००६

॥ऋषय उचुः ॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा वचस्तस्य नैमिषेयास्तपस्विनः।
पप्रच्छुऋषयः श्रेष्ठं वचनस्य यथाक्रमम् ॥ ६.१ ॥

मूलम्

सप्तस्विह कथं देवा जाता मन्वन्तरेष्विह।
इन्द्रविष्णुप्रधानास्ते आदित्यास्तु महौजसः।
एतत् प्रब्रूहि नः सर्वं विस्तराद्रोमहर्षण ॥ ६.२ ॥

एव मुक्तस्तदा सूतो विनयी ब्रह्मवादिभिः।
उवाच वदतां श्रेष्ठो यथा पृष्टो महर्षिभिः ॥ ६.३ ॥

॥सूत उवाच॥
विश्वास-प्रस्तुतिः

व्रह्मणो वै मुखात् सृष्टा यथा देवाः प्रजेप्सया।
सर्व मन्त्रशरीरास्ते स्मृता मन्वतरेष्विह ॥ ६.४ ॥

दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम्।
आकूतः प्रथमस्तेषां ततस्त्वाकूतिरेव च ॥ ६.५ ॥

वित्तिश्चैव सुवित्तिश्च आकूतिः कूतिरेव च।
अधीष्टस्तु ततो ज्ञेयः अधीतिश्चैव तत्त्वतः।
विज्ञातिश्चैव विज्ञातो मानवो ये च द्वादश ॥ ६.६ ॥

ज्ञेयो द्वादशपुत्रश्च यश्चाब्देन समाजयेत्।
तं दृष्ट्वा चाब्रवीद्ब्रह्मा जया देवानसूयत ॥ ६.७ ॥

दारा ग्रिहोत्रसंयोगे मिथ्यामारभतेति च।
एवमुक्त्वा तु तं व्रह्मा तत्रैवान्तरधीयत ॥ ६.८ ॥

ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः।
सत्यस्येह तु कर्माणि वाङ्मनः कर्मजानि तु ॥ ६.९ ॥

य एवाप्यवतिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु।
क्षयातिशययुक्तन्तु ते दृष्ट्वा कर्मणां फलम् ॥ ६.१० ॥

जुगुप्सन्तः प्रसूतिञ्च निस्तन्द्रा निर्ममाभवन्।
अजस्रं काङ्क्षमाणास्ते विरक्ता दोषदर्शिनः ॥ ६.११ ॥

अर्थं धर्मञ्च कामञ्च हित्वा ते वै व्यवस्थिताः।
पौरुषं ज्ञानमास्थाय तेजः सङ्क्षिप्य चास्थिताः ॥ ६.१२ ॥

तेषाञ्च तमभिप्रायं ज्ञात्वा ब्रह्मा चुकोप ह।
तानब्रवीत्तदा ब्रह्मा निरुत्साहात् सुरानथ ॥ ६.१३ ॥

प्रजार्थमिह यूयं वै प्रजास्रष्टाऽस्मि नान्यथा।
प्रसूयध्वं जयघ्वञ्चेत्युक्तवानस्मि यत् पुरा ॥ ६.१४ ॥

यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः।
जुगुप्समानाः स्वं जन्म सन्ततिं नाभि नन्दथ ॥ ६.१५ ॥

कर्मणाञ्च कृतो न्यासो ह्यमृतत्त्वाभिकाङ्क्षया।
तस्माद्यूयमनादृत्य सप्तकृत्वस्तु यास्यथ ॥ ६.१६ ॥

ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन्।
क्षमास्माकं महादेव यदज्ञानात् कृतं विभो ॥ ६.१७ ॥

प्रणिपत्य सानुनयं ब्रह्मा तानब्रवीत् पुनः।
लोके मयाननुज्ञातः कः स्वातन्त्र्यमिहार्हसि ॥ ६.१८ ॥

मया परिगतं सर्वं कथमच्छन्दतो मम।
प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वाऽशुभम् ॥ ६.१९ ॥

लोके यदस्ति किञ्चिद्वै सत्त्वासत्त्वव्यवस्थितम्।
बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिसन्धयेत् ॥ ६.२० ॥

