५५ ॥

नितुण्डश्च नितुण्डी च निपुणा निपुणस्तथा।
छलादोच्छेषणा चैव प्रस्कन्दः स्कन्दिका तथा।
षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश ॥ ८.२५६ ॥

अजामुखा वक्रमुखाः पूरिणः स्कन्दिनस्तथा।
विपादाङ्गारिकाश्चैव कुम्भपात्राः प्रकुन्दकाः ॥ ८.२५७ ॥

उपचारोलूखलिका ह्यनर्काश्च कुखण्डिकाः।
पाणिपात्राश्च नैतुण्डा ऊर्णाशा निपुणास्तथा ॥ ८.२५८ ॥

सूचीमुखोच्छेषणादाः कुलान्येतानि षोडश।
इत्येता ह्यभिजातास्तु कूष्माण्डानां प्रकीर्तिताः ॥ ८.२५९ ॥

पिशाचास्ते तु विज्ञेयाः सुकल्पा इति जज्ञिरे।
बीभत्सं विकृताचारं पुत्रपौत्रमनन्तकम्।
अतस्तेषां पिशाचानां लक्षणञ्च निबोधत ॥ ८.२६० ॥

सर्वाङ्गकेशा वृत्ताख्या दंष्ट्रिणो नखिनस्तथा।
तिर्यङ्गाः पुरुषादाश्च पिशाचास्ते ह्यधोमुखाः ॥ ८.२६१ ॥

अकेशका ह्यरोमाणस्त्वग्वसाश्चर्मवाससः।
कूष्माण्डिकाः पिशाचास्ते तिलभक्षाः सदामिषाः ॥ ८.२६२ ॥

वक्राङ्गहस्तपादाश्च वक्रशीलागतास्तथा।
ज्ञेया वक्रपिशाचास्ते वक्रगाः कामरूपिणः ॥ ८.२६३ ॥

लम्बोदरास्तुण्डनाशा ह्रस्वकायशिरोभुजाः।
नितुन्दकाः पिशाचास्ते तिलतक्षाः प्रियश्रवाः ॥ ८.२६४ ॥

वामनाकृतयश्चैव वाचालाः प्लुतगामिनः।
पिशाचानर्कमर्कास्ते वृक्षवासादनप्रियाः ॥ ८.२६५ ॥

ऊर्ध्वबाहूर्ध्वरोमाण ऊर्ध्ववृक्षास्तथालयाः।
मुञ्चन्ति पांशूनङ्गेभ्यः पिशाचाः पांशवश्च ते ॥ ८.२६६ ॥

धमनीमतकाः शुष्काः श्मश्रुलाश्चीरवाससः।
उपवीराः पिशाचाश्च श्मशानायतनास्तथा ॥ ८.२६७ ॥

विष्टब्धाक्षा महाजिह्वा लेलिहाना ह्युदूखलाः।
हस्त्युष्ट्रस्थूलशिरसो विरता बद्धपिण्डकाः ॥ ८.२६८ ॥

पिशाचाः सुम्भपात्रास्ते अदृष्टान्नानि भुञ्जते।
सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति वै ॥ ८.२६९ ॥

अयुक्ताश्च विशन्तीह निपुणास्ते पिशाचकाः.
आकर्ण दारितास्याश्च लम्बश्रूस्थूलनासिकाः ॥ ८.२७० ॥
विश्वास-प्रस्तुतिः
हस्तपादाक्रान्तगणा ह्रस्वकाः क्षितिदृष्टयः।
बालादास्ते पिशाचा वै सूतिकागृहसेविनः ॥ ८.२७१ ॥

पृष्ठतः पाणिपादाश्च ह्रस्वका वातरंहसः।
पिशितादाः पिशाचास्ते सङ्ग्रामे रुधिराशिनः ॥ ८.२७२ ॥

