०५८

॥सूत उवाच ॥

विश्वास-प्रस्तुतिः

अत ऊर्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः।
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥ ५८.१ ॥

मूलम्

द्वापरादौ प्रजानान्तु सिद्धिस्त्रतायुगे तु या।
परिवृत्ते युगे तस्मिंस्ततः सा सम्प्रणश्यति ॥ ५८.२ ॥

ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः।
लोभोऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ॥ ५८.३ ॥

तम्भेदश्चैव वर्णानां कार्याणाञ्चा विनिर्णयः।
यज्ञौषधेः पशोर्दण्डो मदो दम्भोऽक्षमा बलम्।
एषां रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता ॥ ५८.४ ॥

आद्ये कृते च धर्मोऽस्ति त्रेतायां सम्प्रपद्यते।
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ ५८.५ ॥

वर्णानां विपरिध्वंसः सङ्कीर्त्त्यते तथाश्रमः।
द्वैधमुत्पद्यते चैव युगे तस्मिन् श्रुतौ स्मृतौ ॥ ५८.६ ॥

द्वैधात् श्रुतेः स्मृतेश्चैव निश्चयो नाधिगम्यते।
अनिश्चयादिगमनाद्धर्मतत्त्वं निगद्यते।
धर्मतत्त्वे तु भिन्नानां मतिभेदो भवेन्नृणाम् ॥ ५८.७ ॥

परस्परविभिन्नैस्तैर्दृष्टीनां विभ्रमेण च।
अयं धर्मो ह्ययं नेति निश्चयो नाभिगम्यते ॥ ५८.८ ॥

कारणानाञ्च वकैल्यात् कारणस्याप्यनिश्चयात्।
मतिभेदे च तेषां वै दृष्टीनां विभ्रमो भवेत् ॥ ५८.९ ॥

ततो दृष्टिविभिन्नैस्तैः कृतं शास्त्रकुलन्त्विदम्।
एको वेदश्वतुष्पादस्त्रेतास्विह विधीयते ॥ ५८.१० ॥

संरोधादायुषश्चैव दृश्यते द्वापरेषु च ।
वेदव्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ॥ ५८.११ ॥

ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः।
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ॥ ५८.१२ ॥

संहिता ऋग्यजुःसाम्नां संहन्यन्ते श्रुतर्षिभिः।
सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः व्कचित्व्कचित् ॥ ५८.१३ ॥

ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च।
अन्ये तु प्रहितास्तीर्थैः केचित्तान् प्रत्यवस्थिताः ॥ ५८.१४ ॥

द्वापरेषु प्रवर्त्तन्ते भिन्नवृत्ताश्रमा द्विजाः।
एकमाध्वर्यवं पूर्वमासीद्द्वैधं पुनस्ततः ॥ ५८.१५ ॥

सामान्यविपरीतार्थैः कृतं शास्त्रकुलन्त्विदम्।
आध्वर्यवस्य प्रस्तावैर्बहुधा व्याकुलं कृतम् ॥ ५८.१६ ॥

तथैवाथर्वऋक्साम्नां विकल्पैश्चाप्यसङ्क्षयैः।
व्याकुलं द्वापरे भिन्ने क्रियते भिन्नदर्शनैः ॥ ५८.१७ ॥

तैषां भेदाः प्रभेदाश्च विकल्पैश्चाप्यसङ्क्षयाः ।
द्वापरे सम्प्रवर्तन्ते विनश्यन्ति पुनः कलौ ॥ ५८.१८ ॥

तेषां विपर्ययाश्चैव भवन्ति द्वापरे पुनः।
अवृष्टिर्मरणञ्चैव तथैव व्याध्युपद्ववाः ॥ ५८.१९ ॥

वाङ्मनःकर्मजैर्दुःखैर्निर्वेदो जायते पुनः ।
निर्वेदाज्जायते तेषां दुःखमोक्ष विचारणा ॥ ५८.२० ॥

विचाराणाच्च वैराग्यं वैराग्याद्दोपदर्शनम्।
दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसम्भवः ॥ ५८.२१ ॥

