॥शांशपायन उवाच ॥
विश्वास-प्रस्तुतिः
अगात्कथममावास्यां मासि मासि दिवं नृपः।
ऐलः पुरूरवाः सूत कथं वाऽतर्पयत् पितॄन् ॥ ५६.१ ॥
मूलम्

॥सूत उवाच॥
विश्वास-प्रस्तुतिः
तस्य चाहं प्रवक्ष्यामि प्रभावं शांशपायन।
ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः ॥ ५६.२ ॥

अपांसारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः।
ह्रासवृद्धी पितृमतः पक्षस्य च विनिर्णयः ॥ ५६.३ ॥

सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा।
कव्याग्नेश्चात्तसोमानां पितॄणाञ्चैव दर्शनम् ॥ ५६.४ ॥

यथा पुरूरवाश्चैल तर्पयामास वै पितॄन्।
एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ॥ ५६.५ ॥

यदा तु चन्द्रसूर्यौ तौ नक्षत्रेण समागतौ।
अमावास्यान्निवसत एकरात्रैकमण्डले ॥ ५६.६ ॥

स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ।
अमावस्याममावास्यां मातामहपितामहौ।
अभिवाद्य तदा तत्र कालापेक्षः प्रतीक्ष्यते ॥ ५६.७ ॥

प्रसीदमानात् सोमाच्च पित्रर्थं तत्परिस्रवात्।
ऐलः पुरूरवा विद्वान् मासि मासि प्रयत्नतः।
उवास्ते पितृमन्तं तं ससोमं स दिवास्थितः ॥ ५६.८ ॥

द्विलवं कुहुमात्रं तु ते उभे तु विचार्य सः।
सिनीवालीप्रमाणेन सिनीवालीमुपासकः ॥ ५६.९ ॥

कुहूमात्रां कलाञ्चैव ज्ञात्वोपास्ते कुहुं पुनः।
स तदा भानुमत्येक कालावेक्षी प्रपश्यति ॥ ५६.१० ॥

सुधामृतं कुतः सोमात् प्रस्रवेन्मासतृप्तये।
दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ॥ ५६.११ ॥

कृष्णपक्षे तदा पीत्वा दुह्यमानं तथांशुभिः।
सद्यः पक्षरता तेन सौम्येन मधुना च सः ॥ ५६.१२ ॥

निर्वापणार्थं दत्तेन पित्रेण विधिना नृपः।
सुधामृतेन राजेन्द्रस्तर्पयामास वै पितॄन्।
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥ ५६.१३ ॥

ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः।
जज्ञिरे ह्यृतवस्तस्मादृतुभ्यश्चार्त्तवाश्च ये । ५६.१४ ॥
विश्वास-प्रस्तुतिः
आर्त्तवा ह्यर्द्धमासाख्याः पितरो ह्यब्दसूनवः।
ऋतुः पितामहा मासा ऋतुश्चैवाभ्दसूनवः ॥ ५६.१५ ॥

प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः।
सौम्यास्तु सौम्यजा ज्ञेयाः काव्या ज्ञेयाः कवेः सुताः ॥ ५६.१६ ॥

उपहूताः स्मृताः देवाः सोमजाः सोमपास्तथा।
आज्यपास्तु स्मृताः काव्यास्तृप्यन्ति पितृजातयः ॥ ५६.१७ ॥

काव्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा।
गृहस्था ये च यज्वाना ऋतुर्बर्हिषदो ध्रुवम् ॥ ५६.१८ ॥

गृहस्थाश्चापि यज्वाना अग्निष्वात्तास्तथार्त्तवाः।
अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत ॥ ५६.१९ ॥

एषां संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः।
सोम ईद्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः ॥ ५६.२० ॥

रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः।
लेशाश्वैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ॥ ५६.२१ ॥

एते पिबन्त्यमावास्यां मासि मासि सुधां दिवि ।
तांस्तेन तर्पयामास यावदासीत् पुरूरवाः ॥ ५६.२२ ॥

यस्मात् प्रस्रवते सोमान्मासि मासि निबोधत।
तस्मात् सुधामृतं द्वै पितॄणां सोमपायिनाम् ॥ ५६.२३ ॥

एवं तदमृतं सौम्यं सुधा च मधु चैव ह ।
कृष्णपक्षे यथा चेन्दोः कलाः पञ्चदश क्रमात् ॥ ५६.२४ ॥

पिबन्त्यम्बुमयीर्दे वास्त्रयस्त्रिंशत्तु छन्दजाः।
पीत्वा च मासं गच्छन्ति चतुर्द्दश्यां सुधामृतम् ॥ ५६.२५ ॥

