०४९

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

प्लक्षद्वीपं प्रवक्ष्यामि यथावदिव सङ्ग्रहात्।
श्रृणुतेमं यतातत्त्वं ब्रुवतो मे द्विजोत्तमाः ॥ ४९.१ ॥

मूलम्

जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः।
विस्तारात्र्रिगुणश्चास्य परिणाहः समन्ततः।
तेनावृतः समुद्रोऽयं द्वीपेन लवणोदकः॥ ४९.२ ॥

तत्र पुण्या जनपदाश्चिराच्च म्रियते प्रजा।
कुत एव हि दुर्भिक्षं जराव्याधिभयं कुतः ॥ ४९.३ ॥

तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषणाः।
रत्नाकरास्तथा नद्यस्तासान्नामानि वच्मि भोः ॥ ४९.४ ॥

प्लक्षद्वीपादिषु तेषु सप्त सप्तसु सप्तसु।
ऋज्वायताः प्रतिदिशं निविष्टाः पर्वताः सदा ॥ ४९.५ ॥

प्लक्षद्वीपे तु वक्ष्यामि सप्त द्वीपान्महाचलान्।
गोमेद कोऽत्र प्रथमः पर्वतो मेघसन्निभः।
ख्यायते तस्य नाम्ना वै वर्षं गोमेदकन्तु तत् ॥ ४९.६ ॥

द्वितीयः पर्वतश्चन्द्रः सर्वौषधिसमन्वितः।
अश्विभ्याममृतस्यार्थे ओषध्यस्तत्र संस्थिताः ॥ ४९.७ ॥

तृतीयो नारदो नाम दुर्गशैलो महोच्छ्रयः।
तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ॥ ४९.८ ॥

चतुर्थस्तत्र वै शैलो दुन्दुभिर्नाम नामतः।
शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः ।
रज्जुदारो रज्जुमयः शाल्मलस्वासुरान्तकृत् ॥ ४९.९ ॥

पञ्चमः सोमको नाम देवै र्यत्रामृतं पुरा।
सम्भृतञ्च हृतं चैव मातुरर्थे गरुत्मता ॥ ४९.१० ॥

षष्ठस्तु सुमना नाम स एवर्षभ उच्यते।
हिरण्याक्षो वराहेण तस्मिन् शैले निषूदितः ॥ ४९.११ ॥

वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान्।
यस्माद्विभ्राजतेऽर्चिर्भिर्वैभ्राजस्तेन स स्मृतः ॥ ४९.१२ ॥

तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम्।
गोमेदं प्रथमं वर्षं नाम्ना शान्तभयं स्मृतम् ॥ ४९.१३ ॥

चन्द्रस्य शिखरं नाम नारदस्य सुखोदयम्।
आनन्दं दुन्दुभेर्वर्ष सोमकस्य शिवंस्मृतम्।
क्षेमकं ऋषभस्यापि वैभ्राजस्य ध्रुवं तथा ॥ ४९.१४ ॥

एतेषु देवगन्धर्वाः सिद्धाश्च सहचारणैः
विहरन्ति रमन्ते च दृश्यमानास्तु तैः सह ॥ ४९.१५ ॥

विश्वास-प्रस्तुतिः

तेषां नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः।
नामतस्ताः प्रवक्ष्यामि सप्तगङ्गा महानदी ॥ ४९.१६ ॥

अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः।
बहूदकाश्चौघवत्यो यतो वर्षति वासवः ॥ ४९.१७ ॥

ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते।
शुभाः शान्तवहाश्चैव प्रमोदा ये च ते शिवाः ॥ ४९.१८ ॥

आनन्दाश्च ध्रुवाश्चैव क्षेमकाश्च शिवै सह।
वर्णाश्रमाचारयुक्ताः प्रजास्तेष्वथ सर्वशः ॥ ४९.१९ ॥

सर्वेष्वरोगाः सुबला- प्रजास्त्वामयवर्जिताः।
अधःसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च ॥ ४९.२० ॥

न तत्रास्ति युगावस्था चतुर्युगकृता व्कचित्।
त्रेतायुगसमः कालः सर्वदा तत्र वर्त्तते ॥ ४९.२१ ॥

प्लक्षद्वीपादिषु ज्ञेयः पञ्चस्वेतेषु सर्वशः।
देशस्यानुविधानेन कालस्यानुविधाः स्मृताः ॥ ४९.२२ ॥

