॥ऋषय ऊचुः ॥
विश्वास-प्रस्तुतिः
श्रुत्वा पादं द्वितीयन्तु क्रान्तं सूतेन धीमता।
अतस्तृतीयं पप्रच्छ पादं वै शांशपायनः ॥ ४.१ ॥
मूलम्

पाद क्रान्तो द्वितीयोऽयमनु षङ्गेण यस्त्वया।
तृतीयं विस्तरात्पादं सोपोद्वातं प्रकीर्त्तय।
एवमुक्तोऽब्रवीत्सूतः प्रहृष्टेनान्तरात्मना ॥ ४.२ ॥

कीर्त्तयिष्ये तृतीयञ्च सोपोद्वातं सविस्तरम्।
पादं समुदयाद्विप्रा गदतो मे निबोधत ॥ ४.३ ॥

मनोर्वैवस्वतस्येमं साम्प्रतस्य महात्मनः।
विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ॥ ४.४ ॥

चतुर्युगैकसप्तत्या सङ्ख्यातः पूर्वमेव तु।
सह देवगणैश्चैव ऋषिभिर्दानवैः सह ॥ ४.५ ॥

पितृगन्धर्वयक्षैश्च रक्षोभूतगणैस्तथा।
मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह ॥ ४.६ ॥

मन्वादिकं भविष्यान्तमाख्यानैर्बहुविस्तरम् ।
वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते ॥ ४.७ ॥

आद्ये मन्वन्तरेऽतीताः सर्गाः प्रावर्त्तकाश्च ये।
स्वायम्भुवेऽन्तरे पूर्वं सप्तासन् ये महर्षयः।
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ॥ ४.८ ॥

दक्षस्य च ऋषीणाञ्च भृग्वादीनां महौजसाम्।
शापान्महेश्वरस्यासीत् प्रादुर्भावो महात्मनाम् ॥ ४.९ ॥

भूयः सप्तर्षयस्ते च उत्पन्नाः सप्त मानसाः।
पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयम्भुवा ॥ ४.१० ॥

प्रजासन्तानकृद्भिस्तैरुत्पद्यद्भिर्महात्मभिः।
पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् ॥ ४.११ ॥

तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम्।
समासव्यासयोगाभ्यां यथावदनुपूर्वशः ॥ ४.१२ ॥

येषामन्वयसम्भूतैर्लोकोऽयं सचराचरः।
पुनः स पूरितः सर्गो ग्रह नक्षत्रमण्डितः ॥ ४.१३ ॥

एतच्छ्रुत्वा वचस्तस्य मुनीनां संशयोऽभवत् ।
ततस्तं संशयाविष्टाः सूतं संशयनिश्चये।
सत्कृत्य परिपप्रच्छुर्मुनयः शंसितव्रताः ॥ ४.१४ ॥

कथं सप्तर्षयः पूर्वमुत्पन्नाः सप्त मानसाः।
पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम।
ततोऽब्रवीन्महातेजाः सूत पौराणिकः शुभम् ॥ ४.१५ ॥

कथं सप्तर्षयः सिद्धा ये वै स्वायम्भुवेऽन्तरे।
मन्वन्तरं समासाद्य पुनर्वैवस्वतं किल ॥ ४.१६ ॥

भवाभिशापात्संविद्धा ह्यप्राप्तास्ते तदा तपः।
उपपन्ना जने लोके सकृदागामिनस्तु ते ॥ ४.१७ ॥

ऊचुः सर्वे ततोऽन्योन्यं जनलोके महर्षयः।
ऊचुरेव महाभागा वारुणे वितते क्रतौ ॥ ४.१८ ॥

सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः।
पितामहात्मजाः सर्वे ततः श्रेयो भविष्यति ॥ ४.१९ ॥

स्वायम्भुवेऽन्तरे शप्ताः सप्तार्थं ते भवेन तु।
जज्ञिरे वै पुनस्ते ह जनलोकाद्दिवं गता ॥ ४.२० ॥

देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम्।
ब्रह्मणो जुह्वतः शुक्रमग्नौ पूर्वं प्रजेप्सया।
ऋषयो जज्ञिरे पूर्वं द्वितीयमिति नः श्रुतम् ॥ ४.२१ ॥

