००५

॥ऋषय ऊचुः ॥

विश्वास-प्रस्तुतिः

देवानां दानवानाञ्च दैत्यानाञ्चैव सर्वशः।
उत्पत्तिं विस्तरेणेह ब्रूहि वैवस्वतेऽन्तरे ॥ ५.१ ॥

मूलम्

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

धर्मस्य तावद्वक्ष्यामि निसर्गं तं निबोधत।
अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ॥ ५.२ ॥

सङ्कल्पा च मुहूर्ता च साध्या विश्वा तथैव च।
धर्मपत्न्यो दशत्वेता दक्षः प्राचेतसो ददौ ॥ ५.३ ॥

साध्या पुत्रांस्तु धर्मस्य साध्यान् द्वादश जज्ञिरे।
साध्या नाम महाभागाश्छन्दजा यज्ञभागिनः।
देवेभ्यस्तान् परान् देवान् देवज्ञाः परिचक्षिरे ॥ ५.४ ॥

ब्रह्मणो वै मुखात् सृष्टा जया देवाः प्रजेप्सया।
सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ ५.५ ॥

दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् ।
चित्तिश्चैव विचित्तिश्च आकूतिः कूतिरेव च ॥ ५.६ ॥

विज्ञाता चैव विज्ञातो मनो यज्ञश्च ते स्मृताः ।
नामान्येतानि तेषां वै जयानां प्रथितानि च ॥ ५.७ ॥

ब्रह्मशापेन ते जाताः पुनः स्वायम्भुवे जिताः।
स्वारोचिषे वै तुषिताः सत्याश्चैवोत्तमे पुनः ॥ ५.८ ॥

तामसे हरयो नाम वैकुण्ठा रैवतान्तरे।
साध्याश्च चाक्षुषे नाम्ना छन्दजा जज्ञिरे सुराः ॥ ५.९ ॥

धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः।
पूर्वं स्म अनुसूयन्ते चाक्षुषस्यान्तरे मनोः ॥ ५.१० ॥

स्वारोचिषेऽन्तरेऽतीता देवा ये वै महौजसः।
तुषिता नाम तेऽन्योन्यमूचुर्वै चाक्षुषेऽन्तरे ॥ ५.११ ॥

किञ्चिच्छिष्टे तदा तस्मिन् देवा वै तुषिताऽभ्रुवन्।
इतरेतरं महाभागान् वयं साध्यान् प्रविश्य वै।
मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति ॥ ५.१२ ॥

एवमुक्त्वातु ते सर्वे चाक्षुषस्यान्तरे मनोः।
तस्माद्द्वादशसम्भूतान् धर्मान् स्वायम्भुवात् पुनः ॥ ५.१३ ॥

नरनारायणौ तत्र जज्ञाते पुनरेव हि।
विपश्चिदिन्द्रो यश्चासीत्तथा सत्यो हरिश्च तौ।
स्वारोचिषेऽन्तरे पूर्वमास्तान्तौ तुषितौ सुरौ ॥ ५.१४ ॥

तुषितानान्तु साध्यत्वे नामान्येतानि वक्ष्यते।
मनोऽनुमन्ता प्राणश्च नरो यानश्च वीर्यवान् ॥ ५.१५ ॥

चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा।
प्रभवोऽथ विभुश्चैव साध्या द्वादश जज्ञिरे ॥ ५.१६ ॥

स्वायम्भुवेऽन्तरे पूर्वं ततः स्वारोचिषे पुनः।
नामान्यासन् पुनस्तानि तुषितानां निबोधत ॥ ५.१७ ॥

प्राणोऽपानस्तथोदानः समानो व्यान एव च।
चक्षुः श्रोत्रं तथा प्राणः स्पर्शो बुद्धिर्मनस्तथा ॥ ५.१८ ॥

प्राणापानावुदानश्च समानो व्यान एव च।
नामान्येतानि पूर्वन्तु तुषितानां स्मृतानि ह ॥ ५.१९ ॥

