०५९

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

युगेषु यास्तु जायन्ते प्रजास्ता वै निबोधत।
आशुरी सर्पगोपक्षिपैशाची यक्षराक्षसी।
यस्मिन् युगे च सम्भूतिस्तासां यावत्तु जीवितम् ॥ ५९.१ ॥

मूलम्

पिशाचासुरगन्धर्वा यक्षराक्षसपन्नगाः।
युगमात्रन्तु जीवन्ति ऋते मृत्युवधेन ते ॥ ५९.२ ॥

मानुषाणां पशूनाञ्च पक्षिणां स्थावरैःसह।
तेषामायुः परिक्रान्तं युगधर्मेषु सर्वशः ॥ ५९.३ ॥

अस्थितिस्तु कलौ दृष्टा भूतानामायुषस्तु वै।
परमायुः शतन्त्वेतन्मनुष्याणां कलौ स्मृतम् ॥ ५९.४ ॥

देवासुरप्रमाणात्तु सप्तसप्ताङ्गुलं ह्रसत्।
अह्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ॥ ५९.५ ॥

देवासुरप्रमाणन्तदुच्छ्रायं कलिजैः स्मृतम्।
चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतम् ॥ ५९.६ ॥

स्वेनाङ्गुलप्रमाणेन ऊर्ध्वमापादमस्तकम्।
इत्येष मानुषोत्सेधो ह्रसतीह युगान्तिके ॥ ५९.७ ॥

सर्वेषु युगकालेषु अतीतानागतेष्विह।
स्वेनाङ्गुलप्रमाणेन अष्टतालः स्मृतो नरः ॥ ५९.८ ॥

आपादतो मस्तकन्तु नवतालो भवेत्तु यः।
संहताजानुबाहुस्तु स सुरैरपि पूज्यते ॥ ५९.९ ॥

गवाश्वहस्तिनाञ्चैव महिष स्थावरात्मनाम्।
क्रमेणैतेन योगेन ह्रासवृद्धी युगे युगे ॥ ५९.१० ॥

षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै।
अङ्गुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः ॥ ५९.११ ॥

अङ्गुलानां सहस्रन्तु चत्वारिंशाङ्गुलं विना ।
पञ्चाशतं हयानाञ्च उत्सेधः शाखिनां स्मृतः ॥ ५९.१२ ॥

मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः।
तल्लक्षणस्तु देवानां दृश्यते तत्त्वर्शनात् ॥ ५९.१३ ॥

बुद्ध्यातिशययुक्तञ्च देवानां कायमुच्यते ।
देवानतिशयञ्चैव मानुषं कायमुच्यते ॥ ५९.१४ ॥

इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः।
पशूनां पक्षिणाञ्चैव स्थावराणां निबोधत ॥ ५९.१५ ॥

गावो ह्यजा महिष्योऽश्वा हस्तिनः पक्षिणो नगाः।
उपयूक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ॥ ५९.१६ ॥

देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः ।
यथाशयोपभोगास्तु देवानां शुभमूर्त्तयः ॥ ५९.१७ ॥

तेषां रूपानुरूपैस्तैः प्रमाणैः स्थाणुजङ्गमैः।
मनोज्ञैस्तत्त्वभावज्ञैः सुखिनो ह्युपपेदिरे ॥ ५९.१८ ॥

अतः शिष्टान् प्रवक्ष्यामि सतः साधूंस्तथैव च।
सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत।
सायुज्यं ब्रह्मणोऽत्यन्तं तेन सन्तः प्रजक्ष्यते ॥ ५९.१९ ॥

दशात्मके ये विषये कारणे चाष्टलक्षणे ।
न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः ॥ ५९.२० ॥

सामान्येषु च धर्मेषु तथा वैशेषिकेषु च।
ब्रह्मक्षत्रविशो युक्ता यस्मात्तस्माद्द्विजातयः ॥ ५९.२१ ॥

