॥ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः
भारद्वाजो याज्ञवल्क्यो गालकिः सालकिस्तथा।
धीमान् शतबलाकश्च नैगमश्च द्विजोत्तमः ॥ ६१.१ ॥
मूलम्

बाष्कलिश्च भरद्वाजस्तिस्रः प्रोवाच संहिताः।
रथीतरो निरुक्तञ्च पुनश्चक्रे चतुर्थकम् ॥ ६१.२ ॥

त्रयस्तस्याभवञ्छिष्या महात्मानो गुणान्विताः।
धीमान्नन्दायनीयश्च पन्नगारिश्च बुद्धिमान्।
तृतीयश्चार्यवस्ते च तपसा शंसितव्रताः ॥ ६१.३ ॥

वीतरागा महातेजाः संहिताज्ञानपारगाः।
इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्त्तिताः ॥ ६१.४ ॥

वैशम्पायनगोत्रोऽसौ यजुर्वेदं व्यकल्पयत्।
षडशीतिश्च तस्यापि संहितानां विकल्पकाः ॥ ६१.५ ॥

शिष्येभ्यः प्रददौ ताश्च जगृहुस्ते विधानतः।
एकस्तत्र परित्यक्तो याज्ञवल्क्यो महातपाः।
षडशीतिश्च तस्यापि संहितानां विकल्पकाः ॥ ६१.६ ॥

सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः।
त्रिधा भेदास्तु ते प्रोक्ता भेदेऽस्मिन्नवमे शुभे ॥ ६१.७ ॥

उदीच्या मध्यदेशाश्च प्राच्याश्चैव पृथग्विधाः।
श्यामायनिरुदीच्यानां प्रधानः सम्बभूव ह ॥ ६१.८ ॥

मध्य देशप्रतिष्ठानामारुणिः प्रथमः स्तुतः।
आलम्बिरादिः प्राच्यानान्त्रयोदश्यादयस्तु ते ॥ ६१.९ ॥

इत्येते चरकाः प्रोक्ताः संहितावादिनो द्विजाः।
ऋषय स्तद्वचः श्रुत्वा सूतं जिज्ञासवोऽब्रुवन् ॥ ६१.१० ॥

चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः।
किञ्चीर्णं कस्य हेतोश्च वाचकत्वञ्च भेजिरे।
इत्युक्तः प्राह तेषां स चरकत्वमभूद्यथा ॥ ६१.११ ॥

॥सूत उवाच ॥
विश्वास-प्रस्तुतिः
कार्यमासीदृषीणाञ्च किञ्चिद्ब्राह्मणसत्तमाः।
मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम् ॥ ६१.१२ ॥

यो नोऽत्र सप्तरात्रेण नागच्छेद् द्विजसत्तमाः।
स कुर्याद्ब्रह्मवध्यां वै समयो नः प्रकीर्तितः ॥ ६१.१३ ॥

ततस्ते सगणाः सर्वे वैशम्पायन वर्जिताः।
प्रययुः सप्तरात्रेण यत्र सन्धिः कृतोऽभवत् ॥ ६१.१४ ॥

ब्राह्मणानान्तु वचनाद्ब्रह्मवध्याञ्चकार सः ।
शिष्यानथ समानीय स वैशण्पायनोऽब्रवीत् ॥ ६१.१५ ॥

ब्रह्मवद्याञ्चरध्वं वै मत्कृते द्विजसत्तमाः।
सर्वे यूयं समागम्य ब्रूत मे तद्धितं वचः ॥ ६१.१६ ॥

॥याज्ञवल्क्य उवाच॥
विश्वास-प्रस्तुतिः
अहमेव चरिष्यामि तिष्ठन्तु मुनयस्त्विमे।
बलञ्चोत्थापयिष्यामि तपसा स्वेन भावितः ॥ ६१.१७ ॥

एवमुक्तस्ततः क्रुद्धो याज्ञवल्क्यमथाब्रवीत् ।
उवाच यत्त्वयाधीतं सर्वं प्रत्यर्पयस्व मे ॥ ६१.१८ ॥

एवमुक्तः स रूपाणि यजूंषि प्रददौ गुरोः।
रुधिरेण तथाक्तानि छर्दित्वा ब्रह्मवित्तमः ॥ ६१.१९ ॥

ततः स ध्यानमास्थाय सूर्यमाराधयद् द्विजाः ।
सूर्यब्रह्म यदुच्छिन्नं खं गत्वा प्रतितिष्ठति ॥ ६१.२० ॥

ततो यानि गतान्यूर्ध्वं यजूंष्यादित्यमण्डलम्।
तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरीतये।
अश्व रूपाय मार्तण्डो याज्ञवल्क्याय धीमते ॥ ६१.२१ ॥

यजूंष्यधीयन्ते यानि ब्राह्मणा येन केन च।
अश्वरूपाय दत्तानि ततस्ते वाजिनोऽभवन् ॥ ६१.२२ ॥

ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः ।
वैशम्पायनशिष्यास्ते चरकाः समुदाहृताः ॥ ६१.२३ ॥

