॥ शांशपायन उवाच ॥
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा तु मुनयः पुनस्ते संशयान्विताः।
पप्रच्छुरुत्तरं भूयस्तदा ते लोमहर्षणम् ॥ ५३.१ ॥
मूलम्

यदेतदुक्तम्भवता गृहाण्येतानि विश्रितम्।
कथं देवगृहाणि स्युः कथं ज्योतींषि वर्णय ॥ ५३.२ ॥

एतत्सर्वं समाचक्ष्व ज्योतिषाञ्चैव निश्चयम्।
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ॥ ५३.३ ॥

अस्मिन्नर्थे महाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः।
तद्वोऽहं सम्प्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम्।
यथा देवगृहाणीह सूर्याचन्द्रमसोर्गृहम् ॥ ५३.४ ॥

अतः परं त्रिविधाग्नेर्वक्ष्येऽहन्तु समुद्भवम्।
दिव्यस्य भौतिकस्याग्नेरथाग्नेः पार्थिवस्य च ॥ ५३.५ ॥

व्युष्टायान्तु रजन्यां वै ब्रह्मणोऽव्यक्तजन्मनः।
अव्याकृतमिदन्त्वासीन्नैशेन तमसावृतम् ॥ ५३.६ ॥

चतुर्भूतावशिष्टेऽस्मिन् पार्थिवः सोऽग्निरुच्यते।
यश्चादौ तपते सूर्ये शुचिरग्निस्तु स स्मृतः ॥ ५३.७ ॥

वैद्युताख्यस्तु विज्ञेयस्तेषां वक्ष्येऽथ लक्षणम्।
वैद्युतो जाठरः सौरो ह्यपाङ्गर्भास्त्रयोऽग्नयः।
तस्मादपः पिबन् सूर्यो गोभिदीर्प्यत्यसौ दिवि ॥ ५३.८ ॥

वैद्युतेन समाविष्टो वार्क्षो नाद्भिः प्रशाम्यति ।
मानवानाञ्च कुक्षिस्थो नाद्भिः शाम्यति पावकः ॥ ५३.९ ॥

अर्च्चिष्मान् परमः सोऽग्निः प्रभवो जाठरः स्मृतः।
यश्चायं मण्डली शुक्लो निरूष्मा सम्प्रकाशते ॥ ५३.१० ॥

प्रभा हि सौरी पादेन ह्यस्तं याति दिवाकरे।
अग्निमाविशते रात्रौ तस्माद्दूरात् प्रकाशते ॥ ५३.११ ॥

उद्यन्तञ्च पुनः सूर्यमौष्ण्यमाग्नेयमाविशत्।
पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ ॥ ५३.१२ ॥

प्रकाशश्च तथौष्ण्यञ्च सौराग्नेये तु तेजसी।
परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ ५३.१३ ॥

उत्तरे चैव भूम्यर्द्धे तस्मादस्मिंश्च दक्षिणे।
उत्तिष्ठति पुनः सूर्ये रात्रिराविशते त्वपः।
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ॥ ५३.१४ ॥

अस्तं याति पुनः सूर्ये अहर्वै प्रविशत्यपः।
तस्मान्नक्तं पुनः शुक्ला आपो विश्यन्ति भास्करे ॥ ५३.१५ ॥

एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे ।
उदयास्तमये नित्यमहोरात्रं विशत्यपः ॥ ५३.१६ ॥

यश्चासौ तपते सूर्ये पिबन्नम्भो गभस्तिभिः।
पार्थिवो हि विमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः ॥ ५३.१७ ॥

सहस्रपादः सोऽग्निस्तु वृत्तः कुम्भनिभः शुचिः।
आदत्ते तत्तु रश्मीनां सहस्रेण समन्ततः ॥ ५३.१८ ॥

