०५१

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

स्वायम्भुवे निसर्गे तु व्याख्यातान्युत्तराणि तु।
भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम् ॥ ५१.१ ॥

मूलम्

एतच्छ्रुत्वा तु मुनयः पप्रच्छुर्लोमहर्षणम्।
सूर्याचन्द्रमसोश्चारं ग्रहाणाञ्चैव सर्वशः ॥ ५१.२ ॥

॥ऋषय ऊचुः ॥

विश्वास-प्रस्तुतिः

भ्रमन्ते कथमेतानि ज्योतींषि दिवि मण्डलम्।
तिर्यग्व्यूहेन सर्वाणि तथैवासङ्करेण च।
कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् ॥ ५१.३ ॥

एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम्।
भूतसम्मोहनन्त्वेतच्छ्रोतुमिच्छा प्रवर्त्तते ॥ ५१.४ ॥

भूतसम्मोहनं ह्येतद् ब्रुवतो मे निबोधत।
प्रत्यक्षमपि दृस्यं यत्तत् सम्मोहयते प्रजाः ॥ ५१.५ ॥

योऽसौ चतुर्दिशं पुच्छे शिशुमारे व्यवस्थितः।
उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥ ५१.६ ॥

स हि भ्रमन् भ्रामयते चन्द्रादित्यौ ग्रहैः सह।
भ्रमन्तमनुगच्छन्ति नक्षत्राणि च चक्रवत् ॥ ५१.७ ॥

ध्रुवस्य मनसा चासौ सर्पते भगणः स्वयम्।
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ॥ ५१.८ ॥

वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै।
तेषां योगस्व भेदाश्च कालचारस्तथैव च ॥ ५१.९ ॥

अस्तोदयौ तथोत्पाता अयने दक्षिणोत्तरे।
विषुवद्‌ग्रहवर्णाश्च ध्रुवात्सर्वं प्रवर्त्तते ॥ ५१.१० ॥

वर्षा धर्मो हिमं रात्रिः सन्ध्या चैव दिनं तथा ।
शुभाशुभं प्रजानाञ्च ध्रुवात्सर्वं प्रवर्त्तते ॥ ५१.११ ॥

ध्रुवेणाधिकृतांश्चैव सूर्योऽपावृत्त्य तिष्ठति।
तदेष दीप्तकिरणः स कालाग्निर्द्दिवाकरः ॥ ५१.१२ ॥

परिवर्त्त क्रमाद्विप्रा भाभिरालोकयन् दिशः।
सूर्यः किरणजालेन वायुयुक्तेन सर्वशः।
जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तमाः ॥ ५१.१३ ॥

आधित्यपीतं सूर्याग्नेः सोमं सङ्क्रमते जलम्।
नाडीभिर्वायुयुक्ताभिर्लोकाधानं प्रवर्त्तते ॥ ५१.१४ ॥

यत्सोमात् स्रवते सूर्यस्तदग्रेष्ववतिष्ठते।
मेघा वायुनिघातेन विसृजन्ति जलम्भुवि ॥ ५१.१५ ॥

एकमुत्क्षिप्यते चैव पतते च पुनर्ज्जलम्।
नानाप्रकारमुदकन्तदेव परिवर्त्तते ॥ ५१.१६ ॥

सन्धारणार्थं भूतानां मायैषा विश्वनिर्मिता।
अनया मायया व्याप्तं त्रैलोक्यं सचराचरम् ॥ ५१.१७ ॥

विश्वेशो लोककृद्देवः सहस्रांशुः प्रजापतिः।
धाता कृत्स्नस्य लोकस्य प्रभु र्विष्णुर्दिवाकरः ॥ ५१.१८ ॥

सर्वलौकिकमम्भो वै यत्सोमान्नभसः स्नुतम्।
सोमाधारं जगत्सर्वमेतत्तथ्यं प्रकीर्तितम् ॥ ५१.१९ ॥

सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते।
शीतोष्णवीर्यौ द्वावेतौ युक्तौ धारयतो जगत् ॥ ५१.२० ॥

सोमाधारा नदी गङ्गा पवित्रा विमलोदका।
सोमपुत्रपुरोगाश्च महानद्यो द्विजोत्तमाः ॥ ५१.२१ ॥

सर्वभूतशरीरेषु आपो ह्यनुगताश्च याः ।
तेषु सन्दह्यमानेषु जङ्गमस्थावरेषु च।
धूमभूतास्तु ता आपो निष्क्रामन्तीह सर्वशः ॥ ५१.२२ ॥

तेन चाभ्राणि जायन्ते स्थानमत्राम्भसां स्मृतम् ।
आर्कन्तेजो हि भूतेभ्यो ह्यादत्ते रश्मिभिर्जलम् ॥ ५१.२३ ॥

समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः।
यतस्त्वृतुवशात् काले परिवर्त्तो दिवाकारः।
यच्छत्यपो हि मेघेब्यः शुक्लाः शुक्लगभस्तिभिः ॥ ५१.२४ ॥

अभ्रस्था प्रपतन्त्यापो वायुना समुदीरिताः।
सर्वभूतहितार्थाय वायुभिश्च समन्ततः ॥ ५१.२५ ॥

ततो वर्षति षण्मासान् सर्वभूतविवृद्धये।
वायव्यं स्तनितञ्चैव वैद्युतञ्चाग्निसम्भवम् ॥ ५१.२६ ॥

मेहनाच्च मिहेर्द्धातोर्मेघत्वं व्यञ्जयन्ति च।
न भ्रश्यन्ति यतस्त्वापस्तदभ्रं कवयो विदुः ॥ ५१.२७ ॥

मेघानां पुनरुत्पत्तिस्त्रिविधा योनिरुच्यते।
आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः।
त्रिधा घनाः समाख्यातास्तेषां वक्ष्यामि सम्भवम् ॥ ५१.२८ ॥

आग्नेयास्त्वर्णजाः प्रोक्तास्तेषां तस्मात् प्रवर्त्तनम्।
शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः ॥ ५१.२९ ॥

महिषाश्च वराहाश्च मत्तमातङ्गगामिनः।
भूत्वा धरणिमभ्येत्य विचरन्ति रमन्ति च ॥ ५१.३० ॥

जीमूता नाम ते मेघा एतेब्यो जीवसम्भवाः।
विद्युद्गुणविहीनाश्च जलधारावलम्बिनः ॥ ५१.३१ ॥

मूका घना महाकाया प्रवाहस्य वशानुगाः।
क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः ॥ ५१.३२ ॥

पर्वताग्रनितम्बेषु वर्षन्ति च रमन्ति च।
बलाकागर्भदाश्चैव बलाकागर्भधारिणः ॥ ५१.३३ ॥

ब्रह्मजानाम ते मेघा ब्रह्मनिःश्वाससम्भवाः।
ते हि विद्युद्गुणोपेताः स्तनयन्ति स्वनप्रियाः ॥ ५१.३४ ॥

तेषां शब्दप्रणादेन भूमिः स्वाङ्गरुहोद्घमा।
राज्ञी राज्ञाभिषिक्तेव पुनर्यौवनमश्रुते।
तेष्वियं प्रीतिमासक्ता भूतानां जीवितोद्भवा ॥ ५१.३५ ॥

जीमूता नाम ते मेघास्तेभ्यो जीवस्य सम्भवः।
द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः ॥ ५१.३६ ॥

एते योजनमात्राच्च सार्द्धार्द्धान्निष्कृतादपि।
वृष्टिसर्गस्तथा तेषां धारासाराः प्रकीर्त्तिताः।
पुष्करावर्त्तका नाम ये मेघाः पक्षसम्भवाः ॥ ५१.३७ ॥

शक्रेण पक्षाश्छिन्ना ये पर्वतानां महोजसाम्।
कामगानां प्रवृद्धानां भूतानां शिवमिच्छता ॥ ५१.३८ ॥