वसोस्तु वसवः पुत्राः साध्यानामनुजाः स्मृताः ।
धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥ ५.२० ॥

धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा।
ध्रुवपुत्रो भवो नाम्ना कालो लोकप्रकालनः ॥ ५.२१ ॥

सोमस्य भगवान् वर्चा बुधश्च ग्रहबोधनः।
रोहिण्यां तौ समुत्पन्नौ त्रिषु लोकेषु विश्रुतौ ॥ ५.२२ ॥

धारोर्मिकलिलाश्चैव त्रयश्चन्द्रमसः सुताः।
आपस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च ॥ ५.२३ ॥

स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः।
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत।
तस्य शाखो विशखश्च नैगमेयश्च पृष्ठजाः ॥ ५.२४ ॥

अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ॥ ५.२५ ॥

प्रत्यूषस्य विदुः पुत्र ऋषिर्नाम्ना तु देवलः।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ ५.२६ ॥

बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी।
योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ॥ ५.२७ ॥

प्रभासस्य तु या भार्या वसूनामष्टमस्य ह।
विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ॥ ५.२८ ॥

स कर्त्ता सर्वशिल्पानां त्रिदशानाञ्च वर्द्धकिः।
भूषणानाञ्च सर्वेषां कर्त्ता कारयिता च सः ॥ ५.२९ ॥

सर्वेषाञ्च विमानानि दैवतानां करोति सः।
मानुषाश्चोपजीवन्ति यस्य शिल्पानि शिल्पिनः ॥ ५.३० ॥

विश्वेदेवास्तु विश्वाया जज्ञिरे दश विश्रुताः।
क्रतुर्दक्षः श्रवः सत्यः कालः कामो धुनिस्तथा ॥ ५.३१ ॥

कुरुवान् प्रभवांश्चैव रोचमानश्च ते दश।
धर्मपुत्राः स्मृता ह्येते विश्वायां जज्ञिरे शुभाः ॥ ५.३२ ॥

मरुत्वत्यां मरुत्वन्तो भानवो भानुजाः स्मृताः ।
मुहूर्त्ताश्च मुहूर्त्तायां घोषं लम्बा व्यजायत ॥ ५.३३ ॥

सङ्कल्पायान्तु सञ्जज्ञे विद्वान् सङ्कल्प एव च।
नागवीथ्यस्तु जाम्याञ्च पथत्रयसमाश्रिताः ॥ ५.३४ ॥

पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत।
एष सर्गः समाख्यातो विद्वान् धर्मस्य शाश्वतः ॥ ५.३५ ॥

मुहूर्त्ताश्चैव तिथ्यश्च पतिभिः सह सुव्रताः।
नामतः सम्प्रवक्ष्यामि ब्रुवतो मे निबोधत ॥ ५.३६ ॥

अहोरात्रविभागश्च नक्षत्राणि समासतः।
मुहूर्त्ताः सर्वनक्षत्रा अहोरात्रविदस्तथा ॥ ५.३७ ॥

अहोरात्रकलानान्तु षट्‌शतीत्यधिका स्मृता।
रवेर्गतिविशेषेण सर्वेषु ऋतुमिच्छतः ॥ ५.३८ ॥

ततो वेदविदश्चैतां तिथिमिच्छन्ति पर्वसु।
अविशेषेषु कालेषु योज्यः स पितृदानतः ॥ ५.३९ ॥

रौद्रः सार्वस्तथा मैत्रः पिण्ड्यवासव एव च।
आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंश्रितः ॥ ५.४० ॥

प्राजापत्यस्तथा ऐन्द्रस्तथेन्द्रो निऋतिस्तथा।
वारुणश्च तथार्यम्णो भागाश्चापि दिनाश्रिताः ॥ ५.४१ ॥

एते दिनमुहूर्त्ताश्च दिवाकरविनिर्मिताः।
शङ्कुच्छायानिशेषेण वोदेतव्याः प्रमाणतः ॥ ५.४२ ॥