इत्येते चरकाः प्रोक्ता वाजिनस्तान्निबोधत।
याज्ञवल्क्यस्य शिष्यास्ते कण्ववैधेयशालिनः ॥ ६१.२४ ॥

मध्यन्दिनश्च शापेयी विदिग्धश्चाप्य उद्दलः।
ताम्रायणश्च वात्स्यश्च तथा गालवशैशिरी।
आटवी च तथा पर्णी वीरणी सपरायणः ॥ ६१.२५ ॥

इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः।
शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥ ६१.२६ ॥

पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः।
सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्प्रभुः।
सुकर्माणं सुतं सुत्वा पुत्रमध्यापयत्प्रभुः ॥ ६१.२७ ॥

स सहस्रमधीत्याशु सुकर्माप्यथ संहिताः।
प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ॥ ६१.२८ ॥

अनध्यायेष्वधीयानांस्ताञ्जघान शतक्रतुः।
प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारणात् ॥ ६१.२९ ॥

क्रुद्धं दृष्ट्वा ततः शक्रो वरमस्मै ददौ पुनः।
भाविनौ ते महावीर्यौ शिष्यावनलवर्चसौ ॥ ६१.३० ॥

अधीयानौ महाप्राज्ञौ सहस्रं सहितावुभौ।
एतौ सुरौ महाभागौ मा क्रुध्य द्विजसत्तम ॥ ६१.३१ ॥

इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम्।
शान्तक्रोधं द्विजं दृष्ट्वा तत्रैवान्तरधीयत ॥ ६१.३२ ॥

तस्य शिष्यो भवेद्धीमान्पौष्यञ्जी द्विजसत्तमाः।
हिरण्यनाभः कौशिक्यौ द्वितीयोऽभून्नराधिपः ॥ ६१.३३ ॥

अध्यापयत्तु पौष्यञ्जी सहस्रार्द्धन्तु संहिताः।
तेनान्योदीच्यसामान्याः शिष्याः पौष्यञ्जिनः शुभाः ॥ ६१.३४ ॥

शतानि पञ्च कौशिक्यः संहितानाञ्च वीर्यवान्।
शिष्या हिरण्यनाभस्य स्मृतास्ते प्राच्यसामगाः ॥ ६१.३५ ॥

लोकाक्षी कुथुमिश्चैव कुशीती लाङ्गलिस्तथा।
पौष्यञ्जिशिष्याश्चत्वारस्तेषां भेदान्निबोधत ॥ ६१.३६ ॥

राणायनीयः स हि तण्डिपुत्रस्तस्मादन्यो मूलचारी सुविद्वान्।
सकतिपुत्रः सहसात्यपुत्र एतान् भेदान् वित्त लोकाक्षिणस्तु ॥ ६१.३७ ॥

त्रयस्तु कुथुमेः पुत्रा औरसो रसपासरः।
भागवित्तिश्च तेजस्वी त्रिविधाः कौथुमाः स्मृताः ॥ ६१.३८ ॥

शौरिद्युः श्रृङ्गिपुत्रश्चद्वावेतौ चरितव्रतौ।
राणायनीयः सौमित्रिः सामवेदविशारदौ ॥ ६१.३९ ॥

प्रोवाच संहितास्तिस्रः श्रृङ्गिपुत्रो महातपाः।
चैलः प्राचीनयोगश्च सुरालश्च द्विजोत्तमाः ॥ ६१.४० ॥

प्रोवाच संहिताः षट्तु पाराशर्यस्तु कौथुमः।
आसुरायणवैशाख्यौ वेदवृद्धपरायणौ ॥ ६१.४१ ॥

प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः।
कौथुमस्य तु भेदास्ते पाराशर्यस्य षट् स्मृताः।
लाङ्गलिः शालिहोत्रश्च षट् षट् प्रोवाच संहिताः ॥ ६१.४२ ॥

भालुकिः कामहानिश्च जैमिनिर्लोमगायिनः।
कण्डश्च कोलहश्चैव षडेते लाङ्गलाः स्मृताः।
एते लाङ्गलिनः शिष्याः संहिता यैः प्रसाधिताः ॥ ६१.४३ ॥

ततो हिरण्यनाभस्य कृतशिष्यो नृपात्मजः ।
सोऽकरोच्च चतुर्विंशत्संहिता द्विपदां वरः ।
प्रोवाच चैव शिष्येभ्यो येभ्यस्तांश्च निबोधत ॥ ६१.४४ ॥

राडश्च महवीर्यश्च पञ्चमो वाहनस्तथा।
तालकः पाण्डकश्चैष कालिको राजिकस्तथा।
गौतमश्चाजबस्तश्च सोमराजापतत्ततः ॥ ६१.४५ ॥

पृष्ठग्नः परिकृष्टश्च उलूखलक एव च।
यवीयसश्च वैशालो अङ्गुलीयश्च कौशिकः ॥ ६१.४६ ॥

सालिमञ्जरिसत्यश्च कापीयः कानिकश्च यः।
पराशरश्च धर्मात्मा इति क्रान्तास्तु सामगाः ॥ ६१.४७ ॥