नग्नका ह्यनिकेताश्च लम्बकेशाश्च पिण्डकाः।
पिशाचाः स्कन्दिनस्ते वै अन्या उच्छुसनाशिनः ।
षोडश जातयस्तेषां पिशाचानां प्रकीर्त्तिताः ॥ ८.२७३ ॥

एवंविधान्पिशाचांस्तु दीनान्दृष्ट्वानुकम्पया।
तेभ्यो ब्रह्मा वरं प्रादात्कारुण्यादल्पचेतसः।
अन्तर्द्धानं प्रजास्तेषां कामरूपत्वमेव च ॥ ८.२७४ ॥

उभयोः सन्द्ययोश्चारं स्थानान्याजीवमेव च।
गृहाणि यानि भग्नानि शून्यान्यल्पजनानि च ॥ ८.२७५ ॥

विध्वस्तानि च यानि स्युरनाचारोषितानि च।
असंस्पृष्टोप लिप्तानि संस्कारैर्वर्जितानि च ॥ ८.२७६ ॥

राजमार्गोपरथ्याश्च निष्कुण्ठाश्चत्वराणि च।
द्वाराण्यष्टालकाश्चैव निर्ममान्सङ्क्रमांस्तथा ॥ ८.२७७ ॥

पथो नद्योऽथ तीर्थानि चैत्यवृक्षान्महापथान् ।
पिशाचा विनिविष्टा वै स्थानेष्वेतेषु सर्वशः ॥ ८.२७८ ॥

अधार्मिका जनास्ते वै आजीवा विहिताः सुरैः।
वर्णाश्रमाः सङ्करिकाः कारुशिल्पिजनास्तथा ॥ ८.२७९ ॥

अमृतोपमसत्त्वानां चौरविश्वासघातिनाम्।
एतैरन्यैश्च बहुबिरन्यायोपार्ज्जितैर्धनैः ।
आरभन्ते क्रिया यास्तु पिशाचास्तत्र देवताः ॥ ८.२८० ॥

मधुमांसौदनैर्दध्ना तिलचूर्णसुरासवैः।
धूपैर्हारिद्रकृशरैस्तैलभद्रगुडौदनैः ॥ ८.२८१ ॥

कृष्णानि चैव वासांसि धूपाः सुमनसस्तथा।
एवं युक्ताः सुबलयस्तेषां वै पर्वसन्धिषु।
पिशाचानामनुज्ञाय ब्रह्मा सोऽधिपतिर्ददौ ॥ ८.२८२ ॥

सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ।
दृष्ट्वा त्वजनयन्पुत्रान्व्याघ्रान्सिंहांश्च भामिनी ॥ ८.२८३ ॥

द्विपिनश्च सुतास्तस्या व्यालेयाश्चामिषाशिनः।
ऋषयश्चापि कार्त्स्न्येन प्रजासर्गं निबोधत।
तस्या दुहितरः पञ्च तासां नामानि मे श्रृणु ॥ ८.२८४ ॥

मीना माता तथा वृत्ता परिवृत्ता तथैव च।
अनुवृत्ता तु विज्ञेया तासां वै श्रृणुत प्रजाः ॥ ८.२८५ ॥

सहस्रदन्ता मकराः पाठीनास्तामरोहिताः।
इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते ॥ ८.२८६ ॥

ग्राहाश्चतुर्विधा ज्ञेयास्तथानुज्येष्ठका अपि।
निष्कांश्च शिशुमारांश्च मता व्यजनयत्प्रजाः ॥ ८.२८७ ॥

वृत्ता कूर्मविकाराणि नैकानि जलचारिणाम्।
तथा शङ्खविकाराणि जनयामास नैकशः ॥ ८.२८८ ॥

मण्डूकानां विकाराणि अनुवृत्ता व्यजायत।
ऐणेयानां विकाराणि शम्बूकानां तथैव च ॥ ८.२८९ ॥