तेषाञ्च मानिनां पूर्वमाद्ये स्वायम्भुवेऽन्तरे।
उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः ॥ ५८.२२ ॥

आयुर्वेदविकल्पाश्च अङ्गानां ज्यौतिषस्य च।
अर्थशास्त्रविकल्पश्च हेतुशास्त्रविकल्पनम् ॥ ५८.२३ ॥

स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक्।
द्वापरेष्वभिवर्त्तन्ते मतिभेदास्तथा नृणाम् ॥ ५८.२४ ॥

मनसा कर्मणा वाचा कृच्छ्रा द्वार्त्ता प्रसिद्ध्यति।
द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता ॥ ५८.२५ ॥

लोभेऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः।
वेदशास्त्रप्रणयनं धर्माणां सङ्करस्तथा ॥ ५८.२६ ॥

द्वापरेषु प्रवर्त्तन्ते रोगो लोभो वधस्तथा।
वर्णाश्रमपरिध्वंसाः कामद्वेषौ तथैव च ॥ ५८.२७ ॥

पूर्णे वर्षसहस्रे द्वे परमायुस्तुथा नृणाम्।
निःशेपे द्वापरे तस्मिन् तस्य सन्ध्या तु पादतः ॥ ५८.२८ ॥

प्रतिष्ठते गुणैर्हीनो धर्मोऽसौ द्वापरस्य तु ।
तथैव सन्ध्यापादेन अंशस्तस्यावतिष्ठते ॥ ५८.२९ ॥

द्वापरस्य च वर्षे या तिष्यस्य तु निबोधत।
द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरतः ॥ ५८.३० ॥

हिंसासूयानृतं माया वधश्चैव तपस्विनाम्।
एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः ॥ ५८.३१ ॥

एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते।
मनसा कर्मणा स्तुत्या वार्त्ता सिद्ध्यति वा न वा ॥ ५८.३२ ॥

कलौ प्रमारको रोगः सततं क्षुद्भयानि वै।
अनावृष्टिभयं घोरं दर्शनञ्च विपर्ययम् ॥ ५८.३३ ॥

न प्रमाणं स्मृतेरस्ति तिष्ये लोके युगे युगे।
गर्भस्थो म्रियते कश्चिद्यौवनस्थस्तथापरः ।
स्थाविरे मध्यकौमारे म्रियन्ते वै कलौ प्रजाः ॥ ५८.३४ ॥

अधार्मिकास्त्वनाचारास्तीक्ष्ण कोपाल्पतेजसः।
अनृतब्रुवश्च सततं तिष्ये जायन्ति वै प्रजाः ॥ ५८.३५ ॥

दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः।
विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् ॥ ५८.३६ ॥

हिंसा माया तथेर्ष्या च क्रोधोऽसूयाक्षमानृतम्।
तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः ॥ ५८.३७ ॥

सङ्क्षोभो जायतेऽत्यर्थं कलिमासाद्य वै युगम्।
नाधीयन्ते तदा वेदा न यजन्ते द्विजातयः।
उत्सीदन्ति नराश्चैव क्षत्रियाः सविशः क्रमात् ॥ ५८.३८ ॥

क्षुद्राणामन्त्ययोनेस्तु सम्बन्धा ब्राह्मणैः सह।
भवन्तीह कलौ तस्मिन् शयनासनभोजनैः ॥ ५८.३९ ॥

राजानः शूद्रभूयिष्ठा पाषण्डानां प्रवर्तकाः।
भ्रूणहत्याः प्रजास्तत्र प्रजा एवं प्रवर्त्तते ॥ ५८.४० ॥

आयुर्मेधा बलं रूपं कुलञ्चैव प्रहीयते।
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥ ५८.४१ ॥

राजवृत्ते स्थिताश्चौराश्चौरवृत्ताश्च पार्थिवाः।
भृत्याश्च नष्टसुहृदो युगान्ते पर्युपस्थिते ॥ ५८.४२ ॥

