०५७

॥ऋषय ऊचुः ॥

विश्वास-प्रस्तुतिः

चतुर्युगानि यान्यासन् पूर्वं स्वायम्भुवेऽन्तरे ।
तेषां निसर्गं तत्त्वञ्च श्रोतुमिच्छामि विस्तरात् ॥ ५७.१ ॥

मूलम्

॥सूत उवाच॥
विश्वास-प्रस्तुतिः

पृथिव्यादिप्रसङ्गेन यन्मया प्रागुदाहृतम्।
तेषाञ्चतुर्युगं ह्येतत् प्रवक्ष्यामि निबोधत ॥ ५७.२ ॥

सङ्ख्ययेह प्रसङ्ख्याय विस्ताराच्चैव सर्वशः।
युगञ्च युगभेदञ्च युगधर्मन्तथैव च ॥ ५७.३ ॥

युगसन्ध्यंशकञ्चैव युगसन्धानमेव च।
षट्‌प्रकारयुगाख्यानां प्रवक्ष्यामीह तत्त्वतः ॥ ५७.४ ॥

लौकिकेन प्रमाणेन विबुद्धोऽब्दस्तु मानुषः। तेनाब्देन प्रसङ्ख्याय वक्ष्यामीह चतुर्युगम् ॥ ५७.५ .
विश्वास-प्रस्तुतिः

निमेषकालः काष्ठा च कलाश्चापि मुहूर्त्तकाः।
निमेषकालतुल्यं हि विद्याल्लघ्वक्षरञ्चयत् ॥ ५७.६ ॥

काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत् कलास्ताः।
त्रिंशत् कलाश्चैव भवेन्मुहूर्त्तास्तत्र्त्रिंशता रात्र्यहनी समेते ॥ ५७.७ ॥

अहोरात्रे विभजते सूर्यो मानुषदैविके।
तत्राहः कर्मचेष्टायां रात्रिः स्वप्नाय कल्प्यते ॥ ५७.८ ॥

पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः।
कृष्ण पक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥ ५७.९ ॥

त्रिंशच्च मानुषा मासाः पित्र्यो मासश्च स स्मृतः।
शतानि त्रीणि मासानां षष्टया चाप्यधिकानि वै।
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥ ५७.१० ॥

मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् ।
पिदॄणां त्रीणि वर्षाणि सङ्खयातानीह तानि वै।
चत्वार श्चाधिका मासाः पित्रे चैवेह कीर्त्तिताः ॥ ५७.११ ॥

लोकिकेनैव मानेन अब्दो यो मानुषः स्मृतः।
एतद्दिव्यमहोरात्रं शास्त्रेऽस्मिन् निश्वयो मतः ॥ ५७.१२ ॥

दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ ५७.१३ ॥

ये ते रात्र्यहनी दिव्ये प्रसङ्खयाते तयोः पुनः।
त्रिंशच्च तानि वर्षाणि दिव्यो मासस्तु स स्मृतः ॥ ५७.१४ ॥

मानुषञ्च शतं विद्धि दिव्यमासास्त्रयस्तु ते।
दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः ॥ ५७.१५ ॥

त्रीणि पर्षशतान्येव षष्टिवर्षाणि यानि च।
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः ॥ ५७.१६ ॥

त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः।
त्रिंशद्यानि तु वर्षाणि मतः सप्तर्षिवत्सरः ॥ ५७.१७ ॥

नव यानि सहस्राणि वर्षाणां मानुषाणि तु ।
अन्यानि नवतिश्चैव क्रौञ्चः संवत्सरः स्मृतः ॥ ५७.१८ ॥

षट्‌त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि तु ।
वर्षाणान्तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ॥ ५७.१९ ॥

त्रीण्येव नियुतान्येव वर्षाणां मानुषाणि च।
षष्टिश्चैव सहस्राणि सङ्ख्यातानि तु सङ्ख्यया।
दिव्यवर्षसहस्रन्तु प्राहुः सङ्ख्याविदो जनाः ॥ ५७.२० ॥

इत्येवमृषिभिर्गीतं दिव्यया सङ्ख्ययान्वितम्।
दिव्येनैव प्रमाणेन युगसङ्कचाप्रकल्पनम् ॥ ५७.२१ ॥

चत्वारि भारते वर्षे युगानि कवयो विदुः।
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते।
द्वापरश्च कलि श्चैव युगान्येतानि कल्पयेत् ॥ ५७.२२ ॥