वर्णाश्रमेषु युक्तस्य स्वर्गगोमुखचारिणः।
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मः स उच्यते ॥ ५९.२२ ॥

विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः।
क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ॥ ५९.२३ ॥

साधनात्तपसोऽरण्ये साधुर्वैखानसः स्मृतः।
यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥ ५९.२४ ॥

एवमाश्रमधर्माणां साधनात् साधवः स्मृताः।
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ॥ ५९.२५ ॥

न च देवा न पितरो मुनयो न च मानवाः।
अयं धर्मो ह्ययं नेति ब्रुवन्तोऽभिन्नदर्शनाः ॥ ५९.२६ ॥

धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ।
कुशलाकुशलं कर्म धर्मा धर्माविति स्मृतौ ॥ ५९.२७ ॥

धारणा धृतिरित्यर्थाद्धातोर्धर्मः प्रकीर्त्तितः ।
अधारणेऽमहत्त्वे च अधर्म इति चोच्यते ॥ ५९.२८ ॥

अत्रेष्टप्रापका धर्मा आचार्यैरुपदिश्यते।
वृद्धा ह्यलोलुपाश्चैव आत्मवन्तो ह्यदम्भकाः।
सम्यग्विनीता ऋजवस्तानाचार्यान् प्रचक्षते ॥ ५९.२९ ॥

स्वयमाचरते यस्मादाचारं स्थापयत्यपि।
आचिनोति च शास्त्रार्थान्यमैः सन्नियमैर्युतः ॥ ५९.३० ॥

पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयोऽब्रुवन्।
ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि च श्रुतिः ॥ ५९.३१ ॥

मन्वन्तरस्यातीतस्य स्मृत्वाचारं पुनर्जगौ।
तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥ ५९.३२ ॥

स एष द्विविधो धर्मः शिष्टाचार इहोच्यते।
शेषशब्दात् शिष्ट इति शिष्टाचारः प्रचक्ष्यते ॥ ५९.३३ ॥

मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः।
मनुः सप्तर्षयश्चैव लोकसन्तानकारणात्।
धर्मार्थं ये च शिष्ट वै याथातथ्यं प्रचक्ष्यते ॥ ५९.३४ ॥

मन्वादयश्च ये शिष्टा ये मया प्रागुदीरिताः।
तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ॥ ५९.३५ ॥

त्रयी वार्ता दण्डनीतिरिज्या वर्णाश्रमास्तथा।
शिष्टैराचर्यते यस्मान्मनुना च पुनः पुनः।
पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स शाश्वतः ॥ ५९.३६ ॥

दानं सत्यन्तपोऽलोभो विद्येज्याप्रजनी दया।
अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥ ५९.३७ ॥

शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च वै।
मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥ ५९.३८ ॥

विज्ञेयः श्रवणात् श्रौतः स्मरणात् स्मार्त्त उच्यते।
इज्या वेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः।
प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ॥ ५९.३९ ॥

दृष्ट्वा प्रभूतमर्थं यः पृष्टो वै न निगूहति।
यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥ ५९.४० ॥

ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च।
इत्येतत् तपसो मूलं सुघोरं तद्दुरासदम् ॥ ५९.४१ ॥

पशूनां द्रव्यहविषामृक्सामयजुषां तथा।
ऋत्विजां दक्षिणानाञ्च संयोगो योग उच्यते ॥ ५९.४२ ॥

आत्मवत्सर्वभूतेषु यो हितायाहिताय च।
समा प्रवर्त्तते दृष्टिः कृत्स्ना ह्येषा दया स्मृता ॥ ५९.४३ ॥

आक्रुष्टोऽभिहतो वापि नाक्रोशेद्यो न हन्ति वा।
वाङ्‌मनःकर्मभिः क्षान्तिस्तितिक्षैषा क्षमा स्मृता ॥ ५९.४४ ॥