नादेयीश्चैव सामुद्रीः कौप्याश्चैव सधान्वनीः।
स्थावरा जङ्गमाश्चैव यश्च सूर्यो हिरण्मयः।
तस्य रश्मिसहस्रन्तु वर्षशीतोष्णनिःस्रवम् ॥ ५३.१९ ॥

तासाञ्चतुःशता नाड्यो वर्षन्ति चित्रमूर्त्तयः।
वन्दनाश्चैव वन्द्यश्च ऋतना नूतनास्तथा।
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥ ५३.२० ॥

हिमवाहाश्च ताभ्योऽन्या रश्मयस्त्रिशताः पुनः।
दृश्या मेध्याश्च वाह्याश्च ह्रादिन्यो हिमसर्जनाः ॥ ५३.२१ ॥

चन्द्रास्ता नामतः सर्वाः पीताभास्तु गभस्तयः।
शुक्लाश्च ककुभश्चैव गावो विश्वभृतस्तथा ॥ ५३.२२ ॥

शुक्लास्ता नामतः सर्वास्त्रिशता घर्मसर्जनाः।
समं बिभर्ति ताभिस्तु मनुष्यपितृदेवताः ॥ ५३.२३ ॥

मनुष्यानौषधेनेह स्वधया च पितॄनपि।
अमृतेन सुरान् सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥ ५३.२४ ॥

वसन्ते चैव ग्रीष्मे च सतैः सुतपते त्रिभिः।
वर्षास्वथो शरदि च चतुर्भिः सम्प्रकर्षति ॥ ५३.२५ ॥

हेमन्ते शिशिरे चैव हिमं स सृज ते त्रिभिः।
ओषधीषु बलन्धत्ते स्वधया च पितॄनपि।
सूर्योऽमरत्वममृतत्रयन्त्रिषु नियच्छति ॥ ५३.२६ ॥

एवं रश्मिसहस्रन्तत् सौरं लोकार्थ साधकम्।
भिद्यते ऋतुमासाद्य जलशीतोष्णनिःस्रवम् ॥ ५३.२७ ॥

इत्येतन्मण्डलं शुक्लं भास्वरं सूर्यसञ्ज्ञितम्।
नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च।
ऋक्षचन्द्रग्रहाः सर्वे निज्ञेयाः सूर्यसम्भवाः ॥ ५३.२८ ॥

नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः।
शेषाः पञ्चग्रहा ज्ञेया ईश्वराः कामरूपिणः ॥ ५३.२९ ॥

पठ्यते चाग्निरादित्य औदकश्चन्द्रमाः स्मृतः।
शेषाणां प्रकृतिं सम्यग्वर्ण्यमानां निबोधत ॥ ५३.३० ॥

सुरसेनापति स्कन्दः पठ्यतेऽङ्गारको ग्रहः ।
नारायणं बुधं प्राहुर्देवं ज्ञानविदो विदुः ॥ ५३.३१ ॥

रुद्रो वैवस्वतः साक्षाद्धर्मो लोके प्रभुः स्वयम्।
महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्चरः ॥ ५३.३२ ॥

देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ।
प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती।
दैत्यो महेन्द्रश्च तयोराधिपत्ये विनिर्मितौ ॥ ५३.३३ ॥

आदित्यमूलमखिलं त्रिलोकं नात्र संशयः।
भवत्यस्य जगत्कृत्स्नं सदेवासुरमानुषम् ॥ ५३.३४ ॥

रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम्।
द्युतिर्द्युतिमतां कृत्स्ना यत्तेजः सार्वलौकिकम् ॥ ५३.३५ ॥

सर्वात्मा सर्वलोकेशो मूलं परमदैवतम्।
ततः सञ्जायते सर्वं तत्र चैव प्रलीयते ॥ ५३.३६ ॥

बावाभावौ हि लोकानामादित्यान्निः सृतौ पुरा।
जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान् सुग्राहो रविः ॥ ५३.३७ ॥