पुष्करा नाम ते मेघा बृहन्तस्तोय मत्सराः।
पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः ॥ ५१.३९ ॥

नानारूपधराश्चैव महाघोरतराश्च ते।
कल्पान्तवृष्टेः स्रष्टारः संवर्त्ताग्नेर्नियामकाः ॥ ५१.४० ॥

वर्षन्त्येते युगान्तेषु तृतीयास्ते प्रकीर्त्तिताः।
अनेकरूपसंस्थानाः पूरयन्तो महीतलम् ।
वायुं परं वहन्तः स्युराश्रिताः कल्पसाधकाः ॥ ५१.४१ ॥

यान्यस्याण्डकपालस्य प्राकृतस्याभवंस्तदा।
तस्माद्ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयम्भुवः।
तान्येवाण्डकपालस्य सर्वे मेघाः प्रकीर्त्तिताः ॥ ५१.४२ ॥

तेषामाप्यायनं धूमः सर्वेषामविशेषतः ।
तेषां श्रेष्ठस्तु पर्ज्जन्यश्चत्वारश्चैव दिग्गजाः ॥ ५१.४३ ॥

गजानां पर्वतानाञ्च मेगानां भोगिभिः सह।
कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम् ॥ ५१.४४ ॥

पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवाः।
तुषारवृष्टिं वर्षन्ति सर्वसस्यविवृद्धये ॥ ५१.४५ ॥

श्रेष्ठः परिवहो नाम तेषां वायुरपाश्रयः।
योऽसौ बिभर्त्ति भगवान् गङ्गामाकाशगोचराम्।
दिव्यामतिजलां पुण्यां विद्यां स्वर्गपथिस्थिताम् ॥ ५१.४६ ॥

तस्याविष्पन्दजन्तोयं दिग्गजाः पृथुभिः करैः।
शीकरं सम्प्रमुञ्चन्ति नीहार इति स स्मृतः ॥ ५१.४७ ॥

दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः।
उदग् हिमवतः शैलादुत्तरस्य च दक्षिणे।
पुण्ड्रं नाम समाख्यातं नगरं तत्र वै स्मृतम् ॥ ५१.४८ ॥

तस्मिन्निपतितं वर्षं यत्तुषारसमुद्भवम् ।
ततस्तदावहो वायुर्हिमशैलात् समुद्वहन्।
आनयत्यात्मयोगेन सिञ्चमानो महागिरिम् ॥ ५१.४९ ॥

हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्।
इहाभ्येति ततः पश्चादपरान्तविवृद्धये ॥ ५१.५० ॥

मेघावाप्यायतश्चैव सर्वमेतत् प्रकीर्त्तितम् ।
सूर्य एव तु वृष्टिनां स्रष्टा समुपदिश्यते ॥ ५१.५१ ॥

ध्रुवेणा वेष्टितः सूर्यस्ताब्यां वृष्टिः प्रवर्त्तते।
ध्रुवेणावेष्टितो वायुर्वृष्टिं संहरते पुनः ॥ ५१.५२ ॥

ग्रहान्निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले ।
वारस्यान्ते विशत्यर्कं ध्रुवेण परिवेष्टितम् ॥ ५१.५३ ॥

अतः सूर्यरथस्याथ सन्निवेशं निबोधत।
संस्थितैनैकचक्रेण पञ्चारेण त्रिनाभिना ॥ ५१.५४ ॥

हिरण्मयेन भगवान् पर्वणा तु महौजसा।
नष्टवर्त्मान्धकारेण षट्‌प्रकारैकनेमिना।
चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्प्पति ॥ ५१.५५ ॥

दश योजनसाहस्रो विस्तारायामतः स्मृतः।
द्विगुणोऽस्य रथोपस्थादीषादण्डप्रमाणतः ॥ ५१.५६ ॥

