॥सूत उवाच॥
विश्वास-प्रस्तुतिः
अत ऊर्ध्वं प्रवक्ष्यामि दनुपुत्रान्निबोधत।
अभवन् दनुपुत्रास्तु वंशे ख्याता महासुराः ॥ ७.१ ॥
मूलम्

विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः।
सर्वे लब्धवराश्चैव सुतप्ततपसस्तथा ॥ ७.२ ॥

सत्यसन्धाः पराक्रान्ताः क्रूरा मायाविनश्च ते ।
महाबला अयज्वानो ह्यब्रह्मण्याश्च दानवाः ।
कीर्त्त्यमानान्मया सर्वान् प्राधान्येन निबोधत ॥ ७.३ ॥

द्विमूर्द्धा शङ्कुवर्णश्च तथा शङ्कुनिरामयः।
शङ्कुकर्णो महाविश्वो गवेष्ठिर्दुन्दुभिस्तथा ॥ ७.४ ॥

अजामुखोऽथ भगवान् शिलो वामनसस्तथा।
मरीचिरक्षकश्चैव महागार्ग्योऽङ्गिरावृतः ॥ ७.५ ॥

विक्षोभ्यश्च सुकेतुश्च सुवीर्यः सुहृदस्तथा।
इन्द्रजिद्विश्वजिच्चैव तथासुर विमर्द्दनः ॥ ७.६ ॥

एकचक्रः सुबाहुश्च तारकश्च महाबलः।
वैश्वानरः पुलोमा च प्रवीणोऽथ महाशिराः ॥ ७.७ ॥

स्वर्भानुर्वृषपर्वा च मुण्डकश्च महासुरः।
धृतराष्ट्रश्च सूर्यश्च चन्द्र इन्द्रश्च तापिनः ॥ ७.८ ॥

सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः।
असिलोमा सुकेशश्च सदश्च बलको दश ॥ ७.९ ॥

तथा गगनमूर्द्धा च कुम्भनाभा महोदरः।
प्रमोदाहश्च कुपथो हयग्रीवश्च वीर्यवान् ॥ ७.१० ॥

असुरश्च विरुपाक्षः सुपथोऽथ महासुरः।
अजो हिरण्मयश्चैव शतमायुश्च शम्बरः ॥ ७.११ ॥

शरभः शलभश्चैव सूर्याचन्द्रमसावुभौ।
असुराणां सुरावेतौ सुराणां साम्प्रताविमौ ॥ ७.१२ ॥

इति पुत्रा दनोर्वंशाः प्रधानाः परिकीर्तिताः।
तेषामपरिसङ्ख्येयं पुत्रपौत्राद्यनन्तकम् ॥ ७.१३ ॥

इत्येते त्वसुराः प्रोक्ता दैतेया दानवाश्च ये।
स्वर्भानुस्तु स्मृतो दैत्यो ह्यनुभानुर्दनोः सुतः।
इमे तु वंशानुगता दनोः पुत्रास्तु ये स्मृताः ॥ ७.१४ ॥

एकाक्ष ऋषभोऽरिष्टः प्रबन्धनरकावपि।
इन्द्रबाधनकेशी च मेरुः शम्बोऽथ धेनुकः ॥ ७.१५ ॥

गवेष्ठिश्च गवाक्षश्च तालकेतुश्च वीर्यवान्।
एते मनुष्यधर्मास्तु दनोः पुत्रा मया स्मृताः ॥ ७.१६ ॥

दैत्यदानवसंहर्षे जाता भीमपराक्रमाः।
सिंहिकायामथोत्पन्ना विप्रचित्तिसुतास्त्विमे ॥ ७.१७ ॥

सैंहिकेया इति ख्याताश्चतुर्द्दश महासुराः।
शतगालश्च बलवान्न्यासः शाम्बस्तथैव च । ७.१८ ॥
विश्वास-प्रस्तुतिः
अनुलोमः शुचिश्चैव वातापिश्च सितांशुकः।
हरः कल्पः कालनाभो भौमश्च नरकस्तथा ॥ ७.१९ ॥

