॥ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः
कस्मिन् देशे महापुण्यमेतदाख्यानमुत्तमम्।
वृत्तं ब्रह्मपुरोगाणां कस्मिन् काले महाद्युते।
एतदाख्याहि नः सम्यग् यथा वृत्तं तपोधन ॥ ५४.१ ॥
मूलम्

॥सूत उवाच॥
विश्वास-प्रस्तुतिः
यथा श्रुतं मया पूर्वं वायुना जगदायुना।
कथ्यमानं द्विजश्रेष्ठाः सत्रे वर्षसहस्रके ॥ ५४.२ ॥

नीलता येन कण्ठस्य देवदेवस्य शूलिनः।
तदहं कीर्त्तयिष्यामि श्रृणुध्वं शंसितव्रताः ॥ ५४.३ ॥

उत्तरे शैलराजस्य सरांसि सरितो ह्रदाः।
पुण्योद्यानेषु तीर्थेषु देवतायतनेषु च।
गिरिश्रृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च ॥ ५४.४ ॥

देवभक्ता महात्मानो मुनयः शंसितव्रताः।
स्तुवन्ति च महादेवं यत्र यथाविधि ॥ ५४.५ ॥

ऋग्यजुःसामवेदैश्च नृत्यगीतार्च्चनादिभिः।
ओङ्कारेण नमस्कारैरर्च्चयन्ति सदा शिवम् ॥ ५४.६ ॥

प्रवृत्ते ज्योतिषां चक्रे मध्यव्याप्ते दिवाकरे।
देवता नियतात्मानः सर्वे तिष्ठन्ति तां कथाम् ।
अथ नियमप्रवृत्ताश्च प्राणशेषव्यवस्थिताः ॥ ५४.७ ॥

नमस्ते नीलकण्ठाय इत्युवाच सदागतिः।
तच्छुत्वा भावितात्मानो मुनयः शंशितव्रताः।
वालखिल्येति विख्याताः पतङ्गसहचारिणः ॥ ५४.८ ॥

अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम्।
तस्मात् पृच्छन्ति वै वायुं वायुपर्णाम्बुभोजनाः ॥ ५४.९ ॥

नीलकण्ठेति यत् प्रोक्तं त्वया पवनसत्तम।
एतद्दुह्यं पवित्राणां पुण्यं पुण्यकृतां वराः ॥ ५४.१० ॥

तद्वयं श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन।
नीलता येन कण्ठस्य कारणेनाम्बिकापतेः ॥ ५४.११ ॥

श्रोतुमिच्छा महे सम्यक् तव वक्राद्विशेषतः।
यावद्वाचः प्रवर्त्तन्ते सार्थास्ताश्च त्वयेरिताः ॥ ५४.१२ ॥

वर्णस्थानगते वायौ वाग्विधिः सम्प्रवर्तते।
ज्ञानं पूर्वमथोत्साह स्त्वत्तो वायो प्रवर्तते ॥ ५४.१३ .
विश्वास-प्रस्तुतिः
त्वयि निष्पन्दमाने तु शेषा वर्णप्रवृत्तयः।
यत्र वाचो निवर्तन्ते देहबन्धाश्च दुर्लभाः ॥ ५४.१४ ॥

तत्रापि तेऽस्ति सद्भावः सर्वगस्त्वं सदानिल।
नान्यः सर्वगतो देवस्त्वदृतेशस्ति समीरण ॥ ५४.१५ ॥

एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल।
वेत्थ वाचस्पतिं देवं मनोनायकमीस्वरम् ॥ ५४.१६ ॥

ब्रूहि तत्कण्ठदेशस्य किं कृता रूपविक्रिया।
श्रुत्वा वाक्यन्ततस्तेषामृषीणां भावितात्मानाम्।
प्रत्युवाच महातेजा वायुर्लोक नमस्कृतः ॥ ५४.१७ ॥