भृगुरङ्गिरा मरीचिः पुलस्त्यः पुलहः क्रतुः।
अत्रिश्चैव वसिष्ठश्च अष्टौ ते ब्रह्मणः सुताः ॥ ४.२२ ॥

तथास्य वितते यज्ञे देवाः सर्वे समागताः।
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥ ४.२३ ॥

मूर्त्तिमन्ति च सामानि यजूंषि च सहस्रशः।
ऋग्वेद श्चाभवत्तत्र पदक्रमविभूषितः ॥ ४.२४ ॥

यजुर्वेदश्च वृत्ताढ्य ओङ्कारवदनोज्ज्वलः।
स्थितो यज्ञार्थसम्पृक्तसूक्तब्राह्मणमन्त्रवान् ॥ ४.२५ ॥

सामवेदश्च वृत्ताढ्यः सर्वगेयपुरःसरः।
विश्वावस्वादिभिः सार्द्धं गन्धर्वैः सम्भृतोऽभवत् ॥ ४.२६ ॥

ब्रह्म वेदस्तथा घोरैः कृत्याविधिभिरन्वितः।
प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरोऽभवत् ॥ ४.२७ ॥

लक्षणानि स्वराः स्तोभा निरुक्तस्वरभक्तयः।
आश्रयस्तु वषट्कारो निग्रहप्रग्रहावपि ॥ ४.२८ ॥

दीप्ता दीप्तिरिलादेवी दिशः प्रदिशगीश्वराः ।
देवकन्याश्च पत्न्यश्च तथा मातर एव च ॥ ४.२९ ॥

आयुः सर्वत एवैते देवस्य यजतो मुखे।
मूर्त्तिमन्तः स्वरूपाख्या वरुणस्य वपुर्भृतः ॥ ४.३० ॥

स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि।
ब्रह्मर्षेर्भावभूतस्य विधानाच्च न संशयः ॥ ४.३१ ॥

कृत्वा जुहाव स्रुग्भ्याञ्च स्रुवेण परिगृह्य च।
आज्यवज्जुहुवाञ्जक्रे मन्त्रवच्च पितामहः ॥ ४.३२ ॥

ततः स जनयामास भूतग्रामं प्रजापतिः।
तस्यार्वाक् तेजसस्तस्य यज्ञे लोकेषु तैजसम्।
तमसाभावव्याप्यत्वं तथा सत्त्वं तथा रजः ॥ ४.३३ ॥

सगुणात्तेजसो नित्यमाकाशे तमसि स्थितम्।
तमसस्तेजसत्वाच्च सर्वभूतानि जज्ञिरे ॥ ४.३४ ॥

यदा तस्मिन्नजायन्त काले पुत्रास्तु कर्मजाः।
आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह ॥ ४.३५ ॥

शुक्रे हुतेऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः।
ज्वलन्तो वपुषा युक्ताः सप्त वै प्रसवैर्गुणैः ॥ ४.३६ ॥

हुते चाग्नौ सकृच्छुक्रे ज्वालाया निःसृतः कविः।
हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिःसृतम्।
भृगुस्त्वमिति होवाच यस्मात्तस्मात्स वै भृगुः ॥ ४.३७ ॥

महादेवस्तथोद्भूतं दृष्ट्वा ब्राह्मणमब्रवीत्।
ममैष पुत्रकामस्य दीक्षितस्य त्वयं प्रभो।
विजज्ञेऽथ भृगुर्द्देवो मम पुत्रो भवत्वयम् ॥ ४.३८ ॥

तथोति समनुज्ञातो महादेवः स्वयम्भुवा।
पुत्रत्वे कल्पयामास महादेवस्तथा भृगुम्।
वारुणा भृगवस्तस्मात्तदपत्यञ्च स प्रभुः ॥ ४.३९ ॥

द्वितीयन्तु ततः शुक्रमङ्गारेष्वपतत्प्रभुः।
अङ्गारेष्वङ्गिरोऽङ्गानि संहितानि ततोऽङ्गिराः ॥ ४.४० ॥