सामगानान्तु सर्वेषां श्रेष्ठौ द्वौ तु प्रकीर्त्तितौ।
पौष्यञ्जिश्च कृतिश्चैव संहितानां विकल्पकौ ॥ ६१.४८ ॥

अथर्वाणं द्विधा कृत्वा सुमन्तुरददद् द्विजाः ।
कबन्धाय पुनः कृत्स्रं स च विद्याद्यथाक्रमम् ॥ ६१.४९ ॥

कबन्धस्तु द्विदा कृत्वा पथ्यायैकं पुनर्ददौ।
द्वितीयं वेदस्पर्शाय स चतुर्द्धाकरोत् पुनः ॥ ६१.५० ॥

मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च।
शौकायनिश्च धर्मज्ञश्चतुर्थस्तपनः स्मृतः।?
वेदस्पर्शस्य चत्वारः शिष्यास्त्वेते दृढव्रताः ॥ ६१.५१ ॥
विश्वास-प्रस्तुतिः
पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम्।
जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ॥ ६१.५२ ॥

शौनकस्तु द्विधा कृत्वा ददावेकन्तु बभ्रवे।
द्वितीयां संहितां धीमान्सैन्धवायनसञ्ज्ञिते ॥ ६१.५३ ॥

सैन्धवो मुञ्जकेशाय भिन्ना सा च द्विधा पुनः।
नक्षत्र कल्पो वैतानस्तृतीयः संहितानिधिः।
चतुर्थोऽङ्गिरसः कल्पः शान्तिकल्पश्च पञ्चमः ॥ ६१.५४ ॥

श्रेष्ठस्त्वथर्वणो ह्येते संहितानां विकल्पनाः।
षट्शः कृत्वा मयाप्युक्तं पुराणमृषिसत्तमाः ॥ ६१.५५ ॥

आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः।
भारद्वाजोऽग्निवर्चाश्च वसिष्ठो मित्रयुश्च यः ।
सावर्णिः सोमदत्तिस्तु सुशर्मा शांशपायनः ॥ ६१.५६ ॥

एते शिष्या मम ब्रह्मन् पुराणेषु दृढव्रताः।
त्रिभिस्तिस्रः कृतास्तिस्रः संहिताः पुनरेव हि ॥ ६१.५७ ॥

काश्यपः संहिताकर्त्ता सावर्णिः शांशपायनः।
सामिका च चतुर्थीस्यात्सा चैषा पूर्वसंहिता ॥ ६१.५८ ॥

सर्वास्ता हि चतुष्पादाः सर्वाश्चैकार्थवाचिकाः।
पाठान्तरे पृथग्भूता वेदशाखा यथा तथा।
चतुःसाहस्रिकाः सर्वाः शांशपायनिकामृते ॥ ६१.५९ ॥

लोमहर्षणिका मूलास्ततः काश्यपिकाः पराः।
सावर्णिकास्तृतीयास्ता यजुर्वाक्यार्थपण्डिताः ॥ ६१.६० ॥

शांशपायनिकाश्चान्या नोदनार्थविभूषिताः ।
सहस्राणि ऋचामष्टौ षट्शतानि तथैव च ॥ ६१.६१ ॥

एताः पञचदशान्याश्च दशान्या दशभिस्तथा।
वालखिल्याः समप्रैखाः (षाः) ससावर्णाः प्रकीर्तिताः ॥ ६१.६२ ॥

अष्टौ सामसहस्राणि सामानि च चतुर्द्दश।
आरण्यकं सहोमञ्च एताद्गायन्ति सामगाः ॥ ६१.६३ ॥

द्वादशैव सहस्राणि छन्द आध्वर्यवं स्मृतम्।
यजुषां ब्राह्मणानाञ्च यथा व्यासो व्यकल्पयत् ॥ ६१.६४ ॥

सग्राम्यारण्यकन्तत्स्यात्समन्त्रकरणं तथा।
अतः परं कथानान्तु पूर्वा इति विशेषणम् ॥ ६१.६५ ॥

ग्राम्यारण्यं समन्त्रञ्च ऋग्ब्राह्मणयजुः स्मृतम्।
तथा हारिद्रवीयाणां खिलान्युपखिलानि च।
तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम् ॥ ६१.६६ ॥

द्वे सहस्रे शतन्यूने वेदे वाजसनेयके।
ऋग्गणः परि सङ्ख्यातो ब्राह्मणन्तु चतुर्गुणम् ॥ ६१.६७ ॥

अष्टौ सहस्राणि शतानि चाष्टौ अशीतिरन्यान्यधिकश्च पादः।
एतत्प्रमाणं यजुषामृचाञ्च सशुक्रियं साखिल याज्ञवल्क्यम् ॥ ६१.६८ ॥

तथा चरणविद्यानां प्रमाणं संहितां श्रृणु।
षट्साहस्रमृचामुक्तमृचः षड्विंशतिः पुनः ।
एतावदधिकं तेषां यजुः कामं विवक्षति ॥ ६१.६९ ॥