॥वायुरुवाच॥
विश्वास-प्रस्तुतिः
पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः।
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतेः ॥ ५४.१८ ॥

प्रपच्छ कार्तिकेयं वै मयूरवरवाहनम्।
महिषासुरनारीणां नयनाञ्जनतस्करम् ॥ ५४.१९ ॥

महासेनं महात्मानं मेघस्तनितनिःस्वनम्।
उमामनःप्रहर्षेण बालकं छझरूपिणम् ॥ ५४.२० ॥

क्रौञ्चजीवितहर्त्तारं पार्वतीहृदि नन्दनम्।
वसिष्ठः पृच्छते भक्त्या कार्तिकेयं महाबलम् ॥ ५४.२१ ॥

॥वसिष्ठ उवाच॥
विश्वास-प्रस्तुतिः
नमस्ते हरनन्दाय उमागर्भ नमो ऽस्तु ते।
नमस्ते अग्निगर्भाय गङ्गागर्भ नमोऽस्तु ते ॥ ५४.२२ ॥

नमस्ते शरगर्भाय नमस्ते कृत्तिकासुत।
नमो द्वादशनेत्राय षण्मुखाय नमोऽस्तु ते ॥ ५४.२३ ॥

नमस्ते शक्तिहस्ताय दिव्यघण्टापताकिने।
एवं स्तुत्वा महासेनं पप्रच्छ शिखिवाहनम् ॥ ५४.२४ ॥

यदेतद्दृश्यते वर्णं शुभं शुभ्राञ्जनप्रभम्।
तत्किमर्थं समुत्पन्नं कण्ठे कुन्देन्दुसम्प्रभे ॥ ५४.२५ ॥

एतदाप्ताय भक्ताय दान्ताय ब्रूहि पृच्छते।
कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् ।
मत्प्रियार्थं महाभाग वक्तुमर्हस्यशेषतः ॥ ५४.२६ ॥

श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः।
प्रत्युवाच महातेजाः सुरारिबलसूदनः ॥ ५४.२७ ॥

श्रृणुष्व वदतां श्रेष्ठ कथ्यमानं वचो मम।
उमोत्सङ्गनिविष्टेन मया पूर्वं यथाश्रुतम् ॥ ५४.२८ ॥

पार्वत्या सह संवादः शर्वस्य च महात्मनः।
तदहङ्कीर्त्तयिष्यामि त्वत्प्रियार्थं महामुने ॥ ५४.२९ ॥

कैलासशिखरे रम्ये नानाधातुविचित्रिते।
नानाद्रुमलताकीर्णे चक्रवाकोपशोभिते ॥ ५४.३० ॥

षट्पदोद्गीतबहुले धारासम्पातनादिते।
मत्तक्रौञ्चमयूराणां नादैरुद्घुष्टकन्दरे ॥ ५४.३१ ॥

अप्सरोगणसङ्कीर्णे किन्नरैश्चोपशोभिते ।
जीवञ्जीवकजातीनां वीरुद्भिरुपशोभिते ॥ ५४.३२ ॥

कोकिलारावमधुरे सिद्ध चारणसेविते।
सौरभैयीनिनादाढ्ये अधस्तनितनिःस्वने ॥ ५४.३३ ॥

विनायकभयोद्विग्ने कुञ्जरैर्युक्तकन्दरे।
वीणावादित्रनिर्घोषैः श्रोत्रेन्द्रियमनोरमैः ॥ ५४.३४ ॥

दोलालम्बितसम्पाते वनितासङ्घसेविते।
ध्वजैर्लम्बितदोलानां घण्ठानां निनदाकुले ॥ ५४.३५ ॥

मुखमर्दलवादित्रैर्बलिनां स्फोटितैस्तथा।
क्रीडारवविचाराणां निर्घोषैः पूर्णमन्दिरे ॥ ५४.३६ ॥

हासैः सन्त्रासजननैर्विकरालमुखैस्तथा।
देहगन्धैर्विचित्रैश्च प्रक्रीडितगणेश्चरैः ॥ ५४.३७ ॥