सम्भूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत्।
रेतोधास्तुभ्यमेवाहं द्वितीयोऽयं ममास्त्विति ॥ ४.४१ ॥

एवमस्त्विति सोऽप्युक्तो ब्रह्मणा सदसस्पतिः।
तस्मादङ्गिरसश्चापि आग्नेया इति नः श्रुतम् ॥ ४.४२ ॥

षट्कृत्यस्तु पुनः शुक्रे ब्रह्मणा लोककारिणा।
हुते समभवंस्तत्र षड्ब्रह्माण इति श्रुतिः ॥ ४.४३ ॥

मरीचिः प्रथमस्तत्र मरीचिभ्यः समुत्थितः।
क्रतौ तस्मिन् सुतो जज्ञे यतस्तस्मात्स वै क्रतुः ॥ ४.४४ ॥

अहं तृतीय इत्यर्थस्तस्मादत्रिः स कीर्त्त्यते।
केशैश्च निशितैर्भूतः पुलस्त्यस्तेन स स्मृतः ॥ ४.४५ ॥

केशैर्लम्बैः समुद्भूतस्तस्मात्तु पुलहः स्मृतः ।
वसुमध्यात्समुत्पन्नो वसुमान् वसुधाश्रयः ॥ ४.४६ ॥

वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते व्रह्मवादिभिः ।
इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः ॥ ४.४७ ॥

लोकस्य सन्तानकरास्तैरिमा वर्द्धिताः प्रजाः।
प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणः सुताः ॥ ४.४८ ॥

अपरे पितरो नाम एतैरेव महर्षिभिः।
उत्पादिता ऋषिगणाः सप्त लोकेषु विश्रुताः ॥ ४.४९ ॥

मारीचा भार्गवाश्चैव तथैवाङ्गिरसोऽपरे।
पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः।
आत्रेयाश्च गणाः प्रोक्ताः पितॄणां लोकविश्रुताः ॥ ४.५० ॥

एते समासतस्तात पुरैव तु गुणास्त्रयः।
अपूर्वश्च प्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः ॥ ४.५१ ॥

तेषां राजा यमो देवो यमैर्विहितकल्मषाः।
अपरे प्रजानां पतयस्ताञ्छृणुध्वमतन्द्रिताः ॥ ४.५२ ॥

कर्द्दमः कश्यपः शेषो विक्रान्तः सुश्रुवास्तथा।
बहुपुत्रः कुमारश्च विवस्वान् स शुचिश्रवाः ॥ ४.५३ ॥

प्रचेतसोऽरिष्टनेमिर्बहुलस्व प्रजापतिः।
इत्येवमादयोऽन्येऽपि बहवश्च प्रजेश्वराः ॥ ४.५४ ॥

कुशोच्चया वालखिल्याः सम्भूताः परमर्षयः।
मनोजवाः सर्वगताः सार्वभौमाश्च तेऽभवन् ॥ ४.५५ ॥

जाता भस्मव्यपोहिन्यां ब्रह्मर्षिगणसम्मताः।
वैखानसा मुनिगणास्तपःश्रुतपरायणाः ॥ ४.५६ ॥

ज्येष्ठाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे।
ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः ॥ ४.५८ ॥

दारुणा हि रुते मासा निर्यासाः पक्षसन्धयः।
वत्सरा ये त्वहोरात्राः पित्रं ज्योतिश्च दारुणम् ॥ ४.५९ ॥

रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम्।
तन्मैत्रमिति विज्ञेयं धूमश्च पशवः स्मृताः ॥ ४.६० ॥

येऽर्च्चिषस्तस्य ते रुद्रास्तथादित्याः समुद्भवाः।
अङ्गारेभ्यः समुत्पन्ना ज्योतिषो दिव्यमानुषाः ॥ ४.६१ ॥

आदिमानस्य लोकस्य ब्रह्मा ब्रह्मसमुद्भवः।
सर्वकामदमित्याहुस्तत्र कन्यामुदाहरन् ॥ ४.६२ ॥

ब्रह्मा सुरगुरुस्तत्र त्रिदशैः सम्प्रसीदति।
इमे वै जनयिष्यन्ति प्रजाः सर्वाः प्रजेश्वराः ॥ ४.६३ ॥

