॥सूत उवाच॥
विश्वास-प्रस्तुतिः
स रथोऽधिष्ठितो देवैरादित्यैऋषिभिस्तथा।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ ५२.१ ॥
मूलम्

एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु।
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ॥ ५२.२ ॥

उरगो वासुकिश्चैव सङ्कीर्णारश्च तावुभौ।
तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ ॥ ५२.३ ॥

क्रतुस्थल्यप्सराश्चैव तथा वै पुञ्जिकस्थली।
ग्रामणी रथकृच्छ्रश्च तपोर्यश्चैव तावुभौ ॥ ५२.४ ॥

रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ।
मधुमाधवयोरेष गणो वसति भास्करे ॥ ५२.५ ॥

वासन्तौ ग्रैष्मिकौ मासौ मित्रश्च वरुणश्च ह।
ऋषिरत्रिर्वसिष्ठश्च तक्षको रम्भ एव च ॥ ५२.६ ॥

मेनका सहजन्या च गन्धर्वौ च हहा हुहूः।
रथस्वनश्च ग्रामण्यो रथचित्रश्च तावुभौ ॥ ५२.७ ॥

पौरुषेयो धवश्चैव यातुधानावुदाहृतौ।
एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः ॥ ५२.८ ॥

ततः सूर्ये पुनस्त्वन्या निवसन्तीह देवताः।
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ॥ ५२.९ ॥

एलापर्णस्तथा सर्पः शङ्खपालश्च तावुभौ।
विश्वावसूग्रसेनौ च प्रातश्चैवारुणश्च ह ॥ ५२.१० ॥

प्रम्लोचेति च विख्याता निम्लोचेति च ते उभे।
यातुधानस्तथा सर्पो व्याघ्रः श्वेतश्च तावुभौ।
नभोनभस्ययोरेष गणो वसति भास्करे ॥ ५२.११ ॥

शरदृ-तौ पुनः शुभ्रा वसन्ति मुनि देवताः।
पर्ज्जन्यश्चाथ पूषा च भरद्वाजः सगौतमः ॥ ५२.१२ ॥

विश्वावसुश्च गन्धर्वास्तथैव सुरभिश्च यः।
विश्वाची च घृताची च उभे ते शुभलक्षणे ॥ ५२.१३ ॥

नाग ऐरावतश्चैव विश्रुतश्च धनञ्जयः।
सेनजिच्च सुषेणशचव सेनानीर्ग्रामणीश्च तौ ॥ ५२.१४ ॥

आपो वातश्च तावेतौ यातुधानावुभौ स्मृतौ।
वसन्त्येते तु वै सूर्ये मासयोश्च इषोर्जयोः ॥ ५२.१५ ॥

हैमन्तिकौ तु द्वौ मासौ वसन्ति तु दिवाकरे।
अंशो भगश्च द्वावेतौ कश्यपश्च ऋतुश्च ह ॥ ५२.१६ ॥

भुजङ्गश्च महापझः सर्पः कर्कोटकस्तथा।
चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ ॥ ५२.१७ ॥

उर्वशी विप्रचित्तिश्च तथैवाप्सरसौ शुभे।
तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ॥ ५२.१८ ॥

विद्युत्स्फूर्ज्जश्च तावुग्रौ यातुधानावुदाहृतौ।
सहे चैव सहस्ये च वसन्त्येते दिवाकरे ॥ ५२.१९ ॥

ततः शैशिरयोश्वापि मासयोर्निवसन्ति वै।
त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ॥ ५२.२० ॥

काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ।
गन्धर्वो धृतराष्ट्रश्च सूर्यवर्च्चास्तथैव च ॥ ५२.२१ ॥

तिलोत्तमाप्सराश्चैव देवी रम्बा मनोरमा।
ऋतजित्सत्यजिच्चैव ग्रामण्यौ लोकविश्रुतौ ॥ ५२.२२ ॥

ब्रह्मोपेतस्तथा दक्षो यज्ञोपेतश्च स स्मृतः।
एते देवा वसन्त्यर्के द्वौ मासौ तु क्रमेण तु ॥ ५२.२३ ॥