वज्रस्फटिकसोपान चित्रपट्टिशिलातलैः।
व्याध्रसिंहमुखैशचवान्यैर्गजवाजिमुखैस्तथा ॥ ५४.३८ ॥

बिडालवदनैश्चोग्रैः क्रोष्टुकाकारमूर्तिभिः ।
ह्रस्वैर्दीर्घैः कृशैः स्थूलैर्लम्बोदर महोदरैः ॥ ५४.३९ ॥

ह्रस्वजङ्घैश्च लम्बोष्ठैस्तालजङ्घैस्तथापरैः।
गौकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ॥ ५४.४० ॥

बहुपादैर्महापादैरेकपादैरपादकैः।
बहुशीर्षैर्महाशीर्षैरेकशीर्षैरशीर्षकैः ॥ ५४.४१ ॥

बहुनेत्रैर्महानेत्रैरेकनैत्रैरनैत्रकैः ।
एवंविधैर्महायोगिभूतैर्भूतपतिर्वृतः ॥ ५४.४२ ॥

विशुद्धमुक्तामणिरत्नभूषिते शिलातले हेममये मनोरमे।
सुखोपविष्टं मदनाङ्गनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ॥ ५४.४३ ॥

॥देव्युवाच॥
विश्वास-प्रस्तुतिः
भगवन् भूतभव्येश गोवृषाङ्कितशासन।
तव कण्ठे महादेव भ्राजतेऽम्बुदशन्निभम् ॥ ५४.४४ ॥

नात्युल्बणं नातिशुब्रं नीलाञ्जनचयोपमम्।
किमिदं दीप्यते देव कण्ठे कामाङ्ग नाशन ॥ ५४.४५ ॥

को हेतुः कारणं किञ्च कण्ठे नीलत्वमीश्वरः ।
एतत्सर्वं यथान्यायं ब्रूहि कौतूहलं हिमे ॥ ५४.४६ ॥

श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पार्वतीप्रियः ।
कथां मङ्गलसंयुक्तां कथयामास शङ्करः ॥ ५४.४७ ॥

मथ्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः।
अग्रे समुत्थितं तस्मिन् विषं कालानलप्रभम् ॥ ५४.४८ ॥

तं दृष्ट्वा सुरसङ्घाश्च दैत्याश्चैव वरानने।
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तिकम् ॥ ५४.४९ ॥

दृष्ट्वा सुरगणान् भीतान् ब्रह्मो वाच महाद्युतिः।
किमर्थं भो महाभागा भीता उद्विग्नचेतसः ॥ ५४.५० ॥

मयाष्टगुणमैश्वर्यं भवतां सम्प्रकल्पितम्।
केन व्यावर्त्तितैश्वर्या यूयं वै सुरसत्तमाः ॥ ५४.५१ ॥

त्रैलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः।
प्रजासर्गे न सोऽस्तीह आज्ञां यो मे निवर्त्तयेत् ॥ ५४.५२ ॥

विमानगामिनः सर्वे सर्वे स्वच्छन्दगामिनः।
अध्यात्मे चाधिभूते च अधिदैवे च नित्यशः।
प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम् ॥ ५४.५३ ॥

तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव।
किं दुःखं केन सन्तापः कुलो वा भयमागतम्।
एतत्सर्वं यथान्यायं शीग्रमाख्यातुमर्हथ ॥ ५४.५४ ॥

श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणो वै महात्मनः।
ऊचुस्ते ऋषिभिः सार्ध्धं सुरदैत्येन्द्रदानवाः ॥ ५४.५५ ॥

सुरासुरैर्मथ्यमाने पाथोधौ च महात्मभिः।
भुजङ्गभृङ्गसङ्काशं नीलजीमूतसन्निभम्।
प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ॥ ५४.५६ ॥

कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम्।
त्रैलोक्योत्सादि सूर्याभं प्रस्फुरन्तं समन्ततः ॥ ५४.५७ ॥

विषेणोत्तिष्ठमानेन कालानलसमत्विषा।
निर्दग्धो रक्तगौराङ्गः कृतकृष्णो जनार्दनः ॥ ५४.५८ ॥

दृष्ट्वा तं रक्तगौराङ्गं कृतकृष्णं जनार्दनम्।
भीताः सर्वे वयं देवास्त्वामेव शरणं गताः ॥ ५४.५९ ॥

सुराणामसुराणाञ्च श्रुत्वा वाक्यं पितामहः।
प्रत्युवाच महातेजा लोकानां हितकाम्यया ॥ ५४.६० ॥

श्रृणुध्वं देवताः सर्वे ऋषयश्च तपोधनाः।
यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ ॥ ५४.६१ ॥

विषं कालानलप्रख्यं कालकूटेति विश्रुतम्।
येन प्रोद्भूतमात्रेण कृतकृष्णो जनार्दनः ॥ ५४.६२ ॥

तस्य विष्णुरहञ्चापि सर्वे ते सुरपुङ्गवाः।
न शक्नुवन्ति वै सोढुं वेगमन्ये तु शङ्करात् ॥ ५४.६३ ॥

इत्युक्त्वा पझगर्भाभः पझयोनिरयोनिजः ।
ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः ॥ ५४.६४ ॥

नमस्तुभ्यं विरूपाक्ष नमस्तेऽनेकचक्षुषे।
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥ ५४.६५ ॥

नमस्त्रैलोक्यनाथाय भूतानाम्पतये नमः।
नमः सुरारिसंहर्त्रे तापसाय त्रिचक्षुषे ॥ ५४.६६ ॥

ब्रहमणे चैव रुद्राय विष्णवे चैव ते नमः।
साङ्ख्याय चैव योगाय भूतग्रामाय वै नमः ॥ ५४.६७ ॥

मन्मताङ्गविनाशाय कालकालाय वै नमः।
रुद्राय च सुरेशाय देवदेवाय ते नमः। ५४.६८।
कपर्दिने करालाय शङ्कराय कपालिने।
विरूपायैकरूपाय शिवाय वरदाय च ॥ ५४.६९ ॥

त्रिपुरघ्नाय वन्द्याय मातॄणाम्पतये नमः।
बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च ॥ ५४.७० ॥

नमः कमलहस्ताय दिग्वासाय शिखण्डिने ।
लोक त्रयवलिधात्रे च चन्द्राय वरुणाय च ॥ ५४.७१ ॥

अग्राय चैव चोग्राय विप्रायानेकचक्षुषे।
रजसे चैव सत्त्वाय तमसेऽव्यक्तयोनये ॥ ५४.७२ ॥

नित्यायानित्यरूपाय नित्यानित्याय वै नमः।
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ॥ ५४.७३ ॥

चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः।
भक्तानामार्तिनाशाय नरनारायणाय च ॥ ५४.७४ ॥

उमाप्रियाय शर्वाय नन्दिचक्राङ्किताय च।
पक्षमासार्द्धमासाय नमः संवत्सराय च ॥ ५४.७५ ॥

बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने।
नमः कपालहस्ताय दिग्वासाय शिखणिडने ॥ ५४.७६ ॥

ध्वजिने रथिने चैव यमिने ब्रह्मचारिणे।
ऋग्यजुः सामवेदाय पुरुषायेश्वराय च।
इत्येवमादिचरितैस्तुभ्यं देव नमोऽस्तु ते ॥ ५४.७७ ॥

॥श्रीमहादेव उवाच॥
एवं स्तुतस्ततो देवैः प्रणिपत्य वरानने ॥ ५४.७८ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा तु भक्तिं मम देवदेवो गङ्गाजलाप्लावितकेशदेशः।
सूक्ष्मोऽतियोगातिशयादचिन्त्यो न हि प्लुतो व्यक्तमुपैति चन्द्रः ॥ ५४.७९ ॥

एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा।
स्तुतोऽहं विविधैः स्तोत्रै र्वेदवेदाङ्गसम्भवैः ॥ ५४.८० ॥

ततः प्रीतो ह्यहं तस्मै ब्रह्मणे सुमहात्मने।
ततोऽहं सूक्ष्मया वाचा पितामहमथाब्रुवम् ॥ ५४.८१ ॥

भगवन् भूतभव्येश लोकनाथ जगत्पते।
किं कार्ये ते मया ब्रह्मन् कर्त्तव्यं वद सुव्रत ॥ ५४.८२ ॥

श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः ।
भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ॥ ५४.८३ ॥

सुरासुरैर्मथ्यमाने पयोधावम्बुजेक्षण।
भगवन्मेघ सङ्काशं नीलजीमूतसन्निभम् ॥ ५४.८४ ॥

प्रादुर्भूतं विषङ्घोरं संवर्त्ताग्निसमप्रभम्।
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्च्चसम् ॥ ५४.८५ ॥

त्रैलोक्योत्सादि सूर्याभं विस्फुरन्तं समन्ततः।
अग्रे समुत्थितं तस्मिन् विषङ्कालानलप्रभम् ॥ ५४.८६ ॥

तं दृष्ट्वा तुं वयं सर्वे भीताः सम्भ्रान्तचेतसः।
तत् पिबस्व महादेव लोकानां हितकाम्यया ।
भवानग्र्यस्य भोक्ता वै भवांश्वैव वरः प्रभुः ॥ ५४.८७ ॥

त्वामृतेऽन्यो महादेव विषं सोढुं न विद्यते ।
नास्ति कश्चित् पुमान् शक्तस्त्रैलोक्येषु च गीयते ॥ ५४.८८ ॥

एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः।
बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥ ५४.८९ ॥

ततोऽहं पातुमारब्धो विषमन्तकसन्निभम्।
पिबतो मे महाघोरं विषं सुरभयङ्करम्।
कण्ठः समभवत्तूर्णं कृष्णो मे वरवर्णिनि ॥ ५४.९० ॥

तन्दृष्ट्वो त्पलपत्राभं कण्ठे सक्तमिवोरगम् ।
तक्षकं नागराजानं लेलिहानमिव स्थितम् ॥ ५४.९१ ॥

अथोवाच महातेजा ब्रह्मा लोकपितामहः।
शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ॥ ५४.९२ ॥

ततस्तस्य वचः श्रुत्वा मया गिरिवरात्मजे।
पश्यतां देवसङ्गानां दैत्यानाञ्च वरानने ॥ ५४.९३ ॥

यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम्।
धृतं कण्ठे विषं घोरं नीलकण्टस्ततो ह्यहम् ॥ ५४.९४ ॥

तत् कालकूटं विषमुग्रतेजः कण्ठे मया पर्वतराजपुत्रि।
निवेश्यमानं सुरदैत्यसङ्घो दृष्ट्वा परं विस्मयमाजगाम ॥ ५४.९५ ॥

ततः सुरगणाः सर्वे सदैत्योरगराक्षसाः।
ऊचुः प्राञ्चलयो भूत्वा मत्तमातङ्गगामिनि ॥ ५४.९६ ॥

अहो बलं वीर्यपराक्रमस्ते अहो पुनर्योगबलं तवैव।
अहो प्रभुत्वं तव देवदेव गङ्गाजलास्फालितमुक्तकेश ॥ ५४.९७ ॥

त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्यु र्वरदस्त्वमेव।
त्वमेव सूर्यो रजनीकरश्च त्वमेव भूमिः सलिलं त्वमेव ॥ ५४.९८ ॥

त्वमेव यज्ञो नियमस्त्वमेव त्वमेव भूतं भविता त्वमेव।
त्वमेव चादि र्निधनं त्वमेव स्थूलश्च सूक्ष्मः पुरुषस्त्वमेव ॥ ५४.९९ ॥