अशीलिन्योऽव्रताश्चापि स्त्रियो मद्यामिषप्रियाः।
मायामात्रा भविष्यन्ति युगान्ते प्रत्युपस्थिते ॥ ५८.४३ ॥

श्वापदप्रबलत्वञ्च गवाञ्चैवाप्युपक्षयः।
साधूनां विनिवृत्तिश्च विद्यात्तस्मिन् कलौ युगे ॥ ५८.४४ ॥

तदा सूक्ष्मे महोदर्को दुर्लभो भोगिनां तथा।
चतुराश्रमशैथिल्याद्धर्मः प्रविचलिष्यति ॥ ५८.४५ ॥

तदा ह्यल्पफला देवी भवेद्भूमिर्महीयसी।
शूद्रास्तपश्चरिष्यन्ति युगान्ते प्रत्युपश्थिते ॥ ५८.४६ ॥

तदा ह्यैकाहिको धर्मो द्वापरे यश्च मासिकः।
त्रेतायां वत्सरस्थश्च एकाहादतिरिच्यते ॥ ५८.४७ ॥

अरक्षितारो हर्त्तारो बलिभागस्य पार्थिवाः।
युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः ॥ ५८.४८ ॥

अक्षत्रियाश्च राजानो विशः शूद्रोपजीविनः।
शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः ॥ ५८.४९ ॥

पतयश्च भविष्यन्ति बहवोऽस्मिन् कलौ युगे।
चित्रवर्षी तदा देवो यदा स्यात्तु युगक्षयः ॥ ५८.५० ॥

सर्वे वाणिजकाश्चापि भविष्यन्त्यधमे युगे।
भूयिष्ठं कूटमानैश्च पण्यविक्रीततेजनैः ॥ ५८.५१ ॥

कुशीलचर्या पाषण्डैर्वृथारूपैः समावृतम्।
पुरुषाल्पं बहुस्त्रीकं युगान्ते पर्युपस्थिते ॥ ५८.५२ ॥

बहुयाचनको लोको भविष्यति परस्परम्।
क्रव्यादनः क्रूरवाक्यो नार्जवो नानसूयकः ॥ ५८.५३ ॥

न कृते प्रतिकर्ता च क्षीणो लोको भविष्यति।
अशङ्का चैव पतिते तद्युगान्तस्य लक्षणम् ॥ ५८.५४ ॥

नरशून्या वसुमती शून्या चैव भविष्यति।
मण्डलानि भवन्त्यत्र देशेषु नगरेषु च ॥ ५८.५५ ॥

अल्पोदका चाल्पफला भविष्यति वसुन्धरा।
गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्त्यशासनाः ॥ ५८.५६ ॥

हर्त्तारः पररत्नानां परदारप्रधर्षकाः।
कामात्मानो दुरात्मानो ह्यधर्मात् साहसप्रियाः ॥ ५८.५७ ॥

अनष्टचेतनाः पुंसो मुक्तकेशास्तु चूलिकाः।
ऊनषोडशवर्षाश्च प्रजायन्ते युगक्षये ॥ ५८.५८ ॥

शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः।
शूद्रा धर्मञ्चरिष्यन्ति युगान्ते पर्युपस्थिते ॥ ५८.५९ ॥

सस्यचौरा भविष्यन्ति तथा चैलाभिमर्शनाः।
चौराश्चौरस्य हर्त्तारो हन्तुर्हर्त्तार एव व ॥ ५८.६० ॥

ज्ञानकर्मण्युपरते लोके निष्क्रियताङ्गते ।
कीटमूषिकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ ५८.६१ ॥

सुभिक्षं क्षेममारोग्यं सामर्थ्यं दुर्लभं भवेत्।
कौशिकाः प्रतिवत्स्यन्ति देशान् क्षुद्भयपीडितान् ॥ ५८.६२ ॥

दुःखेनाभिप्लुतानाञ्च परमायुः शतं भवेत्।
दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः ॥ ५८.६३ ॥

