०४८

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

दक्षिणेनापि वर्षस्य भारतस्य निबोधत।
दशयोजनसाहस्रं समतीत्य महार्णवम् ॥ ४८.१ ॥

मूलम्

दक्षिणेनापि वर्षस्य भारतस्य निबोधत।
दशयोजनसाहस्रं समतीत्य महार्णवम् ॥ ४८.१ ॥

विश्वास-प्रस्तुतिः

त्रीण्येव तु सहस्राणि योजनानां समायतम्।
अतस्त्रिभागविस्तीर्णं नानापुष्पफलोदयम् ॥ ४८.२ ॥

मूलम्

त्रीण्येव तु सहस्राणि योजनानां समायतम्।
अतस्त्रिभागविस्तीर्णं नानापुष्पफलोदयम् ॥ ४८.२ ॥

विश्वास-प्रस्तुतिः

विद्युत्वन्तं महाशैलं तत्रैकं कुलपर्वतम्।
येन कूटतटैर्नैकैस्तद्द्वीपं समलङ्कृतम् ॥ ४८.३ ॥

मूलम्

विद्युत्वन्तं महाशैलं तत्रैकं कुलपर्वतम्।
येन कूटतटैर्नैकैस्तद्द्वीपं समलङ्कृतम् ॥ ४८.३ ॥

विश्वास-प्रस्तुतिः

प्रसन्नस्वादुसलिलास्तत्र नद्यः सहस्रशः।
वाप्यस्तस्य तु द्वीपस्य प्रवृत्ता विमलोदकाः ॥ ४८.४ ॥

मूलम्

प्रसन्नस्वादुसलिलास्तत्र नद्यः सहस्रशः।
वाप्यस्तस्य तु द्वीपस्य प्रवृत्ता विमलोदकाः ॥ ४८.४ ॥

विश्वास-प्रस्तुतिः

तस्य शैलस्य छिद्रेषु विस्तीर्णेष्वायतेषु च।
अनेकेषु समृद्धानि नानाकाराणि सर्वशः ॥ ४८.५ ॥

मूलम्

तस्य शैलस्य छिद्रेषु विस्तीर्णेष्वायतेषु च।
अनेकेषु समृद्धानि नानाकाराणि सर्वशः ॥ ४८.५ ॥

विश्वास-प्रस्तुतिः

नरनारीसमाढ्यानि मुदितानि महान्ति च।
तेषां तलप्रवेशानि सहस्राणि शतानि च ॥ ४८.६ ॥

मूलम्

नरनारीसमाढ्यानि मुदितानि महान्ति च।
तेषां तलप्रवेशानि सहस्राणि शतानि च ॥ ४८.६ ॥

विश्वास-प्रस्तुतिः

पुराणि सन्निविष्टानि पर्वतान्तर्गतानि च।
सुसम्बद्धानि चान्योन्यमेकद्वाराणि चान्यथ ॥ ४८.७ ॥

मूलम्

पुराणि सन्निविष्टानि पर्वतान्तर्गतानि च।
सुसम्बद्धानि चान्योन्यमेकद्वाराणि चान्यथ ॥ ४८.७ ॥

विश्वास-प्रस्तुतिः

दीर्घश्मश्रुधरात्मानो नीला मेघसमप्रभाः।
जातमात्राः प्रजास्तत्र अशीतिपरमायुषः ॥ ४८.८ ॥

मूलम्

दीर्घश्मश्रुधरात्मानो नीला मेघसमप्रभाः।
जातमात्राः प्रजास्तत्र अशीतिपरमायुषः ॥ ४८.८ ॥

विश्वास-प्रस्तुतिः

शाखामृगसधर्माणः फलमूलाशिनस्तथा।
गोधर्माणो ह्यनिर्दिष्टाः शौचाचारविवर्जिताः ॥ ४८.९ ॥

मूलम्

शाखामृगसधर्माणः फलमूलाशिनस्तथा।
गोधर्माणो ह्यनिर्दिष्टाः शौचाचारविवर्जिताः ॥ ४८.९ ॥

विश्वास-प्रस्तुतिः

तद्द्वीपं तादृशैः पूर्णं मनुजैः क्षुद्रमानुषैः ।
एवमेतेऽन्तरद्वीपा व्याख्याता आनुपूर्वशः ॥ ४८.१० ॥

मूलम्

तद्द्वीपं तादृशैः पूर्णं मनुजैः क्षुद्रमानुषैः ।
एवमेतेऽन्तरद्वीपा व्याख्याता आनुपूर्वशः ॥ ४८.१० ॥

