॥ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः
गुणकर्मप्रभावैश्च कोऽधिको वदतां वरः।
श्रोतुमिच्छामहे सम्यगाश्चर्यं गुणविस्तरम् ॥ ५५.१ ॥
मूलम्

॥सूत उवाच॥
विश्वास-प्रस्तुतिः
अत्राप्युदाहरन्तीममिति हासं पुरातनम् ।
महादेवस्य माहात्म्यं विभुत्वञ्च महात्मनः ॥ ५५.२ ॥

पूर्वं त्रैलोक्यविजये विष्णुना समुदाहृतम्।
बलिं बद्ध्वा महौजास्तु त्रैलोक्याधि पतिः पुरा ॥ ५५.३ ॥

प्रणष्टेषु च दैत्येषु प्रहृष्टे च शचीपतौ।
अथाजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सवासवाः ॥ ५५.४ ॥

यत्रास्ते विश्वरूपात्मा क्षीरोदस्य समी पतः।
सिद्धब्रह्मर्षयो यक्षा गन्धर्वाप्सरसाङ्गणाः ॥ ५५.५ ॥

नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः।
अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम् ॥ ५५.६ ॥

त्वं धाता त्वञ्च कर्त्ताऽस्य त्वं लोकान् सृजसि प्रभो।
त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम्।
असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया ॥ ५५.७ ॥

एव मुक्तः सुरैर्विष्णुः सिद्धैश्च परमर्षिभिः।
प्रत्युवाच ततो देवान् सर्वांस्तान् पुरुषोत्तमः ॥ ५५.८ ॥

श्रूयतामभिधास्यामि कारणं सुरसत्तमाः।
यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः ॥ ५५.९ ॥

येन हि ब्रह्मणा सार्द्धं सृष्टा लोकाश्च मायया।
तस्यैव च प्रसादेन आदौ सिद्धत्वमागतम् ॥ ५५.१० ॥

पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रासिते मया।
उदरस्थेषु भूतेषु लोकेऽहं शयितस्तदा ॥ ५५.११ ॥

सहस्रशीर्षा भूत्वा च सहस्राक्षः सहस्रपात्।
शङ्खचक्रगदा पाणिः शयितो विमलेऽम्भसि ॥ ५५.१२ ॥

एतस्मिन्नन्तरे दूरात् पश्यामि ह्यमितप्रभम्।
शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा ॥ ५५.१३ ॥

चतुर्वक्रं महा योगं पुरुषं काञ्चनप्रभम्।
कृष्णाजिनधरं देवं कमण्डलुविभूषितम्।
निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ॥ ५५.१४ ॥

ततो मामब्रवीद्ब्रह्मा सर्वलोक नमस्कृतः।
कस्त्वं कुतो वा किञ्चेह तिष्ठसे वद मे विभो ॥ ५५.१५ ॥

अहं कर्त्ताऽस्मि लोकानां स्वयम्बूर्विश्वतोमुखः।
एवमुक्तस्तदा देन ब्रह्मणाहमुवाच तम् ॥ ५५.१६ ॥

अहं कर्त्ता च लोकानां संहर्त्ता च पुनः पुनः।
एवं सम्भाषमाणाभ्यां परस्परजयैषिणाम्।
उत्तरां दिशमास्थाय ज्वाला दृष्टाप्यधिष्ठिता ॥ ५५.१७ ॥

ज्वालान्ततस्तामालोक्य विस्मित्तौ च तदानयोः ।
तेजसा चैव तेनाथ सर्वं ज्योतिःकृतं जलम् ॥ ५५.१८ ॥

वर्द्धमाने तदा वह्नावत्यन्तपरमाद्भुते।
अतिदुद्राव तां ज्वालां ब्रह्मा चाहञ्च सत्वरः ॥ ५५.१९ ॥

दिवं भूमिञ्च विष्टभ्य तिष्ठन्तं ज्वालमण्डलम्।
तस्य ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम् ॥ ५५.२० ॥

प्रादेशमात्रमव्यक्तं लिङ्गं परमदीपितम्।
न च तत्काञ्चनं मध्ये न शैलं न च राजतम् ॥ ५५.२१ ॥

अनिर्द्देश्यमचिन्त्यञ्च लक्ष्यालक्ष्यं पुनः पुनः।
महौजसं महाघोरं वर्द्धमानं भृशं तदा।
ज्वालामालायतं न्यस्तं सर्वभूतभयङ्करम् ॥ ५५.२२ ॥

अस्य लिङ्गस्य योऽन्तं वै गच्छते मन्त्रकारणम्।
घोर रूपिणमत्यर्थं भिन्दन्तमिव रोदसी ॥ ५५.२३ ॥

