॥ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः
ऋषयस्तद्वचः श्रुत्वा सूतमाहुः सुदुस्तरम्।
कथं वेदा पुरा व्यस्तास्तन्नो ब्रूहि महामते ॥ ६०.१ ॥
मूलम्

॥सूत उवाच ॥
विश्वास-प्रस्तुतिः
द्वापरे तु परावृत्ते मनोः स्वायम्भुवेऽन्तरे ।
ब्रह्मा मनुमुवाचेदं तद्वदिष्ये महामते ॥ ६०.२ ॥

परिवृत्ते युगे तात स्वल्पवीर्या द्विजातयः।
संवृत्तां युग दोषेण सर्वे चैव यथाक्रमम् ॥ ६०.३ ॥

भ्रश्यमानं युगवशादल्पशिष्टं हि दृश्यते।
दशसाहस्रभागेन ह्यवशिष्टं कृतादिदम् ॥ ६०.४ ॥

वीर्यं तेजो बलं वाक्यं सर्वञ्चैव प्रणश्यति।
वेदवेदा हि कार्याः स्युर्माभूद्वेदविनाशनम् ॥ ६०.५ ॥

वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति।
यत्रे नष्टे देवनाशस्ततः सर्वं प्रणश्यति ॥ ६०.६ ॥

आद्यो वेदश्चतुष्पादः शतसाहस्रसञ्ज्ञितः।
पुनर्दशगुणः कृत्स्नो यज्ञो वै सर्वकामधुक् ॥ ६०.७ ॥

एवमुक्तस्तथेत्युक्त्वा मनुर्लोकहिते रतः।
वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ॥ ६०.८ ॥

ब्रह्मणो वचनात्तात लोकानां हितकाम्यया।
तदिदं वर्त्तमानेन युष्माकं वेदकल्पनम् ॥ ६०.९ ॥

मन्वन्तरेण वक्ष्यामि व्यतीतानां प्रकल्पनम्।
प्रत्यक्षेण परोक्षं वै तन्निबोधत सत्तमाः ॥ ६०.१० ॥

अस्मिन् युगे कृतो व्यासः पाराशर्यः परन्तपः।
द्वैपायन इति ख्यातो विष्णोरंशः प्रकीर्तितः ॥ ६०.११ ॥

ब्रह्मणा चोदितः सोऽस्मिन् वेदं व्यस्तुं प्रचक्रमे।
अथ शिष्यान् स जग्राह चतुरो वेदकारणात् ॥ ६०.१२ ॥

जैमिनिञ्च सुमन्तुञ्च वैशम्पायनमेव च।
पैलन्तेषां चतुर्थन्तु पञ्चमं लोमहर्षणम् ॥ ६०.१३ ॥

ऋग्वेदश्रावकं पैलञ्जग्राह विधिवद् द्विजम् ।
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥ ६०.१४ ॥

जैमिनिं सामवेदार्थश्रावकं सोऽन्वपद्यत।
तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ॥ ६०.१५ ॥

इतिहासपुराणस्य वक्तारं सम्यगेव हि।
माञ्चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ॥ ६०.१६ ॥

एक आसीद्यजुर्वेदस्तञ्चतुर्द्धा व्यकल्पयत्।
चतुर्होत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत् ॥ ६०.१७ ॥

आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च।
उद्गात्रं सामभिश्वक्रे ब्रह्मत्वञ्चाप्यथर्वभिः।
ब्रह्मत्वमकरोद्यज्ञे वेदेनाथर्वणेन तु ॥ ६०.१८ ॥

ततः सऋचमुद्धृत्य ऋग्वेदं समकल्प यत्।
होतृकं कल्प्यते तेन यज्ञवाहं जगद्धितम् ॥ ६०.१९ ॥

सामभिः सामवेदञ्च तेनोद्गात्रमरोचयत् ।
राज्ञस्त्वथर्ववेदेन सर्वकर्माण्यकारयत् ॥ ६०.२० ॥

आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कुलकर्मभिः।
पुराणसंहिताश्चक्रे पुराणार्थविशारदः ॥ ६०.२१ ॥