स्वामिनारक्ष्यमाणानामुत्सृष्टानाञ्च मृत्सु च।
परस्वानामनादानमलोभ इह कीर्त्यते ॥ ५९.४५ ॥

मैथुनस्यासमाचारो ह्यचिन्तनमकल्पनम्।
निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं दम उच्यते ॥ ५९.४६ ॥

आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै।
न मिथ्या सम्प्रवर्तन्ते शमस्यै तत्तु लक्षणम् ॥ ५९.४७ ॥

दशात्मके यो विषये कारणे चाष्टलक्षणे।
न क्रुध्येत्तु प्रतिहतः स जितात्मा विभाव्यते ॥ ५९.४८ ॥

यद्यदिष्टतमं द्रव्यं न्यायेनोपागतञ्च यत्।
तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥ ५९.४९ ॥

दानं त्रिविधमित्येतत् कनिष्ठज्येष्ठमधयमम् ।
तत्र नैःश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये।
कारुण्यात्सर्वभूतेभ्यः सुविभागस्तु बन्धुषु ॥ ५९.५० ॥

श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः।
शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसङ्गतः ॥ ५९.५१ ॥

अप्रद्वेषो ह्यनिष्टेषु तथेष्टानभिनन्दनम्।
प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ॥ ५९.५२ ॥

सन्न्यासः कर्मणो न्यासः कृतानामकृतैः सह।
कुशलाकुशलानाञ्च प्रहाणं त्याग उच्यते ॥ ५९.५३ ॥

अव्यक्ताद्योऽविशेषाच्च विकारोऽस्मिन्नचेतने।
चेतनाचेतान्यत्वविज्ञानं ज्ञानमुच्यते ॥ ५९.५४ ॥

प्रत्यङ्गानां तु धर्मस्य इत्येतल्लक्षणं स्मृतम् ।
ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वे स्वायम्भुवेऽन्तरे ॥ ५९.५५ ॥

अत्र वो वर्त्तयिष्यामि विधिर्मन्वन्तरस्य यः ।
इतरेतरवर्णस्य चातुर्वर्णस्य चैव हि।
प्रतिमन्वन्तरञ्चैव श्रुतिरन्या विधीयते ॥ ५९.५६ ॥

ऋचो यजूषिं सामानि यथावत् प्रतिदैवतम्।
आभूतसम्प्लवस्यापि वर्ज्यैकं शतरुद्रियम् ॥ ५९.५७ ॥

विधिर्होत्रं तथा स्तोत्रं पूर्ववत्सम्प्रवर्तते।
द्रव्यस्तोत्रं गुणस्तोत्रं कर्म स्तोत्रं तथैव च।
चतुर्थमाभिजनिकं स्तोत्रमेतच्चतुर्विधम् ॥ ५९.५८ ॥

मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये।
प्रवर्त्तयति तेषां वै ब्रह्मस्तोत्रं चतुर्विधम्।
एवं मन्त्रगुणानाञ्च समुत्पत्तिश्चतुर्विधा ॥ ५९.५९ ॥

अथर्वयजुषां साम्नां वेदेष्विह पृथक् पृथक् ।
ऋषीणान्तप्यतामुग्रन्तपः परमदुश्चरम् ॥ ५९.६० ॥

मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह।
परितोषाद्भयाद्दुःखात्सुखाच्छोकाच्च पञ्चधा ॥ ५९.६१ ॥

ऋषीणां तपःकार्त्स्न्येन दर्शनेन यदृच्छया।
ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः ॥ ५९.६२ ॥

अतीतानागतानान्तु पञ्चधा ऋषिरुच्यते।
अतस्त्वृषीणां वक्ष्यामि ह्यार्षस्य च समुद्भवम् ॥ ५९. ६३ ॥

विश्वास-प्रस्तुतिः

गुणसाम्ये वर्त्तमाने सर्वसम्प्रलये तदा।
अतिचारे तु देवानामतिदेशे तयोर्यथा ॥ ५९.६४ ॥

अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्त्तते ।
तेन ह्यबुद्धिपूर्वं तच्चेतनेन ह्यधिष्ठितम् ॥ ५९.६५ ॥

वर्त्तते च यथा तौ तु यथा मत्स्योदके उभे।
चेतनाधिष्ठितं तत्त्वं प्रवर्त्तति गुणात्मना ॥ ५९.६६ ॥

करणत्वात्तथा कार्यं तदा तस्य प्रवर्त्तते।
विषये विषयित्वाच्च ह्यर्थेऽर्थित्वात्तथैव च ॥ ५९.६७ ॥

कालेन प्रापणीयेन भेदास्तु कारणात्मकाः।
संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः ॥ ५९.६८ ॥

महतश्वाप्यहङ्कारस्तस्माद्भूतेन्द्रियाणि च।
भूतभेदास्तु भेदेभ्यो जज्ञिरे ते परस्परम्।
संसिद्धिकारणं कार्यं सद्य एव विवर्त्तते ॥ ५९.६९ ॥

यथोल्मुकस्रुटन्नूर्ध्वमेककालं प्रवर्त्तते।
तथा विवृतः क्षेत्रज्ञः कालेनैकेन कर्मणा ॥ ५९.७० ॥

यथान्धकारे खद्योतः सहसा सम्प्रदृश्यते।
तथा विवृत्तो ह्यव्यक्तात् खद्योत इव चेल्वणः ॥ ५९.७१ ॥

स महान् सशरीरस्तु यत्रैवाग्रे व्यवस्थितः।
तत्रैव संस्थितो विद्वान् द्वारशालामुखे स्थितः ॥ ५९.७२ ॥

महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते ।
तत्रैव संस्थितो विद्वांस्तमसोऽन्त इति श्रुतिः ॥ ५९.७३ ॥

बुद्धिर्विवर्त्तमानस्य प्रादुर्भूता चतुर्विधा ।
ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ॥ ५९.७४ ॥

सांसिद्दिकान्यथैतानि सुप्रतीकानि तस्य वै ।
महतः सशरीरस्य वैवर्त्त्यात् सिद्धिरुच्यते ॥ ५९.७५ ॥

अत्र शेते च यत्पुर्यां क्षेत्रज्ञानमथापि वा।
पुरीशयत्वात्पुरुषः क्षेत्रज्ञानात् सउच्यते ॥ ५९.७६ ॥

क्षेत्रज्ञः क्षेत्रविज्ञानात् भगवान् मतिरुच्यते।
यस्माद्बुद्ध्या तु शेते ह तस्माद्बोधात्मकः स वै ।
संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ॥ ५९.७७ ॥

एवं निवृत्तिः क्षेत्रज्ञा क्षेत्रज्ञेनाभिसंहिता।
क्षेत्रज्ञेन परिज्ञातो भोग्योऽयं विषयस्त्विति ॥ ५९.७८ ॥

ऋषीत्येष गतौ धातुःश्रुतौ सत्ये तपस्यथ।
एतत्सन्नियते तस्मिन् ब्रह्मणा स ऋषिः स्मृतः ॥ ५९.७९ ॥

निवृत्तिसमकालं तु बुद्ध्याव्यक्तमृषिः स्वयम्।
परं हि ऋषते यस्मात्परमर्षिस्ततः स्मृतः ॥ ५९.८० ॥

गत्यर्थादृषतेर्द्धातोर्नामनिर्वृत्तिरादितः ।
यस्मादेष स्वयम्भूतस्तस्माच्चात्मर्षिता स्मृता।
ईश्वराः स्वयमुद्भूता मानसा ब्रह्मणः सुताः ॥ ५९.८१ ॥

यस्मान्न हन्यते मानैर्महान् परिगतः पुरः।
यस्मादृषन्ति ये धीरा महान्तं सर्वतो गुणैः।
तस्मान्महर्षयः प्रोक्ता बुद्धेः परमदर्शिनः ॥ ५९.८२ ॥