एकादश सहस्राणि दश चान्या दशोत्तराः ।
ऋचान्दश सहस्राणि अशीतित्रिशतानि च ॥ ६१.७० ॥

सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः।
एतावद्भृगुविस्तारमन्यच्चाथर्विकं बहु ॥ ६१.७१ ॥

ऋचामथर्वणां पञ्च सहस्राणि विनिश्चयः।
सहस्रमन्यद्विज्ञेयमृषिभिर्विंशतिं विना ॥ ६१.७२ ॥

एतदङ्गिरसा प्रोक्तन्तेषामारण्यकं पुनः।
इति सङ्ख्या प्रसङ्ख्याता शाखाभेदास्तथैव च ॥ ६१.७३ ॥

कर्त्तारश्चैव शाखानां भेदे हेतुस्तथैव च।
सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाः स्मृताः ॥ ६१.७४ ॥

प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः।
अनित्यभावाद्देवानां मन्त्रोत्पत्तिः पुनः पुनः ॥ ६१.७५ ॥

मन्वन्तराणां क्रियते सुराणां नामनिश्चयः।
द्वापरेषु पुनर्भेदाः श्रुतानां परिकीर्त्तिताः ॥ ६१.७६ ॥

एवं वेदं तदान्यस्य भगवानृषिसत्तमः।
शिष्येभ्यश्च पुनर्दत्त्वा तपस्तप्तुं गतो वनम्।
तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः ॥ ६१.७७ ॥

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
धर्म शास्त्रं पुराणञ्च विद्यास्त्वेताश्चतुर्दश ॥ ६१.७८ ॥

आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः।
अर्थशास्त्रं चतुर्थन्तु विद्यास्त्वष्टादशैव तु ॥ ६१.७९ ॥

ज्ञेया ब्रह्मर्षयः पूर्वन्तेभ्यो देवर्षयः पुनः।
राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः।
तेभ्य ऋषिप्रकृतयो मुनिभिः संसितव्रतैः ॥ ६१.८० ॥

कश्यपेषु वसिष्ठेषु तथा भृग्वहङगिरोऽत्रिषु।
पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः।
यस्मादृषन्ति ब्रह्माणन्तेन ब्रह्मर्षयः स्मृताः ॥ ६१.८१ ॥

धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च।
प्रत्यूषस्य प्रभासस्य कश्यपस्य तथा पुनः ॥ ६१.८२ ॥

देवर्षयः सुतास्तेषां नामतस्तान्निबोधत।
देवर्षी धर्मपुत्रौ तु नरनारायणानुभौ ॥ ६१.८३ ॥

वालखिल्याः क्रतोः पुत्राः कर्दमः पुलहस्य तु।
कुबेरश्चैव पौलस्त्यः प्रत्यूषस्याचलः स्मृतः ॥ ६१.८४ ॥

पर्वतो नारदश्चैव कश्यपस्यात्मजावुभौ।
ऋषन्ति देवान् तस्मात्ते तस्माद्देवर्षयः स्मृताः ॥ ६१.८५ ॥

मानवे वैषये वंशे ऐलवंशे च ये नृपाः।
ऐला ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते ॥ ६१.८६ ॥

ऋषन्ति रञ्जनाद्यस्मात्प्रजा राजर्षयस्ततः ।
ब्रह्मलोकप्रतिष्ठास्तु स्मृता ब्रह्मर्षयो मताः ॥ ६१.८७ ॥

देवलोकप्रतिष्ठाश्च ज्ञेया देवर्षयः शुभाः।
इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः ॥ ६१.८८ ॥

अभिजात्या च तपसा मन्त्रव्याहरणैस्तथा।
एवं ब्रह्मर्षयः प्रोक्ता दिव्या राजर्षयस्तु ये ॥ ६१.८९ ॥

देवर्षयस्तथान्ये च तेषां वक्ष्यामि लक्षणम्।
भूतभव्यभवज्ञानं सत्याभिव्याहृतं तथा ॥ ६१.९० ॥

सम्बुद्धास्तु स्वयं ये तु सम्बुद्धा ये च वै स्वयम्।
तपसेह प्रसिद्धा ये गर्भेयैश्च प्रणोदितम् ॥ ६१.९१ ॥

मन्त्रव्याहारिणो ये च ऐश्वर्यात्सर्वगाश्च ये।
इत्येते ऋषिबिर्युक्ता देवद्विजनृपास्तु ये ॥ ६१.९२ ॥

एतान् भावानधीयाना ये चैत ऋषयो मताः।
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ॥ ६१.९३ ॥

दीर्घायुषो मन्त्रकृत ईश्वरा दिव्यचक्षुषः।
बुद्धाः प्रत्यक्षधर्माणो गोत्रप्रवर्तकाश्च ये ॥ ६१.९४ ॥

षट्कर्माभिरता नित्यं शालिनो गृहमेधिनः।
तुल्यैर्व्यवहरन्ति स्म अदृष्टैः कर्महेतुभिः ॥ ६१.९५ ॥