भूतानां तर्कितं यच्च यच्चाप्येषां विधारितम्।
तथा विचारितं यच्च तत्सर्वं विदितं मम ॥ ६.२१ ॥

मया स्थितमिदं सर्वं जगत् स्थावरजङ्गमम्।
आशामयेन तत्त्वेन कथं छेत्तुमिहोत्सहे ॥ ६.२२ ॥

यस्माच्चाहं विवृत्तो वै सर्गार्थमिह नान्यथा।
इह कर्माण्यनारभ्य को मे छन्दाद्विमोक्ष्यते ॥ ६.२३ ॥

परिभाष्य ततो देवान् जयान् वै नष्टचेतसः।
अब्रवीत्स पुनस्तान् वै धृतान् दण्डे प्रजापतिः ॥ ६.२४ ॥

यस्मान्ममाभिसन्धाय सन्न्यासो वः कृतः पुरा।
यस्मात्स विफलोऽयन्नो ह्यपारस्त्वेष यः कृतः।
भविताऽतः सुखोदर्को देवा भावेषु जायताम् ॥ ६.२५ ॥

आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः।
मन्वन्तरेषु सम्मूढाः षट्‌सु सर्वे गमिष्यथ ॥ ६.२६ ॥

वैवस्वतान्तेषु सुरास्तथा स्वायम्भुवादिषु।
तान् ज्ञात्वा ब्रह्मणा तत्र श्लोको गीतः पुरातनः ॥ ६.२७ ॥

त्रयीं विद्यां ब्रह्मचर्यं प्रसूतिं श्राद्धमेव च ।
यज्ञञ्चैव तु दानञ्च एषामेव तु कुर्वताम्।
स हि स्म विरजा भूत्वा वसतेऽन्यप्रशंसया ॥ ६.२८ ॥

स एवं स्लोकं दृष्ट्वा तु जया देवानथाब्रवीत्।
वैवस्वतेऽन्तरेऽतीते मत्समीपमिहेष्यथ ॥ ६.२९ ॥

ततो यूयं मया सार्द्धं सिद्धिं प्राप्स्यथ शाश्वतीम्।
एवमुक्त्वा तु तान् ब्रह्मा तत्रैवान्तरधीयत ॥ ६.३० ॥

ततो देवास्तिरोभूते ईश्वरे ह्यकुतोभयम्।
प्रपन्ना अणिमाद्यैश्च युक्ता योगबलान्विताः ॥ ६.३१ ॥

ततस्तेषान्तु यास्तन्वस्ताऽभवन् द्वादश ह्रदाः।
जया इति समाख्याता जाता श्चोदधिसन्निभाः ॥ ६.३२ ॥

ततः स्वायम्भुवे तस्मिन् सर्गेते जज्ञिरे सुराः।
अजितायां रुचेः पुत्रा अजिता द्वादशात्मकः ॥ ६.३३ ॥

विधिश्च मुनयश्चैव क्षेमो नन्दोऽव्ययस्तथा।
प्राणोऽपानः सुधामा च क्रतुशक्तिव्यवस्थिताः ।
इत्येते मानसाः सर्वे अजिता द्वादश स्मृताः ॥ ६.३४ ॥

ते च यज्ञे सुरैः सार्द्धं यज्ञभाजस्तदा स्मृताः।
स्वायम्भुवेऽन्तरे पूर्वे ततः स्वारोचिषे पुनः।
तुषितायां समुत्पन्नाः पुनः पुत्राः स्वरोचिषः ॥ ६.३५ ॥

तुषिता नाम ते ह्यासन् प्राणाख्या यात्रिकाः सुराः।
पुनस्ते तुषिता देवा उत्तमे त्वन्तरे स्वयम् ॥ ६.३६ ॥

उत्तमस्य तु ते पुत्राः सत्यायां जज्ञिरे शुभाः।
ततः सत्याः स्मृता देवा उत्तमे चान्तरे तदा ॥ ६.३७ ॥

अभजन् यज्ञभाजस्ते तृतीये द्वापरान्तरे।
ते तु सत्याः पुनर्द्देवाः सम्प्राप्ते तामसेऽन्तरे ॥ ६.३८ ॥