चत्वार्याहुः सहस्राणि वर्षाणान्तु कृतं युगम्।
तत्र तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ ५७.२३ ॥

इत रासु च सन्ध्यासु सन्ध्यांशेषु च वै त्रिषु ।
एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥ ५७.२४ ॥

त्रेता त्रीणि सहस्राणि सङ्ख्यैव परिकीर्त्यते।
तस्यास्तु त्रिशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ ५७.२५ ॥

द्वापरं द्वे सहस्रे तु युगमाहुर्मनीषिणः ।
तस्यापि द्विशती सन्ध्या सन्धयांशः सन्ध्यया समः ॥ ५७.२६ ॥

कलिं वर्षसहस्रन्तु युगमाहुर्मनीषिणः।
तस्याप्येकशती सन्ध्या सन्ध्यया समः ॥ ५७.२७ ॥

एषा द्वादशसाहस्री युगाख्या परिकीर्त्तिता।
कृतं त्रेता द्वापरञ्च कलिश्चैव चतुष्टयम् ॥ ५७.२८ ॥

अत्र संवत्सराः सृष्टा मानुषेण प्रमाणतः।
कृतस्य तावद्वक्ष्यामि वर्षाणां तत्प्रमाणतः ॥ ५७.२९ ॥

सहस्राणां शतान्यत्र चतुर्दश तु सङ्ख्यया।
चत्वारिंशत् सहस्राणि कलिकालयुगस्य तु ॥ ५७.३० ॥

एवं सङ्‌ख्यातकालश्च कालेष्विह विशेषतः।
एवं चतुर्युगः कालो विना सन्ध्यांशकैः स्मृतः ॥ ५७.३१ ॥

चत्वारिंशत्र्त्रीणि चैव नियुतानि च सङ्ख्यया ।
विंशतिश्च सहस्राणि ससन्ध्यांशश्चतुर्युगः ॥ ५७.३२ ॥

एवं चतुर्युगाख्या तु साधिका ह्येकसप्ततिः।
कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ॥ ५७.३३ ॥

मन्वन्तरस्य सङ्ख्या तु वर्षाग्रेण निबोधत।
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्तिताः ॥ ५७.३४ ॥

सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु।
विंशतिश्च सहस्राणि कालोऽयं साधिकां विना ॥ ५७.३५ ॥

मन्वन्तरस्य सङ्ख्यैषा सङ्ख्याविद्भिर्द्विजैः स्मृता।
मन्वन्तरस्य कालोऽयं युगैः सार्द्धं प्रकीर्तितः ॥ ५७.३६ ॥

चतुः सहस्रयुक्तं वै प्रथमन्तत् कृतं युगम्।
त्रेतावशिष्टं वक्ष्यामि द्वापरं कलिमेव च ॥ ५७.३७ ॥

युगपत्समवेतार्थो द्विधा वक्तुं न शक्यते।
क्रमागतं मया ह्येतत्तुभ्यं प्रोक्तं युगद्वयम्।
ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथैव च ॥ ५७.३८ ॥

तत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ते।
श्रौतं स्मार्त्तञ्च धर्मञ्च ब्रह्मणा च प्रचोदितम् ॥ ५७.३९ ॥

दाराग्निहोत्रसंयोगमृग्यजुः सामसञ्ज्ञितम्।
इत्यादिलक्षणं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ॥ ५७.४० ॥

परस्परागतं धर्मं स्मार्त्तञ्चाचारलक्षणम्।
वर्णाश्रमाचारयुतं मनुः स्वायम्भुवोऽब्रवीत् ॥ ५७.४१ ॥

सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै।
तेषां सुतप्ततपसामार्षेयेण क्रमेण तु ॥ ५७.४२ ॥

सप्तर्षीणां मनोश्चैव आद्ये त्रेतायुगस्य तु ।
अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ॥ ५७.४३ ॥

अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः।
आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ॥ ५७.४४ ॥

प्रणाशे त्वथ सिद्धीनामप्यासाञ्च प्रवर्त्तनम्।
आसन् मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः।
तेमन्त्रा वै पुनस्तेषां प्रतिभाससमुत्थिताः ॥ ५७.४५ ॥

ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणानि च।
सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्तं धर्मं मनुर्जगौ ॥ ५७.४६ ॥