स्वे प्रजानां पतयः सर्वे चापि तपस्विनः।
तत्प्रसादादिमाल्ँलोकान्धारयेयुरिमाः क्रियाः ॥ ४.६४ ॥

द्वन्द्वं संवर्द्धयामास तव तेजोविवर्द्धनम्।
देवेषु वेदविद्वांसः सर्वे राजर्षयस्तथा ॥ ४.६५ ॥

वेदमन्त्र पराः सर्वे प्रजापतिगुणोद्भवाः।
अनन्तं ब्रह्म सत्यञ्च तपश्च परमं भुवि ॥ ४.६६ ॥

सर्वे हि वयमेते च तवैव प्रसवः प्रभो।
ब्रह्म च ब्राह्मणाश्चैव लोकाश्चैव चराचराः ॥ ४.६७ ॥

मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह।
अपत्यानीह सञ्चिन्त्य तेऽपत्यङ्कामयामहे ॥ ४.६८ ॥

तस्मिन् यज्ञे महाभागा देवाश्च ऋषिभिः सह।
एतद्वंशसमुद्भूताः स्थानकालाभिमानिनः ॥ ४.६९ ॥

न च तेनैव रूपेण स्थापयेयुरिमाः प्रजाः।
युगादिनिधनाच्चैव स्थापयेयुरिमाः प्रजाः ॥ ४.७० ॥

ततोऽब्रवील्लोकगुरुः परमित्यविचारयन् ।
एवं देवा विनिश्चित्य मया सृष्टा न संशयः।
भवतां वंशसम्भूताः पुनरेते महर्षयः ॥ ४.७१ ॥

तेषां भृघोः कीर्तयिष्ये वंशं पूर्वमहात्मनः।
विस्तरेणानुपूर्व्या च प्रथमस्य प्रजापतेः ॥ ४.७२ ॥

भार्या भृगोरप्रतिमे उत्तमेऽभिजने शुभे।
हिरण्यकशिपोः कन्या दिव्या नाम परिश्रुता।
पुलोम्नश्चापि पौलोमी दुहिता वर वर्णिनी ॥ ४.७३ ॥

भृगोस्त्वजनयद्दिव्या काव्यं वेदविदां वरम्।
देवासुराणामाचार्यं शुक्रङ्कविसुतं ग्रहम् ॥ ४.७४ ॥

स शुक्रश्चोशना ख्यातः स्मृतः काव्योऽपि नामतः।
पितॄणां मानसी कन्या सोमपानां यशस्विनी।
शुक्रस्य भार्याङ्गी नाम विजज्ञे चतुरः सुतान् ॥ ४.७५ ॥

ब्राह्मेण तेजसा युक्तः स चातो ब्रह्मवित्तमः।
तस्यामेव तु चत्वारः पुत्राः शुक्रस्य जज्ञिरे ॥ ४.७६ ॥

त्वष्टा वरूत्री द्वावेतौ शण्डामर्कौ च तावुभौ।
ते तदादित्यसङ्काशा ब्रह्म कल्पाः प्रभावतः ॥ ४.७७ ॥

रञ्जनः पृथुरश्मिश्च विद्वान्यश्च बृहद्गिराः।
वरूत्रिणः सुता ह्येते ब्रह्मिष्ठाः सुरयाजकाः ॥ ४.७८ ॥

इज्याधर्मविनाशार्थं मनुमेत्याभ्ययोजयन्।
निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमब्रवीत् ॥ ४.७९ ॥

एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम्।
श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद् देशादपाक्रमन् ॥ ४.८० ॥

तिरोभूतेषु तेष्मिन्द्रो धर्मपत्नीञ्च चेतनाम्।
ग्रहेण मोचयित्वा तु ततः सोऽनुससार ताम् ॥ ४.८१ ॥

तत इन्द्रविनाशाय यत मानान् यतींस्तु तान् ।
तत्रागतान् पुनर्दृष्ट्वा दुष्टानिन्द्रः प्रहन्यतु।
सुष्वाप देवदेवस्य वेद्यां वै दक्षिणे ततः ॥ ४.८२ ॥