स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः।
सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम् ॥ ५२.२४ ॥

प्रथितैस्तैर्वचोबिस्तु स्तुवन्ति मुनयो रविम्।
गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते ॥ ५२.२५ ॥

ग्रामणीयक्षभूतास्तु कुर्वते भीमसङ्ग्रहम्।
सर्पा वहन्ति सूर्यञ्च यातुधानानुयान्ति च।
वालखिल्या नयन्त्यस्तं परिचार्योदयाद्रविम् ॥ ५२.२६ ॥

एतेषामेव देवानां यतावीर्यं यथातपः।
यथायोगं यथासत्यं यथाधर्मं यताबलम् ॥ ५२.२७ ॥

यथा तपत्यसौ सूर्यस्तेषां सिद्धस्तु तेजसा।
इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे ॥ ५२.२८ ॥

ऋषयो देवगन्धर्वाः पन्नगाप्सरसाङ्गणाः ।
ग्रामण्यश्च तथा यक्षा यातुधानाश्च भूरिशः ॥ ५२.२९ ॥

एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च।
भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ॥ ५२.३० ॥

मानवानां शुभं ह्येते हरन्ति दुरितात्मनाम्।
दुरितं हि प्रचाराणां व्यपोहन्ति व्कचित् व्कचित् ॥ ५२.३१ ॥

विमानेऽवस्थिता दिव्ये कामगा वातरंहसः।
एते सहैव सूर्येण भ्रमन्ति दिवसानुगाः ॥ ५२.३२ ॥

वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः।
गोपायन्ति तु भूतानि सर्वानीहामनुक्षयात् ॥ ५२.३३ ॥

स्थानाभिमानिनामेतत् स्थानं मन्वन्तरेषु वै।
अतीतानागतानां वै वर्त्तन्ते साम्प्रतन्तु ये ॥ ५२.३४ ॥

एवं वसन्ति वै सूर्ये सप्तकास्ते चतुर्द्दिशम्।
चतुर्द्दशसु सर्गेषु गणा मन्वन्तरेषु च ॥ ५२.३५ ॥

ग्रीष्मे हिमे च वर्षासु मुञ्चमाना घर्मं हिमञ्च वर्षञ्च दिनं निशाञ्च।
कालेन गच्छत्यृतुवशात् परिवृत्तरश्मि र्देवान् पितॄंश्च मनुजांश्च तर्पयन् वै ॥ ५२.३६ ॥

प्रीणाति देवानमृतेन सूर्यः सोमं सुषुम्नेन विवर्द्धयित्वा ।
शुक्ले तु पूर्णं दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति ॥ ५२.३७ ॥

पीतन्तु सोमं द्विकालावशिष्टं कृष्णक्षये रश्मिभिस्तं क्षरन्तम्।
सुधामृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव कव्यम् ॥ ५२.३८ ॥

सूर्येण गोभिस्तु समुद्धृताभिरद्भिः पुनश्चैव समुद्धृताभिः।
वृष्ट्यातिवृद्धाभिरथौषधीभिर्मर्त्याः क्षुधन्त्वन्नपानैर्जयन्ति ॥ ५२.३९ ॥

अमृतेन तृप्तिस्त्वर्द्धमासं सुराणां मासार्द्धतृप्तिः स्वधया पितॄणाम्।
अन्नेन शश्वत्तु दधाति मर्त्यान् सूर्यः स्वयं तच्च बिभर्ति गोभिः ॥ ५२.४० ॥

अयं हरिस्तैर्हरिभिस्तुरङ्गमैरयन् हि चापो हरतीति रश्मिभिः।
विसर्गकाले विसृजंश्च ताः पुनर्बिभर्ति शश्वत् सविता चराचरम् ॥ ५२.४१ ॥

हरिर्हरिद्भिर्ह्रियते तुरङ्गमैः पिबत्यथापो हरिभिः सहस्रधा।
ततः प्रमुञ्चत्यपि तास्त्वसौ हरिः स मुह्यमानो हरिभिस्तुरङ्गमैः ॥ ५२.४२ ॥

इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु।
भद्रैस्तैरक्षतैरश्वैः सर्पतेऽसौ दिवि क्षये ॥ ५२.४३ ॥

अहोरात्राद्रथैनासौ एकचक्रेण तु भ्रमन्।
सप्तद्वीपसमुद्रान्तं सप्तभिः सप्तभिर्हयैः ॥ ५२.४४ ॥

छन्दोभिरश्वरूपैस्तैर्यतश्चक्रन्ततः स्थितैः।
कामरूपैः सकृद्युक्तैरमितैस्तैर्मनोजवैः ॥ ५२.४५ ॥

हरितैरव्ययैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः।
अशीति मण्डलशतं भ्रमन्त्यब्देन ते हयाः ॥ ५२.४६ ॥

बाह्यमभ्यन्तरञ्चैव मण्डलं दिवसक्रमात् ।
कल्पादौ सम्प्रयुक्तास्ते वहन्त्याभूतसम्प्लवात्।
आवृता वालखिल्यैस्ते भ्रमन्ते रात्र्यहानि तु ॥ ५२.४७ ॥

प्रथितैर्वचोभङिरग्र्यैः स्तूयमानो महर्षिभिः।
सैव्यते गीतवृत्यैश्च गन्धर्वैरप्सरोगणैः।
पतङ्गः पत गैरश्वैर्भ्रममाणो दिवस्पतिः ॥ ५२.४८ ॥

वीथ्याश्रयाणि चरति नक्षत्राणि तथा शशी।
ह्रासवृद्धी तथैवास्य रश्मीनां सूर्यवत् स्मृते ॥ ५२.४९ ॥

त्रिचक्रोभयपार्श्वस्थो विज्ञेयः शशिनो रथः।
अपां गर्भसमुत्पन्नो रथः साश्वः ससारथिः।
शतारैश्च त्रिभिश्चक्रैर्युक्तः शुल्कैर्हयोत्तमैः ॥ ५२.५० ॥

दश भिस्तु कृशैर्दिव्यैरसङ्गैस्तैर्मनोजवैः।
सकृद्युक्ते रथे तस्मिन् वहन्ते चायुगक्षयात् ॥ ५२.५१ ॥

सङ्गृहीते रथे तस्मिन् श्वेतश्चक्षुःश्रवास्तु वै।
अश्वा स्तमेकवर्णास्ते वहन्ते शङ्खवर्च्चसम् ॥ ५२.५२ ॥

ययुश्च त्रिमनाश्चैव वृषो राजीवलो हयः।
अस्वो वामस्तुरण्यश्च हंसो व्योमी मृगस्तथा ॥ ५२.५३ ॥

इत्येते नामभिः सर्वे दश चन्द्रमसो हयाः ।
एते चन्द्रमसं देवं वहन्ति दिवसक्षयात् ॥ ५२.५४ ॥

देवैः परिवृतः सौम्यः पितृभिश्चैव गच्छति।
सोमस्य शुक्ल पक्षादौ भास्करे पुरतः स्थिते।
आपूर्यते पुरस्यान्तः सततं दिवसक्रमात् ॥ ५२.५५ ॥

देवैः पीतं क्षये सोममाप्याययति नित्यदा।
पीतं पञ्चदशाहन्तु रश्मिनैकेन भास्करः ॥ ५२.५६ ॥

आपूरयन् सुषुम्नेन भागं भागमहःक्रमात् ।
सुषुम्नाप्यायमानस्य शुक्ला वर्द्धन्ति वै कलाः ॥ ५२.५७ ॥

तस्माद्ध्रसन्ति वै कृष्णे शुक्ल आप्याययन्ति च।
इत्येवं सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ॥ ५२.५८ ॥

पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः ।
एवमाप्यायितः सोमः शुक्लपक्षे दिनक्रमात् ॥ ५२.५९ ॥

ततो द्वितीयाप्रभृति बहुलस्य चतुर्द्दशी।
अपां सारमयस्येन्दो रसमात्रात्मकस्य च।
पिबन्त्यम्बुमयं देवा मधु सौम्यं सुधाम यम् ॥ ५२.६० ॥