विश्वास-प्रस्तुतिः

विंशत्र्रिंशच्च पञ्चाशत् षष्ट्यशीतिः शतं तथा।
सहस्रमपि चाप्युक्तं योजनानां समन्ततः ॥ ४८.११ ॥

मूलम्

विंशत्र्रिंशच्च पञ्चाशत् षष्ट्यशीतिः शतं तथा।
सहस्रमपि चाप्युक्तं योजनानां समन्ततः ॥ ४८.११ ॥

विश्वास-प्रस्तुतिः

विस्तीर्णाश्चायताश्चैव नानासत्त्वसमाकुलाः।
बर्हिणद्वीपपर्वाणि क्षुद्रद्वीपाः सहस्रशः ॥ ४८.१२ ॥

मूलम्

विस्तीर्णाश्चायताश्चैव नानासत्त्वसमाकुलाः।
बर्हिणद्वीपपर्वाणि क्षुद्रद्वीपाः सहस्रशः ॥ ४८.१२ ॥

विश्वास-प्रस्तुतिः

जम्बूद्वीपप्रदेशात्तु षडन्ये विविधाश्रयाः।
अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ ॥ ४८.१३ ॥

मूलम्

जम्बूद्वीपप्रदेशात्तु षडन्ये विविधाश्रयाः।
अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ ॥ ४८.१३ ॥

विश्वास-प्रस्तुतिः

अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च।
शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च ॥ ४८.१४ ॥

मूलम्

अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च।
शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च ॥ ४८.१४ ॥

विश्वास-प्रस्तुतिः

अङ्गद्वीपं निबोध त्वं नानासङ्घसमाकुलम्।
नानाम्लेच्छगणाकीर्णं तद्द्वीपं बहुविस्तरम् ॥ ४८.१५ ॥

मूलम्

अङ्गद्वीपं निबोध त्वं नानासङ्घसमाकुलम्।
नानाम्लेच्छगणाकीर्णं तद्द्वीपं बहुविस्तरम् ॥ ४८.१५ ॥

विश्वास-प्रस्तुतिः

हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ।
नदीशैलवनैश्चित्रं सन्निभं लवणाम्भसा ॥ ४८.१६ ॥

मूलम्

हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ।
नदीशैलवनैश्चित्रं सन्निभं लवणाम्भसा ॥ ४८.१६ ॥

विश्वास-प्रस्तुतिः

तत्र चक्रगिरिर्नाम नैक निर्झरकन्दरः।
तत्र सा तु दरी चास्य नानासत्वसमाश्रया ॥ ४८.१७ ॥

मूलम्

तत्र चक्रगिरिर्नाम नैक निर्झरकन्दरः।
तत्र सा तु दरी चास्य नानासत्वसमाश्रया ॥ ४८.१७ ॥

विश्वास-प्रस्तुतिः

स मध्ये नागदेशस्य नैकदेशो महागिरिः।
कोटिभ्यां नागनिलयं प्राप्तो नदनदी पतिम् ॥ ४८.१८ ॥

मूलम्

स मध्ये नागदेशस्य नैकदेशो महागिरिः।
कोटिभ्यां नागनिलयं प्राप्तो नदनदी पतिम् ॥ ४८.१८ ॥

विश्वास-प्रस्तुतिः

यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् ।
तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः।
समुद्रगानां प्रभवः प्रभवः काञ्चनस्य तु ॥ ४८.१९ ॥

मूलम्

यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् ।
तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः।
समुद्रगानां प्रभवः प्रभवः काञ्चनस्य तु ॥ ४८.१९ ॥

विश्वास-प्रस्तुतिः

तथैव मलयद्वीपमेवमेव सुसंवृतम्।
मणिरत्नाकरं स्फीतमाकरं कनकस्य च ॥ ४८.२० ॥

मूलम्

तथैव मलयद्वीपमेवमेव सुसंवृतम्।
मणिरत्नाकरं स्फीतमाकरं कनकस्य च ॥ ४८.२० ॥

विश्वास-प्रस्तुतिः

आकरं चन्दनानाञ्च समुद्राणां तथाकरम्।
नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम् ॥ ४८.२१ ॥

मूलम्

आकरं चन्दनानाञ्च समुद्राणां तथाकरम्।
नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम् ॥ ४८.२१ ॥

विश्वास-प्रस्तुतिः

तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः।
महामलय इत्येवं विख्यातो वरपर्वतः ॥ ४८.२२ ॥