यत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः।
क्षणा मुहूर्त्ता दिवसा निशाः पक्षाश्च कृत्स्नशः।
मासाः संवत्सराश्चैव ऋतवोऽन्दयुगानि च ॥ ५३.३८ ॥

तदादित्यादृते तेषां कालसङ्ख्या न विद्यते।
कालादृते न निगमो न दीक्षा नाह्निकक्रमः ॥ ५३.३९ ॥

ऋतुनामविभागश्च पुष्पमूलफलं कुतः।
कुतः सस्याभिनिष्पत्तिर्गुणौषधिगणादि वा ॥ ५३.४० ॥

अभावो व्यवहाराणां देवानां दिवि चेह च।
जगत्प्रतापनमृते भास्करं वारितस्करम् ॥ ५३.४१ ॥

स एव कालश्चाग्निश्च द्वादशात्मा प्रजापतिः।
तपत्येष द्विजश्रेष्टास्त्रैलोक्यं सचराचरम् ॥ ५३.४२ ॥

स एष तेजसां राशिः समस्तः सार्वलौकिकः।
उत्तमं मार्गमास्थाय वायोभाभिरिदञ्जगत्।
पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः ॥ ५३.४३ ॥

रवेरश्मिसहस्रं यत् प्राङ्मया समुदाहृतम् ।
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ ५३.४४ ॥

सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च।
विश्वश्रवाः पुनश्वान्यः सम्पद्वसुरतः परम् ।
अर्वावसुः पुनश्चान्योमया चात्र प्रकीर्त्तितः ॥ ५३.४५ ॥

सुषुम्नः सूर्यरश्मिस्तु क्षीणं शशिनमेधयन्।
तिर्यगूर्ध्वप्रभावोऽसौ सुषुम्नः परिकीर्त्यते ॥ ५३.४६ ॥

हरिकेशः पुरस्त्वाद्या ऋक्षयोनिः प्रकीर्त्यते।
दक्षिणे विश्वकर्मा तु रश्मिर्वर्द्धयते बुधम् ॥ ५३.४७ ॥

विश्वश्रवास्तु यः पश्चात् शुक्रयोनिः स्मृतो बुधैः।
सम्पद्वसुश्च यो रश्मिः सा योनिर्लोहितस्य च ॥ ५३.४८ ॥

षष्ठस्त्वर्वावसू रश्मिर्योनिस्तु स बृहस्पतेः।
शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट् ॥ ५३.४९ ॥

एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः।
वर्द्धन्ते विदिताः सर्वा विश्वञ्चैदं पुनर्जगत् ।
नक्षीयन्ते पुनस्तानि तस्मान्नक्षत्रता स्मृता ॥ ५३.५० ॥

क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः।
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रताङ्गतः ॥ ५३.५१ ॥

तीर्णानां सुकृतेनेह सुकृतान्ते ग्रहाश्रयात् ।
ताराणां तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥ ५३.५२ ॥

दिव्यानां पार्थिवानाञ्च नैशानाञ्चैव सर्वशः ।
आदानान्नित्यमादित्यस्तमसां तेजसां महान् ॥ ५३.५३ ॥

सुवति स्पन्दनार्थे च धातुरेष विभाव्यते।
सवनात्तेजसोऽपाञ्च तेनासौ सविता मतः ॥ ५३.५४ ॥

बह्वर्थश्चन्द्र इत्येष ह्लादने धातुरिष्यते ।
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ॥ ५३.५५ ॥

सुर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे।
ज्वलत्तेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥ ५३.५६ ॥

घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम्।
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ॥ ५३.५७ ॥

विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः।
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ॥ ५३.५८ ॥

तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च।
सौरं सूर्यो विशस्थानं सौम्यं सोमस्तथैव च ॥ ५३.५९ ॥

शौक्रं शुक्रो विशस्थानं षोडशार्च्चिः प्रतापवान्।
बृहद्बृहस्पतिश्चैव लोहितश्चैव लौहितः ।
शानैश्चरं तथा स्थानं देव श्चैव शनैश्चरः ॥ ५३.६० ॥