सम्भृतञ्चार्द्धमासेन अमृतं सूर्यतेजसा ।
भक्षार्थममृतं सौम्यं पौर्णमास्यामुपासते ॥ ५२.६१ ॥

एकरात्रं सुरैः सर्वैः पितृभिश्च महर्षिभिः।
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च ॥ ५२.६२ ॥

प्रक्षीयते पुरस्यान्तः पीयमानाः कलाः क्रमात्।
क्षीयन्ते तस्मात् कृष्णे याः शुक्ले ह्याप्याययन्ति ताः ॥ ५२.६३ ॥

एवं दिनक्रमातीते विबुधास्तु निशाकरम् ।
पीत्वाऽर्द्धमासङ्गच्छन्ति अमावास्यां सुरोत्तमाः ।
पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ॥ ५२.६४ ॥

ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके।
अपराह्ने पितृगणैर्जघन्यः पर्युपास्यते ॥ ५२.६५ ॥

पिबन्ति द्विकलाकालं शिष्टा तस्य तु या कला।
निःसृतं तदमावास्याङ्गभस्तिभ्यः स्वधामृतम्।
तां स्वधां मासतृप्त्यै तु पीत्वा गच्छन्ति तेऽमृतम् ॥ ५२.६६ ॥

सौम्या बर्हिषदश्चैव अग्निष्वात्तास्तथैव च।
कव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ॥ ५२.६७ ॥

संवत्सरास्तु वै कव्याः पञ्चाब्दा ये द्विजैः स्मृताः।
सौम्यास्तु ऋतवो ज्ञेया मासा बर्हिषदः स्मृताः।
अग्निष्वात्तार्तवश्चैव पितृसर्गा हि वै द्विजाः ॥ ५२.६८ ॥

पितृभिः पीयमानस्य पञ्चदश्यां कला तु वै।
यावन्न क्षीयते तस्य भागः पञ्चदश स्तु सः ॥ ५२.६९ ॥

अमावस्यान्तदा तस्य अन्तमापूर्यते परम्।
वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ ॥ ५२.७० ॥

एवं सूर्यनिमित्तैषा क्षयवृद्धि र्निशाकरे।
ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथं पुनः ॥ ५२.७१ ॥

तोयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः।
युक्तो हयैः पिशङ्गैस्तु अष्टाभिर्वातरंहसैः ॥ ५२.७२ ॥

सवरूथः सानुकर्षः सूतो दिव्यो रथे महान्।
सोपासङ्गपताकस्तु सध्वजो मेघसन्निभः ॥ ५२.७३ ॥

भार्गवस्य रथः श्रीणांस्तेजसा सूर्यसन्निभः।
पृथिवीसम्भवैर्युक्तो नानावर्णैर्हयोत्तमैः ॥ ५२.७४ ॥

श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः।
कृष्णश्च हरितश्चैव पृषतः पृष्णिरेव च।
दशभि स्तैर्महाभागैरकृशैर्वातवेगितैः ॥ ५२.७५ ॥

अष्टाश्वः काञ्चनः श्रीमान् सोमस्यापि रथोऽभवत्।
असङ्गैर्लौहितैरश्वैः सर्वगैरग्निसम्भवैः।
सर्पतेऽसौ कुमारो वै ऋजुवक्रानुचक्रगः ॥ ५२.७६ ॥

ततस्त्वाङ्गिरसो विद्वान् देवाचार्यो बृहस्पतिः।
शोणैरश्वैः काञ्चनेन स्यन्दनेन प्रसर्पति ॥ ५२.७७ ॥

युक्तस्तु वाजिभिर्दिव्यैरष्टाभिर्वातसम्मितैः।
नक्षत्रेऽब्दन्निवसति सवेगस्तेन गच्छति ॥ ५२.७८ ॥

ततः शनैश्वरोप्यश्वैः शबलैर्व्योमसम्भवैः।
कार्ष्णायसं समारुह्य स्यन्दनं याति वै शनैः ॥ ५२.७९ ॥