इत्येवं पीयमानस्तु दैवतैश्च निशाकरः।
समागच्छदमावास्यां भागे पञ्चदशे स्थितः ॥ ५६.२६।
सुषुम्नाप्यायितञ्चैव अमावास्यां यथाक्रमम्।
पिबन्ति द्विकलं कालं पितरस्ते सुधामृतम् ॥ ५६.२७ ॥

ततः पीतक्षये सोमे सूर्योऽसावेकरश्मिना।
आप्याययत्सुषुम्नेन पितॄणां सोमपायिनाम् ॥ ५६.२८ ॥

निःशेषायां कलायान्तु सोममाप्याययत् पुनः।
सुषुम्नाप्यायमानस्य भागं भाग महःक्रमात्।
कलाः क्षीयन्ति ताः कृष्णाः शुक्लाश्चाप्याययन्ति च ॥ ५६.२९ ॥

एवं सूर्यस्य वीर्येण चन्द्रस्याप्यायिता तनुः।
दृश्यते पौर्णमास्यां वै शुक्लः सम्पूर्णमण्डलः।
संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ॥ ५६.३० ॥

इत्येष पितृमान् सोमः स्मृत इद्वत्सरः क्रमात् ।
क्रान्तः पञ्चदशैः सार्द्धं सुधा मृतपरिस्रवैः ॥ ५६.३१ ॥

अतः पर्वाणि वक्ष्यामि पर्वणां सन्धयस्तथा।
ग्रन्थिमन्ति यथा पर्वाणीक्षुवेण्वोर्भवन्त्युत ॥ ५६.३२ ॥

तथार्द्धमासपर्वाणि शुक्लकृष्णानि वै विदुः।
पूर्णामावास्ययोर्भेदैर्ग्रन्थिर्या सन्धयश्च वै ।
अर्द्धमासास्तु पर्वाणि तृतीयाप्रभृतीनि तु ॥ ५६.३३ ॥

अग्नयाधानक्रिया यस्मात् क्रियते पर्वसन्धिषु।
सायाह्ने प्रतिपच्चैव स कालः पौर्णमासिकः ॥ ५६.३४ ॥

व्यतीपाते स्थिते सूर्ये लेसोर्द्धन्तु युगान्तरे।
युगान्तरोदिते चैव लेखोर्द्धं शशिनः क्रमात् ॥ ५६.३५ ॥

पौर्णमासे व्यतीपाते यदीक्षेते परस्परम्।
यस्मिन्काले स सीमान्ते स व्यतीपात एव तु ॥ ५६.३६ ॥

कालं सूर्यस्य निर्द्देशं दृष्ट्वा सङ्ख्या तु सर्पति।
स वै पथं क्रियाकालः कालात्सद्यो विधीयते ॥ ५६.३७ ॥

पूर्णेन्दोः पूर्णपक्षे तु रात्रिसन्धिषु पूर्णिमा।
यस्मात्तामनुपश्यन्ति पितरो दैवतैः सह।
तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता ॥ ५६.३८ ॥

अत्यर्थं भ्राजते यस्मात् पौर्णमास्यान्निशाकरः।
रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः ॥ ५६.३९ ॥

अमा वसेतामृक्षे तु यदा चन्द्रदिवाकरौ।
एकां पञ्चदशीं रात्रिममावास्या ततः स्मृता ॥ ५६.४० ॥

ततोऽपरस्य तैर्व्यक्तः पौर्णमास्यां निशाकरः।
यदीक्षते व्यतीपाते दिवा पूर्णे परस्परम्।
चन्द्रार्कावपराह्ने तु पूर्णात्मानौ तु पूर्णिमा ॥ ५६.४१ ॥

विच्छिन्नां ताममावास्यां पश्यतश्च समागतौ।
अन्योन्यं चन्द्रसूर्यौ तौ यदा तद्दर्श उच्यते ॥ ५६.४२ ॥

द्वौ द्वौ लवावमावास्यां यः कालः पर्वसन्धिषु।
द्वाक्षरं कुहुमात्रं तु एवं कालस्तु स स्मृतः।
नष्टचन्द्रा प्यमावास्या मध्यसूर्येण सङ्गता ॥ ५६.४३ ॥

दिवसार्द्धेन रात्र्यर्द्धं सूर्यं प्राप्य तु चन्द्रमाः.
विश्वास-प्रस्तुतिः
सूर्येण सहसा मुक्तिं गत्वा प्रातस्तनोत्सवौ ।
द्वौ कालौ सङ्गमश्चैव मध्याह्ने निष्पतेद्रविः ॥ ५६.४४ ॥

प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात्।
निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै ॥ ५६.४५ ॥

स तदा ह्याहुतेः कालो दर्शस्य च वषट्क्रिया।
एतदृतुमुखं ज्ञेयममावास्यास्य पर्वणः ॥ ५६.४६ ॥