तथा शुक्तिविकाराणि वराटककृतानि च।
तथा शङ्खविकाराणि परिवृत्ता व्यजायत ॥ ८.२९० ॥

कालकूटविकाराणि जलौकविहितानि च ।
इत्येष हि ऋषेर्वंशः पञ्चशाखाः प्रकीर्त्तिताः ॥ ८.२९१ ॥

तिर्यगं हेतुकमाद्यादुर्बहुलं वंशविस्तरम्।
संस्वेदजविकाराणि यथा येभ्यो भवन्ति ह ॥ ८.२९२ ॥

स्वस्तिपिकशरीरेभ्यो जायन्त्युत्पादका द्विजाः।
मनुष्याः स्वेदमलजाः उशना नाम जन्तवः।
नानापिपीलिकगणाः कीटका बद्धपादकाः ॥ ८.२९३ ॥

शङ्खोपलविकाराणि कीलकाचारकाणि च।
इत्येवमादिबहुलाः स्वेदजाः पार्थिवा गणाः ॥ ८.२९४ ॥

तथा घर्मादितप्ताभ्यस्त्वद्भयो वृष्टिभ्य एव च।
नैका मृगशरीरेभ्यो जायन्ते जन्तवस्त्विमे ॥ ८.२९५ ॥

मीनकाः पिप्पला दंशास्तथा तित्तिरपुत्रिकाः।
नीलचित्राश्च जायन्ते ह्यलका बहुविस्तराः ॥ ८.२९६ ॥

जलजाः स्वेदजाश्चैव जायन्ते जन्तवस्त्विमे।
काशातो यञ्जकाः कीटनलदा बहुपादकाः ॥ ८.२९७ ॥

सिहला रोमलाश्चैव पिच्छलाः परिकीर्त्तिताः।
इत्येमादिर्हि गणो जलजः स्वेदजः स्मृतः ॥ ८.२९८ ॥

सर्पिर्भ्यो माषमुद्गानां जायन्ते क्रमशस्तथा।
जम्बुबिल्वाम्रपूगेभ्यः फलेभ्यश्चैव जन्तवः ॥ ८.२९९ ॥

मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च।
तथा कोटरशुष्केभ्यो निहितेभ्यो भवन्ति हि ॥ ८.३०० ॥

अन्येभ्योऽपि च जायन्ते न हि तेभ्यश्चिरं सदा।
जन्तवस्तुरगादिभ्यो विषादिभ्यस्तथैव च ॥ ८.३०१ ॥

बहून्यहानि निःक्षिप्ते सम्भवन्ति च गोमये।
जायन्ते कृमयो विप्रा काष्ठेभ्यश्च घुणादयः ॥ ८.३०२ ॥

क्रमाद्द्रुमाणां जायन्ते विविधा नीलमक्षिकाः।
तथा शुष्कविकारेभ्यः पुत्रिकाः प्रभवन्ति च ॥ ८.३०३ ॥

कालिका शतिकेभ्यश्च सर्पा जायन्ति सर्वशः।
संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ ८.३०४ ॥

गोभ्यो हि महिषेभ्यश्च जायन्ते जन्तवः प्रभो।
मत्स्यादयश्च विविधा अण्डकुक्षौ विशेषतः ॥ ८.३०५ ॥

चैवीरिकाश्च जायन्ते तथा गोजाकुलानि च।
तथान्यानि च सूक्ष्माणि जलौकादीनि जातयः ॥ ८.३०६ ॥

मक्षिकाणां विकाराणि जायन्ते जात योऽपरे ।
प्रायेण तु वसन्त्यस्मिन्नुच्छिष्टोदककर्द्दमे ॥ ८.३०७ ॥

मशकानां विकाराणि भ्रमराणां तथैव च।
तृणेभ्यश्चैव जायन्ते पुत्रिका पुत्रभासकाः ॥ ८.३०८ ॥

मणिच्छेदास्तथा व्यालाः पोतजाः परिकीर्त्तिताः।
शतवेरिविकाराणि करीषेभ्यो भवन्तिह ॥ ८.३०९ ॥