यच्छिष्टन्तु यजुर्वेदे तेन यज्ञमथायुजत्।
युञ्जानः स यजुर्वेदे इति शास्त्रविनिश्चयः ॥ ६०.२२ ॥

पदानामुद्धृतत्वाच्च यजूंषि विषमाणि वै ।
स तेनोद्धृतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः।
प्रयुज्यते ह्यश्वमेधस्तेन वा युज्यते तु सः ॥ ६०.२३ ॥

ऋचो गृहीत्वा पैलस्तु व्यभजत्तद् विधा पुनः ।
द्विष्कृत्वा संयुगे चैव शिष्याभ्यामददत्प्रभुः ॥ ६०.२४ ॥

इन्द्रप्रमतये चैकां द्वितीयां बाष्कलाय च।
चतस्रः संहिताः कृत्वा बाष्कलिर्द्विजसत्तमः।
शिष्यानध्यापयामास शुश्रूषाभिरतान् हितान् ॥ ६०.२५ ॥

बोधन्तु प्रथमां शाखां द्वितीयामग्निमाठरम्।
पाराशरं तृतीयान्तु याज्ञवल्क्यामथापराम् ॥ ६०.२६ ॥

इन्द्रप्रमतिरेकान्तु संहितां द्विजसत्तमः।
अध्यापयन्महाभागं मार्कण्डेयं यशस्विनम् ॥ ६०.२७ ॥

सत्यश्रवसमग्र्यन्तु पुत्रं स तु महायशाः।
सत्यश्रवाः सत्यहितं पुनरध्यापयद् द्विजः ॥ ६०.२८ ॥

सोऽपि सत्यतरं पुत्रं पुनरध्यापयद्विभुः।
सत्यश्रियं महात्मानं सत्यधर्मपरायणम् ॥ ६०.२९ ॥

अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः ।
सत्यश्रियस्तु विद्वासः शास्त्रग्रहणतत्पराः ॥ ६०.३० ॥

शाकल्यः प्रथमस्तेषां तस्मादन्यो रथ(ा)न्तरः ।
बाष्कलिश्च भरद्वाज इति शाखाप्रवर्तकाः ॥ ६०.३१ ॥

देवमित्रस्तु शाकल्यो ज्ञानाहङ्कारगर्वितः।
जनकस्यस यज्ञे वै विनाशमगमद् द्विजः ॥ ६०.३२ ॥

॥शांशपायन उवाच॥
विश्वास-प्रस्तुतिः
कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः।
जनकस्याश्वमेधेन कथं वादो बभूव ह ॥ ६०.३३ ॥

किमर्थञ्चाभवद्वादः केन सार्द्धमथापि वा।
सर्वमेतद्यथावृत्तमाचक्ष्व विदितन्तव।
ऋषीणान्तु वचः श्रुत्वा तदुत्तरमथाब्रवीत् ॥ ६०.३४ ॥

॥सूत उवाच॥
विश्वास-प्रस्तुतिः
जनकस्याश्वमेधे तु महानासीत्समागमः।
ऋषीणान्तु सहस्राणि तत्राजग्मुरनेकशः।
राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षवः ॥ ६०.३५ ॥

आगतान् ब्राह्मणान् दृष्ट्वा जिज्ञासास्याभवत्ततः।
कोन्वेषां ब्राह्मणः श्रेष्ठः कथं मे निश्चयो भवेत्।
इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः ॥ ६०.३६ ॥

गवां सहस्रमादाय सुवर्णमधिकं ततः।
ग्रामान् रत्नानि दासांश्च मुनीन् प्राह नराधिपः।
सर्वानहं प्रपन्ननोऽस्मि शिरसा श्रेष्ठभागिनः ॥ ६०.३७ ॥

यदेतदाहृतं वित्तं ये वः श्रेष्ठतमो भवेत्।
तस्मै तदुपनीतं हि विद्यावित्तं द्विजोत्तमाः ॥ ६०.३८ ॥

जनकस्य वचः श्रुत्वा मुनयस्ते श्रुतिक्षमाः।
दृष्ट्वा धनं महासारं धनवृद्ध्या जिघृक्षवः ।
श्रद्धयाञ्चक्रुरन्योन्यं वेदज्ञानमदोल्बणाः ॥ ६०.३९ ॥