ईश्वराणां शुभास्तेषां मानसान्तरसाश्च ते।
अहङ्कारं तमश्चैव त्यक्त्वा च ऋषिताङ्गाताः ॥ ५९.८३ ॥

तस्मात्तु ऋषयस्ते वै भूतादौ तत्त्वदर्शनाः।
ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवाः ॥ ५९.८४ ॥

तन्मात्राणि च सत्यञ्च ऋषन्ते ते महौजसः।
सत्यर्षयस्ततस्ते वै परमाः सत्यदर्शनाः ॥ ५९.८५ ॥

ऋषीणाञ्च सुतास्ते तु विज्ञेया ऋषिपुत्रकाः ।
ऋषन्ति वै श्रुतं यस्माद्विशेषांश्चैव तत्त्वतः।
तस्मात् श्रुतर्षयस्तेऽपि श्रुतस्य परिदर्शनाः ॥ ५९.८६ ॥

अव्यक्तात्मा महात्मा चाहङ्कारात्मा तथैव च।
भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते ।
इत्येता ऋषिजातीस्तु नामभिः पञ्च वै श्रृणु ॥ ५९.८७ ॥

भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहःक्रतुः।
मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चेति ते दश।
ब्रह्मणो मानसा ह्येते उद्भूताः स्वयमीश्वराः ॥ ५९.८८ ॥

प्रवर्त्तन्ते ऋषेर्यस्मान्महांस्तस्मान्महर्षयः।
ईश्वराणां सुतास्त्वेते ऋषयस्तान्निबोधत ॥ ५९.८९ ॥

काव्यो बृहस्पतिश्चैव कश्यपश्चोशनास्तथा।
उतथ्यो वामदेवश्च अपोज्यश्चैशिजस्तथा ॥ ५९.९० ॥

कर्द्दमो विश्रवाः शक्तिर्वालखिल्य स्तथा धराः।
इत्येते ऋषयः प्रोक्ता ज्ञानतो ऋषिताङ्गताः ॥ ५९.९१ ॥

ऋषिपुत्रानृषिकांस्तु गर्भोत्पन्नान्निबोधत।
वत्सरो नग्रहूश्चैव भारद्वाजस्तथैव च ॥ ५९.९२ ॥

बृहदुत्थः शरद्वांश्च अगस्त्यश्चौशिजस्तथा।
ऋषिर्दीर्घतमाश्चैव बृहदुक्थः शरद्वतः ॥ ५९.९३ ॥

वाजश्रवाः सुवित्तश्च सुवाग्वेषपरायणः।
दधीचः शङ्खमांश्चैव राजा वैश्रवणस्तथा।
इत्येते ऋषिकाः प्रोक्तास्ते सत्यादृषिताङ्गताः ॥ ५९.९४ ॥

ईश्वरा ऋषिकाश्चैव ये चान्ये वै तथा स्मृताः।
एते मन्त्रक्षकृतः सर्वे कृत्स्नशस्तान्निबोधत ॥ ५९.९५ ॥

भृगुः काव्यः प्रचेतास्तु दधीचो ह्यात्मवानपि ।
और्वोऽथ जमदग्निश्च दिवः सारस्वत स्तथा ॥ ५९.९६ ॥

अद्विषेण ह्यरूपश्च वीतहव्य सुमेधसः।
वैन्यः पृथुर्दिवोदासः प्रश्वारो गृत्समान्नभः।
एकोनविंशदित्येते ऋषयो मन्त्रवादिनः ॥ ५९.९७ ॥

अङ्गिरा वेधसश्चैव भारद्वाजोऽथ बाष्कलिः।
तथामृतस्तथा गार्ग्यः शेनी संहृतिरेव च ॥ ५९.९८ ॥