अग्राम्यैर्वर्त्तयन्ति स्म रसैश्चैव स्वयङ्कृतैः।
कुटुम्बिन ऋद्विमन्तो बाह्यान्तरनिवासिनः ॥ ६१.९६ ॥

कृतादिषु युगाख्येषु सर्वेष्वेव पुनः पुनः।
वर्णाश्रमव्यवस्थानं क्रियन्ते प्रथमन्तु वै ॥ ६१.९७ ॥

प्राप्तै त्रेतायुगमुखे पुनः सप्तर्षयस्त्विह।
प्रवर्त्तयन्ति ये वर्णा नाश्रमांश्चैव सर्वशः।
तेषामेवान्वये वीरा उत्पद्यन्ते पुनः पुनः ॥ ६१.९८ ॥

जायमाने पिता पुत्रेपुत्रः पितरि चैव हि।
एवं समेत्याविच्छेदाद्वर्त्तयन्त्यायुगक्षयात्।
अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम् ॥ ६१.९९ ॥

अर्यम्णो दक्षिणा ये तु पितृयाणं समाश्रिताः।
दाराग्निहोत्रिणस्ते वै ये प्रजाहेतवः स्मृताः ॥ ६१.१०० ॥

गृहमेधिनाञ्च सङ्ख्येयाः श्मशानान्याश्रयन्ति ते।
अष्टाशीतिसहस्राणि निहिता उत्तरायणे ॥ ६१.१०१ ॥

ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्द्वरेतसः।
मन्त्रब्राह्मणकर्त्तारो जायन्ते ह युगक्षये ॥ ६१.१०२ ॥

एवमावर्त्तमानास्ते द्वापरेषु पुनः पुनः।
कल्पानां भाष्यविद्यानां नानाशास्त्रकृतः क्षये ॥ ६१.१०३ ॥

भविष्ये द्वापरे चैव द्रोणिर्द्वैपायनः पुनः ।
वेदव्यासो ह्यतीतेऽस्मिन् भविता सुमहातपाः ॥ ६१.१०४ ॥

भविष्यन्ति भविष्येषु शाखाप्रणयनानि तु।
तस्मै तद्ब्रह्मणा ब्रह्मतपसा प्राप्तमव्ययम् ॥ ६१.१०५ ॥

तपसा कर्म सम्प्राप्तं कर्मणा हि ततो यशः।
यशसा प्राप्य सत्यं हि सत्येनाप्तो हि चाव्ययः ॥ ६१.१०६ ॥

अव्ययादमृतं शुक्रममृतात् सर्वमेव हि।
ध्रुवमेकाक्षरमिदं स्वात्मन्येव व्यवस्थितम्।
बृहत्त्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते ॥ ६१.१०७ ॥

प्रणवाव स्थितं भूयो भूर्भुवःस्वरिति स्मृतम्।
ऋग्यजुः सामाथर्वरूपिणे ब्रह्मणे नमः ॥ ६१.१०८ ॥

जगतः प्रलयोत्पत्तौ यत्तत्कारणसञ्ज्ञितम्।
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥ ६१.१०९ ॥

अगाधापरमक्षय्यं जगत्सम्मोहनालयम्।
सप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥ ६१.११० ॥

साङ्ख्यज्ञानवतां निष्ठा गतिः सङ्गदमात्मनः।
यत्तदव्यक्तममृतं प्रकृतिब्रह्म शाश्वतम् ॥ ६१.१११ ॥

प्रधानमात्मयोनिश्च गुह्यं सत्त्वञ्च शब्द्यते।
अविभागस्तथा शुक्रमक्षरं बहु वाचकम्।
परमब्रह्मणे तस्मै नित्यमेव नमो नमः ॥ ६१.११२ ॥

कृते पुनः क्रिया नास्ति कुत एवाकृतक्रिया।
सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम् ॥ ६१.११३ ॥

श्रोतव्यं वै श्रुतं वापि तथैवासाधुसाधुता।
ज्ञातव्यञ्चाथ मन्तव्यं स्प्रष्टव्यं भोज्यमेव च।
द्रष्टव्यञ्चाथ श्रोतव्यं ज्ञातव्यं वाथ किञ्चन ॥ ६१.११४ ॥

दर्शितं यदनेनैव ज्ञानं तद्वै सुरर्षिणाम् ।
यद्वै दर्शितवानेष कस्तदन्वेष्टुमर्हति ।
सर्वाणि सर्वान्सर्वांश्च भगवानेव सोऽब्रवीत् ॥ ६१.११५ ॥

यदा यत्क्रियते येन तदा तत्सोऽभिमन्यते।
येनेदं क्रियते पूर्वं तदन्येन विभावितम् ॥ ६१.११६ ॥

यदा तु क्रियते किञ्चित्केनचिद्वाङ्मयं क्वचित्।
तेनैव तत्कृतं पूर्वं कर्त्तॄणां प्रतिभाति वै ॥ ६१.११७ ॥

विरक्तञ्चातिरिक्तञ्च ज्ञानाज्ञाने प्रियाप्रिये।
धर्माधर्मौ सुखं दुःखं मृत्युश्चामृतमेव च।
ऊर्ध्वन्तिर्यगधोभागस्तस्यैवादृष्टकारणम् ॥ ६१.११८ ॥