एवमादिरसङ्ख्यातो गणः संस्वेदजो मया।
समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः ॥ ८.३१० ॥

तथाऽन्ये नैऋताः सत्त्वास्ते स्मृता उपसर्गजाः।
पूतास्तु योनिजाः केचित्केचिदौत्पत्तिकाः स्मृताः ॥ ८.३११ ॥

प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः ।
केचित्तु योनिजा देवाः केचिदेवानिमित्ततः ॥ ८.३१२ ॥

तूलालाघश्च कोलश्च शिवा कन्या तथैव च।
अपत्यं सरमायास्तु गणा वै सरमादयः ॥ ८.३१३ ॥

श्यामश्च शबलश्चैव अर्जुनो हरितस्तथा।
कृष्णो धूम्रारूणश्चैव तूलालाघश्च कद्रुकाः ॥ ८.३१४ ॥

सुरसाथ विजज्ञे तु शतमेकं शिरो मतम्।
सर्पाणां तक्षको राजा नागानाञ्चापि वासुकिः । द्र. गरुडपुराणे १.१९७.१२ मध्ये वासुकेः पार्थिवमण्डले एवं तक्षकस्य वायुमण्डले स्थितिः
तमोबहुल इत्येष गणः क्रोधवशात्मकः ॥ ८.३१५ ॥
विश्वास-प्रस्तुतिः
पुलहस्यात्मजा सर्गस्ताम्रायास्तन्निबोधत।
बह्वन्यास्त्वबिविख्यातास्ताम्रायाश्च विजज्ञिरे ॥ ८.३१६ ॥

श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा।
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ।
सम्पातिञ्च जटायुञ्च प्रसूता पक्षिसत्तमौ ॥ ८.३१७ ॥

सम्पातिरजनत् पुत्रं कन्यामेकां तथैव च।
जटायुषश्च ये पुत्राः काक गृध्राश्चकर्णिनः ॥ ८.३१८ ॥

भार्या गरुत्मतश्चापि भासी क्रौञ्ची तथा शुकी।
धृतराष्ट्री च भद्रा च तास्वपत्यानि वक्ष्यते ॥ ८.३१९ ॥

शुकी गरुत्मतः पुत्रान् सुषुवे षट् परिश्रुतान् ।
त्रिशिरं सुमुखञ्चैव बलं पृष्ठं महाबलम् ॥ ८.३२० ॥

त्रिशङ्खनेत्रं सुमुखं सुरूपं सुरसं बलम्।
एषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् ॥ ८.३२१ ॥

चतुर्दश सहस्राणि क्रूराणां पन्नगाशिनाम्।
पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरः ॥ ८.३२२ ॥

व्याप्तानि यानि देशानि तानि वक्ष्ये यथाक्रमम्।
शाल्मलिद्वीपमखिलं देवकूटञ्च पर्वतम् ॥ ८.३२३ ॥

मणिमन्तञ्च शैलेन्द्रं सहस्रशिखरं तथा।
पर्णमालं सुकेशञ्च शतश्रृङ्गं तथाचलम् ॥ ८.३२४ ॥

कौरजं पञ्चशिखरं हेमकूटञ्च पर्वतम्।
प्रचण्डवायुप्रभवैर्दीपितैः पझरागिभिः ॥ ८.३२५ ॥

शैलजालानि व्याप्तानि गारुडैस्तैर्महात्मभिः ।
भासीपुत्राः स्मृता भासा उलूका काककुक्कुटाः ॥ ८.३२६ ॥

मयूराः कलविङ्काश्च कपोता लावतित्तिराः।
क्रौञ्ची वार्द्धीणसान् श्येनी कुररान्सारसान्बकान् ॥ ८.३२७ ॥

इत्येवमादयोन्येऽपि क्रव्यादा ये च पक्षिणः।
धृतराष्ट्री च हंसांश्च कलहंसांश्च भामिनी ॥ ८.३२८ ॥