त्रेतादौ संहिता वैदाः केवला धर्मशेषतः।
संरोधादायुषश्चैवव्यस्यन्ते द्वापरेषु ते ॥ ५७.४७ ॥

ऋषयस्तपसा देवाः कलौ च द्वापरेषु वै।
अनादिनिधना दिव्याः पूर्वं सृष्टाः स्वयम्भुवा ॥ ५७.४८ ॥

सधर्माः सप्रजाः साङ्गा यथाधर्मं युगे युगे।
विक्रीडन्ते समानार्था वेदवादा यथायुगम् ॥ ५७.४९ ॥

आरम्भयज्ञा क्षत्रस्य हविर्यज्ञा विशाम्पतेः।
परिचार यज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ॥ ५७.५० ॥

तथा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः।
क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा ॥ ५७.५१ ॥

ब्राह्मणाननुवर्त्तन्ते क्षत्रियाः क्षत्रियान् विशः।
वैश्यानुवर्तिनः शूद्राः परस्परमनुव्रताः ॥ ५७.५२ ॥

शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा।
सङ्कल्पितेन मनसा वाचोक्तेन स्वसर्मणा।
त्रेतायुगे त्वविकलः कर्मारम्भः प्रसिद्ध्यति ॥ ५७.५३ ॥

आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता।
सर्वसाधारणा ह्येते त्रेतायां वै भवन्त्युत ॥ ५७.५४ ॥

वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तथाकरोत् ।
पुनः प्रजास्तु ता मोहात्तान् धर्मान्न ह्यपालयन् ॥ ५७.५५ ॥

परस्परविरोधेन मनुन्ताः पुनरन्वयुः।
मनुः स्वायम्भुवो दृष्ट्वा याथातथ्यं प्रजापतिः ॥ ५७.५६ ॥

धाता तु शतरूपायाः पुमान् स उदपादयत्।
प्रियव्रतोत्तानपादौ प्रधमन्तौ महीपती ॥ ५७.५७ ॥

ततः प्रभृति राजान उत्पन्ना दण्डधारिणः।
प्रजानां रञ्जनाच्चैव राजानस्त्वभवन्नृषाः ॥ ५७.५८ ॥

प्रच्छन्नपापा ये जेतुमशक्या मनुजा भुवि।
धर्मसंस्थापनार्थाय तेषां शास्त्रे तपो मया ॥ ५७.५९ ॥

वर्णानां प्रविभागाश्च त्रेतायां सम्प्रकीर्तिताः।
संहिताश्च ततो मन्त्रा ऋषभिर्ब्रह्मणैस्तु ते ॥ ५७.६० ॥

यज्ञः प्रवर्तितश्चैव तदा ह्येवन्तु दैवतैः।
यामैः शुक्लैर्जपैश्चैव सर्वसम्भारसंवृतैः ॥ ५७.६१ ॥

सार्द्धं विश्वभुजा चैव देवेन्द्रेण महौजसा।
स्वायम्भुवेऽन्तरे देवैर्यज्ञास्ते प्राक् प्रवर्तिताः ॥ ५७.६२ ॥

सत्यं जपस्तपो दानं त्रेतायां धर्म उच्यते।
क्रिया धर्मश्च ह्रसते सत्यधर्मः प्रवर्त्तते ॥ ५७.६३ ॥

प्रजायन्ते ततः शूरा आयुष्मन्तो महाबलाः।
न्यस्तदण्डमहाभागा यज्वानो ब्रह्मवादिनः ॥ ५७.६४ ॥

पद्म पत्रायताक्षाश्च पृथूरस्काः सुसंहिताः।
सिंहान्तका महासत्त्वा मत्तमातङ्गगामिनः ॥ ५७.६५ ॥

महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्तिनः।
सर्वलक्षणसम्पन्ना न्यग्रोधपरिमण्डलाः ॥ ५७.६६ ॥

न्यग्रोधौ तौ स्मृतौ बाहू व्यामो न्यग्रोध उच्यते।
वामेनैवोच्छ्रयाद्यस्य सम ऊर्ध्वन्तु देहिनः।
समुच्छ्रयः परीणाहो ज्ञेयो न्यग्रोधमण्डलः ॥ ५७.६७ ॥

चक्रं रथो मणिर्भार्या निधिरश्चागजास्तथा।
सप्तातिशयरत्नानि सर्वेषाञ्चक्रवर्त्तिनाम् ॥ ५७.६८ ॥