स्वायम्भुवोऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः।
प्रत्येकविद्यम्भवति त्रेतास्विह पुनः पुनः ॥ ६१.११९ ॥

व्यस्यते ह्येकविद्यन्तद्द्वापरेषु पुनः पुनः ।
ब्रह्मा चैतदुवाचादौ तस्मिन् वैवस्वतेऽन्तरे ॥ ६१.१२० ॥

आवर्त्तमाना ऋषयो युगाख्यासु पुनः पुनः।
कुर्वन्ति संहिता ह्येते जायमानाः परस्परम् ॥ ६१.१२१ ॥

अष्टाशीतिसहस्राणि श्रुतर्षीणां स्मृतानि वै।
ता एव संहिता ह्येते आवर्त्तन्ते पुनः पुनः ॥ ६१.१२२ ॥

श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे।
युगे युगे तु ताः शाखा व्यस्यन्ते तैः पुनः पुनः ॥ ६१.१२३ ॥

द्वापरेष्विव सर्वेषु संहिताश्च श्रुतर्षिभिः।
तेषां गोत्रेष्विमाः शाखा भवन्तीह पुनः पुनः।
ताः शाखास्तत्र कर्त्तारो भवन्तीह युगक्षयात् ॥ ६१.१२४ ॥

एवमेव तु विज्ञेयं व्यतीतानागतेष्विह।
मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ॥ ६१.१२५ ॥

अतीतेषु अतीतानि वर्त्तन्ते साम्प्रतेषु च।
भविष्याणि च यानि स्युर्वर्ण्यन्तेऽनागतेष्वपि ॥ ६१.१२६ ॥

पूर्वेण पश्चिमं ज्ञेयं वर्त्तमानेन चोभयम्।
एतेन क्रमयोगेन मन्वन्तरविनिश्चयः ॥ ६१.१२७ ॥

एवं देवाश्च पितर ऋषयो मनवश्च ये।
मन्त्रैः सहोर्ध्वं गच्छन्ति ह्यावर्त्तन्ते च तैः सह ॥ ६१.१२८ ॥

जनलोकात्सुराः सर्वे पशुकल्पात्पुनः पुनः।
पर्याप्तकाले सम्प्राप्ते सम्भूता नैव नस्य (?) तु ॥ ६१.१२९ ॥

अवश्यम्भाविनार्थेन सम्बध्यन्ते तदा तु ते।
ततस्ते दोषवज्जन्म पश्यन्ते रागपूर्वकम् ॥ ६१.१३० ॥

निवर्त्तते तदा वृत्तिस्तेषामादोषदर्शनात् ।
एवं देव युगानीह दशकृत्वा निवर्त्तते ॥ ६१.१३१ ॥

जनलोकात्तपोलोकं गच्छन्तीहानिवर्त्तनम्।
एवं देवयुगानीह व्यतीतानि सहस्रशः।
निधनं ब्रह्मलोके वै गतानि मुनिभिस्सह ॥ ६१.१३२ ॥

न शक्यमानुपूर्व्येण तेषां वक्तुं सविस्तरान् ।
अनादित्वाच्च कालस्य असङ्ख्यानाच्च सर्वशः।
मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह ॥ ६१.१३३ ॥

पितृभिर्मुनिभिर्देवैः सार्द्धं सप्तार्षिभिश्च वै।
कालेन प्रतिसृष्टानां युगानाञ्च निवर्तनम् ॥ ६१.१३४ ॥

एतेन क्रमयोगेन कल्पमन्वन्तराणि तु।
सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः ॥ ६१.१३५ ॥

मन्वन्तरान्ते संहारः संहारान्ते च सम्भवः।
देवतानामृषीणाञ्च मनोः पितृगणस्य च ॥ ६१.१३६ ॥

न शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि।
विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः।
मन्वन्तरस्य सङ्ख्यां तु मानुषेण निबोधत ॥ ६१.१३७ ॥

देवतानामृषीणाञ्च सङ्ख्यानार्थनिशारदैः।
त्रिंशत्कोट्यस्तु सम्पूर्णाः सङ्ख्याताः सङ्ख्यया द्विजैः ॥ ६१.१३८ ॥

सप्तषष्टिस्तथान्यानि नियुतानि च सङ्ख्यया।
विंशतिश्च सहस्राणि कालोऽयं सोधिकान् विना ॥ ६१.१३९ ॥

मन्वन्तरस्य सङ्ख्यैषा मानुषेण प्रकीर्तिता।
वत्सरेणैव दिव्येन प्रवक्ष्याम्यन्तरम्मनोः ॥ ६१.१४० ॥

अष्टौ शतसहस्राणि दिव्यया सङ्ख्यया स्मृतम्।
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ ६१.१४१ ॥

चतुर्द्दशगुणो ह्येष काल आहूतसम्प्लवः।
पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ॥ ६१.१४२ ॥

तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः।
ब्रह्माणमग्रतः कृत्वा सह देवर्षिदानवैः।
प्रविशन्ति सुरश्रेष्ठं देवदेवं महेश्वरम् ॥ ६१.१४३ ॥

स स्रष्टा सर्वभूतानि कल्पादिषु पुनः पुनः।
इत्येष स्थितिकालो वै मनोर्देवर्षिभिः सह ॥ ६१.१४४ ॥

सर्वमन्वन्तराणां वै प्रतिसन्धिं निबोधत।
युगाख्या या समुद्दिष्टा प्रागेवास्मिन् मया तव ॥ ६१.१४५ ॥

कृतत्रेतादि संयुक्तं चतुर्युगमिति स्मृतम्।
तदेकसप्ततिगुणं परिवृत्तं तु साधिकम्।
मनोरेकमधीकारं प्रोवाच भगवान् प्रभुः ॥ ६१.१४६ ॥

एवं मन्वन्तराणां तु सर्वेषामेव लक्षणम्।
अतीतानागतानां वै वर्त्तमानेन कीर्त्तितम् ॥ ६१.१४७ ॥

इत्येष कीर्त्तितः सर्गा मनोः स्वायम्भुवस्य ह।
प्रति सन्धिन्तु वक्ष्यामि तस्य वै चापरस्य तु ॥ ६१.१४८ ॥

मन्वन्तरं यथा पूर्वमृषिभिर्दैवतैः सह।
अवश्यम्भाविनार्थेन यथा तद्वै निवर्त्तते ॥ ६१.१४९ ॥

अस्मिन् मन्वन्तरे पूर्वं त्रैलोक्यस्येश्वरास्तु ये।
सप्तर्षयश्च देवास्ते पितरो मनवस्तथा।
मन्वन्तरस्य काले तु सम्पूर्णे साधकास्तथा ॥ ६१.१५० ॥

क्षीणाधिकाराः संवृत्ता बुद्ध्वा पर्यायमात्मनः।
महर्लोकाय ते सर्वे उन्मुखा दधिरे गतिम् ॥ ६१.१५१ ॥

ततो मन्वन्तरे तस्मिन् प्रक्षीणा देवतास्तु ताः।
सम्पूर्णे स्थितिकाले तु तिष्ठन्त्येकं कृतं युगम् ॥ ६१.१५२ ॥

उत्पद्यन्ते भविष्याश्च यावन्मन्वन्तरेश्वराः।
देवताः पितरश्चैव ऋषयो मनुरेव च ॥ ६१.१५३ ॥

मन्वन्तरे तु सम्पूर्णे यद्यन्यद्वै कलौ युगे।
सम्पद्यते कृतं तेषु कलिशिष्टेषु वै तदा ॥ ६१.१५४ ॥

यथा कृतस्य सन्तानः कलिपूर्वः स्मृतो बुधैः।
तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च ॥ ६१.१५५ ॥

क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः।
मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा ॥ ६१.१५६ ॥

स्प्तर्षयो मनुश्चैव कालावेक्षास्तु ये स्थिताः।
मन्वन्तरं प्रतीक्षन्ते क्षीयन्ते तपसि स्थिताः ॥ ६१.१५७ ॥

मन्वन्तरव्यवस्थार्थं सन्तत्यर्थञ्च सर्वशः।
पूर्ववत् सम्प्रवर्त्तन्ते प्रवृत्ते वृष्टिसर्ज्जने ॥ ६१.१५८ ॥

द्वन्द्वेषु सम्प्रवृत्तेषु उत्पन्नास्वौषधीषु च।
प्रजासु च निकेतासु संस्थितासु क्वचित् क्वचित् ॥ ६१.१५९ ॥

वार्त्तायान्तु प्रवृत्तायां सद्धर्मे ऋषिभाविते ।
निरानन्दे गते लोके नष्टे स्थावरजङ्गमे ॥ ६१.१६० ॥

अग्रामनगरे चैव वर्णाश्रमविवर्जिते।
पूर्वमन्वन्तरे शिष्टे ये भवन्तीह धार्मिकाः ।
सप्तर्षयो मनुश्चैव सन्तानार्थं व्यवस्तिताः ॥ ६१.१६१ ॥

प्रजार्थं तपतां तेषां तपः परमदुश्चरम्।
उत्पद्यन्तीह सर्वेषां निधनेष्विह सर्वशः ॥ ६१.१६२ ॥

देवासुराः पितृगणा मुनयो मनवस्तथा।
सर्पा भूताः पिशाचाश्च गन्धर्वा यक्षराक्षसाः ॥ ६१.१६३ ॥

ततस्तेषां तु ये शिष्टा शिष्टाचारान् प्रचक्षते ।
सप्तर्षयो मनुश्चैव आदौ मन्वन्तरस्य ह।
प्रारम्भन्ते च कर्माणि मनुष्या दैवतैः सह ॥ ६१.१६४ ॥

मन्वन्तरादौ प्रागेव त्रेतायुगमुखे ततः ।
पूर्वं देवास्ततस्ते वै स्थिते धर्मे तु सर्वशः ॥ ६१.१६५ ॥