तेषान्तु भक्ष्यमाणानां तत्र शालावृकैः सह।
शीर्षाणि न्यपतंस्तानि खर्जूराण्यभवंस्ततः ॥ ४.८३ ॥

एवं वरूत्रिणः पुत्रा इन्द्रेण निहताः पुरा।
यजन्यां देवयानी च शुक्रस्य दुहिताऽभवत् ॥ ४.८४ ॥

त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रोऽभवन्महान्।
विश्वरूपानुजश्चापि विश्वकर्मा यमः स्मृतः ॥ ४.८५ ॥

भृगोस्तु भृगवो देवा जज्ञिरे द्वादशात्मजाः।
देव्यां तान्सुषुवे सर्वान्काव्यश्चैवात्मजान्प्रभुः ॥ ४.८६ ॥

भुवनो भावनश्चैव अन्यश्चान्यायतस्तथा।
क्रतुःश्रवाश्च मूर्द्धा च व्यजयो व्यश्रुषश्च यः।
प्रसव श्चाप्यजश्चैव द्वादशोऽधिपतिः स्मृतः ॥ ४.८७ ॥

इत्येते भृगवो देवाः स्मृता द्वादश याज्ञिकाः ।
पौलोम्यजनयत्पुत्रं ब्रह्मिष्ठं वशिनं विभुम् ॥ ४.८८ ॥

व्याधितः सोऽष्टमे मासि गर्भक्रूरेण कर्मणा।
च्यवनाच्च्यवनासोऽथ चेतनस्तु प्रचेतसः।
प्राचेतसाच्च्यवनक्रोधादध्वानं पुरुषादजः ॥ ४.८९ ॥

जनयामास पुत्रौ द्वौ सुकन्यायाञ्च भार्गवः।
आत्मवानं दधीचञ्च तावुभौ साधुसम्मतौ ॥ ४.९० ॥

सारस्वतः सरस्वत्यां दधीचाच्चोपपद्यते।
रुची पत्नी महाभागा आत्मवानस्य नाहुषी ॥ ४.९१ ॥

तस्य ऊर्वोऋषिर्जज्ञे ऊरू भित्त्वा महायशाः ।
और्वश्चासीदृचीकस्तु दीप्ताग्निसदृशप्रभः ॥ ४.९२ ॥

जमदग्निऋचीकस्य सत्यवत्यां व्यजायत।
भृगोश्च रुचिपर्याये रौद्रवैष्णवयोस्तथा ॥ ४.९३ ॥

जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत।
रेणुका जमदग्नेस्तु शक्रतुल्यपराक्रमम्।
ब्रह्मक्षत्रमयं रामं सुषुवेऽमिततेजसम् ॥ ४.९४ ॥

और्वस्यासीत्पुत्रशतं जमदग्निपुरागेमम् ।
तेषां पुत्रसहस्राणि भार्गवाणां परस्परात् ॥ ४.९५ ॥

ऋष्यन्तरेषु वै बाह्या बहवो भार्गवाः स्मृताः ।
वत्सो विश्वोऽश्विषेणश्च पाण्डः पथ्यः सशौनकः।
गोत्रेण सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः ॥ ४.९६ ॥

श्रृणुताङ्गिरसो वंशमग्नेः पुत्रस्य धीमतः।
यस्यान्ववाये सम्भूता भारद्वाजाः सगौतमाः।
देवाश्चाङ्गिरसो मुख्यास्त्विषुमन्तो महौजसः ॥ ४.९७ ॥

सुरूपा चैव मारीची कार्द्दमी च तथा स्वराट्।
पथ्या च मानवी कन्या तिस्रो भार्यास्त्वथर्वणः।
इत्येताङ्गिरसः पत्न्यस्तासु वक्ष्यामि सन्ततिम् ॥ ४.९८ ॥

अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः।
उत्पन्ना महता चैव तपसा भावितात्मनाम् ॥ ४.९९ ॥

बृहस्पतिः सुरूपायां गौतमः सुषुवे स्वराट्।
अवन्ध्यं वामदेवञ्च उतथ्यमुशिजन्तथा ॥ ४.१०० ॥