स्वर्भानोस्तु तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः।
रथन्तमोमयन्तस्य सकृद्युक्ता वहन्त्युत ॥ ५२.८० ॥

आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु।
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥ ५२.८१ ॥

अथ केतुरथस्याश्वा अष्टाष्टौ वातरंहसः।
पलालधूमसङ्काशाः शबला रासभारुणाः ॥ ५२.८२ ॥

एते वाहा ग्रहाणां वै मया प्रोक्ता रथैः सह।
सर्वे ध्रुवनिबद्धास्ते प्रबद्धा वातरश्मिभिः ॥ ५२.८३ ॥

एते वै भ्राम्यमाणास्तु यथा योगं भ्रमन्ति वै।
वायव्याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः ॥ ५२.८४ ॥

परिभ्रमन्ति तद्बद्धाश्चन्द्रसूर्यग्रहा दिवि।
भ्रमन्तमनुगच्छन्ति ध्रुवन्ते ज्योतिषां गणाः ॥ ५२.८५ ॥

यथा नद्युदके नौस्तु सलिलेन सहोह्यते।
तथा देवालया ह्येते उह्यन्ते वातरश्मिभिः।
तस्मात्सर्वेण दृस्यन्ते व्योम्नि देवगणास्तु ते ॥ ५२.८६ ॥

यावन्त्यश्चैव तारास्तु तावन्तो वातरश्मयः।
सर्वा ध्रुवनिबद्धास्ता ब्रमन्त्यो भ्रामयन्ति तम् ॥ ५२.८७ ॥

तैलपीडाकरं चक्रं भ्रमद्भ्रामयते यथा।
तथा भ्रमन्ति ज्योतींषि वायबद्धानि सर्वशः ॥ ५२.८८ ॥

अलातचक्रवद्यान्ति वातचक्रेरितानि तु।
तस्माज्ज्योतींषि वहते प्रवहंस्तेन स स्मृतः ॥ ५२.८९ ॥

एवं ध्रुवनिबद्धोऽसौ सर्पते ज्योतिषां गणः।
सैष तारामयोज्ञेयः शिशुमारो ध्रुवो दिवि।
यदह्ना कुरुते पापं दृष्टवा तं निशि मुच्यते ॥ ५२.९० ॥

यावत्यश्चैव तारास्ताः शिशूमाराश्रिता दिवि।
तावन्त्येव तु वर्षाणि जीवन्त्यभ्यधिकानि तु ॥ ५२.९१ ॥

शाश्वतः शिशुमारोऽसौ विज्ञेयः प्रविभागशः।
उत्तानपादस्तस्याथ विज्ञेयो ह्युत्तरो हनुः ॥ ५२.९२ ॥

यज्ञोऽधरस्तु विज्ञेयो धर्मो मूर्द्धानमाश्रितः।
हृदि नारायणः साध्यः अश्विनौ पूर्वपादयोः ॥ ५२.९३ ॥

वरुणश्चार्यमा चैव पश्चिमे तस्य सस्थिनि।
शिश्रः संवत्सरस्तस्य मित्रोऽपाने समाश्रितः ॥ ५२.९४ ॥

पुच्छेऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः।
तारकाः शिशुमारश्च नास्तमेति चतुष्टयम् ॥ ५२.९५ ॥

नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणेः सह।
उन्मुखाभिमुखाः सर्वे चक्रीभूताश्रिता दिवि ॥ ५२.९६ ॥

ध्रुवेणाधिष्ठिताः सर्वे ध्रुवमेव प्रदक्षिणम् ।
प्रयान्तीह वरं श्रेष्ठमेधीभूतं ध्रुवन्दिवि ॥ ५२.९७ ॥

ध्रुवाग्निकश्यपानान्तु वरस्वासौ ध्रुवः स्मृतः।
एक एव भ्रमत्येष मेरुपर्वतमूर्द्धनि ॥ ५२.९८ ॥

ज्योतिषाञ्चक्रमेतद्धि सदा कर्षत्यवाङ्मुखः।
मेरुमालोकयत्येष प्रयातीह प्रदक्षिणम् ॥ ५२.९९ ॥