अजास्तथाहिर्बुध्न्यश्च पूषा हि यमदेवताः।
आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ॥ ५.४३ ॥

ब्रह्मसौम्यस्तथादित्यो बार्हस्पत्योऽथ वैष्णवः।
सावित्रोऽथ तथा त्वाष्ट्रो वायव्यश्चेति सङ्ग्रहः ॥ ५.४४ ॥

एकरात्रिमुहूर्त्ताः स्युः क्रमोक्ता दश पञ्च च।
इन्दोर्गत्युदया ज्ञेया नालिकाः पादिकास्तथा।
कालावस्थास्विगास्त्वेते मुहूर्ता देवताः स्मृताः ॥ ५.४५ ॥

सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च।
दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् ॥ ५.४६ ॥

स्थानं जारद्गवं मध्ये तथैरावतमुत्तरम्।
वैश्वानरं दक्षिमतो निर्द्दिष्टमिह तत्त्वतः ॥ ५.४७ ॥

अश्विनी कृत्तिका याम्या नागवीथिरिति स्मृता ।
पुष्योऽश्लेषा पुनर्वसू वीथिरैरावती मता।
तिस्रस्तु वीथयो ह्येता उत्तरे मार्ग उच्यते ॥ ५.४८ ॥

पूर्वोत्तरे फाल्गुन्यौ च मघा चैवार्यमी स्मृता ।
हस्तचित्रे तथा स्वाती गोवीथीत्यभिशब्धिता ॥ ५.४९ ॥

ज्येष्ठा विशाखानुराधा वीथी जारद्गवी स्मृता।
एतास्तु वीथयस्तिस्रो मध्यमे मार्ग उच्यते ॥ ५.५० ॥

मूलञ्चाषाढे द्वे चापि अजवीथ्यभिशब्दिता ।
श्रवणञ्च धनिष्ठा च गार्गी शतभिषक्तथा ॥ ५.५१ ॥

वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता।
स्मृता वीथ्यस्तु तिस्रस्ता मार्गे वै दक्षिणे बुधैः ॥ ५.५२ ॥

सप्तविंशत्तु याः कन्या दक्षः सोमाय ता ददौ।
सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे चैव कीर्त्तिताः।
तासामपत्यान्यभवन् दीप्तान्यमिततेजसा ॥ ५.५३ ॥

यास्तु शेषास्तदा कन्याः प्रतिजग्राह कश्यपः।
चतुर्दश महाभागाः सर्वास्ता लोकमातरः ॥ ५.५४ ॥

अदितिर्दितिर्दनुः काला अरिष्टा सुरसा तथा।
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा।
कद्रुर्मुनिश्च धर्मज्ञः प्रजास्तासां निबोधत ॥ ५.५५ ॥

चारिष्णवेऽन्तरेऽतीते ये द्वादश पुरोगमाः।
वैकुण्ठानाम ते सात्र्या बभूवुश्चाक्षुषेऽन्तरे ॥ ५.५६ ॥

उपस्थितेऽन्तरे ह्यस्मिन् पुनर्वैवस्वतस्य ह।
आराधिता ह्यदित्या ते समेत्याहुः परस्परम् ॥ ५.५७ ॥

एतामेव महाभागामदितिं सम्प्रविश्य वै।
वैवस्वतेऽन्तरे ह्यस्मिन् योगादर्द्धेन चेतसः ॥ ५.५८ ॥

गच्छामः पुत्रतामस्यास्तन्नः श्रेयो भविष्यति।
अदित्यास्तु प्रसूतानामादित्यत्वं भविष्यति ॥ ५.५९ ॥

एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः।
जज्ञिरे द्वादशादित्या मारीचात् कश्यपात्पुनः ॥ ५.६०।
शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि ।
वैवस्वतेऽन्तरे ह्यस्मिन् नरनारायणौ सुरौ ॥ ५.६१ ॥