ततो मामब्रवीद्ब्रह्मा अधो गच्छ त्वतन्द्रितः।
अन्तमस्य विजानीमो लिङ्गस्य तु महात्मनः ॥ ५५.२४ ॥

अहमूर्ध्वं गमिष्यामि यावदन्तोऽस्य दृश्यते।
तदा तौ समयं कृत्वा गतावूर्ध्वमधश्च ह ॥ ५५.२५ ॥

ततो वर्षसहस्रन्तु अहं पुनरधो गतः।
न च पश्यामि तस्यान्तं भीतश्चाहं न संशयः ॥ ५५.२६ ॥

तथा ब्रह्मा च श्रान्तश्च न चान्तन्तस्य पश्यति।
समागतो मया सार्द्धं तत्रैव च महाम्भसि ॥ ५५.२७ ॥

ततो विस्मयमापन्नावुभौ तस्य महात्मनः ॥
मायया मोहितौ तेन नष्टसञ्ज्ञौ व्यवस्थितौ ॥ ५५.२८ ॥
विश्वास-प्रस्तुतिः
ततो ध्यानगतन्तत्र ईश्वरं सर्वतोमुखम्।
प्रभवं निधऩञ्चैव लोकानां प्रभुमव्ययम् ॥ ५५.२९ ॥

ब्रह्माञ्जलिपुटो भूत्वा तस्मै शर्वाय शूलिने।
महाभैरवनादाय भीमरूपाय दंष्ट्रिणे।
अव्यक्ताय महान्ताय नमस्कारं प्रकुर्महे ॥ ५५.३० ॥

नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महांश्च।
नमोऽस्तु ते शाश्वत सिद्धयोने नमोऽस्तु ते सर्वजगत्प्रतिष्ठ ॥ ५५.३१ ॥

परमेष्ठी परं ब्रह्म अक्षरं परमं पदम्।
श्रेष्ठस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः ॥ ५५.३२ ॥

त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परं पदम्।
स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ॥ ५५.३३ ॥

स्वधाकारश्च जाप्यश्च व्रतानि नियमास्तथा।
वेदा लोकाश्च देवाश्च भगवानेव सर्वशः ॥ ५५.३४ ॥

आकाशस्य च शब्दस्त्वं भूतानां प्रभवाव्ययम्।
भूमेर्गन्धो रसश्वापां तेजोरूपं महेश्वर ॥ ५५.३५ ॥

वायोः रुपर्शश्च देवश्च वपुश्चन्द्रमसस्तथा ।
बुधो ज्ञानञ्च देवेश प्रकृतौ बीजमेव च ॥ ५५.३६ ॥

त्वं कर्त्ता सर्वभूतानां कालो मृत्युर्यमोऽन्तकः।
त्वं धारयसि लोकास्त्रींस्त्वमेव सृजसि प्रभो ॥ ५५.३७ ॥

पूर्वेण वदनेन त्वमिन्द्रत्वञ्च प्रकाशसे।
दक्षिणेन च वक्रेण लोकान् सङ्क्षीयसे प्रभो ॥ ५५.३८ ॥

पश्चिमेन तु वक्रेण वरुणत्वं करोषि वै।
उत्तरेण तु वक्रेण सौम्यत्वञ्च व्यवस्थितम् ॥ ५५.३९ ॥

राजसे बहुधा देव लोकानां प्रभवाव्ययः।
आदित्या वसवो रुद्रा मरुतश्चाश्विनीसुतौ ॥ ५५.४० ॥

साध्या विद्याधरा नागाश्वारणाश्च तपोधनाः.
वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः ॥ ५५.४१ ॥
विश्वास-प्रस्तुतिः
त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः।
उमा सीता सिनी वाली कुहूर्गायत्रिरेव च ॥ ५५.४२ ॥

लक्ष्मीः कीर्त्तिर्धृतिर्मेधा लज्जा क्षान्तिर्वपुः स्वधा।
तुष्टिः पुष्ठिः क्रिया चैव वाचां देवी सरस्वती।
त्वत्तः प्रसूता देवेश सन्ध्या रात्रिस्तथैव च ॥ ५५.४३ ॥

सूर्यायुतानामयुतप्रभा च नमोऽस्तु ते चन्द्रसहस्रगोचर।
नमोऽस्तु ते पर्वतरूपधारिणे नमोऽस्तु ते सर्वगुणाकराय ॥ ५५.४४ ॥

नमोऽस्तु ते पट्टिशरूपधारिणे नमोऽस्तु ते चर्मविभूतिधारिणे ।
नमोऽस्तु ते रुद्रपिनाकपाणये नमोऽस्तु ते सायकचक्रधारिणे ॥ ५५.४५ ॥