मनसा गतवित्तास्ते ममेदं धनमित्युत।
ममैवैतन्न वेत्यन्यो ब्रूहि किं वा विकल्ष्यते।
इत्येवं धनदोषेण वादांश्चक्रुरनेकशः ॥ ६०.४० ॥

तथान्यस्तत्र वै विद्वान् ब्रह्मवाहसुतः कविः।
याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः ॥ ६०.४१ ॥

ब्रह्मणोऽङ्गात् समुत्पन्नो वाक्यं प्रोवाच सुस्वरम्।
शिष्यं ब्रह्मविदां श्रेष्ठो धनमेतद् गृहाण भो ॥ ६०.४२ ॥

नयस्व च गृहं वत्स ममैतन्नात्र संशयः।
सर्ववेदेष्वहं वक्ता नान्यः कश्चित्तु मत्समः।
योवा न प्रीयते विप्रः स मे ह्यवतु माऽचिरम् ॥ ६०.४३ ॥

ततो ब्रह्मार्णवः क्षुब्धः समुद्र इव सम्प्लवे ।
तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव ॥ ६०.४४ ॥

क्रोध माकार्षुविद्वांसो भवन्तः सत्यवादिनः।
वदामहे यथायुक्तं जिज्ञासन्तः परस्परम् ॥ ६०.४५ ॥

ततोऽभ्युपागमंस्तेषां वादा जग्मुरनेकशः।
सहस्रधा शुभैरर्थैः सूक्ष्मदर्शनसम्भवैः ॥ ६०.४६ ॥

लोके वेदे तथाध्यात्मे विद्यास्थानैरलङ्कृताः।
शापोत्तमगुणैर्युक्ता नृपौघपरिवर्जनाः ।
वादाः समभवंस्तत्र धनहेतोर्महात्मनाम् ॥ ६०.४७ ॥

ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः।
सर्वे ते मुनयस्तेन याज्ञवल्क्येन धीमता ।
एकैकशस्ततः पृष्टा नैवोत्तरमथाव्रुवन् ॥ ६०.४८ ॥

तान्विजित्य मुनीन् सर्वान् ब्रह्मराशिर्महाद्युतिः।
शाकल्यमिति होवाच वादकर्त्तारमञ्जसा ॥ ६०.४९ ॥

शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्टसे।
पूर्णस्त्वं जडमानेन वाताध्मातो यथा दृतिः ॥ ६०.५० ॥

एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः।
प्रोवाच याज्ञवल्क्यं तं पुरुषं मुनिसन्निधौ ॥ ६०.५१ ॥

त्वमस्मांस्तृणवत्त्यक्त्वा तथैवेमान् द्विजोत्तमान्।
विद्याधनं महासारं स्वयङ्ग्राहं जिघृक्षसि ॥ ६०.५२ ॥

शाकल्येनैवनुक्तः स्याद्याज्ञवल्क्यः समब्रवीत्।
ब्रह्मिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम् ॥ ६०.५३ ॥

कामश्चार्थेन सम्बद्धस्तेनार्थं कामयामहे ।
कामप्रश्रधना विप्राः कामप्रश्रान्वदामहे ॥ ६०.५४ ॥

पणश्चैषोऽस्य राजर्षेस्तस्मान्नीतं धनं मया।
एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः।
याज्ञवल्क्यमथोवाच कामप्रश्रार्थमद्वचः ॥ ६०.५५ ॥

ब्रूहीदानीं मयोद्दिष्टान् कामप्रश्रान् यथार्थतः।
ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् ॥ ६०.५६ ॥

साग्रं प्रश्नसहस्रन्तु शाकल्यस्तमुचूचुदत्।
याज्ञवल्क्योऽब्रवीत्सर्वान् ऋषीणां श्रृण्वतां तदा ॥ ६०.५७ ॥

शाकल्ये चापि निर्वादे याज्ञवल्क्यस्तमब्रवीत् ।
प्रश्रमेकं ममापि त्वं वद शाकल्य कामिकम्।
शापः पणोऽस्य वादस्य अब्रुवन् मृत्युमाव्रजेत् ॥ ६०.५८ ॥