तेषामपि हि देवानां निधनोत्पत्तिरुच्यते।
यथा सूर्यस्य लोकेऽस्मिन् उदयास्तमयावुभौ।
प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः ॥ ५.६२ ॥

श्रेष्ठानुश्रविके यस्माच्छक्ताः शब्दादिलक्षणे।
अष्टात्मकेऽणिमाद्ये च तस्मात्ते चज्ञिरे सुराः ॥ ५.६३ ॥

इत्येष विष्ये रागः सम्भूत्याः कारणं स्मृतम्।
ब्रह्मशापेन सम्भूता जयाः स्वायम्भुवे जिताः ॥ ५.६४ ॥

स्वारोचिषे वै तुषिताः सत्याश्चैवोत्तमे पुनः।
तामसे हरयो देवा जाताश्चारिष्णवे तु वै।
वैकुण्ठाश्चाक्षुषे साध्या आदित्याः साम्प्रते पुनः ॥ ५.६५ ॥

धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा।
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ॥ ५.६६ ॥

ततस्त्वष्टा ततो विष्णुरजघन्योऽजघन्यजः।
इत्येते द्वादशादित्याः कश्यपस्य सुताः स्मृताः ॥ ५.६७ ॥

सुरभी कश्यपाद्रुद्रानेकादश विजज्ञिरे।
महादेवप्रसादेन तपसा भाविता सती ॥ ५.६८ ॥

मूलम्

सुरभी कश्यपाद्रुद्रानेकादश विजज्ञिरे।
महादेवप्रसादेन तपसा भाविता सती ॥ ५.६८ ॥

विश्वास-प्रस्तुतिः

अङ्गारकं तथा सर्पं निऋतिं सदसस्पतिम्।
अजैकपादहिर्बुघ्न्यमूर्ध्वकेतुं ज्वरं तथा ॥ ५.६९ ॥

भुवनञ्चेश्वरं मृत्युं कपालञ्चैव विश्रुतम्।
देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान्।
तपसा तेन महता सुरभी तानजीजनत् ॥ ५.७० ॥

ततो दुहितरावन्ये सुरभी द्वे व्यजायत।
रोहिणी चैव रुद्राभा गान्धारी च यशस्विनी ॥ ५.७१ ॥

रोहिण्यां जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः।
सुरूपा हंसकीला च भद्रा कामदुघा तथा।
सुषुवे कामदुघा तु सुरूपा तनयद्वयम् ॥ ५.७२ ॥

हंसकीला नृप मृषीन् भद्रायास्तु व्यजायत।
विश्रुतास्तु महाभागा गन्धर्वा वाजिनः सुताः ॥ ५.७३ ॥

उच्चैःश्रवास्तदा जाताः खेचरास्ते मनोजवाः।
श्वेताः श्येनाः पिशङ्गाश्च सारङ्गा हरितार्जुनाः।
रुद्रा देवोपबाह्यास्ते गन्धर्वयोनयो हयाः ॥ ५.७४ ॥

भूयो जज्ञे सुरभ्यास्तु श्रीमान् चन्द्राभसुप्रभः।
स्रग्वी ककुझी द्युतिमानमृतालयसम्भवः।
सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः ॥ ५.७५ ॥

इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः।
धर्मपुत्राः स्मृताः साध्या विश्वे च वसवस्तथा ॥ ५.७६ ॥

अरिष्टनेमिपत्नीनामपत्यानीह षोडश।
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः।
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥ ५.७७ ॥

कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ।
एते युगसहस्रान्ते जायन्ते पुनरेव हि ॥ ५.७८ ॥

सर्वे देवगणा विप्रास्त्रय स्त्रिंशत्तु छन्दजाः।
एतेषामपि देवानां निरोधोत्पत्तिरुच्यते ॥ ५.७९ ॥

मूलम्

सर्वे देवगणा विप्रास्त्रय स्त्रिंशत्तु छन्दजाः।
एतेषामपि देवानां निरोधोत्पत्तिरुच्यते ॥ ५.७९ ॥