हर्षा ये तमसः पुत्रा जज्ञिरे द्वादशैव तु ।
हरयो नाम ते देवा यज्ञभाजस्तथाऽभवन् ॥ ६.३९ ॥

ततस्ते हरयो देवाः प्राप्ते चारिष्णवेऽन्तरे।
वैकुण्ठायां ततस्ते वै चरिष्णोर्जज्ञिरे सुराः।
वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मनोः ॥ ६.४० ॥

ततस्ते वै पुनर्द्देवा वैकुण्ठाः प्राप्य चाक्षुषम्।
साध्यायां द्वादश सुता जज्ञिरे धर्मसूनवः ॥ ६.४१ ॥

ततस्ते वै पुनः साध्याः सङ्क्षीणे चाक्षुषेऽन्तरे ।
उपस्थिते मनोः सर्गे पुनर्वैवस्वतस्य ह ॥ ६.४२ ॥

आद्ये त्रेतायुगमुखे प्राप्ते वैवस्वतस्य तु ।
अंशेन साध्यास्तेऽदित्यां मारीचात् कश्यपात् पुनः ॥ ६.४३ ॥

जज्ञिरे द्वादशादित्या वर्त्तमानेऽन्तरे पुनः।
यदा त्वेते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ॥ ६.४४ ॥

ततः स्वायम्भुवे साध्या जज्ञिरे द्वादशामराः।
एवमाद्या जयास्ते वै शापात्समभवंस्तदा ॥ ६.४५ ॥

य इमां सप्तसम्भूतिं देवानां देवशासनात् ।
पठेद्यः श्रद्धया युक्तः प्रत्वायं न गच्छति ॥ ६.४६ ॥

इत्येते भूतयः सप्त जयानां सप्तलक्षणाः।
परिक्रान्ता मया चाद्य किम्भूयः श्रोतुमिच्छथ ॥ ६.४७ ॥

॥ऋष ऊचुः ॥
विश्वास-प्रस्तुतिः

दैत्यानां दानवानाञ्च गन्धर्वोरगरक्षसाम्।
सर्वभूतपिशाचानां पशूनां पक्षिवीरुधाम्।
उत्पत्तिं निधनञ्चैव विस्तरात् कथयस्व नः ॥ ६.४८ ॥

एवमुक्तस्तदा सूत उवाच ऋषिसत्तमान् ।
दितेः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ॥ ६.४९ ॥

कश्यपस्यात्मजौ तौ वै सर्वेभ्यः पूर्वजौ स्मृतौ।
सूत्येऽहन्यतिरात्रस्य कश्यपस्याश्वमेधिके ॥ ६.५० ॥

हिरण्यकशिपुर्नाम प्रथमं ऋत्विगासनम्।
दित्या गर्भाद्विनिःसृत्य तत्रासीनोच्चसंसदि।
हिरण्यकशिपुस्तस्मात् कर्मणा तेन स स्मृतः ॥ ६.५१ ॥

॥ऋषय ऊचुः ॥
विश्वास-प्रस्तुतिः

हिरण्यकशिपोर्नाम जन्म चैव महात्मनः।
प्रभावञ्चैव दैत्यस्य विस्तराद्ब्रूहि नः प्रभो ॥ ६.५२ ॥

कश्यपस्याश्वमेधोऽभूत् पुण्यो वै पुष्करे पुरा।
ऋषिभिर्द्देवताभिश्च गन्धर्वै रुपशोभितः ॥ ६.५३ ॥

उत्कृष्टेनैव विधिना आख्यानादौ यथाविधि।
आसनान्युपक्लृप्तानि काञ्चनानि तु पञ्च वै ॥ ६.५४ ॥

कुशपूतानि त्रीण्यत्र कूर्चफलकमेव च।
मुख्यार्त्विजश्च चत्वारस्तेषान्तान्युपकल्पयेत् ॥ ६.५५ ॥

शुभं तत्रासनं यत्तु होतुरर्थे प्रकल्पितम्।
हिरण्मयं तथा दिव्यं दिव्यास्तरणसंस्तृतम् ॥ ६.५६ ॥