उत्सीदन्ति तथा यज्ञाः केवला धर्मपीडिताः।
कषायिणश्च निर्ग्रन्थास्तथा कापालिनश्च ह ॥ ५८.६४ ॥

वेदविक्रयिणश्चान्ये तीर्थविक्रयिणोऽपरे ।
वर्णाश्रमाणां ये चान्ये पाषण्डाः परिपन्थिनः ॥ ५८.६५ ॥

उत्पद्यन्ते तथा ते वै सम्प्राप्ते तु कलौ युगे।
नाधीयन्ते तदा वेदाः शूद्रा धर्मार्थकोविदाः ॥ ५८.६६ ॥

यजन्ते नाश्वमेधेन राजानः शूद्रयोनयः।
स्त्रीवधं गोवधं कृत्वा हत्वा चैव परस्परम्।
उपहन्युस्तदान्योन्यं साधयन्ति तथा प्रजाः ॥ ५८.६७ ॥

दुःखप्रचारतोऽल्पायुर्देशोत्सादः सरोगता।
मोहो ग्लानिस्तथासौख्यं तमोवृत्तं कलौ स्मृतम् ॥ ५८.६८ ॥

प्रजा तु भ्रूणहत्यायामथ वै सम्प्रवर्त्तते।
तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते।
दुःखेनाभिप्लुतानां वै परमायुः शतं नृणाम् ॥ ५८.६९ ॥

दृश्यन्ते नाभिदृश्यन्ते वेदाः कलियुगेऽखिलाः।
उत्सीदन्ते तदा यज्ञाः कोवला धर्मपीडिताः ॥ ५८.७० ॥

तदा त्वल्पेन कालेन सिद्धिं यास्यन्ति मानवाः।
धन्या धर्मञ्चरिष्यन्ति युगान्ते द्विजसत्तमाः ॥ ५८.७१ ॥

श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः.

विश्वास-प्रस्तुतिः

त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः।
यथाशक्तिं चरन् प्राज्ञस्तदह्ना प्राप्रुयात् कलौ ॥ ५८.७२ ॥

एषा कलियुगेऽवस्था सन्ध्यांशन्तु निबोध मे ।
युगे युगे तु हीयन्ते त्रींस्त्रीन् पादांश्च सिद्धयः ॥ ५८.७३ ॥

युगस्वभावात्सन्ध्यास्तु तिष्ठन्तीमास्तु पादशः।
सन्ध्यास्वभावाच्चांशेषु पादशस्ते प्रतिष्ठिताः ॥ ५८.७४ ॥

एवं सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके।
तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः ॥ ५८.७५ ॥

गोत्रेण वै चन्द्रमसो नाम्ना प्रमितिरुच्यते।
माधवस्य तु सोंशेन पूर्वं स्वायम्भुवेऽन्तरे ॥ ५८.७६ ॥

समाः स विंशतिं पूर्णाः पर्यटन् वै वसुन्धराम्।
आचकर्ष स वै सेनां सवाजिरथकुञ्जराम् ॥ ५८.७७ ॥

प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः।
स तदा तैः परिवृतो म्लेच्छान् हन्ति सहस्रशः ॥ ५८.७८ ॥

स हत्वा सर्वगश्चैव राज्ञस्तान् शूद्रयोनिजात्।
पाषण्डान् स ततः सर्वान्निःशेषान् कृतवान् प्रभुः ॥ ५८.७९ ॥

नात्यर्थं धार्मिका ये च तान् सर्वान् हन्ति सर्वशः।
वर्णव्यत्यासजातांश्च ये च तानुपजीविनः ॥ ५८.८० ॥

उदीच्यान्मध्यदेशांश्च पार्वतीयांस्तथैव च।
प्राच्यान् प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान् ॥ ५८.८१ ॥

तथैव दाक्षिणात्यांश्च द्रविडान् सिंहलैः सह।
गान्दारान् पारदांश्चैव पह्नवान् यवनांस्तथा ॥ ५८.८२ ॥

तुषारान् वर्वरांश्चीनान् शूलिकान् दरदान् खसान्।
लम्पाकान्थ केतांश्च किरातानाञ्च जातयः ॥ ५८.८३ ॥