दिवा पर्वण्यमावास्यां क्षीणेन्दौ बहुले तु वै।
तस्माद्दिवा ह्यमावास्यां गृह्यतेऽसौ दिवाकरः।
गृह्यते वै दिवा ह्यस्मादमावास्यां दिविक्षयैः ॥ ५६.४७ ॥

कलानामपि वै तासां बहुमान्याजडात्मकैः।
तिथीनां नाम धेयानि विद्वद्भिः सञ्ज्ञितानि वै ॥ ५६.४८ ॥

दर्शयेतामथान्योन्यं सूर्याचन्द्रमसावुभौ ।
निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् ॥ ५६.४९ ॥

द्विलवेन ह्यहो रात्रं भास्करं स्पृशते शशी।
स तदा ह्याहुतेः कालो दर्शस्य च वषट्क्रिया ॥ ५६.५० ॥

कुहेति कोकिरेनोक्तो यः कालः परिचिह्नितः।
तत्कालसञ्ज्ञिता यस्मादमावास्या कुहुः स्मृता ॥ ५६.५१ ॥

सिनीवालीप्रमाणेन क्षीणशेषो निशाकरः।
अमावास्यां विशत्यर्कं सिनीवाली ततः स्मृता ॥ ५६.५२ ॥

पर्वणः पर्वकालस्तु तुल्यो वै तु वषट्क्रिया।
चन्द्रसूर्यव्यतीपाते उभे ते पूर्णिमे स्मृते ॥ ५६.५३ ॥

प्रतिपत्पञ्चदश्योश्च पर्वकालो द्विमात्रकः।
कालः कुहुसिनीवाल्योः समुद्रो द्विलवः स्मृतः ॥ ५६.५४ ॥

अर्काग्निमण्डले सोमे पर्वकालः कलाश्रयः।
एवं स शुक्रपक्षो वै रजन्याः पर्वसन्धिषु ॥ ५६.५५ ॥

सम्पूर्णमण्डलः श्रीमांश्चन्द्रमा उपरज्यते।
यस्मादाप्यायते सोमः पञ्चदश्यान्तु पूर्णिमा ॥ ५६.५६ ॥

दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात्।
तस्मात् कला पञ्चदशी सोमे नास्ति तु षोडशी।
तस्मात्सोमस्य भवति पञ्चदश्यां महाक्षयः ॥ ५६.५७ ॥

इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः।
आर्त्तवा ऋतवो यस्मात्ते देवा भावयन्ति च ॥ ५६.५८ ॥

अतः पितॄन् प्रवक्ष्यामि मासश्राद्धभुजस्तु ये।
तेषां गतिञ्च सत्त्वञ्च गतिं श्राद्धस्य चैव हि ॥ ५६.५९ ॥

न मृतानां गतिः शक्या विज्ञातुं पुनरागतिः।
तपसापि प्रसिद्धेन किं पुनर्मांसचक्षुषा ॥ ५६.६० ॥

श्राद्धदेवान् पिदॄनेतान् पितरो लौकिकाः स्मृताः।
देवाः सौम्याश्च यज्वानः सर्वे चैव ह्ययोनिजाः ॥ ५६.६१ ॥

देवास्ते पितरः सर्वे देवास्तान् भावयन्त्युत।
मनुष्याः पितरश्चैव तेभ्योऽन्ये लौकिकाः स्मृताः ॥ ५६.६२ ॥

पिता पितामहश्चैव तथैव प्रपितामहः।
यज्वानो ये तु सोमे न सोमवन्तस्तु ते स्मृताः ॥ ५६.६३ ॥

ये यज्वानः स्मृतास्तेषां ते वै बर्हिषदः स्मृताः।
कर्मस्वेतेषु युक्तास्ते तृप्यन्त्यादेहसम्भवात् ॥ ५६.६४ ॥

अग्निष्वात्ताः स्मृतास्तेषां होमिनो याज्ययाजिनः।
ये वाप्याश्रमधर्मेण प्रस्थानेषु व्यवस्थिताः ॥ ५६.६५ ॥

अन्ते च नैव सीदन्ति श्रद्धायुक्तेन कर्मणा।
ब्रह्मचर्येण तपसा यज्ञेन प्रजया च वै ॥ ५६.६६ ॥

श्रद्धया विद्यया चैव प्रदानेन च सप्तधा।
कर्मस्वेतेषु ये युक्ता भवन्त्या देवपातनात् ॥ ५६.६७ ॥

देवैस्तैः पितृभिः सार्द्धं सूक्ष्मकैः सोमपायकैः।
स्वर्गता दिवि मोदन्ते पितृमन्तमुपासते ॥ ५६.६८ ॥

