००२

॥सूत उवाच ॥

विश्वास-प्रस्तुतिः

आसीदियं समुद्रान्ता मेदिनीति परिश्रुता।
वसु धारयते यस्माद्वसुधा तेन चोच्यते ॥ २.१ ॥

मूलम्

मधुकैटभयोः पूर्वं मेदसा सम्परिप्लुता।
ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ॥ २.२ ॥

इयञ्चासीत् समुद्रान्ता मेदिनीति परिश्रुता।
दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ॥ २.३ ॥

प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा।
सस्याकरवती राज्ञा पत्तनाकरमालिनी।
चातुर्वर्ण्यसमाकीर्णा रक्षिता तेन धीमता ॥ २.४ ॥

एवम्प्रभावो राजासीद्वैन्यः स नृपसत्तमः।
नमस्यश्चैव पूज्यश्च भूतग्रामेण सर्वशः ॥ २.५ ॥

ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः।
पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ २.६ ॥

पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः।
आदिराजा न मस्कार्यः पृथुर्वैन्यः प्रतापवान् ॥ २.७ ॥

योधैरपि च सङ्ग्रामे प्रार्थयानैर्जयं युधि।
आदिकर्त्ता नराणां वै नमस्यः पृथुरेव हि ॥ २.८ ॥

यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम्।
स घोररूपे सङ्ग्रामे क्षेमी तरति कीर्तिमान् ॥ २.९ ॥

वैश्यैरपि च राजर्षिर्वैश्यवृत्तिसमास्थितैः।
पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ २.१० ॥

एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च।
पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ॥ २.११ ॥

ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना।
वायुं कृत्वा तदा वत्सं बीजानि वसुधातले ॥ २.१२ ॥

ततः स्वायम्भुवे पूर्वन्तदा मन्वन्तरे पुनः।
वत्सं स्वायम्भुवं कृत्वा दुग्धा ग्रीष्मेण वै मही ॥ २.१३ ॥ *

मनौ स्वारोचिषे दुग्धा मही चैत्रेण धीमता।
मनुं स्वारोचिषं कृत्वा वत्सं सस्यानि वै पुरा ॥ २.१४ ॥

उत्तमेऽनुत्तमेनापि दुग्धा देवभुजेन तु ।
मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ॥ २.१५ ॥

पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः।
दुग्धेयं तामसं वत्सं कृत्वा तु बलबन्धुना ॥ २.१६ ॥

चारिष्णवस्य देवस्य सम्प्राप्ते चान्तरे मनोः।
दुग्धा मही पुराणेन वत्सञ्चारिष्णवं प्रति ॥ २..१७ ॥

चाक्षुषेऽपि च सम्प्राप्ते तदा मन्वन्तरे पुनः।
दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ॥ २.१८ ॥

चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ।
वैन्येनेयं मही दुग्धा यथा ते कीर्तितं मया ॥ २.१९ ॥

एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै।
देवादिभिर्मनुष्यैश्च तथा भूतादिभिश्च या ॥ २.२० ॥

एवं सर्वेषु विज्ञेया ह्यतीतानागतेष्विह।
देवा मन्वन्तरेष्वस्य पृथोस्तु श्रृणुत प्रजाः ॥ २.२१ ॥

पृथोस्तु पुत्रौ विक्रान्तौ जज्ञातेऽन्तर्द्धिपालिनौ।
शिखण्डिनी हविर्द्धानमन्तर्द्धानाद्व्यजायत ॥ २.२२ ॥

हविर्द्धानात्षडाग्नेयी धिषणाऽजनयत्सुतान्।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ॥ २.२३ ॥

प्राचीनबर्हिर्भगवान् महानासीत् प्रजापतिः।
बलुश्रुततपोवीर्यैः पृथिव्यामेकराढसौ।
प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीन बर्ह्यसौ ॥ २.२४ ॥

समुद्रतनयायान्तु कृतदारः स वै प्रभुः।
महतस्तमसः पारे सवर्णायां प्रजापतेः।
सवर्णाऽऽधत्त सामुद्री दश प्राचीन बर्हिषः ॥ २.२५ ॥

सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः।
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ २.२६ ॥

मूलम्

सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः।
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ २.२६ ॥

विश्वास-प्रस्तुतिः

तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः।
अरक्ष्यमाणामाववृर्बभूवाथ प्रजाक्षयः ॥ २.२७ ॥

प्रत्याहते तदा तस्मिंश्चाक्षुषस्यान्तरे मनोः ।
नाशकन् मारुतो वातुं वृतं खमभवद्द्रुमैः।
दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २.२८ ॥

तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः।
मुखेभ्यो वायुमग्निञ्च ससृजुर्ज्जातमन्यवः ॥ २.२९ ॥

उन्मूलानथ तान् वृक्षान् कृत्वा वायुरशोषयत्।
तानग्निरदहद्वोर एवमासीद् द्रुमक्षयः ॥ २.३० ॥

द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छेषेषु शाखिषु।
उपगम्याब्रवीदेतान् राजा सोमः प्रचेतसः ॥ २.३१ ॥

दृष्ट्वा प्रयोजनं सर्वं लोकसन्तानकारणात्।
कोपन्त्यजत राजानः सर्वं प्राचीनबर्हिषः ॥ २.३२ ॥

वृक्षाः क्षित्यां जनिष्यन्ति शाम्येतामग्निमारुतौ।
रत्नभूता तु कन्येयं वृक्षाणां वरवर्णिनी ॥ २.३३ ॥

भविष्यं जानता ह्येषा मया गोभिर्विवर्द्धिता।
मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता।
भार्या भवतु वो ह्येषा सोमगर्भविवर्द्धिता ॥ २.३४ ॥

युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः।
अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥ २.३५ ॥

स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै।
अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥ २.३६ ॥

ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ २.३७ ॥

मारिषायां ततस्ते वै मनसा गर्भमादधुः।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ॥ २.३८ ॥

दक्षो जज्ञे महातेजाः सोमस्यांशेन वीर्यवान् ।
असृजन्मानसानादौ प्रजा दक्षोऽथ मैथुनात् ॥ २.३९ ॥

अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदान्।
विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः ॥ २.४० ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ २.४१ ॥

एभ्यो दत्त्वा ततोऽन्या वै चतस्रोऽरिष्टनेमिने ।
द्वे चैव बाहुपुत्राय द्वे चैवाङ्गिरसे तथा।
कन्यामेकां कृशाश्वाय तेभ्योऽपत्यं निबोधत ॥ २.४२ ॥

अन्तरं चाक्षुषस्यात्र मनोः षष्ठन्तु हीयते।
मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः ॥ २.४३ ॥

तासु देवाः खगा गावो नागा दितिजदानवाः।
गन्धर्वोप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥ २.४४ ॥

ततः प्रभृति लोकेऽस्मिन् प्रजा मैथुनसम्भवाः।
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥ २.४५ ॥

॥ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः

देवानां दानवानाञ्च देवर्षीणाञ्च ते शुभः।
सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः ॥ २.४६ ॥

प्राणात्प्रजापतेर्जन्म दक्षस्य कथितं त्वया।
कथं प्रचेतसत्वञ्च पुनर्लेभे महातपाः ॥ २.४७ ॥

एतन्नः संशयं सूत व्याख्यातुं त्वमिहार्हसि।
स दौहित्रश्च सोमस्य कथं श्वशुरताङ्गतः ॥ २.४८ ॥

॥सूत उवाच॥
विश्वास-प्रस्तुतिः

उत्पत्तिश्च निरोधश्च नित्यं भूतेषु सत्तमाः।
ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये नराः ॥ २.४९ ॥

युगे युगे भवन्त्येते सर्वे दक्षादयो द्विजाः ।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ २.५० ॥

ज्यैष्‌ठ्यं कानिष्ठ्यमप्येषां पूर्वं नासीद् द्विजोत्तमाः।
तप एव गरीयोऽभूत् प्रभावश्चैव कारणम् ॥ २.५१ ॥

इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम्।
प्रजानामायुरुत्तीर्णः स्वर्गलोके महीयते ॥ २.५२ ॥

एष सर्गः समाख्यातश्चाक्षुषस्य समा सतः।
इत्येते षढविसर्गा हिक्रान्ता मन्वन्तरात्मकाः।
स्वायम्भुवाद्या- सङ्क्षेपाच्चाक्षुषान्ता यथाक्रमम् ॥ २.५३ ॥

एते सर्गा यथाप्रज्ञं प्रोक्ता वै द्विजसत्तमाः।
वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः ॥ २.५४ ॥

अनन्ता नातिरिक्ताश्च सर्वे सर्गा विवस्वतः।
आरोग्यायुष्प्रमाणेन धर्मतः कामतोऽर्थतः।
एतानेव गुणानेति यः पठत्यनसूयकः ॥ २.५५ ॥

वैवस्वतस्य वक्ष्यामि साम्प्रतस्य महात्मनः।
समासाद्व्यासतः सर्गं ब्रुवतो मे निबोधत ॥ २.५६ ॥

इतिश्रीमहापुराणे वायुप्रोक्ते पृथुवंशानुकीर्त्तनं नाम द्वितीयोऽध्यायः ॥ २ ॥