प्रवृत्तचक्रो बलवान् म्लेच्छानामन्तकृद्विभुः।
अधृष्यः सर्वभूतानां चचाराथ वसुन्धराम् ॥ ५८.८४ ॥

माधवस्य तु सोंशेन देवस्य हि विजज्ञिवान् ।
पूर्वजन्मविधिज्ञैश्च प्रमितिर्नाम वीर्यवान् ॥ ५८.८५ ॥

गोत्रेण वै चन्द्रमसः पूर्वे कलियुगे प्रभुः।
द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्ते विंशतिं समाः ॥ ५८.८६ ॥

विनिघ्नन् सर्वभूतानि मानवानि सहस्रशः।
कृत्वा वीर्यावशेषान्तु पृथ्वीं ऱूढेन कर्मणा ।
परस्परनिमित्तेन कोपेनाकस्मिकेन तु ॥ ५८.८७ ॥

स साधयित्वा वृषलान् प्रायशस्तानधार्मिकान् ।
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः ॥ ५८.८८ ॥

ततो व्यतीते तस्मिंस्तु अमात्ये सत्यसैनिके।
उत्साद्य पार्थिवान् सर्वान् म्लेच्छांश्चैव सहस्रशः ॥ ५८.८९ ॥

तत्र सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके।
स्थितास्वल्पावशिष्टासु प्रजास्विह व्कचित् व्कचित् ॥ ५८.९० ॥

अप्रग्रहास्ततस्ता वै लोकचेष्टास्तु वृन्दशः।
उपहिंसन्ति चान्योन्यं प्रपद्यन्ते परस्परम् ॥ ५८.९१ ॥

अराजके युगवशात् संशये समुपस्थिते।
प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः ॥ ५८.९२ ॥

व्याकुलाश्च परिश्रान्तास्त्यक्त्वा दारान् गृहाणि च।
स्वान् प्राणान् समवेक्षन्तो निष्ठां प्राप्ताः सुदुःखिताः ॥ ५८.९३ ॥

नष्टे श्रौते स्मृते धर्मे परस्परहतास्तदा।
निर्मर्यादा निराक्रन्दा निःस्नेहा निरपत्रपाः ॥ ५८.९४ ॥

नष्टे वर्पे प्रतिहता ह्रस्वकाः पञ्जविंशकाः।
हित्वा दारांश्च पुत्रांश्च विषादव्याकुलेन्द्रियाः ॥ ५८.९५ ॥

अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः।
प्रत्यन्तांस्तान्निपेवन्ते हित्वा जनपदान् स्वकान् ॥ ५८.९६ ॥

सरितः सागरान् कूपान् सेवन्ते पर्वतांस्तदा।
मधुमांसैर्मूलफलैर्वर्त्तयन्ति सुदुःखिताः ॥ ५८.९७ ॥

चीरवस्त्राजिनधरा निष्पत्रा निष्परिग्रहाः।
वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः ॥ ५८.९८ ॥

एताः काष्ठामनुप्राप्ता अल्पशेषास्तथा प्रजाः ।
जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमागमन् ॥ ५८.९९ ॥

विचारणन्तु निर्वेदात् साम्यावस्था विचारणात्।
साम्यावस्थासु सम्बोधः सम्बोधाद्धर्मशीलता ॥ ५८.१०० ॥

तासुपगमयुक्तासु कलिशिष्टासु वै स्वयम्।
अहोरात्रं तदा तासां युगन्तु परिवर्त्तते ॥ ५८.१०१ ॥

चित्तसम्मोहनं कृत्वा तासान्तैः सप्तमन्तु तत्।
भाविनोऽर्थस्य च बलात्ततः कृतमवर्तत ॥ ५८.१०२ ॥

प्रवृत्ते तु पुनस्तस्मिंस्ततः कृतयुगे तु वै।
उत्पन्नाः कलिशिष्टास्तु कार्तयुग्यः प्रजान्तदा ॥ ५८.१०३ ॥