राहुर्ज्यष्ठस्तु तेषां वै चन्द्रसूर्यप्रमर्दनः।
इत्येते सिंहिकापुत्रा देवैरपि दुरासदाः ॥ ७.२० ॥

दारुणाभिजनाः क्रूराः सर्वे ब्रह्मद्विषश्च ते।
दशान्यानि सहस्राणि सैंहिकेयो गणः स्मृतः ॥ ७.२१ ॥

निहतो जामदग्न्येन भार्गवेण बलीयसा।
स्वर्भानोस्तु प्रभा कन्या पुलोम्नोऽथ शची तथा ॥ ७.२२ ॥

उपदानवी यमस्यापि शर्मिष्ठा वार्ष पर्वणी।
पुलोमा कालिका चैव वैश्वानरसुते उभे ॥ ७.२३ ॥

प्रभाया नहुषः पुत्रो जयन्तश्च शचीसुतः।
पुरुञ्जज्ञेऽथ शर्मिष्ठा दुष्मन्तमुपदानवी ॥ ७.२४ ॥

वैश्वानरसुते ह्येते पुलोमा कालिका उभे ।
उभे ह्यपि तु ते कन्ये मारीचस्य परिग्रहे । ७.२५ ॥
विश्वास-प्रस्तुतिः
ताभ्यां पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः।
चतुर्दश तथान्यानि हिरण्यपुरवासिनाम् ॥ ७.२६ ॥

पौलोमाः कालकेयाश्च दानवाः सुमहाबलाः।
अवध्या दानवानां ते निहताः सव्यसाचिना ॥ ७.२७ ॥

मयस्य जाता ये पुत्राः सर्वे वीरपराक्रमाः।
मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ॥ ७.२८ ॥

बालिको वज्रकर्णश्च कन्या मन्दोदरी तथा।
दैत्यानां दानवानाञ्च सर्ग एष प्रकीर्त्तितः ॥ ७.२९ ॥

दनायुषायाः पुत्रास्तु स्मृताः पञ्च महाबलाः।
अरूरुर्बालिजम्भौ च विरक्षश्च विषस्तथा ॥ ७.३० ॥

अरुरो स्तनयः क्रूरो धुन्धुर्नाम महासुरः।
निहतः कुवलाश्वेन उत्तङ्कवचनात् किल ॥ ७.३१ ॥

बलेः पुत्रौ महावीर्यौ तेजसाप्रतिमावुभौ।
कुम्भिलश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ॥ ७.३२ ॥

विरक्षस्यापि पुत्रौ द्वौ कालकश्च वरश्च तौ।
विषस्य त्वभवन् पुत्राश्चत्वारः क्रूरकर्मणः।
श्राद्धहा यज्ञहा चैव ब्रह्महा पशुहा तथा ॥ ७.३३ ॥

क्रान्ता दनायुषापुत्रा वृत्रस्यापि निबोधत।
जज्ञिरे श्वसनाद्धोराद्वृत्रस्येन्द्रेण युध्यतः ॥ ७.३४ ॥

भर्त्तारो मनसा ख्याता राक्षसाः सुमहाबलाः ।
शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥ ७.३५ ॥

सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्त्तयः।
प्रजास्वन्तर्गताः सर्वे निवसन्ति सुधार्मिकाः ॥ ७.३६ ॥

दैत्यानां दानवानाञ्च सर्ग एष प्रकीर्त्तितः।
प्रवाह्यजनयत् पुत्रान् यज्ञे वै गायनोत्तमान् ॥ ७.३७ ॥

सत्त्वनः सत्वात्मकश्चैव कलापश्चैव वीर्यवान् ।
कृतवीर्यो ब्रह्मचारी सुपाण्डुश्चैव सप्तमः ॥ ७.३८ ॥

पनश्चैव तरण्यश्च सुचन्द्रो दशमस्तथा।
इत्येते देवगन्धर्वा विज्ञेयाः परिकीर्त्तिताः ॥ ७.३९ ॥

इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नाम सप्तमोऽध्यायः ॥ ७ ॥ *