धिष्णुः पुत्रस्तु पथ्यायां संवर्तश्चैव मानसः।
विचित्तश्च तथायस्यः शरद्वांश्चाप्युतथ्यजः ॥ ४.१०१ ॥

रथकाराः स्मृता देवा ऋषयो ये परिश्रुताः।
बृहस्पतेर्भरद्वाजो विश्रुतः सुमहायशाः ॥ ४.१०३ ॥

अङ्गिरसस्तु संवर्त्तो देवानङ्गिरसः श्रृणु।
बृहस्पतेर्यवीयांसो देवा ह्यङ्गिरसः स्मृताः ॥ ४.१०४ ॥

औरसाङ्गिरसः पुत्राः सुरूपायां विजज्ञिरे।
औदार्यायुर्दनुर्दक्षो दर्भः प्राणस्तथैव च।
हविष्मांश्च हविष्णुश्च क्रतुः सत्यश्च ते दश ॥ ४.१०५ ॥

अयस्यस्तु उतथ्यश्च वामदेवस्तथोशिजः।
भारद्वाजाः शाङ्कृतिका गार्ग्यकाण्वरथीतराः ॥ ४.१०६ ॥

मुद्गला विष्णुवृद्धाश्च हरिता वायवस्तथा।
तथा भाक्षा भरद्वाजा आर्षभाः किम्भयास्तथा ॥ ४.१०७ ॥

एते ह्यङ्गिरसः पक्षा विज्ञेया दश पञ्च च।
ऋष्यन्तरेषु वै बाह्या बहवोऽङ्गिरसः स्मृताः ॥ ४.१०८ ॥

मारीचं परिवक्ष्यामि वंशमुत्तमपूरुषम्।
यस्यान्ववाये सम्भूतं जगत्स्थावरजङ्गमम् ॥ ४.१०९ ॥

मरीचिरापश्चकमे ताभिध्यायन्प्रजेप्सया।
पुत्रः सर्वगुणोपेतः प्रजावान् सुरुचिर्दितिः।
सम्पूज्यते प्रशस्तायां मनसा भाविता प्रभुः ॥ ४.११० ॥

आहूताश्च ततः सर्वा आपः समवसत्प्रभुः।
तासु प्रणिहितात्मानमेकः सोऽजनयत्प्रभुः ॥ ४.१११ ॥

पुत्रमप्रतिमन्नाम्नारिष्टनेमिः प्रजापतिः।
पुत्रं मरीचं सूर्याभं वधौवेशो व्यजीजनत् ॥ ४.११२ ॥

प्रध्यायन् हि सतां वाचं पुत्रार्थी सलिले स्थितः।
सप्तवर्षसहस्राणि ततः सोऽप्रतिमोऽभवत् ॥ ४.११३ ॥

कश्यपः सवितुर्विद्वांस्तेन स ब्रह्मणः समः ।
मन्वन्तरेषु सर्वेषु ब्राह्मणांशेन जायते ॥ ४.११४ ॥

कन्यानिमितमित्युक्ते दक्षेण कुपिताः प्रजाः ।
अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते ॥ ४.११५ ॥

हाश्चेकसा हि विज्ञेया ब्रह्मणः कश्य उच्यते।
कश्यं मद्यं स्मृतं विप्रैः कश्यपानात्तु कश्यपः ॥ ४.११६ ॥

करोति नाम यद्वाचो वाचं क्रूरमुदाहृतम्।
दक्षाभिशप्तः कुपितः कश्यपस्तेन सोऽभवत् ॥ ४.११७ ॥

तस्माच्च कश्यपेनोक्तो ब्रह्मणा परमेष्ठिना।
तस्माद्दक्षः कश्यपाय कन्यास्ताः प्रत्यपद्यत।
सर्वाश्च ब्रह्मवादिन्यः सर्वास्ता लोकमातरः ॥ ४.११८ ॥

इत्येतमृषिसर्गन्तु पुण्यं यो वेद वारुणम्।
आयुष्मान् पुण्यवान् शुद्धः सुखमाप्नोत्यनुत्तमम्।
धारणात् श्रवणाच्चैव सर्वपापैः प्रमुच्यते ॥ ४.११९ ॥