पुरुकुत्सोऽथ मान्धाता अम्बरीषस्तथैव च।
आहार्योथाजमीढश्च ऋषभो वलिरेव च ॥ ५९.९९ ॥

पृषदश्वो विरूपश्च कण्वश्चैवाथ मुद्गलः।
युवनाश्वः पौरुकुत्सस्त्रसद्दस्युः सदस्युमान् ॥ ५९.१०० ॥

उतथ्यश्च भरद्वाजस्तथा वाजश्रवा अपि ।
आयाप्यश्च सुवित्तिश्च वामदेवस्तथैव च ॥ ५९.१०१ ॥

औगजो बृहदुक्थश्च ऋषिर्दीर्घतपास्तथा।
कक्षीवांश्च त्रयस्त्रिंशत् स्मृता अङ्गिरसो वराः।
एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत ॥ ५९.१०२ ॥

काश्यपश्चैव वत्सारो विभ्रमो रैभ्य एव च।
असितो देवलश्चैव षडेते ब्रह्मवादिनः ॥ ५९.१०३ ॥

अत्रिरर्च्चिसनश्चैव श्यामावांश्चाथ निष्ठुरः।
वल्गूतको मुनिर्द्धीमांस्तथा पूर्वातिथिश्च यः।
इत्येते चात्रयः प्रोक्ता मन्त्रकारा महर्षयः ॥ ५९.१०४ ॥

वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः।
चतुर्थ इन्द्रप्रमतिः पञ्चमस्तु भरद्वसुः ॥ ५९.१०५ ॥

षष्ठस्तु मैत्रावरुणाः कुण्डिनः सप्तमस्तथा।
सुद्युम्नश्चाष्टमश्चैव नवमोऽथ बृहस्पतिः।
दशमस्तु भरद्वाजौ मन्त्रब्राह्मणकारकाः ॥ ५९.१०६ ॥

एते चैव हि कर्तारो विधर्मध्वंसकारिणः।
लक्षणं ब्रह्मणश्चैतद्विहितं सर्वशाखिनाम् ॥ ५९.१०७ ॥

हेतुर्हितेः स्मृतो धातोर्यन्निहन्त्युदितम्परैः।
अथ वार्थपरि प्राप्तेर्हिनोतेर्गतिकर्मणः ॥ ५९.१०८ ॥

तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् ।
निन्दां तामाहुराचार्या यद्दोषन्निन्द्यते वचः ॥ ५९.१०९ ॥

प्रषूर्वाच्छंसतेर्धातोः प्रशसां गुणवत्तया।
इदन्त्विदमिदं नेदमित्यनिश्चित्य संशयः ॥ ५९.११० ॥

इदमेव विधातव्यमित्ययं विधिरुच्यते ।
अन्यस्यान्यस्य चोक्तत्वाद्‌बुधैः परकृतिः स्मृता ॥ ५९.१११ ॥

यो ह्यत्यन्ततरोक्तश्च पुराकल्पः स उच्यते।
पुराविक्रान्तवाचित्वात् पुराकल्पस्य कल्पना ॥ ५९.११२ ॥

मन्त्रब्राह्मणकल्पैस्तु निगमैः शुद्धविस्तरैः ।
अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ॥ ५९.११३ ॥

यथा हीदं तथा तद्वै इदं वापि तथैव तत्।
इत्येष ह्युपदेशोऽयं दशमो ब्राह्मणस्य तु ॥ ५९.११४ ॥

इत्येतद्ब्राह्मणस्यादौ विहितं लक्षणं बुधः ।
तस्य तद्वृत्तिरुद्दिष्टा व्याख्याप्यनुपदं द्विजैः ॥ ५९.११५ ॥

मन्त्राणां कल्पनं चैव विधिदृष्टेषु कर्मसु।
मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽवनात् ॥ ५९.११६ ॥

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥ ५९.११७ ॥

इति श्रीमहापुराणे वायुप्रोक्ते ऋषिलक्षणं नामोनषष्टितमोऽध्यायः ॥ ५९ ॥