अन्तर्वत्नी दितिश्चैव पत्नीत्वं स्मुपागता।
दश वर्षसहस्राणि गर्भस्तस्या अवर्तत ॥ ६.५७ ॥

स तु गर्भाद्विनिःसृत्य मातुर्वै उदरात्तदा।
उपक्लृप्तासनं यत्तु होतुरर्थे हिरण्मयम्।
निषसाद सगर्भोऽत्र तत्रासीनः शशंस च ॥ ६.५८ ॥

आक्यानपञ्चमान् वेदान् महर्षिः काश्यपो यथा।
तं दृष्ट्वा मुनयस्तस्य नामाकुर्वंस्तु तद्विधम् ॥ ६.५९ ॥

हिरण्यकशिपुस्तस्मात् कर्मणा तेन विश्रुतः।
हिरण्याक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा।
राहोः सा जननी देवी विप्रचित्तेः परिग्रहात् ॥ ६.६० ॥

हिरण्यकशिपुर्द्दैत्यश्चचार परमं तपः।
शतं वर्षसहस्राणां निराहारो ह्यधःशिराः ॥ ६.६१ ॥

तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु।
सर्वामरत्वं विप्रेभ्यः सर्वभूतेभ्य एव च।
योगाद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः ॥ ६.६२ ॥

दानवाश्चासुराश्चैव देवाः समा भवन्तु वै।
मारुतेर्यन्महैश्वर्यमेष मे दीयतां वरः ॥ ६.६३ ॥

एवमुक्तोऽथ ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम्।
दत्त्वा तस्मै वरान् दिव्यान् तत्रैवान्तरधीयत।
हिरण्यकशिपुर्दैत्यः श्लोकैर्गीतः पुरातनैः ॥ ६.६४ ॥

राजा हिरण्यकशिपुर्यां यामाशां निषेवते।
तस्यास्तस्या दिशो देवा नमश्चक्रुर्महर्षिभिः ॥ ६.६५ ॥

एवम्प्रभावो दैत्येन्द्रो हिरण्यकशिपु र्द्विजाः।
तस्यासीन्नरसिंहः स विष्णुर्मृत्युः पुरा किल।
नखैस्तु तेन निर्भिन्नस्ततः शुद्धा नखाः स्मृताः ॥ ६.६६ ॥

हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहा बलाः।
उत्कुरः शकुनिश्चैव कालनाभस्तथैव च ॥ ६.६७ ॥

महानाभश्च विक्रान्तो भूतसन्तापनस्तथा।
हिरण्याक्षसुताः ह्येते देवैरपि दुरासदाः ॥ ६.६८ ॥

तेषां पुत्राश्च पौत्राश्च बाडेयः सगणः स्मृतः।
शतन्तानि सहस्राणि निहतास्तारकामये ॥ ६.६९ ॥

हिरण्यकशिपोः पुत्राश्चत्वारस्तु महाबलाः।
प्रह्लादः पूर्वजस्तेषामनुह्लादस्तथैव च।
संह्रादश्च ह्रदश्चैव ह्रदपुत्रान्निबोधत ॥ ६.७० ॥

ह्रादो निसुन्दश्च तता ह्रदपुत्रौ बभूवतुः।
सुन्दोपसुन्दौ विक्रान्तौ निसुन्दतन यावुभौ ॥ ६.७१ ॥

ब्रह्मघ्नस्तु महावीर्यो मूकस्तु ह्रददायिनः।
मारीचः सुन्दपुत्रस्तु ताडकामुपपद्यते ॥ ६.७२ ॥

ताडका निहता साऽथ राघवेण बलीयसा।
मूको विनिहतश्चापि किराते सव्यसाचिना ॥ ६.७३ ॥

उत्पन्ना महता चैव तपसा भाविताः स्वयम्।
तिस्रः कोट्यस्तु तेषां वै मणिवर्त्तनिवासिनाम्।
अवध्या देवतानां वै निहताः सव्यसाचिना ॥ ६.७४ ॥

अनुह्लादसुतो वायुः शिनीवाली तथैव च ।
तेषान्तु शतसाहस्रो गणो हालाहलः स्मृतः ॥ ६.७५ ॥