आदित्यरश्मिसंयोगात् सम्प्रकाशात्मिकाः स्मृताः ।
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ॥ ५३.६१ ॥

त्रिगुणस्तस्य विस्तारो मण्डलञ्च प्रमाणतः।
द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥ ५३.६२ ॥

तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात् प्रसर्पति।
उद्धृत्य पार्थिवच्छायां निर्मितो मण्डलाकृतिः ॥ ५३.६३ ॥

स्वर्भानोस्तु बृहत् स्थानन्निर्मितं यत्तमोमयम्।
आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु ॥ ५३.६४ ॥

आदित्यमेति सोमाच्च पुनः सोमञ्च पर्वसु।
स्वर्भासानुदते यस्मात्ततः स्वर्भानुरुच्यते ॥ ५३.६५ ॥

चन्द्रस्य षोडशो भागो भार्गवश्च निधीयते।
विष्कम्भान्मण्डलाच्चैव योजनाग्रात् प्रमाणतः ॥ ५३.६६ ॥

भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः।
बुहस्पतेः पादहीनौ कुजसौरावुभौ स्मृतौ ।
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ ५३.६७ ॥

तारानक्षत्ररूपाणि स्वपुष्मन्तीह यानि वै।
बुधेन समतुल्यानि विस्तारान्मण्डलादथ ॥ ५३.६८ ॥

प्रायशश्चन्द्रयोगानि विद्यादृक्षाणि तत्त्ववित्।
तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥ ५३.६९ ॥

शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने।
पूर्वापरनिकृष्टानि तारकामण्डलानि तु।
योजनान्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ ५३.७० ॥

उपरिष्टात्रयस्तेषां ग्रहा ये दूरसर्पिणः।
सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ ५३.७१ ॥

तेभ्योऽधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः।
सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ ५३.७२ ॥

यावन्त्य स्तारकाः कोट्यस्तावदृक्षाणि सर्वशः।
वीथीनां नियमाच्चैवमृक्षमार्गो व्यवस्थितः ॥ ५३.७३ ॥

गतिस्तास्त्वेव सूर्यस्य नीचोच्चत्वेऽयनक्रमात्।
उत्तरायण मार्गस्थो यदा पर्वसु चन्द्रमाः।
बौधं बौधोऽथ स्वर्भानुः स्वर्भानोः स्थानमास्थितः ॥ ५३.७४ ॥

नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत।
गृहाण्ये तानि सर्वाणि ज्योतींषि सुकृतात्मनाम् ॥ ५३.७५ ॥

कल्पादौ सम्प्रवृत्तानि निर्मितानि स्वयम्भुवा।
स्थानान्येतानि तिष्ठन्ति यावदाभूतसम्प्लवम् ॥ ५३.७६ ॥

मन्वन्तरेषु सर्वेषु देवतायतनानि वै।
अभिमानिनोऽवतिष्टन्ति यावदाभूतसम्प्लवम् ॥ ५३.७७ ॥

अतीतैस्तु सहातीता भाव्याभाव्यैः सुरासुरैः ।
वर्त्तन्ते वर्त्तमानैश्च स्थानानि स्वैः सुरैः सह ॥ ५३.७८ ॥

अस्मिन् मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः।
विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे ॥ ५३.७९ ॥

त्विषिमान्धर्मपुत्रस्तु सोमदेवो वसुः स्मृतः।
शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरराजकः ॥ ५३.८० ॥

बृहत्तेजाः स्मृतो देवो देवाचार्योऽङ्गिरःसुतः।
बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः ॥ ५३.८१ ॥

अग्निर्विकल्पात् सञ्जज्ञे युवाऽसौ लोहिताधिपः।
नक्षत्रऋक्षगामिन्यो दाक्षायण्यः स्मृतास्तु ताः ॥ ५३.८२ ॥