पञ्चवर्षसहस्राणि तेषु जीवन्ति मानवाः।
सुरूपाश्च सुवेषाश्च अरोगा बलिनस्तथा ॥ ४९.२३ ॥

सुखमायुर्बलं रूपमारोग्यं धर्म एव च।
प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तकेषु च ॥ ४९.२४ ॥

प्लक्षद्वीपः पृथुः श्रीमान् सर्वतो धनधान्यवान्।
दिव्यौषधि फलोपेतः सर्वौषधिवनस्पतिः ॥ ४९.२५ ॥

आवृतः पशुभिः सर्वैर्ग्रामारण्यैः सहस्रशः।
जम्बूवृक्षेण सङ्ख्यातस्तस्य मध्ये द्विजोत्तमाः।
प्लक्षो नाम्ना महावृक्षस्तस्य नाम्ना स उच्यते ॥ ४९.२६ ॥

स तत्र पूज्यते स्थाणुर्मध्ये जनपदस्य हि।
स चापीक्षुरसोद्देशः प्लक्षद्वीपसमावृतः।
प्लक्षद्वीपस्य चैवेह वैपुल्याद्विस्तरेण तु ॥ ४९.२७ ॥

इत्येष सन्निवेशोवः प्लक्षद्वीपस्य कीर्तितः।
आनुपूर्व्या समासेन शाल्मलन्तन्निबोधत ॥ ४९.२८ ॥

ततस्तृतीयं द्वीपानां शाल्मलं द्वीपमुत्तमम्।
शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः।
प्लक्षद्वीपस्य विस्ताराद्‌द्विगुणेन समावृतः ॥ ४९.२९ ॥

तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः।
रत्नाकरास्तथा नद्यस्तेषु वर्षेषु सप्तसु ॥ ४९.३० ॥

प्रथमः सूर्यसङ्काशः कुमुदो नाम पर्वतः।
सर्वधातुमयैः श्रृङ्गैः शिलाजालसमुद्गतैः ॥ ४९.३१ ॥

द्वितीयः पर्वतस्तस्य उन्नतो नाम विश्रुतः।
हरितालमयैः श्रृङ्गैर्दिवमावृत्य तिष्ठति ॥ ४९.३२ ॥

तृतीयः पर्वतस्तस्य बलाहक इति श्रुतः।
जात्यञ्जनमयैः श्रृङ्गैर्दिवमावृत्य तिष्ठति ॥ ४९.३३ ॥

चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महाबलाः।
विशल्यकरणी चैव मृतसञ्जीवनी तथा ॥ ४९.३४ ॥

कङ्कस्तु पञ्चमस्तत्र पर्वतः सुमहोदयः।
दिव्यपुष्पफलो पेतो वृक्षवीरुत्समावृतः ॥ ४९.३५ ॥

षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः।
यस्मिन् सोऽग्निर्निवसति महिषो नाम वारिजः ॥ ४९.३६ ॥

सप्तमः पर्वतस्तत्र ककुझान्नाम भाष्यते।
तत्र रत्नान्यनेकानि स्वयं वर्षति वासवः।
प्रजापतिमुपादाय प्राजापत्ये विधिस्त्वयम् ॥ ४९.३७ ॥

इत्येते पर्वताः सप्त शाल्मले मणिभूषिताः ।
तेषां वर्षाणि वक्ष्यामि सप्तैव तु शुभानि वै।
कुमुदात् प्रथमं श्वेतमुन्नतस्य तु लोहितम् ॥ ४९.३८ ॥

बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम् ।
कङ्कस्य वैद्युतं नाम महिषस्य तु मानसम् ॥ ४९.३९ ॥

ककुदः सुप्रभं नाम सप्तैतानि तु सप्तधा।
वर्षाणि पर्वतांश्चैव नदीस्तेषु निबोधत ॥ ४९.४० ॥

पानितोया वितृष्णा च चन्द्रा शुक्रा विमोचनी।
निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः ॥ ४९.४१ ॥

तासां समीपगाश्चान्याः शतशोऽथ सहस्रशः।
अशक्याः परिसङ्ख्यातुं श्रद्धेयास्तु बुभूषता ॥ ४९.४२ ॥

इत्येष सन्निवेशो वः शाल्मलस्यापि कीर्तितः।
प्लक्षवृक्षेण सङ्ख्यातस्तस्य मध्ये महाद्रुमः ॥ ४९.४३ ॥

शाल्मलिर्विपुलस्कन्ध स्तस्य नाम्ना स उच्यते।
शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः।
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ ४९.४४ ॥