अथाब्रुवन् पुनः सर्वे मुनयो रोमहर्षणम्।
विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्य ह ।
निसर्गः सम्प्रवृत्तोऽयं मनोर्वैव स्वतस्य ह ॥ ४.१२० ॥

प्रजाः सृजेति व्यादिष्टः स्वयं दक्षः स्वयम्भुवा।
ससर्ज दक्षो भूतानि गतिमन्ति ध्रुवाणि च ।
उपस्थितेऽन्तरे ह्यस्मिन् मनोर्वैवस्वतस्य ह ॥ ४.१२१ ॥

ततः प्रवृत्तो दक्षस्तुप्रजाः स्रष्टुञ्चतुर्विधाः।
जरायुजा अण्डजाश्च उद्भिज्जाः स्वेदजास्तथा ॥ ४.१२२ ॥

दशवर्ष सहस्राणि तप्त्वा घोरं महत्तपः।
सम्भावितो योगबलैरणिमाद्यैर्विशेषतः ॥ ४.१२३ ॥

आत्मानं व्यभजन् श्रीमान् मनुष्योरगराक्षसान्।
देवासुरसगन्धर्वान् दिव्यसंहननप्रजान् ।
ईश्वरानात्मनस्तुल्यान् रूपद्रविणतेजसा ॥ ४.१२४ ॥

तथैवान्यानि मुदितो गतिमन्ति ध्रुवाणि च।
मानसान्येव भूतानि सिसृक्षुर्विविधाः प्रजाः ॥ ४.१२५ ॥

ऋषीन् देवान् सगन्धर्वान् मनुष्योरगराक्षसान्।
यक्षभूतपिशाचांश्च वयःपशुमृगांस्तथा ॥ ४.१२६ ॥

यदास्य मनसा सृष्टा न व्यवर्द्धन्त ताः प्रजाः।
अपध्याता भगवता महादेवेन धीमता ॥ ४.१२७ ॥

मैथुनेन च भावेन सिसृक्षुर्विविधाः प्रजाः।
असिक्रीं चावहत् पत्नीं वीरणस्य प्रजापतेः ॥ ४.१२८ ॥

सुतां सुमहता युक्तां तपसा लोकधारिणीम्।
यया धृतमिदं सर्वं जगत् स्थावरजङ्गमम् ॥ ४.१२९ ॥

अत्राप्युदा हरन्तीमौ श्लोकौ प्राचेतसं प्रति।
दक्षस्योद्वहतो भार्यामसिक्नीं वीरिणीं पराम् ॥ ४.१३० ॥

कूपानां नियुतं दक्षः सर्पिणां साभिमानिनाम्।
नदीगिरिषु सर्ज्जंस्ताः पृष्ठतोऽनुययौ प्रभुः ॥ ४.१३१ ॥

तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यति वै प्रजाः।
प्रथमात्र द्वितीया तु दक्षस्येह प्रजापतेः ॥ ४.१३२ ॥

तथागच्छद्यथाकालं कूपानां नियुते तु सः।
असिक्नीं वैरिणीं यत्र दक्षः प्राचेतसोऽवहत् ॥ ४.१३३ ॥

अथ पुत्रसहस्रं स वैरिण्याममितौजसा।
असिवन्यां जनयामास दक्षः प्राचेतसः प्रभुः ॥ ४.१३४ ॥

देवर्षिः प्रियसंवादो नारदो ब्रह्मणः सुतः।
नाशाय वचनं तेषां शापायैवात्मनोऽब्रवीत् ॥ ४.१३५ ॥

यः स वै प्रोच्यतेविप्रः कश्यपस्येति कृत्रिमः।
दक्षशापभयाद्भीतो ब्रह्मार्षिस्तेन कर्मणा ॥ ४.१३६ ॥

यः कश्यपसुतस्याथ परमेष्ठी व्यजायत।
मानसः कश्यपस्येह दक्षशापभयात् पुनः ॥ ४.१३७ ॥

तस्मात् स कश्यपस्याथ द्वितीयं मानसोऽभवत्।
स हि पूर्वसमुत्पन्नो नारदः परमेष्ठिनः ॥ ४.१३८ ॥