प्रजावतां प्रशंसैव स्मृता सिद्धा क्रियावताम्।
तेषां निवापदत्तान्नं तत्कुलीनैश्च बान्धवैः ॥ ५६.६९ ॥

मासं श्राद्धभुजस्तृप्ति लभन्ते सोमलौकिकाः।
एते मनुष्याः पितरो मासि श्राद्ध भुजस्तु ते ॥ ५६.७० ॥

तेभ्योऽपरे तु ये चान्ये सङ्कीर्णाः कर्मयोनिषु।
भ्रष्टाश्चाश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः ॥ ५६.७१ ॥

भिन्नदेहा दुरात्मनः प्रेतभूता यमक्षये।
स्वकर्माण्येव शोचन्ति यातनास्थानमागताः ॥ ५६.७२ ॥

दीर्घायुषोऽतिशुष्काश्च विवर्णाश्च विवाससः।
क्षुत्पिपासापरीताश्च विद्रवन्ति इतस्ततः ॥ ५६.७३ ॥

सरित्सरस्तडागानि वापिश्चैव जलेप्सवः।
परान्नानि च लिप्सन्ते कम्पमानास्ततस्ततः ॥ ५६.७४ ॥

स्थानेषु पाच्यमानाश्च यातायातेषु तेषु वै।
शाल्मलौ वैतरण्याञ्च कुम्भीपाकेषु तेषु च ॥ ५६.७५ ॥

करम्भवालुकायाञ्च असिपत्रवने तथा।
शिलासम्पेषणे चैव पात्यमानाः स्वकर्मभिः ॥ ५६.७६ ॥

तत्र स्थानानि तेषां वै दुःखानामप्यनाकवत्।
तेषां लोकान्तरस्थानां विविधैर्नामगोत्रतः ॥ ५६.७७ ॥

भूम्यापसव्यदर्भेषु दत्त्वा पिण्डत्रयन्तु वै।
पति तांस्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठिताः ॥ ५६.७८ ॥

अप्राप्ता यातनास्थानं सृष्टा ये भुवि पञ्चधा।
पश्चादिस्थावरान्तेषु भूतानां तेषु कर्मसु ॥ ५६.७९ ॥

नानारूपासु जातीषु तिर्यग्योनिषु चातिषु।
यदाहारा भवन्त्येते तासु तास्विह योनिषु।
तस्मिस्तस्मिंस्तदाहारं श्राद्धदत्तोपतिष्ठति ॥ ५६.८० ॥

काले न्यायागतं पात्रं विधिना प्रतिपादितम्।
प्राप्नोत्यन्नं यथा दत्तं बन्धुर्यत्रावतिष्ठते ॥ ५६.८१ ॥

यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम्।
तथा श्राद्धे तदिष्टानां मन्त्रः प्रापयते पितॄन् ॥ ५६.८२ ॥

एवं ह्यविकलं श्राद्धं श्राद्धदत्तन्तु मन्त्रतः।
सनत्कुमारः प्रोवाच पश्यन् दिव्येन चक्षुषा।
गतागतिज्ञः प्रेतानां मन्त्रः प्रापयते पितॄन् ॥ ५६.८३ ॥

बह्वीकास्वोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः।
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्राय शर्वरी ॥ ५६.८४ ॥

इत्ये ते पितरो देवा देवाश्च पितरश्च वै।
ऋतार्त्तवा अनेके तु अन्योन्यपितरः स्मृताः ॥ ५६.८५ ॥

एते तु पितरो देवा मानुषाः पितरश्च ये।
प्रीतेषु तेषु प्रीयन्ते श्रद्धायुक्तेन कर्मणा ॥ ५६.८६ ॥

इत्येवं पितरः प्रोक्ताः पिदॄणां सोमपायिनाम्।
एतत् पितृमतत्वं हि पुराणे निश्चयो मतः ॥ ५६.८७ ॥

इत्यर्कपितृ सोमानामैलस्य च समागमः।
सुधामृतस्य चावाप्तिः पितॄणाञ्चैव तर्पणम् ॥ ५६.८८ ॥

पूर्णिमावास्ययोः कालः पितॄणां स्थानमेव च।
समासात्कीर्त्तितस्तुभ्यमेष सर्गः सनातनः ॥ ५६.८९ ॥

वैश्वरूप्यन्तु सर्वस्य कथितञ्चैकदेशिकम्।
न शक्यं परिसङ्ख्यातुं श्रद्धेयं भूतिमिच्छता ॥ ५६.९० ॥

स्वायम्भुवस्य हीत्येष सर्गः क्रान्तो मयात्र वै।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ ५६.९१ ॥

इति श्रीमहापुराणे वायुप्रोक्ते पितृवर्णनं नाम षच्पञ्चाशोऽध्यायः ॥ ५६ ॥