उत्तरेषु तु धर्मज्ञा द्वीपेषु श्रृणुत प्रजाः।
यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ॥ ४९.४५ ॥

कुशद्वीपं प्रवक्ष्यामि चतुर्थं तं समासतः।
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ॥ ४९.४६ ॥

सप्तैव गिरयस्तत्र वर्ण्यमानान्निबोधत।
शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥ ४९.४७ ॥

कुखद्वीपे तु विज्ञेयः पर्वतो विद्रुमोच्चयः।
द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ॥ ४९.४८ ॥

तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः।
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥ ४९.४९ ॥

षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः ।
मन्दा इति ह्यपां नाम मन्दरो दारणादपाम् ॥ ४९.५० ॥

तेषामन्तरविष्कम्भो द्विगुणः परिवारितः।
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ ४९.५१ ॥

तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम्।
पञ्चमं धृतिमद्वर्षं षष्ठं वर्ष प्रभाकरम्।
सप्तमं कपिलं नाम सप्तैते वर्षपर्वताः ॥ ४९.५२ ॥

एतेषु देवगन्धर्वाः प्रभास्तु जगदीश्वराः।
विहरन्ति रमन्ते च दृश्यमानास्तु वर्षशः ॥ ४९.५३ ॥

न तेषु दस्यवः सन्ति म्लेच्छजात्यस्तथैव च।
गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा ॥ ४९.५४ ॥

तत्रापि नद्यः सप्तैव धुतपापाः शिवास्तथा।
पवित्रा सन्ततिश्चैव द्युतिगर्भा मही तथा ॥ ४९.५५ ॥

अन्यास्ताभ्यः परिज्ञाताः शतशोऽथ सहस्रशः।
अभिगच्छन्ति ताः सर्वा यतो वर्षति वासवः ॥ ४९.५६ ॥

घृतोदेन कुशद्वीपो बाह्यतः परिवारितः।
विज्ञेयः स तु विस्तारात् कुशद्वीपसमेन तु ॥ ४९.५७ ॥

इत्येष सन्निवेशो वः कुशद्वीपस्य वर्णितः।
क्रौञ्चद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् ॥ ४९.५८ ॥

कुशद्वीपस्य विस्ताराद् द्विगुणः स तु वै स्मृतः।
घृतोदकसमुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥ ४९.५९ ॥

तस्मिन् द्वीपे नगश्रेष्ठः क्रौञ्चस्थः प्रथमो गिरिः।
क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥ ४९.६० ॥

अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः।
दिवावृतः परश्चपि दिविन्दो गिरिरुच्यते ॥ ४९.६१ ॥

दिविन्दात्परतश्चापि पुण्डरीको महागिरिः।
पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ॥ ४९.६२ ॥

एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः।
बहुवृक्षफलो पेता नानावृक्षलतावृताः ॥ ४९.६३ ॥

परस्परेण द्विगुणा विष्कम्भाद्वर्षपर्वताः ।
वर्षाणि तत्र वक्ष्यामि नामतस्तु निबोधत ॥ ४९.६४ ॥

क्रौञ्चस्य कुशली देशो वामनस्य मनोनुगः।
मनोनुगात्परश्चोष्णस्तृतीयो देश उच्यते ॥ ४९.६५ ॥

उष्णात्परः प्रावरकः प्रावरादन्धकारकः।
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥ ४९.६६ ॥

मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः।
सिद्धचारणसङ्कीर्णो गौरप्रायो जनः स्मृतः ॥ ४९.६७ ॥

तत्रापि नद्यः सप्तैव प्रति वर्ष स्मृताः शुभाः ।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधा स्मृता ॥ ४९.६८ ॥

तासां समुद्रगाश्चान्या नद्यो यास्तु समीपगाः।
अनुगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः ॥ ४९.६९ ॥

क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु।
आवृतः सर्वतः श्रीमान् क्रौञ्चद्वीपसमेन तु ॥ ४९.७० ॥

प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्त्तिताः।
तेषां निसर्गो द्वीपानामानुपूर्व्येण सर्वशः ॥ ४९.७१ ॥

न शक्यं विस्तराद्वक्तु मपि वर्षशतैरपि ।
निसर्गोऽयं प्रजानां तु संहारो यश्च तासु वै ॥ ४९.७२ ॥

अत ऊर्द्द्वं प्रवक्ष्यामि शाकद्वीपस्य यो विधिः।
शाकद्वीपस्य कृत्स्नस्य यथावदिह निश्चयात्।
श्रृणुध्वं वै यथातत्त्वं ब्रुवतो मे यथार्थवत् ॥ ४९.७३ ॥