वैरोचनस्तु प्राह्लादिः पञ्च तस्यात्मजाः स्मृताः।
गवेष्ठी कालनेमिश्च जम्भो बाष्कल एव च।
शम्भुस्तु अनुजस्तेषां स्मृताः प्राह्लादिसूनवः ॥ ६.७६ ॥

यथाप्रधानं वक्ष्यामि तेषां पुत्रान् दुरासदान्।
शुम्भश्चैव निशुम्भश्च विष्वक्सेनो महौजसः ॥ ६.७७ ॥

गवेष्ठिनः सुता ह्येते जम्भस्य शतदुन्दुभिः।
तथा दक्षश्च खण्डश्च त्रयस्तु जम्भसूनवः ॥ ६.७८ ॥

विरोधश्च मनुश्चैव वृक्षायुः कुशलीमुखः।
बाष्कलस्य सुता ह्येते कालनेमिसुतान् श्रृणु ॥ ६.७९ ॥

ब्रह्मजित् क्षत्रजिच्चैव देवान्तकनरान्तकौ ।
कालनेमिसुता ह्येते शम्भोस्तु श्रृणुत प्रजाः ॥ ६.८० ॥

धनुको ह्यसिलोमा च नाबलश्च सगोमुखः।
गवाक्षश्चैव गोमांश्च शम्भोः पुत्राः प्रकीर्त्तिताः ॥ ६.८१ ॥

विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान्।
बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ॥ ६.८२ ॥

तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः।
सहस्रबाहुर्ज्येष्ठस्तु बाणो द्रविणसम्मतः।
कुम्भनाभो गर्द्दभाक्षः कुशिरित्येवमादयः ॥ ६.८३ ॥

शकुनी पूतना चैव कन्ये द्वे तु बलेः सुते।
बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ६.८४ ॥

बलिर्यो नामविख्यातो गणो विक्रान्तपौरुषः।
बाणस्य चन्द्र मनसो लौहित्यमुपपद्यते ॥ ६.८५ ॥

दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम्।
स कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया ।
वरेण च्छन्दयामास सा च वव्रे वरं ततः ॥ ६.८६ ॥

स तु तस्यै वरं प्रादात् प्रार्थितं भगवन् प्रभुः।
किमिच्छसि मयि शुभ्रे मारीचस्तामभाषत ॥ ६.८७ ॥

मारीचं कश्यपं तुष्टं भर्तारं प्राञ्जलिस्तथा।
हतपुत्रास्मि भगवान् आदित्यैस्तव सूनुभिः ॥ ६.८८ ॥

शक्रहन्तारमिच्छेयं पुत्रं दीर्घतपोऽन्वितम्।
अहं तपश्चरिष्यामि गर्भ माधातुमर्हसि ॥ ६.८९ ॥

तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तथा।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ ६.९० ॥

एवं भवतु भद्रन्ते शुचिर्भव तपोधने।
जनयिष्यसि सत्पुत्रं शक्रहन्तारमाहवे ॥ ६.९१ ॥

पूर्णं वर्षशतं तावत् शुचिर्यदि भविष्यसि ।
पुत्रं त्रिलोकप्रचरमथत्वं जनयिष्यसि ॥ ६.९२ ॥

एवमुक्त्वा महातेजास्तया समवसत् प्रभुः ।
तामालिङ्ग्य त्रिभुवनं जगाम भगवानृषिः ॥ ६.९३ ॥

गते भर्त्तरि सा देवी दितिः परमहर्षिता।
कुशलं वनमासाद्य तपस्तेपे सुदारुणम् ॥ ६.९४ ॥

तपस्तस्यान्तु कुर्वन्त्यां परिचर्याञ्चकार ह।
सहस्राक्षः सुरश्रेष्ठः परया गुणसम्पदा ॥ ६.९५ ॥

अग्निं समित्कुशं काष्ठं फलं मूलं तथैव च।
न्यवेदयत् सहस्राक्षो यच्चान्यदपि किञ्चन ॥ ६.९६ ॥

गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा।
शक्रः सर्वेषु (लोकेषु) कालेषु दितिं परिचचार ह ।
एवमाराधिता शक्रमुवाचाथ दितिस्तथा ॥ ६.९७ ॥