तिष्ठन्ति चेह ये सिद्धाः सुदृष्टा विचरन्ति च।
सदा सप्तर्षयश्चैव तत्र ते च व्यवस्थिताः ॥ ५८.१०४ ॥

ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह।
कलिजैः सह ते सर्वे निर्विशेषास्तदाभवन् ॥ ५८.१०५ ॥

तेषां सप्तर्षयो धर्म कथयन्तीतरेषु च ।
वर्णा श्रमाचारयुक्तः श्रौतः स्मार्तो द्विधा तु सः ॥ ५८.१०६ ॥

ततस्तेषु क्रियावत्सु वर्त्तन्ते वै प्रजाः कृते ।
श्रौतः स्मार्त्तः कृतानान्तु धर्मः सप्तर्षिदर्शितः ॥ ५८.१०७ ॥

तासु धर्मव्यवस्तार्थं तिष्ठन्तीहायुगक्षयात् ।
मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै ॥ ५८.१०८ ॥

यथा दावप्रदग्धेषु तृणेष्विह तपे ऋतौ ।
नवानां प्रथमं दृष्टस्तेषां मूले तु सम्भवः ॥ ५८.१०९ ॥

एवं युगाद्युगस्तेह सन्तानस्तु परस्परम् ।
वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ॥ ५८.११० ॥

सुखमायुर्बलं रूपं धर्मार्थौ काम एव च ।
युगेष्वेतानि हीयन्ते त्रीणि पादक्रमेण तु ॥ ५८.१११ ॥

ससन्ध्यंशेषु हीयन्ते युगानां धर्मसिद्धयः।
इत्येष प्रतिसन्धिर्वः कीर्त्तितस्तु मया द्विजाः ॥ ५८.११२ ॥

चतुर्युगानां सर्वेषामेतेनैव प्रसाधनम् ॥
एषा चतुर्युगावृत्तिरासहस्रात् प्रवर्त्तते ॥ ५८.११३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणस्तदहः प्रोक्तं रात्रिश्च तावती स्मृता ।
अत्रार्जवं जडीभावो भूतानामायुगक्षयात् ॥ ५८.११४ ॥

एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम्।
एषा चतुर्युगानान्तु गणना ह्येकसप्ततिः।
क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते ॥ ५८.११५ ॥

चतुर्युगे तथैकस्मिन् भवतीह यथाश्रुतम्।
तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् ॥ ५८.११६ ॥

सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु ।
पञ्चविंशत्परिमिता न न्यूना नाधिकास्तथा ॥ ५८.११७ ॥

तथा कल्पयुगैः सार्द्धं भवन्ति समलक्षणाः।
मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ॥ ५८.११८ ॥

तथा युगानां परिवर्त्तनानि चिरप्रवृत्तानि युगस्वभवात् ।
तथा न सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः ॥ ५८.११९ ॥

इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः।
अतीतानागतानां वै सर्वाण्येवान्तराणि ॥ ५८.१२० ॥

अनागतेषु तद्वच्च तर्क्कः कार्यो विजानता।
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥ ५८.१२१ ॥

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै।
व्याख्यातानि विजानीद्वं कल्पे कल्पेन चैव हि ॥ ५८.१२२ ॥

अस्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत।
देवा ह्यष्टविधा ये च इह मन्वन्तरेश्वराः ॥ ५८.१२३ ॥

ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः।
एवं वर्णाश्रमाणान्तु प्रविभागो युगे युगे ॥ ५८.१२४ ॥

युगस्वभावाच्च तथा विधत्ते वै सदा प्रभुः ।
वर्णाश्रमविभागश्च युगानि युगसिद्धये ॥ ५८.१२५ ॥

अनुषङ्गः समाख्यातः सृष्टिसर्गन्निबोधत।
विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ॥ ५८.१२६ ॥

इति श्रीमहापुराणे वायुप्रोक्ते चतुर्युगाख्यानं नामाष्टपञ्चाशोऽध्यायः ॥ ५८ ॥