विश्वास-प्रस्तुतिः

यथा सूर्यस्य लोकेऽस्मिन् उदयास्तमयावुभौ।
एते देवनिकायास्ते सम्भवन्ति युगे युगे ॥ ५.८० ॥

॥ऋषय ऊचुः॥

विश्वास-प्रस्तुतिः

साध्याश्च वसवो विश्वे रुद्रादित्यास्तथैव च।
अभिजात्या प्रभावैश्च कर्मभिश्चैव विश्रुताः ॥ ५.८१ ॥

प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः।
अन्तरं ज्ञातुमिच्छामो यश्च यस्माद्विशिष्यते ॥ ५.८२ ॥

यश्च यस्मात् प्रभवति यश्च यस्मिन् प्रतिष्ठितः।
ज्यायान्यो मध्यमश्चैव कनीयान् यश्च तेषु वै ॥ ५.८३ ॥

प्रधानभूतो यस्तेषां गुणभूतश्च तेषु यः।
कर्मभिश्चाभिजात्या च प्रभावेण च यो महान्।
एतत् प्रभ्रूहि नः सर्वं त्वं हि वेत्थ यथायथम् ॥ ५.८४ ॥

अत्र वो वर्णयिष्येहमन्तरन्तेषु यत् स्मृतम्।
यद्ब्रह्मविष्णुरुद्राणां श्रृणुध्वं मे विवक्षतः ॥ ५.८५ ॥

राजसी तामसी चैव सात्त्विकी चैव ताः स्मृताः ।
तन्वः स्वयम्भुवः प्रोक्ताः काले काले भवन्ति याः ॥ ५.८६ ॥

एतासामन्तरं वक्तुं नैव शक्यं द्विजोत्तमाः।
गुणवृद्धिनिबन्धत्वाद् द्विधानुग्रहबन्धतः ॥ ५.८७ ॥

प्रवृत्तिञ्च निवृत्तिञ्च गुणवृद्धिमिह द्विजाः।
यथाशक्ति प्रवक्ष्यामि तनूनां तन्निबोधत ॥ ५.८८ ॥

एका तु कुरुते तासां राजसी सर्वतः प्रजाः।
एका चैवार्णवस्था तु सानुगृह्णाति सात्त्विकी।
एका सा क्षिपते काले तामसी ग्रसते प्रजाः ॥ ५.८९ ॥

रजसा तु समुद्रिक्तो ब्रह्मा सम्भवते यदा।
पुरुषाख्या तदा तस्य सात्त्विकी विनिवर्त्तते ॥ ५.९० ॥

यदा भवति कालात्मा उद्रेकात्तमसस्तु सः।
ब्रह्माख्या सा तदा त्वस्य राजसी विनिवर्त्तते ॥ ५.९१ ॥

सत्त्वोद्रेकात्तु पुरुषो यदा भवति स प्रभुः।
कालाख्या सा तदा तस्य पुनर्नभवतीति वै ॥ ५.९२ ॥

क्रमात्तस्य निवर्त्तन्ते रूपं नाम च कर्म च।
त्रैलोक्ये वर्त्तमानस्य सर्वानुग्रहनिग्रहैः ॥ ५.९३ ॥

यदा भवति ब्रह्मा च तदा चान्तरमुच्यते।
यदा च पुरुषो ब्रह्मा न चैव पुरुषस्तु सः ॥ ५.९४ ॥

मणिर्विभजते वर्णान् विचित्रान् स्फटिके यथा।
वैमल्यादाश्रयवशात्तद्वर्णः स्यात्तदञ्जनः ॥ ५.९५ ॥

तदा गुणवशात्तस्य स्वयम्भोरनुरञ्जनम्।
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्घनम् ॥ ५.९६ ॥

एको भूत्वा यथा मेघः पृथक्त्वेनावतिष्ठते।
रूपतो वर्णतश्चैव तथा गुणवशात्तु सः ॥ ५.९७ ॥

