००३

सूत उवाच॥

विश्वास-प्रस्तुतिः

सप्तमे त्वथ पर्याये मनोर्वैवस्वतस्य ह।
मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः ॥ ३.१ ॥

मूलम्

आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः।
भृगवोऽङ्गिरसश्चैव ह्यष्टौ देवगणाः स्मृताः ॥ ३.२ ॥

आदित्या मरुतो रुद्रा विज्ञेयाः कश्यपात्मजाः।
साध्याश्च वसवो विश्वे धर्मपुत्रास्त्रयो गणाः ॥ ३.३ ॥

भृगोस्तु भार्गवो देवो ह्यङ्गिरोऽङ्गिरसः सुतः ।
वैवस्वतेऽन्तेरे ह्यस्मिन् नित्यं ते छन्दजाः सुराः ॥ ३.४ ॥

एष सर्गस्तु मारीचो विज्ञेयः साम्प्रतः शुभः।
तेजस्वी साम्प्रतस्तेषामिन्द्रो नाम्ना महाबलः ॥ ३.५ ॥

अतीतानागता ये च वर्त्तन्ते ये च साम्प्रतम्।
सर्वे मन्वन्तरेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ॥ ३.६ ॥

भूतभव्यभवन्नाथः सहस्राक्षः पुरन्दरः ।
मघवन्तश्च ते सर्वे श्रृङ्गिणो वज्रपाणयः।
सर्वैः क्रतुशतेनेष्टं पृथक् शतगुणेन तु ॥ ३.७ ॥

त्रैलोक्ये यानि सत्त्वानि गतिमन्त्यबलानि च।
अभिभूयावतिष्ठन्ते धर्माद्यैः कारणैरपि ॥ ३.८ ॥

तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः।
भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः।
एतत्सर्वं प्रवक्ष्यामि ब्रुवतो मेनिबोधत ॥ ३.९ ॥

भूतं भव्यं भविष्यं तत् स्मृतं लोकत्रयं द्विजैः।
भूर्लोकोऽयं स्मृतो भूमिरन्तरिक्षं भुवं स्मृतम् ।
भव्यं स्मृतं दिवं ह्येतत्तेषां वक्ष्यामि साधनम् ॥ ३.१० ॥

ध्यायता पुत्रकामेन ब्रह्मणाग्रे विभाषितम्।
भूरिति व्याहृतं पूर्वं भूर्लोकोऽयमभूत्तदा ॥ ३.११ ॥

भूतेऽस्मिन् भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः।
भवत्वाद्दर्शनत्वाच्च भूर्लोकोऽयमभूत्ततः।
अतोऽयं प्रथमो लोको भूतत्वाद्भूर्द्विजैः स्मृतः ॥ ३.१२ ॥

भवत्युत्पद्यमानेन कालशब्दोऽयमुच्यते ॥ ३.१३ ॥

भवनात्तु भुवर्लोको निरुक्तज्ञैर्निरुच्यते।
अन्तरिक्षं भुवस्तस्माद् द्वितीयो लोक उच्यते ॥ ३.१४ ॥

उत्पन्ने तु भुवर्लोके तृतीयं ब्रह्मणा पुनः ।
भव्येति व्याहृतं यस्माद्भव्यो लोकस्तदाऽभवत् ॥ ३.१५ ॥

अनागते भव्य इति शब्द एष विभाव्यते।
तस्माद्भव्यो ह्यसौ लोको नामतस्तु दिवं स्मृतम् ॥ ३.१६ ॥

स्वरित्युक्तं तृतीयोऽन्यो भाव्यो लोकस्तदाभवत्।
भाव्य इत्येष धातुर्वै भाव्ये काले विभाव्यते ॥ ३.१७ ॥

भूरितीयं स्मृता भूमिरन्तरिक्षं भुवं स्मृतम्।
दिवं स्मृतं तथा भाव्यं त्रैलोक्यस्यैष सङ्ग्रहः ॥ ३.१८ ॥

त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृतयोऽभवन्।
नाथ इत्येष धातुर्वै धातुज्ञैः पालने स्मृतः ॥ ३.१९ ॥

यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तदा।
लोकत्रयस्य नाथास्ते तस्मादिन्द्रा द्विजैः स्मृताः ॥ ३.२० ॥

प्रधानभूता देवेन्द्रा गुण भूतास्तथैव च।
मन्वन्तरेषु ये देवा यज्ञभाजो भवन्ति हि ॥ ३.२१ ॥

यक्षगन्धर्वरक्षांसि पिशाचोरगदानवाः।
महिमानः स्मृता ह्येते देवन्द्राणान्तु सर्वशः ॥ ३.२२ ॥

देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते ।
रक्षन्तीमाः प्रजाः सर्वा धर्मेणेह सुरोत्तमाः ॥ ३.२३ ॥

इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासतः।
सप्तर्षीन् सम्प्रवक्ष्यामि साम्प्रतं ये दिवि स्थिताः ॥ ३.२४ ॥

गाधिजः कौशिको धीमान् विश्वामित्रो महातपाः।
भार्गवो जमदग्निश्च ऊरुपुत्रः प्रतापवान् ॥ ३.२५ ॥

बृहस्पतिसुतश्चापि भारद्वाजो महातपाः।
औतथ्यो गौतमो विद्वाञ्छरद्वान्नाम धार्मिकः ॥ ३.२६ ॥

स्वायम्भुवोऽत्रिर्भगवान् ब्रह्मको शस्तु पञ्चमः।
षष्ठो वासिष्ठपुत्रस्तु वसुमान् लोकविश्रुतः ॥ ३.२७ ॥

वत्सारः काश्यपश्चैव सप्तैते साधुसम्मताः।
एते सप्तर्षयः सिद्धा वर्त्तन्ते साम्प्रतेऽन्तरे ॥ ३.२८ ॥

इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च।
नरिष्यन्तश्च विख्यातो नाभ उद्दिष्ट एव च ॥ ३.२९ ॥

करुषश्च पृषध्रश्च वसुमान्नवमः स्मृतः।
मनोर्वैवस्तस्यैते नव पुत्राः प्रकीर्त्तिताः ।
कीर्त्तिता वै मया ह्येते सप्तमञ्चैतदन्तरम् ॥ ३.३० ॥

इत्येष वै मया पादो द्वितीयः कथितो द्विजाः।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ ३.३१ ॥

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतसर्गवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥ इत्युपोद्वातपादः ॥*॥