क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः।
परिवार्य समुद्रं स दधिमण्डोदकं स्थितः ॥ ४९.७४ ॥

तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः।
कुत एव तु दुर्भिक्षञ्चराव्याधिभयं कुतः ॥ ४९.७५ ॥

तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः।
रत्नाकरास्तथा नद्यस्तासां नामानि मे श्रृणु ॥ ४९.७६ ॥

देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते।
प्रागायतः स सौवर्ण उदयो नाम पर्वतः ॥ ४९.७७ ॥

तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्ति च यान्ति च।
तस्यापरेण सुमहान् जलधारो महागिरिः ॥ ४९.७८ ॥

तस्मान्नित्यमुपादत्ते वासवः परमं जलम्।
ततो वर्षं प्रभवति वर्षाकाले प्रजास्विह ॥ ४९.७९ ॥

तस्यापरे रैवतको यत्र नित्यं प्रतिष्ठिता ।
रेवती दिवि नक्षत्रं पितामहकृतो गिरिः ॥ ४९.८० ॥

तस्यापरेण सुमहान् श्यामो नाम महागिरिः।
तस्माच्छयामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥ ४९.८१ ॥

तस्यापरेण रजतो महानस्तो गिरिः स्मृतः।
तस्यापरेणाम्बिकेयो दुर्गः शैलो हिमाचितः ॥ ४९.८२ .

विश्वास-प्रस्तुतिः

आम्बिकेयात्परो रम्यः सर्वौषधिसमन्वितः ।
स चैव केशरीत्युक्तो यतो वायुः प्रवायति ॥ ४९.८३ ॥

श्रृणुध्वं नामतस्तानि यथावदनुपूर्वशः।
उदयस्योदयं वर्षं जलदं नाम विश्रुतम् ॥ ४९.८४ ॥

द्वितीयं जलधारस्य सुकुमारमिति स्मृतम्।
रैवतस्य तु कौमारं श्यामस्य तु मणीचकम् ॥ ४९.८५ ॥

अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम्।
आम्बिकेयस्य मोदाकं केसरेषु महाद्रुमम् ॥ ४९.८६ ॥

द्वीपस्य परिमाणञ्च ह्रस्वदीर्घत्वमेव च।
शाकद्वीपेन विख्यातस्तस्य मध्ये वनस्पतिः ।
शाको नाम महावृक्षस्तस्य पूजां प्रयुञ्जते ॥ ४९.८७ ॥

एतेन देवगन्धर्वाः सिद्धाश्च सह चारणैः।
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह ॥ ४९.८८ ॥

तत्र पुण्या जनपदाश्चातुर्वर्णसमन्विताः।
तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः ।
विद्धि नाम्नश्च ताः सर्वा गङ्गास्ताः सप्तधा स्मृताः ॥ ४९.८९ ॥

प्रथमा सुकुमारीति गङ्गा शिवजला तथा।
अनु तप्ता च नाम्नैव नदी सम्परिकीर्त्तिता ॥ ४९.९० ॥

कुमारी नामतः सिद्धा द्वितीया सा पुनः सती ।
नन्दा च पार्वती चैव तृतीय परिकीर्त्तिता ॥ ४९.९१ ॥

शिवेतिका चतुर्थी स्यात् त्रिदिवा च पुनः स्मृता।
इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः क्रतुः ॥ ४९.९२ ॥

धेनुका च मृता चैव षष्ठी सम्परिकीर्त्तिता।
एताः सप्त महागङ्गाः प्रतिवर्षं शिवोदकाः।
भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ॥ ४९.९३ ॥

अनुगच्छन्ति तास्त्वन्या नदीनद्यः सहस्रशः।
बहूदक परिस्रावा यतो वर्षति वासवः ॥ ४९.९४ ॥

तासान्तु नामधेयानि परिमाणं तथैव च।
न शक्यं परिसङ्ख्यातुं पुण्यास्ताः सरिदुत्तमाः।
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ॥ ४९.९५ ॥

शंशपायन विस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः।
नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ॥ ४९.९६ ॥

सर्वधातुविचित्रैश्च मणि विद्रुमभूषितैः।
पुरैश्च विविधाकारैः स्फीतैर्जनपदैरपि ॥ ४९.९७ ॥

वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान्।
क्षीरोदेन समुद्रेण सर्वतः परिवारितः।
शाकद्वीपस्तु विस्तारात् समेन तु समन्ततः ॥ ४९.९८ ॥