ऋषीणां ब्रह्मचर्येण गत्वाऽऽनृण्यन्तु वै ततः।
पितॄणां प्रजया चैव देवानामिज्यया तथा ॥ ६१.१६६ ॥

शतं वर्षसहस्राणि धर्मे वर्णात्मके स्थिताः।
त्रयीं वार्त्तां दण्डनीतिं धर्मान् वर्णाश्रमांस्तथा।
स्थापयित्वाश्रमांश्चैव स्वर्गाय दधिरे मतीः ॥ ६१.१६७ ॥

पूर्वं देवेषु तेष्वेव स्वर्गाय प्रमुखेषु च।
पूर्वं देवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ॥ ६१.१६८ ॥

मन्वन्तरे परावृत्ते स्थानान्युत्सृज्य सर्वशः।
मन्त्रैः सहोर्ध्वङ्गच्छन्ति महर्लोकमनामयम् ॥ ६१.१६९ ॥

विनिवृत्तविकारास्ते मानसीं सिद्धिमास्थिताः।
अवेक्षमाणा वशिनस्तिष्ठन्त्याभूतसम्प्लवम् ॥ ६१.१७० ॥

ततस्तेषु व्यतीतेषु सर्वेष्वेतेषु सर्वदा।
शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः।
उपस्थिता इहैवान्ये देवा ये स्वर्गवासिनः ॥ ६१.१७१ ॥

ततस्ते तपसा युक्ता स्थानान्यापूरयन्ति वै।
सत्यैन ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ ६१.१७२ ॥

सप्तर्षीणं मनोश्चैव देवानां पितृभिः सह।
निधनानीह पूर्वेषामादिना च भविष्यता ॥ ६१.१७३ ॥

तेषामत्यन्तविच्छेद इह मन्वन्तरक्षयात्।
एवं पूर्वानुपूर्व्येण स्थितिरेषानवस्थिता।
मन्वन्तरेषु सर्वेषु यावदाभूतसम्प्लवम् ॥ ६१.१७४ ॥

एवं मन्वन्तराणान्तु प्रतिसन्धानलक्षणम्।
अतीतानागतानान्तु प्रोक्तं स्वायम्भुवेन तु ॥ ६१.१७५ ॥

मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनम् ।
एवमत्यन्तविच्छिन्नं भवत्याभूतसम्प्लवात् ॥ ६१.१७६ ॥

मन्वन्तराणां परिवर्त्तनानि एकान्ततस्तानि महर्गतानि।
महर्जनञ्चैव जनन्तपश्च एकान्तगानि स्म भवन्ति सत्ये ॥ ६१.१७७ ॥

तद्भाविनां तत्र तु दर्शनेन नानात्वदृष्टेन च प्रत्ययेन।
सत्ये स्थितानीह तदा तु तानि प्रप्ते विकारे प्रतिसर्गकाले ॥ ६१.१७८ ॥

मन्वन्तराणां परिवर्त्तनानि मुञ्चन्ति सत्यन्तु ततोऽपरान्ते।
ततोऽभियोगाद्विषमप्रमाणं विशन्ति नारायणमेव देवम् ॥ ६१.१७९ ॥

मन्वन्तराणां परिवर्त्तनेषु चिरप्रवृत्तेषु निधिस्वभावात्।
क्षणं रसं तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवन्दमानः ॥ ६१.१८० ॥

इत्युत्तराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम्।
वायुप्रणीतान्युपलभ्य दृश्यं दिव्यौजसा व्याससमासयोगैः ॥ ६१.१८१ ॥

सर्वाणि राजर्षिसुरर्षिमन्ति ब्रह्मर्षिदेवोरगवन्ति चैव।
सुरेशसप्तर्षिपितृप्रजैशैर्युक्तानि सम्यक् परिवर्त्तनानि ॥ ६१.१८२ ॥

उदारवंशाभिजनद्युतीनां प्रकृष्टमेधाभिसमेधितानाम्।
कीर्तिद्युतिख्यातिभिरन्वितानां पुण्यं हि विख्यापनमीश्वराणाम् ॥ ६१.१८३ ॥

स्वर्गीयमेतत् परमं पवित्रं पुत्रीयमेतच्च परं रहस्यम्।
जप्यं महत्पर्वसु चैतदग्र्यं दुःस्वप्नशान्तिः परमायुषेयम् ॥ ६१.१८४ ॥

प्रजेशदेवर्षिमनुप्रधानां पुण्यप्रसूतिं प्रथितामजस्य।
ममापि विख्यापनसंयमाय सिद्धिं जुषध्वं सुमहेशतत्वम् । ६१.१८५ ॥
विश्वास-प्रस्तुतिः
इत्येतदन्तरं प्रोक्तं मनोः स्वायम्भुवस्य तु।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ ६१.१८६ ॥

इति महापुराणे वायुप्रोक्ते प्रजापतिवंशानुकीर्त्तनं नामैकषष्टितमोऽध्यायः ॥ ६१ ॥
॥ इति श्रीमद्वायुपुराणे पूर्वार्द्धं समाप्तम् ॥