चक्रवाकांश्च विहगान्सर्वांश्चैवादकान् द्विजान्।
एतानेव विजज्ञेऽथ पुत्रपौत्रमनन्तकम् ॥ ८.३२९ ॥

गरुडस्यात्मजाः प्रोक्ता इरायाः श्रृणुत प्रजाः।
इरा प्रजज्ञे कन्या वैतिस्रः कमललोचनाः ॥ ८.३३० ॥

वन स्पतीनां वृक्षाणां वीरुधाञ्चैव मातरः।
लता चैवाथ वल्ली च वीरुधा चेति तास्तु वै ॥ ८.३३१ ॥

लता वनस्पतीञ्जज्ञे ह्यपुष्पान् पुलिनस्थितान् ।
युक्तान्पुष्पफलैर्वृक्षान् लता वै सम्प्रसूयते ॥ ८.३३२ ॥

अथ वल्ली तु गुल्मांश्च त्वक्सारास्तृणजातयः।
वीरुधा तदपत्यानि वंशश्चात्र समाप्यते ॥ ८.३३३ ॥

एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः ।
तेषां पुत्राश्च पौत्राश्च यैरिदं पूरितं जगत् ॥ ८.३३४ ॥

इति सर्गैकदेशस्य कीर्तितोऽवयवो मया।
मारीचोऽयं प्रजा सर्गः समासेन प्रकीर्तितः।
न शक्यं व्यासतो वक्तुमपि वर्षशतैर्द्विजाः ॥ ८.३३५ ॥

अदितिर्धर्मशीला तु बलशीला दितिः स्मृता।
तपःशीला तु सुरभि र्मायाशीला दनुः स्मृता ॥ ८.३३६ ॥

क्रूरशीला तथा कद्रुः क्रौञ्च्यथ श्रुतिशालिनी ।
इरा ग्रहणशीला तु दनायुर्भक्षणे रता ॥ ८.३३७ ॥

वाहशीला तु विनता ताम्रा वै पाशशालिनी।
स्वभावा लोकमातॄणां शीलान्येतानि सर्वशः ॥ ८.३३८ ॥

धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः।
रजः सत्त्वतमो वृत्ता धार्मिकाधार्मिकास्तु वै ॥ ८.३३९ ॥

मातृतुल्याश्चाबिजाताः कश्यपस्यात्मजाः प्रजाः।
देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः।
पिशाचाः पशवश्चैव मृगाः पतङ्गवीरुधः ॥ ८.३४० ॥

यस्माद्दाक्षायणीष्वेते जज्ञिरे मानुषीष्विह।
मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ॥ ८.३४१ ॥

धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै।
ततोऽधः स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ॥ ८.३४२ ॥

जायन्ते कार्यसिद्धयर्थं मानुषेषु पुनः पुनः।
इत्येवं वंशप्रभवः प्रसङ्ख्यातस्तपस्विनाम् ॥ ८.३४३ ॥

सुराणामसुराणाञ्च गन्धर्वाप्सरसां तथा।
यक्षरक्षःपिशाचानां सुपर्णोरगपक्षिणाम् ॥ ८.३४४ ॥

व्यालानां शिखिनाञ्चैव ओषधीनाञ्च सर्वशः।
कृमिकीटपतङ्गानां क्षुद्राणां जलजाश्च ये।
पशूनां ब्राह्णानाञ्च श्रीमतां पुण्यलक्षणम् ॥ ८.३४५ ॥

आयुष्यश्चैव धन्यश्च श्रीमान् हितसुखावहः।
श्रोतव्यश्चैव सततं ग्राह्यश्चैवानुसूयता ॥ ८.३४६ ॥

इमन्तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्णवैद्यसंसदि ।
अपत्यलाभं हि लबेत्सुपुष्कलं श्रियं धनं प्रेत्य च शोभनां गतिम् ॥ ८.३४७ ॥

इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नामाष्टमोऽध्यायः ॥ ८ ॥ *