तस्मिन् जनपदाः पुण्याः पर्वतान्तरिते शुभाः ।
वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः ॥ ४९.९९ ॥

न सङ्करश्च तेष्वस्ति वर्णाश्रमकृतः व्कचित् ।
धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ॥ ४९.१०० ॥

न तेषु लोभो माया वा ईर्ष्यासूयाऽधृतिः कुतः।
विपर्ययो न तेष्वस्ति एतत् स्वाभाविकं स्मृतम् ॥ ४९.१०१ ॥

करोत्पत्तिर्नतेष्वस्ति न दण्डो न च दण्डकाः।
स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ ४९.१०२ ॥

एतावदेव शक्यं वै तस्मिन् द्वीपे निवासिनाम्।
पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ॥ ४९.१०३ ॥

पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः।
शाकद्वीपस्य विस्ताराद्‌द्विगुणेन समन्ततः ॥ ४९.१०४ ॥

पुष्करे पर्वतः श्रीमान् एक एव महाशिलः।
चित्रै र्मणिमयैः शीलैः शिखरैस्तु समुच्छ्रितैः ॥ ४९.१०५ ॥

द्वीपस्य तस्य पूर्वार्द्धे चित्रसानुः स्थितो महान्।
परिमण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ॥ ४९.१०६ ॥

ऊर्द्द्वञ्चैव चतुस्त्रिशत्सहस्राणि समाचितः।
द्वीपार्द्धस्य परिस्तोमः पर्वतो मानसोत्तमः ॥ ४९.१०७ ॥

स्थितो वेलासमीपे तु नवचन्द्र इवोदितः।
योजनानां सहस्राणि ऊर्ध्वं पञ्चशदुच्छ्रितः ॥ ४९.१०८ ॥

तावदेव स विस्तीर्णः सर्वतः परिमण्डलः।
स एवं द्वीपपश्चार्द्धे मानसः पृथिवीधरः ॥ ४९.१०९ ॥

एक एव महासानुः सन्निवेशाद्द्विधा कृतः।
स्वादूदकेनोदधिना सर्वतः परिवारितः ॥ ४९.११० ॥

पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समन्ततः।
तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ।
अभितो मानसस्याथ पर्वतस्यानुमण्डलौ ॥ ४९.१११ ॥

महावीतन्तु यद्वर्षं बाह्यतो मानसस्य तत्।
तस्यैवाभ्यन्तरे यत्तु धातकीखण्डमुच्यते ॥ ४९.११२ ॥

दशवर्षसहस्राणि तत्र जेवन्ति मानवाः।
आरोग्यसुखभूयिष्ठा मानसीं सिद्धिमास्थिताः ॥ ४९.११३ ॥

सममायुश्च रूपञ्च तस्मिन् वर्षद्वये स्थितम्।
अधमोत्तमौ न तेष्वास्तां तुल्यास्ते रूपशीलतः ॥ ४९.११४ ॥

न तत्र वञ्चको नेर्ष्या न स्तेना न भयं तथा।
निग्रहो न च दण्डोऽस्ति न लोभो न परिग्रहः ॥ ४९.११५ ॥

सत्यानृतं न तत्रास्ति धर्माधर्मौ तथैव च।
वर्णाश्रमाणां वार्त्ता वा पाशुपाल्यं वणिक्क्रिया ॥ ४९.११६ ॥

त्रयी विद्या दण्डनीतिः शुश्रूषा शल्यमेव च।
वर्षद्वये सर्वमेतत् पुष्करस्य न विद्यते ॥ ४९.११७ ॥

न तत्र नद्यो वर्षञ्च शीतोष्णं वा न विद्यते ।
उद्भिज्जान्युदकान्यत्र गिरिप्रस्रवणानि च ॥ ४९.११८ ॥

उत्तराणां कुरूणाञ्च तुल्यकालो जनः सदा।
सर्वत्र सुसुखस्तत्र जराक्लमविवर्जितः ॥ ४९.११९ ॥

इत्येष धातकीखण्डो महावीते तथैव च ।
आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्तितः ॥ ४९.१२० ॥

स्वादूदकेनोदधिना पुष्करः परिवारितः।
विस्तरान्मण्डलाच्चैव पुष्करस्य तथैव च ॥ ४९.१२१ ॥

एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः।
द्वीपस्यानन्तरो यस्तु समुद्रस्तु समन्ततः ॥ ४९.१२२ ॥

एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात्।
अपाञ्चैव समुद्रेकात् समुद्रा इति सञ्ज्ञिताः ॥ ४९.१२३ ॥

ऋषयो निवसन्त्यस्मिन् प्रजा यस्माच्चतुर्विधाः।
तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदन्तु तत् ॥ ४९.१२४ ॥

ऋष इत्येव ऋषयः वृषः शक्तिप्रबन्धने।
इति प्रबन्धनात् सिद्धं वर्षत्वं तेन तेषु तत् ॥ ४९.१२५ ॥

शुक्लपक्षे चन्द्रवृद्धौ समुद्रः पूर्यते तदा।
प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ॥ ४९.१२६ ॥

आपूर्यमाणे उदधिः स्वत एवाभिपूर्यते।
ततोऽपक्षीयमाणेऽपि स्वात्मनैवापकृष्यते ॥ ४९.१२७ ॥

उखास्थमग्निसंयोगात् जलमुद्रिच्यते यथा।
तथा महोदधिगतं तोयमुद्रिच्यते ततः ॥ ४९.१२८ ॥

अन्यूनाह्यतिरिक्ताश्च वर्द्धन्त्यापो ह्रसन्ति च।
उदयास्तमितैश्चेन्दोः पक्षयोः शुक्लकृष्णयोः।
क्षयवृद्धिरेवमुदधेः सोमवृद्धिक्षयात्पुनः ॥ ४९.१२९ ॥

दशोत्तराणि पञ्चैव अङ्गुलीनां शतानि तु।
अपां वृद्धिः क्षयो दृष्टः समुद्राणान्तु पर्वसु ॥ ४९.१३० ॥

द्विरापत्वात् स्मृता द्वीपाः सर्वतश्चोदकावृताः।
उदकस्याधानं यस्माच्च तस्मादुदधिरुच्यते ॥ ४९.१३१ ॥

अपर्वाणस्तु गिरयः पर्वभिः पर्वताः स्मृताः ।
प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चोच्यते ॥ ४९.१३२ ॥

शाल्मलिः शाल्मलद्वीपे पूज्यते च महाद्रुमाः।
कुशद्वीपे कुशस्तम्बस्तस्य नाम्ना स उच्यते ॥ ४९.१३३ ॥

क्रौञ्चद्वीपे गिरिः क्रौञ्चो मध्ये जनपदस्य ह।
शकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ॥ ४९.१३४ ॥

न्यग्रोधः पुष्करद्वीपे तत्र तैः स नमस्कृतः।
महादेवः पुष्करे तु ब्रह्मा त्रिभुवनेश्वरः ॥ ४९.१३५ ॥

तस्मिन्निवसति ब्रह्मा साध्यैः सार्द्धं प्रजापतिः।
उपासते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः।
स तत्र पूज्यते चैव देवैर्देवोत्तमोत्तमः ॥ ४९.१३६ ॥

जम्बूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च।
द्वीपेषु तेषु सर्वेषु प्रजानां हि क्रमास्त्विह ॥ ४९.१३७ ॥

सर्वसो ब्रह्मचर्येण सत्येन च दमेन च।
आरोग्यायुःप्रमाणाद्धि द्विगुणञ्च समन्ततः ॥ ४९.१३८ ॥

एतस्मिन् पुष्करद्वीपे यदुक्तं वर्षकद्वयम्।
गोपायति प्रजास्तत्र स्वयं सज्जनमण्डिताः ॥ ४९.१३९ ॥

ईश्वरो दण्डमुद्यम्य ब्रह्मा त्रिभुवनेश्वरः।
सविष्णुः सशिवो देवः सपिता सपितामहः ॥ ४९.१४० ॥

भोजनञ्चाप्रयत्नेन तत्र स्वयमुपस्थितम् ।
षड्रसं सुमहावीर्यं भुञ्जते च प्रजाः सदा ॥ ४९.१४१ ॥

परेण पुष्करस्याथ आवृत्या यः स्थितो महान् ।
स्वादूदकः समुद्रस्तु समन्तात्परिवेष्टितः ॥ ४९.१४२ ॥

परेण तस्य महती दृश्यते लोक संस्थितिः।
काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ॥ ४९.१४३ ॥

तस्मात्परेण शैलस्तु मर्यादान्ते तु मण्डलम्।
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ ४९.१४४ ॥

आलोकस्तस्य चार्वाक्तु निरालोकस्ततः परम्।
योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ॥ ४९.१४५ ॥