अथ सन्नोदितं प्रश्रं याज्ञवल्क्येन धीमता ।
शाकल्यस्तमविज्ञाय सद्यो मृत्युमवाप्नुयात् ॥ ६०.५९ ॥

एवं मृतः स शाकल्यः प्रश्रव्याख्यानपीडितः।
एवं वादश्च सुमहानासीत्तेषां धनार्थिभिः।
ऋषीणां मुनिभिः सार्द्धं याज्ञवल्क्यस्य चैव हि ॥ ६०.६० ॥

सर्वैः पृष्टांस्तु सम्प्रश्रान् शतशोऽथ सहस्रशः।
व्याख्याय वै मुने तेषां प्रश्रसारं महागतिः ॥ ६०.६१ ॥

याज्ञवल्क्यो धनं गृह्य यशो विख्याप्य चात्मनः।
जगाम वै गृहं स्वस्थः शिष्यैः परिवृतो वशी ॥ ६०.६२ ॥

देवमित्रस्तु शाकल्यो महात्मा द्विजसत्तमः।
चकार संहिताः पञ्चबुद्धिमान् पदवित्तमः ॥ ६०.६३ ॥

तच्छिष्या अभवन् पञ्च मुद्घलो गोलकस्तथा।
खालीयश्च तथा मत्स्वः शैशिरेयस्तु पञ्चमः ॥ ६०.६४ ॥

प्रोवाच संहितास्तिस्रः शाकपूर्णरथीतरः।
निरुक्तञ्च पुनश्चक्रे चतुर्थं द्विजसत्तमः ॥ ६०.६५ ॥

तस्य शिष्यास्तु चत्वारः केतवो दालकिस्तथा।
धर्मशर्मा देवशर्मा सर्वे व्रतधरा द्विजाः ॥ ६०.६६ ॥

शाकल्ये तु मृते सर्वे ब्रह्मघ्नास्ते बभूविरे।
तदा चिन्तां परां प्राप्य गतास्ते ब्रह्मणोऽन्तिकम् ॥ ६०.६७ ॥

तान् ज्ञात्वा चेतसा ब्रह्मा प्रेषितः पवनःपुरे।
तत्र गच्छत यूयं वःसद्यः पापं प्रणश्यति ॥ ६०.६८ ॥

द्वादशार्कं नमस्कृत्या तथा वै वालुकेश्वरम् ।
एकादश तथा रुद्रान् वायुपुत्रं विशेषतः।
कुण्डे चतुष्टये स्नात्वा ब्रह्महत्यां तरिष्यथ ॥ ६०.६९ ॥

सर्वे शीघ्रतरा भूत्वा तत्पुरं समुपागताः।
स्नानं कृतं विधानेन देवानां दर्शनं कृतम् ॥ ६०.७० ॥

उत्तरेश्वरं नमस्कृत्य वाडवानां प्रसादतः।
सर्वे पापविनिर्मुक्ता गतास्ते सूर्यमण्डलम् ॥ ६०.७१ ॥

तदा प्रभृति तत्तीर्थं जातं पातकनाशनम्।
वायोः पुरं पवित्रञ्च वायुना निर्मितं पुरा ॥ ६०.७२ ॥

अञ्जनागर्भसम्भूतहनुमान्पवनात्मजः।
यदा जातो महादेवोहनुमान्सत्यविक्रमः।
तदेवं निर्मितं तीर्थं वायुना ब्रह्मयोनिना ॥ ६०.७३ ॥

ऊर्व्यां जातास्तु ये शूद्रा ब्राह्मणानां निवेदिताः।
वृत्त्यर्थं ब्रह्मयज्ञार्थं करस्तेषु कृतो महान् ॥ ६०.७४ ॥

अनेन विधिना जातं विप्राणां शासनं महत् ।
गोघ्नो वापि कृतघ्नो वा सुरापी गुरूतल्पगः।
वाडादित्यं नमस्कृत्य सर्वपापैः प्रमुच्यते ॥ ६०.७५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते महास्थानतीर्थवर्णनं नाम षष्टितमोऽद्यायः ॥ ६० ॥