भवत्येको द्विधा चैव त्रिधा मूर्तिविनाशनात्।
एको ब्रह्मान्तकृच्चैव पुरुषश्चेति ते त्रयः ॥ ५.९८ ॥

एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयम्भुवः।
ब्राह्मी च पौरुषी चैव अन्तकारी च ते त्रयः ॥ ५.९९ ॥

तत्र या राजसी तस्य तनुः सा वै प्रजाकरी।
या तामसी तु कालाख्या प्रजाक्षयकरी तु सा।
सात्त्विकी पौरुषी या तु सानुग्रहकरी स्मृता ॥ ५.१०० ॥

राजस्या ब्रह्मणोंऽशेन मरीचिः कश्यपोऽभवत्।
तामसी चान्तकृद्या तु तदंशेनाभवद्भवः ॥ ५.१०१ ॥

सात्त्विकी पौरुषी या सा तस्याः शोचिष्णुरुच्यते।
त्रैलोक्ये ताः स्मृतास्तिस्रस्तनवस्तु स्वयम्भुवः ॥ ५.१०२ ॥

नानाप्रयोजनार्थां हि कालोऽवस्थां करोति यः।
ब्रह्मत्वेन प्रजाः सृष्ठ्वा विष्णुत्वेनानुगृह्य च।
वैष्णव्यानुगृहीता स्ता रौद्यानुग्रसते पुनः ॥ ५.१०३ ॥

एकः स्वयम्भुवः कालस्त्रिभिस्त्रीन् वै करोति सः।
सृजते चानुगृह्णाति प्रजाः संहरते तथा ॥ ५.१०४ ॥

इत्येताः कथिता स्तिस्रस्तनवस्तु स्वयम्भुवः।
प्रजापत्या च रौद्री च वैष्णवी चैव ताः स्मृताः ॥ ५.१०५ ॥

एका तनुः स्मृता वेदे धर्मशास्त्रे पुरातने।
साङ्ख्ययोगपरे वीरैः पृथक्त्वैकत्वदर्शिभिः।
अभिजातप्रभावज्ञैऋषिभिस्तत्त्वदर्शिभिः ॥ ५.१०६ ॥

एकत्वे च पृथक्त्वे च तासु भिन्नाः प्रजास्त्विह ।
इदं परमिदं नेति ब्रुवतो भिन्नदर्शनाः ॥ ५.१०७ ॥

ब्रह्माणं कारणं केचित् केचित् प्राहुः प्रजापतिम्।
केचिच्छिवं परत्वेन प्राहुर्विष्णुं तथाऽपरे।
अविज्ञानेन संसक्ताः सक्ता रत्यादिचेतसा ॥ ५.१०८ ॥

तत्त्वं कालञ्च देशञ्च कार्याण्यावेक्ष्य तत्त्वतः।
कारणञ्च स्मृता ह्येता नानार्थेष्विह देवताः ॥ ५.१०९ ॥

एकं निन्दति यस्तेषां सर्वानेन स निन्दति।
एकं प्रशसमानस्तु सर्वानेव प्रशंसति।
एकं यो वेत्ति पुरुषं तमाहुर्ब्रह्मवादिनम् ॥ ५.११० ॥

अद्वेषस्तु सदा कार्यो देवतासु विजानता।
न शक्यमीश्वरं ज्ञातुमैश्वर्येण व्यवस्थितम् ॥ ५.१११ ॥

एकात्मा स त्रिधा भूत्वा सम्मोहयति यः प्रजाः।
एतेषाञ्च त्रयाणान्तु विचरन्त्यन्तरं जनाः ॥ ५.११२ ॥

जिज्ञासन्तः परीक्षन्तः सक्ता रूपाविचेतसः।
इदं परमिदं नेति वदन्ति भिन्नदर्शिनः ॥ ५.११३ ॥

यातुधानान् विशन्त्येताः पिशाचांश्चैव तान्नरान् ।
एकत्वेन पृथक्त्वेन स्वयम्भूर्व्यवतिष्ठते ॥ ५.११४ ॥