तावांश्च विस्तरस्तस्य पृथिव्यां कामगश्च सः।
आलोके लोकशब्दस्तु निरालोके सलोकता।
लोकार्थं सम्मतो लोको निरालोकस्तु बाह्यतः ॥ ४९.१४६ ॥

लोकविस्तारमात्रन्तु आलोकः सर्वतो बहिः।
परिच्छिन्नः समन्ताच्च उदकेनावृतश्च सः।
निरालोकात्परश्चापि अण्डमावृत्य तिष्ठति ॥ ४९.१४७ ॥

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी।
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा ॥ ४९.१४८ ॥

जनस्तपस्तथा सत्य एतावान् लोकसङ्‌ग्रहः।
एकावानेव विज्ञेयो लोकान्तश्चैव तत्परः ॥ ४९.१४९ ॥

कुम्बस्थायी भवेद्यादृक् प्रतीच्यान्दिशि चन्द्रमाः।
आदितः शुक्लपक्षस्य वपुरण्डस्य तद्विधम् ॥ ४९.१५० ॥

अण्डानामीदृशानान्तु कोट्यो ज्ञेयाः सहस्रशः।
तिर्यगूर्ध्वमधस्ताच्च कारणस्याव्ययात्मनः।
कारणैः प्राकृतैस्तत्र ह्यावृतं प्रतिसप्तभिः ॥ ४९.१५१ ॥

दशाधिक्येन चान्योन्यं धारयन्ति परस्परम्।
परस्परावृताः सर्वे उत्पन्नाश्च परस्परात् ॥ ४९.१५२ ॥

अण्डस्यास्य समन्तात्तु सन्निविष्टो घनोदधिः।
समन्ताद्येन तोयेन धार्यमाणः स तिष्ठति ॥ ४९.१५३ ॥

बाह्यतो घनतोयस्य तिर्यगूर्ध्वानुमण्डलम्।
धार्यमाणं समन्तात्तु तिष्ठते घनतेजसा ॥ ४९.१५४ ॥

अयोगुडनिभो वह्निः समन्तान्मण्डलाकृतिः।
समन्ताद्धनवातेन धार्यमाणः स तिष्ठति।
घनवातस्तथाकाशन्धारयाणस्तु तिष्ठति ॥ ४९.१५५ ॥

भूतादिश्च तथाकाशं भूताद्यञ्चाप्यसौ महान् ।
महान् व्याप्तो ह्यनन्तेन अव्यक्तेन तु धार्यते ॥ ४९.१५६ ॥

अनन्तमपरिव्यक्तन्दशधा सूक्ष्म एव च।
अनन्तमकृतात्मानमनादिनिधनञ्च तत् ॥ ४९.१५७ ॥

अतीत्य पर तो घोरमनालम्बमनामयम्।
नैकयोजनसाहस्रं विप्रकृष्टं तमोवृतम् ॥ ४९.१५८ ॥

तम एव निरालोकममर्यादमदेशिकम्।
देवानामप्यविदिन्तं व्यवहारविवर्ज्जितम् ॥ ४९.१५९ ॥

तमसोऽन्ते च विख्यातमाकाशान्ते च भास्वरम्।
मर्यादायामतस्तस्य शिवस्यायतनं महत् ॥ ४९.१६० ॥

त्रिदशानामगम्यन्तु स्थानं दिव्यमिति श्रुतिः।
महतो देवदेवस्य मर्यादायां व्यवस्थितम् ॥ ४९.१६१ ॥

चन्द्रादित्यावतप्तास्तु ये लोकाः प्रथिता बुधैः।
ते लोका इत्यभिहिता जगतश्च न संशयः ॥ ४९.१६२ ॥

रसातलतलात् सप्त सप्तैवोर्ध्वतलाः क्षितौ।
सप्तस्कन्धास्तथा वायोः सब्रह्मसदना द्विजाः ॥ ४९.१६३ ॥

आपातालाद्दिवं यावदत्र पञ्चविधा गतिः।
प्रमाणमेतज्जगत एष संसारसागरः ॥ ४९.१६४ ॥

मूलम्

आपातालाद्दिवं यावदत्र पञ्चविधा गतिः।
प्रमाणमेतज्जगत एष संसारसागरः ॥ ४९.१६४ ॥

विश्वास-प्रस्तुतिः

अनाद्यन्ता प्रयात्येवं नैकजातिसमुद्भवाः।
विचित्रा जगतः सा वै प्रवृत्तिरनवस्थिता ॥ ४९.१६५ ॥