येन दक्षस्य पुत्रास्ते हर्यश्वा इति विश्रुताः ।
निन्दार्थं नाशिताः सर्वे विनष्टाश्च न संशयः ॥ ४.१३९ ॥

तस्योद्यतस्तदा दक्षः क्रुद्धो नाशाय वै प्रभुः ।
ब्रह्मर्षीन् वै पुरस्कृत्य याचितः परमेष्ठिना ॥ ४.१४० ॥

ततोऽभिसन्धितं चक्रे दक्षस्तु परमेष्ठिना।
कन्यायां नारदो मह्यं तव पुत्रो भवत्विति ॥ ४.१४१ ॥

ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने ।
तस्मात् स नारदो जज्ञे भूयः शान्तो भयादृषिः ॥ ४.१४२ ॥

तदुपश्रुत्य विप्रास्ते जातकौतूहलाः पुनः ।
अपृच्छन् वदतां श्रेष्ठं सूतं तत्त्वार्थदर्शिनम् ॥ ४.१४३ ॥

कथं विनाशिताः पुत्रा नारदेन महात्मना।
प्रजापतिसुतास्ते वै प्रजाः प्राचेतसात्मजाः ॥ ४.१४४ ॥

स तथ्यं वचनं श्रुत्वा जिज्ञासासम्भवं शुभम् ।
प्रोवाच मधुरं वाक्यं तेषां सर्वगुणान्वितम् ॥ ४.१४५ ॥

दक्षपुत्राश्च हर्यश्वा विवर्द्धयिषवः प्रजाः।
समागता महावीर्या नारदस्तानुवाच ह ॥ ४.१४६ ॥

बालिशा बल यूयं वै न प्रजानीथ भूतलम्।
अन्तमूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ ४.१४७ ॥

किं प्रमाणन्तु मेदिन्याः स्रष्टव्यानि तथैव च।
अविज्ञायेह स्रष्टव्यमन्यथा किं नु स्रक्ष्यथ।
अल्पं वापि बहुर्वापि तत्र दोषस्तु दृश्यते ॥ ४.१४८ ॥

ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्।
वायुन्तु समनुप्राप्य गतास्ते वै पराभवम् ॥ ४.१४९ ॥

अद्यापि न निवर्त्तन्ते भ्रमन्तो वायुमिश्रिताः ।
एवं वायुपथं प्राप्य भ्रमन्ते ते महर्षयः ॥ ४.१५० ॥

स्वेषु पुत्रेषु नष्टेषु दक्षः प्राचेतसः पुनः।
वैरिम्यामेव पुत्राणां सहस्रमसृजत् प्रभुः ॥ ४.१५१ ॥

प्रजा विवर्द्धयिषवः शबलाश्वाः पुनस्तु ते।
पूर्वमुक्तं वचस्तत्र श्राविता नारदेन ह ॥ ४.१५२ ॥

तच्छ्रत्वा वचनं सर्वे कुमारास्ते महौजसः।
अन्योऽन्यमूचुस्ते सर्वे सम्यगाह महानृषिः।
भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ ४.१५३ ॥

ज्ञात्वा प्रमाणं पृत्व्याश्च सुखं स्रक्ष्यामहे प्रजाः।
तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम्।
अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः ॥ ४.१५४ ॥

ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः।
प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ ४.१५५ ॥

नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽभवद्विभुः।
नारदं नाशमेहीति गर्भवासं वसेति च ॥ ४.१५६ ॥

तथा तेष्वपि नष्टेषु महात्मसु पुरा किल।
षष्टिकन्याऽसृजद्दक्षो वैरिण्यामेव विश्रुताः ॥ ४.१५७ ॥

तास्तदा प्रतिजग्राह पत्न्यर्थे कश्यपः प्रभुः।
धर्मः सोमस्तु भगवांस्तथैवान्ये महर्षयः ॥ ४.१५८ ॥

इमा विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः।
आयुष्मान् कीर्त्तिमान् धन्यः प्रजानांश्च भवत्युत ॥ ४.१५९ ॥