गुणमात्रात्मिकाभिस्तु तनुभिर्मोहयन् प्रजाः।
तेष्वेकं यजते यस्तु स तदा यजते त्रयम् ॥ ५.११५ ॥

तस्माद्देवास्त्रयो ह्येते नैरन्तर्ये व्यवस्थिताः।
तस्मात् पृथक्त्वमेकत्वसङ्ख्या सङ्ख्यागतागतम्।
एकत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति ॥ ५.११६ ॥

यस्मात् सृष्ट्वानुगृह्णीते ग्रसते चैव ते प्रजाः ।
गुणात्मकत्वात्र्त्रैकाल्ये तस्मादेकः स उच्यते ॥ ५.११७ ॥

रुद्रं ब्रह्‌माणमिन्द्रञ्च लोक पालान् ऋषीन् दनून्।
देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः ॥ ५.११८ ॥

प्राजापत्या तनुर्या च तनुर्या चैव वैष्णवी।
मन्वन्तरे च कल्पे च आवर्त्तन्ते पुनः पुनः ॥ ५.११९ ॥

तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च ।
जायन्ते तत्समाश्चैव तानपीह निबोधत ॥ ५.१२० ॥

राजस्या ब्राह्मणोंऽशेन मरीचिः कश्यपोऽभवत्।
तामस्यास्तस्य चांशेन कालात्मा रुद्र उच्यते ।
सात्त्विक्याः पुरुषांशेन यज्ञे विष्णुरभूत्तदा ॥ ५.१२१ ॥

त्रिषु कालेषु तस्यैता ब्रह्मणस्तनवोंऽशजाः।
कालो भूत्वा पुनश्चासौ रुद्रः संहरते प्रजाः ॥ ५.१२२ ॥

सम्प्राप्ते चैव कल्पान्ते सप्तरश्मिर्द्दिवाकरः।
भूत्वा संवर्त्तकादित्यो लोकांस्त्रीन् स तदादहत् ॥ ५.१२३ ॥

विष्णुः प्रजानुगृह्णाति नामरुपविपर्यये ।
तस्यान्तस्यामवस्थायां तत्तदुत्पत्तिकारणम् ॥ ५.१२४ ॥

सत्त्वोद्रिक्ता तु या प्रोक्ता ब्रह्मणः पौरुषी तनुः।
तस्यांशेन विजज्ञे स इह स्वायम्भुवेऽन्तरे।
आकूत्यां मनसो देव उत्पन्नः प्रथमे विभुः ।. ५.१२५ ॥

विश्वास-प्रस्तुतिः

ततः पुनः स वै देवो प्राप्ते स्वारोचिषेऽन्तरे।
तुषितायां समुत्पन्नो ह्यतीतस्तुषितैः सह ॥ ५.१२६ ॥

औत्तमे चान्तरे चैव तुषितस्तु विदुः स वै।
वशवर्त्तिभिरुत्पन्नो वशवर्त्ती हरिः पुनः ॥ ५.१२७ ॥

सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः।
तामसस्यान्तरे चापि सम्प्राप्ते पुनरेव हि।
भार्यायां हरिभिः सार्द्धं हरिरेव बभूव ह ॥ ५.१२८ ॥

चारिष्णवेऽन्तरे चापि हरिर्दवः पुनस्तु सः।
वैकुण्ठायामसौ जज्ञे ह्याभूतरजसैः सह।
वैकुण्ठः स पुनर्द्देवः सम्प्राप्ते चाक्षुषेऽन्तरे ॥ ५.१२९ ॥

धर्मो नारायणः साध्यः साध्यैः सह सुरैरभूत् ।
स तु नारायणः साध्यः प्राप्ते वैवस्वतेऽन्तरे ॥ ५.१३० ॥

मारीचात् कश्यपाद्विष्णुरदित्यां सम्बमूव ह।
त्रिस्त्रिः क्रमैरिमान् लोकान् जित्वा विष्णुरुरुक्रमम् ॥ ५.१३१ ॥