स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु।
असङ्गः काञ्चनो दिव्यो युक्तः परमगैर्हयैः ॥ ५१.५७ ॥

छन्दोभिर्वाजिरूपैस्तु यतः शुक्रस्ततः स्थितः।
वरुणस्यन्दनस्तेह लक्षणैः सदृशस्तु सः।
ते नाऽसौ सर्पतिव्योम्नि भास्वता तु दिवाकरः ॥ ५१.५८ ॥

अथेमानि तु सूर्यस्य प्रत्यङ्गानि रथस्य तु।
संवत्सरस्यावयवैः कल्पितानि यथा क्रमम् ॥ ५१.५९ ॥

अहस्तु नाभिः सूर्यस्य एकचक्रः स वै स्मृतः।
आराः पञ्चर्त्तवस्तस्य नेमिः षढृतवः स्मृताः ॥ ५१.६० ॥

रथनीडः स्मृतो ह्यब्दस्त्वयने कूबरावुभौ ।
मुहूर्ता बन्धुरास्तस्य शम्या तस्य कलाः स्मृताः ॥ ५१.६१ ॥

तस्य काष्ठाः स्मृता घोणा ईषादण्डः क्षणांस्तु वै।
निमेषाश्चानुकर्षोऽस्य ईषा चास्य लवाः स्मृताः ॥ ५१.६२ ॥

रात्रिर्वरूथो घर्मोऽस्य ध्वज ऊर्ध्वसमुच्छ्रितः।
युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ ॥ ५१.६३ ॥

सप्ताश्वरूपाश्छन्दांसि वहन्ते वामतो धुराम्।
गायत्री चैव त्रिष्टुपू च अनुष्टुब् जगती तथा ॥ ५१.६४ ॥

पङ्क्तिश्च बृहती चैव उष्णिक् चैव तु सप्तमम्।
अक्षे चक्रं निबद्धन्तु ध्रुवे त्वक्षः समर्पितः ॥ ५१.६५ ॥

सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवः।
अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवेरितः ॥ ५१.६६ ॥

एवमर्थ वशात्तस्य सन्निवेशो रथस्य तु।
तथा संयोगभागेन संसिद्धो बास्वरो रथः ॥ ५१.६७ ॥

तेनाऽसौ तरणिर्देवस्तरसा सर्पते दिवि।
युगाक्षकोटिसम्बद्धौ रश्मी द्वौ स्यन्दनस्य हि ॥ ५१.६८ ॥

ध्रुवेण भ्रमतो रश्मी विचक्रयुगयोस्तु वै।
भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु ॥ ५१.६९ ॥

युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु।
ध्रुवेण सङ्गृहीते वै द्विचक्रश्वेतरज्जुवत् ॥ ५१.७० ॥

भ्रमन्तमनुगच्छेतां ध्रुवं रश्मी तु तावुभौ ।
युगाक्ष कोटी ते तस्य वातोर्मी स्यन्दनस्य तु ॥ ५१.७१ ॥

कीलासक्तो यथा रज्जुर्भ्रमते सर्वतो दिशम्।
ह्रसतस्तस्य रश्मी तौ मण्डलेषूत्तरायणे ॥ ५१.७२ ॥

वर्द्धेते दक्षिणे चैव भ्रमतो मण्डलानि तु।
ध्रुवेण सङ्गृहीतौ तु रस्मी वै नयतो रविम् ॥ ५१.७३ ॥

आकृष्येते यदा तौ वै ध्रुवेण समधिष्ठितौ।
तदा सोऽभ्यन्तरं सूर्यो भ्रमते मण्डलानि तु ॥ ५१.७४ ॥

अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन् ।
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ॥ ५१.७५ ॥

तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु।
उद्वेष्टयन् स वेगेन मण्डलानि तु गच्छति ॥ ५१.७६ ॥

इति श्रीमहापुराणे वायुप्रेक्ते ज्योतिष्प्रचारो नामैकपञ्चा शोऽध्यायः ॥ ५१ ॥