नमोऽस्तु ते भस्मविभूषिताङ्ग नमोऽस्तु ते कामशरीरनाशन।
नमोऽस्तु ते देव हिरण्यवाससे नमोऽस्तु ते देव हिरण्यबाहवे ॥ ५५.४६ ॥

नमोऽस्तु ते देव हिरण्यरूप नमोऽस्तु ते देव हिरण्यनाभ।
नमोऽस्तु ते नेत्रसहस्रचित्र नमोऽस्तु ते देव हिरण्यरेतः ॥ ५५.४७ ॥

नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यगर्भ।
नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते देव हिरण्यदायिने ॥ ५५.४८ ॥

नमोऽस्तु ते देव हिरण्यमालिने नमोऽस्तु ते देव हिरण्यवाहिने।
नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते भैरवनादनादिने ॥ ५५.४९ ॥

नमोऽस्तु ते भैरववेगवेग नमोऽस्तु ते शङ्कर नीलकण्ठ।
मनोऽस्तु ते दिव्यसहस्रबाहो नमोऽस्तु ते नर्त्तनवादनप्रिय ॥ ५५.५० ॥

एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः।
भाति देवो महायोगी सूर्यकोटिसमप्रभः ॥ ५५.५१ ॥

अभिभाष्यस्तदा हृष्टो महादेवो महेश्वरः।
वक्रकोटिसहस्रेण ग्रसमान इवापरम् ॥ ५५.५२ ॥

एकग्रीवस्त्वेकजटो नानाभूषण्भूषितः।
नानाचित्रविचित्राङ्गो नानामाल्यानुलेपनः ॥ ५५.५३ ॥

पिनाकपाणिर्भगवान् वृषभासनशूलधृक् ।
दण्डकृष्णाजिनधरः कपाली घोररूपधृक् ॥ ५५.५४ ॥

व्यालयज्ञोपवीती च सुराणामभयङ्करः।
दुन्दुभिस्वननिर्घोषपर्जन्यनिनदोपमः।
मुक्तो हासस्तदा तेन नभः सर्वमपूरयत् ॥ ५५.५५ ॥

तेन शब्देन महता वयं भीता महात्मनः।
तदोवाच महायोगी प्रीतोऽहं सुरसत्तमौ ॥ ५५.५६ ॥

पश्येताञ्च महामायां भयं सर्वं प्रमुच्यताम् ।
युवां प्रसूतौ गात्रेषु मम पूर्वसनातनौ ॥ ५५.५७ ॥

अयं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः।
वामो बाहुश्च मे विष्णुर्नित्यं युद्धेषु तिष्ठति।
प्रीतोऽहं युवयोः सम्यग्वरं दझि यथेप्सितम् ॥ ५५.५८ ॥

ततः प्रहृष्टमनसौ प्रणतौ पादयोः पुनः ।
ऊचतुश्च महात्मानौ पुनरेव तदानघौ ॥ ५५.५९ ॥

यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ।
भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर ॥ ५५.६० ॥

॥भगवानुवाच॥
विश्वास-प्रस्तुतिः
एवमस्तु महाभागौ सृजतां विविधाः प्रजाः।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥ ५५.६१ ॥

एवमेष मयोक्तो वः प्रभावस्तस्य योगिनः।
तेन सर्वमिदं सृष्टं हेतुमात्रा वयन्त्विह ॥ ५५.६२ ॥

एतद्धि रूपमज्ञातमव्यक्तं शिवसञ्ज्ञितम्।
अचिन्त्यं तददृश्यञ्च पश्यन्ति ज्ञानचक्षुषः ॥ ५५.६३ ॥

तस्मै देवाधिपत्याय नमस्कारं प्रयुङ्क्त ह।
येन सूक्ष्ममचिन्त्यञ्च पश्यन्ति ज्ञानचक्षुषः ॥ ५५.६४ ॥

महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते।
सुरासुरवर श्रेष्ठ मनोहंस नमोऽस्तु ते ॥ ५५.६५ ॥

एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम्।
नमस्कारं प्रयुञ्जानाः शङ्कराय महात्मने ॥ ५५.६६ ॥

इमं स्तवं पठेद्यस्तु ईश्वरस्य महात्मनः।
कामांश्च लभते सर्वान् पापेभ्यस्तु विमुच्यते ॥ ५५.६७ ॥

एतत्सर्वं सदा तेन विष्णुना प्रभविष्णुना।
महादेवप्रसादेन उक्तं ब्रह्म सनातनम्।
एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम् ॥ ५५.६८ ॥

इति श्रीमहापुराणे वायुप्रोक्ते लिङ्गोद्भवस्तवो नाम पञ्चपञ्चाशोऽध्यायः ॥ ५५ ॥