प्रत्यपादयदिन्द्राय देवेभ्यश्चैव स प्रभुः।
इत्येतासतनवस्तस्य व्यतीताः सप्त सप्तसु।
मन्वन्तरेष्वतीतेषु याभिः संरक्षिताः प्रजाः ॥ ५.१३२ ॥

तस्माद्विष्टमिदं सर्वं वामनेनेह जायता।
तस्मात्स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात् ॥ ५.१३३ ॥

इत्येते ब्रह्मणश्चैव वामनस्य महात्मनः।
एकत्वञ्च पृथक्त्वञ्च विशिष्टत्वञ्च कीर्त्तितम् ॥ ५.१३४ ॥

देवतानामिहांशेन जायन्ते यास्तु देवताः।
तासान्तास्तेजसा बुद्ध्या श्रुतेन च बलेन च।
जायन्ते तत्समाश्चैव ता वै तेषामनुग्रहात् ॥ ५.१३५ ॥

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।
तत्तदेवावगच्छघ्वं विष्णोस्तेजोंऽशसम्भवम् ॥ ५.१३६ ॥

स एवं जायतेंऽशेन केचिदिच्छन्ति मानवाः।
ततोऽपरे ब्रुवन्तीममन्योन्यांशेन जायते ॥ ५.१३७ ॥

एवं विवदमानास्ते दृष्ट्वा तान्वै ब्रुवन्ति ह।
यस्मान्न विद्यते भेदो मनसश्चेतसश्च ह।
तस्मादनुग्रहास्तेषां क्षेत्रज्ञास्ते भवन्त्युत ॥ ५.१३८ ॥

एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः।
भूत्वा यस्माच्च बहुधा भवन्येकः पुनस्तु सः ॥ ५.१३९ ॥

तस्मात्सुमनसो भेदाज्जायन्ते तेजसश्च ह।
मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः।
सर्गादौ सकृदुत्पन्नास्तिष्ठन्तीह प्रशंसया ॥ ५.१४० ॥

प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः।
जायन्ते मोहयन्तोऽन्यानीश्वरा योगमायया ॥ ५.१४१ ॥

ऐश्वर्येण चरन्तस्ते मोहयन्ति ह्यनीश्वराः।
तस्माद्दोषप्रचारेषु युक्तायुक्तं न विद्यते ॥ ५.१४२ ॥

भूतापवादिनो दुष्टा मध्यस्था भूतभाविनः।
भूतापवादिनः शक्तास्त्रयो वेदाः प्रवादिनाम् ॥ ५.१४३ ॥

दृढपूर्वश्रुतत्वाच्च प्रवादाच्चैव लौकिकात्।
चतुर्भिः कारणैरेभिर्यथातत्त्वं न विन्दति ॥ ५.१४४ ॥

पूर्वमर्थान्तरे न्यस्ताः कालान्तरगता अपि।
तेनान्यत् सन्तमप्यर्थं द्वेषान्न प्रतिपद्यते ॥ ५.१४५ ॥

दर्शानां द्रव्यभूतो यो गुणभूतस्तु तेषु यः।
कर्मणां मनसां कर्त्ता अभिजात्या च यो महान्।
श्रुतज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्त्यते ॥ ५.१४६ ॥

अशक्तरुष्टो जानाति देवताः प्रविभागशः।
इमौ चोदाहरन्त्यत्र श्लोकौ योगेश्वरं प्रति ॥ ५.१४७ ॥

आत्मनः प्रतिरूपाणि परेषाञ्च सहस्रशः।
कुर्याद्योगबलम्प्राप्य तैश्च सर्वैः सहाचरेत् ॥ ५.१४८ ॥

प्राप्नुयाद्विषयाश्चैव तथैवोग्रतपश्चरन् ।
संहरेच्च पुनः सर्वान् सूर्यतेजो गुणानिव ॥ ५.१४९ ॥

इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नाम पञ्चमोऽध्यायः ॥ ५ ॥ *