॥दितिरुवाच॥
विश्वास-प्रस्तुतिः

प्रीता तेऽहं सुरश्रेष्ठ दशवर्षाणि पुत्रक।
अवशिष्टानि भद्रान्ते भ्रातरं द्रक्ष्यसे ततः ॥ ६.९८ ॥

जयलिप्सां समाधास्ये लब्ध्वाहं तादृशं सुतम्।
त्रैलोक्यविजयं पूत्र प्राप्स्यामि सह तेन वै ॥ ६.९९ ॥

एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे ।
निद्रयापहृता देवी जान्वोः कृत्वा शिरस्तदा ॥ ६.१०० ॥

दृष्ट्वा तामशुचिं शक्रः पादयोर्गतमूर्द्धजाम् ।
तस्यास्तदन्तरं लब्ध्वा जहास च मुमोद च ॥ ६.१०१ ॥

तस्याः शरीरं विवृतं विवेशाथ पुरन्दरः।
प्रविश्य चामितं दृष्ट्वा गर्भमिन्द्रो महौजसम्।
अभिनत्स प्रधानन्तु कुलिशेन महायशाः ॥ ६.१०२ ॥

भिद्यमानस्तदा गर्भो वज्रेण शतपर्वणा।
रुरोद सस्वरं भीमं वेपमानः पुनः पुनः ।
मारोदीरिति तं गर्भं शक्रः पुनरभाषत ॥ ६.१०३ ॥

तं गर्भं सप्तधाभूतं ह्येकैकं सप्तधा पुनः।
कुलिशेन बिभेदेन्द्रस्ततो दितिरबुध्यत ॥ ६.१०४ ॥

न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
निष्पपातोदराद्वज्री मातुर्वचनगौरवात्।
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ॥ ६.१०५ ॥

अशुचिर्देवि सुप्तासि पादयोर्गतमूर्द्धजा।
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे।
भिन्नवान् गर्भमेतन्ते बहुधा क्षन्तुमर्हसि ॥ ६.१०६ ॥

तस्मिस्तु विफले गर्भे दितिः परमदुःखिता।
सहस्राक्षं ततो वाक्यं मातुर्नयनमब्रवीत् ॥ ६.१०७ ॥

ममापराधाद्गर्भोऽयं यदि ते विफलीकृतः।
नापराधोऽस्ति देवेश ऋषिपुत्र महाबल ॥ ६.१०८ ॥

शत्रोर्वधे न दोषोऽस्ति तेन त्वां न शपामि भोः।
प्रियन्तु कर्त्तुमिच्छामि श्रेयो गर्भस्य मे कुरु ॥ ६.१०९ ॥

भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि।
वातस्कन्धानिमान् सप्त चरन्तु मम पुत्रकाः।
मरुतश्चेति विख्याता गणास्ते सप्त सप्तकाः ॥ ६.११० ॥

पृथिव्यां प्रथमस्कन्धो द्वितीयश्चैव भास्करे।
सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ॥ ६.१११ ॥

ग्रहेषु पञ्चमश्चैव षष्ठः सप्तर्षिमण्डले।
ध्रुवे तु सप्तमश्चैव वातस्कन्धः परस्तु सः ॥ ६.११२ ॥

तान्येते विचरन्त्वद्य काले काले ममात्मजाः।
वातस्कन्धानिमान् भूत्वा चरन्तु मम पुत्रकाः ॥ ६.११३ ॥

पृथिव्यां प्रथमस्कन्धो अमेध्येभ्यो य आवहः।
चरन्तु मम पुत्रास्ते प्रथमश्चरताङ्गणः ॥ ६.११४ ॥

द्वितीयश्चापि मेध्येभ्य आसूर्यात् प्रवहस्तु यः।
वातस्कन्धं द्वितीयन्तु द्वितीयश्चरताङ्गणः ॥ ६.११५ ॥

सूर्योर्ध्वन्तु ततः सोमादुद्वहो यस्तु वै स्मृतः।
वातस्कन्धन्तु तं प्राहुस्तृतीयश्चरताङ्गणः ॥ ६.११६ ॥