स्वर्भानुः सिंहिकापुत्रो भूतसन्तापनोऽसुरः।
सोमर्क्षग्रहसूर्ये तु कीर्तितास्त्वभिमानिनः ॥ ५३.८३ ॥

स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः।
शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ॥ ५३.८४ ॥

सहस्रांशोस्त्विषः स्थानमम्मयं शुक्लमेव च।
अथ श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम् ॥ ५३.८५ ॥

शुक्रस्याप्यम्मयं स्थानं सद्म षोडशरश्मिवत्।
नवरश्मेस्तु यूनो हि लोहितस्थानमम्मयम् ॥ ५३.८६ ॥

हरिश्चाप्यं बृहच्चापि द्वादशांशोर्बृहस्पतेः।
अष्ट रश्मेर्गृहं प्रोक्तं कृष्णं बुद्धस्य अम्मयम् ॥ ५३.८७ ॥

स्वर्भानोस्तामसं स्थानं भूतसन्तापनालयम्।
विज्ञेयास्तारकाः सर्वास्त्वम्मयास्त्वेकरश्मयः ॥ ५३.८८ ॥

आश्रयाः पुण्यकीर्तीनां सुशुक्लाश्चैव वर्णतः।
घनतोयात्मिका ज्ञेयाः कल्पादौ वेदनिर्मिताः ॥ ५३.८९ ॥

उच्चत्वाद्दृश्यते शीघ्रमभिव्यक्तैर्गभस्तिभिः।
तथा दक्षिणमार्गस्थो नीविवीथीसमाक्षितः ॥ ५३.९० ॥

भूमिलेखावृतः सूर्यः पूर्णामावास्ययोस्तथा।
नदृश्यते यथाकालं शाघ्रतोऽस्तमुपैति च ॥ ५३.९१ ॥

तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः।
दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ॥ ५३.९२ ॥

ज्योतिषां गतियोगेन सूर्याचन्द्रमसावुभौ।
समानकालास्तमयौ विषुवत्सु समोदयौ ॥ ५३.९३ ॥

उत्तरासु च वीथीषु व्यन्तरास्तमयोदयौ।
पूर्णामावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्त्तिनौ ॥ ५३.९४ ॥

दक्षिणायनमार्गस्थो यदा भवति रश्मिवान्।
तदा सर्वग्रहाणां स सूर्योऽधस्तात् प्रसर्पति ॥ ५३.९५ ॥

विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वञ्चरते शशी।
नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ ५३.९६ ॥

नक्षत्रेभ्यो बुधश्वोर्ध्वं बुधादूर्ध्वं बृहस्पतिः।
तस्माच्छनैश्चरश्चोर्ध्वं तस्मात्सप्तर्षिमण्डलम् ।
ऋषीणाञ्चैव सप्तानां ध्रुव ऊर्ध्वं व्यवस्थितः ॥ ५३.९७ ॥

द्विगुणेषु सहस्रेषु योजनानां शतेषु च।
ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम् ॥ ५३.९८ ॥

ग्रहाश्च चन्द्रसूर्यौ तु दिवि दिव्येन तेजसा।
नित्यमृक्षेषु युज्यन्ति गच्छन्ति नियमक्रमात् ॥ ५३.९९ ॥

ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृद्ववस्थिताः।
समागमे च भेदे च पश्यन्ति युगपत् प्रजाः ॥ ५३.१०० ॥

परस्परस्थिताः ह्येते युज्यन्ते च परस्परम्।
असङ्करेण विज्ञेयस्तेषां योगस्तु वै बुधैः ॥ ५३.१०१ ॥

इत्येष सन्निवेशो वः पृथिव्यां ज्यौतिषस्य च।
द्वीपानामुद्नधीनां च पर्वतानां तथैव च ॥ ५३.१०२ ॥