यथैतद् भौतिकं नाम निसर्गबहुविस्तरम्।
अतीन्द्रियैर्महाभागैः सिद्धैरपि न लक्ष्यते ॥ ४९.१६६ ॥

पृथिव्याञ्चाग्निवायूनां महतस्तमसस्तथा।
ईश्वरस्य तु देवस्य अनन्तस्य द्विजोत्तमाः ॥ ४९.१६७ ॥

क्षयो वा परिमाणं वा अन्तो वापि न विद्यते।
अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते।
तस्य चोक्तं मया पूर्वं तस्मिन्नामानुकीर्त्तने ॥ ४९.१६८ ॥

य एष शिवनाम्ना हि तद्वः कार्त्स्न्येन कीर्तितम्।
स एष सर्वत्र गतः सर्वस्थानेषु पूज्यते ॥ ४९.१६९ ॥

भूमौ रसातले चैव आकाशे पवनेऽनले।
अर्णवेषु च सर्वेषु दिवि चैव न संशयः ॥ ४९.१७० ॥

तथा तपसि विज्ञेय एष एव महाद्युतिः।
अनेकधा विभक्ताङ्गो महायोगी महेश्वरः।
सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ॥ ४९.१७१ ॥

एवं परस्परोत्पन्ना धार्यन्ते च परस्परान्।
आधाराधेयभावेन विकारास्ते विकारिणः ॥ ४९.१७२ ॥

पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम्।
परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् ॥ ४९.१७३ ॥

यस्माद्विष्टाश्च तेऽन्योन्यं तस्मात् स्थैर्यमुपागताः।
प्रागासन् ह्यविशेषास्तु विशेषान्योन्यवेशनात्।
पृथिव्याद्याश्च वाय्वन्ताः परिच्छिन्नास्त्रयस्तु ते ॥ ४९.१७४ ॥

गुणापचयसारेण परिच्छेदो विशेषतः।
शेषाणां तु परिच्छेदः सौक्ष्म्यान्नेह विभाव्यते ॥ ४९.१७५ ॥

भूतेभ्यः परतस्तेभ्यो ह्यालोकः परतः स्मृतः।
भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः ॥ ४९.१७६ ॥

पात्रे महति पात्राणि यथैवान्तर्गतानि तु।
भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात्।
तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः ॥ ४९.१७७ ॥

कृत्स्नान्येतानि चत्वारि अन्योन्यस्याधिकानि तु ।
यावदेतानि भूतानि तावदुत्पत्ति रुच्यते ॥ ४९.१७८ ॥

जन्तूनामिह संस्कारो भूतेष्वन्तर्गतो मताः।
प्रत्याख्याय च भूतानि कार्योत्पत्तिर्न विद्यते ॥ ४९.१७९ ॥

तस्मात्परिमिता भेदाः स्मृताः कार्यात्मकास्तु ते।
कारणात्मकास्तथैव स्युर्भेदा ये महदादयः ॥ ४९.१८० ॥

इत्येष सन्निवेशो वो मया प्रोक्तो विभागशः।
सप्तद्वीपसमुद्राया याथातथ्येन वै द्विजाः ॥ ४९.१८१ ॥

विस्तारान्मण्जलाच्चैव प्रसङ्ख्यातेन चैव हि ।
वैश्वरूपं प्रधानस्य परिमाणैकदेशिकम् ॥ ४९.१८२ ॥

अदिष्ठानं भगनतो यस्य सर्वमिदं जगत् ।
एवं भूतगणाः सप्त सन्निविष्टाः परस्परम् ॥ ४९.१८३ ॥

एतावान् सन्निवेशस्तु मया शक्यः प्रभावितु म्।
एतावदेव श्रोतव्यं सन्निवेशे तु पार्थिव ॥ ४९.१८४ ॥

सप्त प्रकृतयस्त्वेता धारयन्ति परस्परम्।
तास्वल्पपरिमाणेन प्रसङ्ख्यातुमिहोच्यते।
असङ्ख्येयाः प्रकृतयस्तिर्यगूर्ध्वमधश्च याः ॥ ४९.१८५ ॥

तारकासन्निवेशश्च यावद्दिव्यं तु मण्जलम्।
मर्यादासन्निवेशस्तु भूमेस्तदनुमण्डलम्।
अतः परं प्रवक्ष्यामि पृथिव्यां वै द्विजोत्तमाः ॥ ४९.१८६ ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामैकोनपञ्चाशोऽध्यायः ॥ ४९ ॥