त्वमेव सूक्ष्मस्य परस्य सूक्ष्मस्त्वमेव वह्निः पवनस्त्वमेव।
त्वमेव सर्वस्य चराचरस्य लोकस्य कर्त्ता प्रलये च गोप्ता ॥ ५४.१०० ॥

इतीदमुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्द्ना।
गता विमानैरनिगृह्य वेगैर्महात्मनो मेरुमुपेत्य सर्वे ॥ ५४.१०१ ॥

इत्येतत्परमं गुह्यं पुण्यात्पुण्यमहत्तरम्।
नीलकण्ठेति यत् प्रोक्तं विख्यातं लोकविश्रुतम् ॥ ५४.१०२ ॥

स्वयं स्वयम्भुवा प्रोक्तां पुण्यां पापप्रणाशनीम्।
यस्तु धारयते नित्यमेनां ब्रह्मोद्भवां कथाम्।
तस्याहं सम्प्रवक्ष्यामि फलं वै विपुलं महत् ॥ ५४.१०३ ॥

विषं तस्य वरारोहे स्थावरं जङ्गमन्तथा।
गात्रं प्राप्य च सुश्रोणि क्षिप्रं तत् प्रतिहन्यते ॥ ५४.१०४ ॥

शमयत्यशुभं घोरं दुःस्वप्नञ्चापकर्षति।
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥ ५४.१०५ ॥

विवादे जयमाप्नोति युद्धे शूरत्वमेव च।
गच्छतः क्षेममध्वानं गृहे च नित्यसम्पदः ॥ ५४.१०६ ॥

शरीरभेदे वक्ष्यामि गतिं तस्य वरानने।
नीलकण्ठो हरिच्छमश्रुः शशाङ्काङ्कितमूर्द्धजः ॥ ५४.१०७ ॥

त्र्यक्षस्त्रिशूलपाणिश्च वृषयानः पिनाकधृक्।
नन्धितुल्यबलः श्रीमान् नन्दितुल्यपराक्रमः ॥ ५४.१०८ ॥

विचरत्यचिरात् सर्वान् सर्वलोकान्ममाज्ञया ।
न हन्यते गतिस्तस्य अनिलस्य यथाम्बरे।
मम तुल्यबलो भूत्वा तिष्ठत्याभूतसम्प्लवम् ॥ ५४.१०९ ॥

मम भक्ता वरारोहे ये च श्रृण्वन्ति मानवाः।
तेषां गतिं प्रवक्ष्यामि इह लोके परत्र च ॥ ५४.११० ॥

ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम्।
वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् ॥ ५४.१११ ॥

व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम्।
नष्टञ्च लभते सर्वमिहलोके परत्र च ॥ ५४.११२ ॥

गवां शतसहस्रस्य सम्यग्दत्तस्य यत् फलम्।
तत् फलं भवति श्रुत्वा विभोर्दिव्यामिमां कथाम् ॥ ५४.११३ ॥

पादं वा यदि वाप्यर्द्धं श्लोकं श्लोकार्द्धमेव वा।
यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥ ५४.११४ ॥

कथामिमां पुण्यफलादियुक्तां निवेद्य देव्याः शशिबद्ध मूर्द्धजः।
वृषस्य पृष्ठेन सहोमया प्रभुर्जगाम किष्किन्धगुहां गुहप्रियः ॥ ५४.११५ ॥

क्रान्तं मया पापहरं महापदं निवेद्य तेभ्यः प्रददौ प्रभञ्जनः।
अधीत्य सर्वं त्वखिलं सुलक्षणं जगाम आदित्यपथं द्विजोत्तमः ॥ ५४.११६ ॥

इति श्रीमहापुराणे वायु प्रोक्ते नीलकण्ठस्तवो नाम चतुः पञ्चाशोऽध्यायः ॥ ५४ ॥