वर्षाणां च नदीनाञ्च येषु तेषु वसन्ति वै।
एते चैव ग्रहाः पूर्वं नक्षत्रेषु समुत्थिताः ॥ ५३.१०३ ॥

विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेऽन्तरे।
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ॥ ५३.१०४ ॥

त्विषिमान् धर्मपुत्रस्तु सोमो विश्वावसुस्तथा।
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ॥ ५३.१०५ ॥

षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम्।
ताराग्रहाणां प्रवरस्तिष्यक्षेत्रे समुत्थितः ॥ ५३.१०६ ॥

ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्च्चिर्बृहस्पतिः।
फाल्गुनीषु समुत्पन्नः सर्वासु च जगद्गुरुः ॥ ५३.१०७ ॥

नवार्चिर्लोहिताङ्गस्तु प्रजापतिसुतो ग्रहः ।
आषाढास्विह पूर्वासु समुत्पन्न इति श्रुतिः ॥ ५३.१०८ ॥

रेवतीष्वेव सप्तार्चि स्तथा सौरशनैश्चरः।
रोहिणीषु समुत्पन्नौ ग्रहौ चन्द्रार्कमर्द्दनौ ॥ ५३.१०९ ॥

एते ताराग्रहाश्चैव बोद्धव्या भार्गवादय।
जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः।
स्पृशन्ते तेन दोषेण ततस्ता ग्रहभक्तिषु ॥ ५३.११० ॥

सर्वग्रहाणामेतेषामादिरादित्य उच्यते।
ताराग्रहाणां शुक्रस्तु केतूनाञ्चैव धूमवान् ॥ ५३.१११ ॥

ध्रुवः कालो ग्रहाणां तु विभक्तानां चतुर्दिशम् ।
नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ॥ ५३.११२ ॥

वर्षाणाञ्चापि पञ्चानामाद्यः संवत्सरः स्मृतः।
ऋतूनां शिशिरञ्चापि मासानां माघ एव च ॥ ५३.११३ ॥

पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा।
अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ॥ ५३.११४ ॥

मुहूर्त्तानां तथैवादिर्मुहूर्त्तो रुद्रदैवतः।
अक्ष्णोश्चापि निमेषादिः कालः कालविदो मतः ॥ ५३.११५ ॥

श्रवणान्तं श्रविष्ठादियुगं स्यात् पञ्चवार्षिकम्।
भानोर्गतिविशेषेण चक्रवत् परिवर्त्तते ॥ ५३.११६ ॥

दिवाकरः स्मृतस्तस्मात्कालस्तं विद्धि चेश्वरम्।
चतुर्वनिधानां भूतानां प्रवर्त्तकनिवर्त्तकः ॥ ५३.११७ ॥

इत्येष ज्योतिषामेव सन्निवेशोऽर्थनिश्चयात्।
लोकसंव्यवहारार्थमीश्वरेण विनिर्मितः ॥ ५३.११८ ॥

उत्पन्नः श्रवणेनासौ सङ्क्षिप्तश्च ध्रुवे तथा।
सर्वतोऽन्तेषु विस्तीर्णो वृक्षाकार इति स्थितिः ॥ ५३.११९ ॥

बुद्धिपूर्वम्भगवता कल्पादौ सम्प्रकीर्तितः।
साश्रयः सोऽभिमानी च सर्वस्य ज्योतिरात्मकः।
विश्वरूपः प्रधानस्य परिणामोऽयमद्भुतः ॥ ५३.१२० ॥

नैव शक्यं प्रसङ्ख्यातुं याथातथ्येन केनचित्।
गतागतं मनुष्येषु ज्योतिषां मांसचक्षुषा ॥ ५३.१२१ ॥

आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः।
परीक्ष्य निपुणं भक्त्या श्रद्धातव्यं विपश्चिता ॥ ५३.१२२ ॥

चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिसत्तमाः।
पञ्चैते हेतवो ज्ञेया ज्योतिर्गणविचिन्तने ॥ ५३.१२३ ॥