सोमादूर्ध्वं तथर्क्षेभ्यश्चतुर्थः सुवहस्तु यः।
चतुर्थो मम पुत्राणां गणस्तु चरतां विभो ॥ ६.११७ ॥

यक्षेभ्यश्च तथैवोर्ध्वमाग्रहाद्विवहस्तु यः।
पञ्चमं पञ्चमः सौम्यः स्कन्धस्तु चरताङ्गणः ॥ ६.११८ ॥

ऊर्ध्वं ग्रहादृषिभ्यस्तु षष्ठो यो वै पराहतः ।
चरन्तु मम पुत्रास्तु तत्र षष्ठे गणे तु ये ॥ ६.११९ ॥

सप्तर्षयस्तथैवोर्ध्वमाध्रुवात् सप्तमस्तु यः।
वात स्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ॥ ६.१२० ॥

एतत् सर्वं चरन्त्वेते काले काले ममात्मजाः।
तत्र तेन च नाम्ना वै भवन्तु मरुतस्त्विमे ॥ ६.१२१ ॥

ततस्तेषान्तु नामानि मातापुत्रौ प्रचक्रतुः।
तत्कृते कर्मभिश्चैव मरुतो वै पृथक् पृथक् ॥ ६.१२२ ॥

सत्त्वज्योतिस्तथादित्यः सत्यज्योतिस्तथाऽपरः।
तिर्यग्ज्योतिश्च सज्योतिर्ज्ज्योतिष्मानपरस्तथा ॥ ६.१२३ ॥

प्रथमस्तु गणः प्रोक्तो द्वितीयं मे निबोधत।
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥ ६.१२४ ॥

सत्मित्रोऽभिमित्रश्च हरिमित्रस्तथाऽपरः।
गण एष द्वितीयस्तु तृतीयं मे निबोधत ॥ ६.१२५ ॥

कृतः सत्यो * * * * ध्रुवो धर्त्ता विधारयः ।
ध्वान्तश्चैव धुनिश्चैव ह्युग्रो भीमस्तथैव च।
अभियुः सक्षिपश्चैवमाह्वयश्च गणः स्मृतः ॥ ६.१२६ ॥

ईदृकू चैव तथान्यादृक् यादृक् च प्रतिकृत्तथा। (?) समितिश्चैव संरम्भश्च तथा गणः ॥ ६.१२७ ॥
विश्वास-प्रस्तुतिः

ईदृक् च पुरुषश्चैव अन्यादृक्षाच्च चेतसः।
समितासमितदृक्षाच्च प्रतिदृक्षाच्च वै गुणाः ॥ ६.१२८ ॥

एते ह्येको नपञ्चाशन्मरुतो नामतः स्मृताः।
प्रसङ्ख्यातास्तथा ताभ्यां दित्या चन्द्रेण चैव हि ॥ ६.१२९ ॥

श्रुत्वा तेषान्तु नामानि दितिरिन्द्रमुवाच ह।
वात स्कन्धं चरन्त्वेते मम पुत्राश्च पुत्रक।
विचरन्तु च भद्रन्ते देवैः सह ममात्मजाः ॥ ६.१३० ॥

तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः।
उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ॥ ६.१३१ ॥

सर्वमेतद्यथोक्तन्ते भविष्यति न संशयः।
देवभूता महात्मानः कुमारा देवसम्मताः।
देवैः सह भविष्यन्ति यज्ञ भाजस्तथात्मजाः ॥ ६.१३२ ॥

तस्मात्ते मरुतो देवाः सर्वे चेन्द्रानुजामराः।
विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तपस्विनः ॥ ६.१३३ ॥

एवं तौ निश्चयं ज्ञात्वा मातापुत्रौ तपोधनौ।
जग्मतुस्त्रिदिवं हृष्टौ शक्रोऽपि त्रिदिवं गतः ॥ ६.१३४ ॥

मरुतां हि शुभं जन्म श्रृणुयाद्यः पठेत वा।
नावृष्टिभयमाप्नोति बह्वायुश्च भवेत्ततः ॥ ६.१३५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नाम षष्ठोऽध्यायः ॥ ६ ॥