मूलम्

तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः।
महामलय इत्येवं विख्यातो वरपर्वतः ॥ ४८.२२ ॥

विश्वास-प्रस्तुतिः

द्वितीयं मन्दरं नाम प्रथितञ्च सदा क्षितौ।
आगस्त्यभवनं तत्र देवासुरनमस्कृतम् ॥ ४८.२३ ॥

मूलम्

द्वितीयं मन्दरं नाम प्रथितञ्च सदा क्षितौ।
आगस्त्यभवनं तत्र देवासुरनमस्कृतम् ॥ ४८.२३ ॥

विश्वास-प्रस्तुतिः

तथा काञ्चनपादस्य मलयस्यापरस्य हि।
निकुञ्जैस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम् ॥ ४८.२४ ॥

मूलम्

तथा काञ्चनपादस्य मलयस्यापरस्य हि।
निकुञ्जैस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम् ॥ ४८.२४ ॥

विश्वास-प्रस्तुतिः

नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते।
तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु ॥ ४८.२५ ॥

मूलम्

नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते।
तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु ॥ ४८.२५ ॥

विश्वास-प्रस्तुतिः

तथा त्रिकूटनिलये नानाधातुविभूषिते ।
अनेकयोजनोत्सेधे चित्रसानुदरीगृहे ॥ ४८.२६ ॥

मूलम्

तथा त्रिकूटनिलये नानाधातुविभूषिते ।
अनेकयोजनोत्सेधे चित्रसानुदरीगृहे ॥ ४८.२६ ॥

विश्वास-प्रस्तुतिः

तस्य कूटतटे रम्ये हेमप्राकारतोरणा।
निर्यूहवलभीचित्रा हर्म्यप्रासादमालिनी ॥ ४८.२७ ॥

मूलम्

तस्य कूटतटे रम्ये हेमप्राकारतोरणा।
निर्यूहवलभीचित्रा हर्म्यप्रासादमालिनी ॥ ४८.२७ ॥

विश्वास-प्रस्तुतिः

शतयोजनविस्तीर्णा त्रिंशदायामयोजना।
नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ॥ ४८.२८ ॥

मूलम्

शतयोजनविस्तीर्णा त्रिंशदायामयोजना।
नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ॥ ४८.२८ ॥

विश्वास-प्रस्तुतिः

सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् ।
आवासो बलदृप्तानां तद्विद्याद्देवविद्विषाम्।
मानुषाणामसम्बाधा ह्यगम्या सा महापुरी ॥ ४८.२९ ॥

मूलम्

सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् ।
आवासो बलदृप्तानां तद्विद्याद्देवविद्विषाम्।
मानुषाणामसम्बाधा ह्यगम्या सा महापुरी ॥ ४८.२९ ॥

विश्वास-प्रस्तुतिः

तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः।
गोकर्णनामधेयस्य शङ्करस्यालयं महत् ॥ ४८.३० ॥

मूलम्

तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः।
गोकर्णनामधेयस्य शङ्करस्यालयं महत् ॥ ४८.३० ॥

विश्वास-प्रस्तुतिः

तथैकराज्यं विज्ञेयं शङ्खद्वीपसमास्थितम्।
शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ॥ ४८.३१ ॥

मूलम्

तथैकराज्यं विज्ञेयं शङ्खद्वीपसमास्थितम्।
शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ॥ ४८.३१ ॥

विश्वास-प्रस्तुतिः

तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः।
नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ॥ ४८.३२ ॥

मूलम्

तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः।
नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ॥ ४८.३२ ॥

विश्वास-प्रस्तुतिः

शङ्ख नागा महापुण्या यस्मात् प्रभवते नदी।
यत्र शङ्खमुखो नाम नागराजः कृतालयः ॥ ४८.३३ ॥

मूलम्

शङ्ख नागा महापुण्या यस्मात् प्रभवते नदी।
यत्र शङ्खमुखो नाम नागराजः कृतालयः ॥ ४८.३३ ॥

विश्वास-प्रस्तुतिः

तथैव कुमुदद्वीपं नानापुण्योपशोभितम्।
नानाग्रामसमा कीर्णं नानारत्नाकरं शिवम् ॥ ४८.३४ ॥

मूलम्

तथैव कुमुदद्वीपं नानापुण्योपशोभितम्।
नानाग्रामसमा कीर्णं नानारत्नाकरं शिवम् ॥ ४८.३४ ॥

विश्वास-प्रस्तुतिः

कुमुदाख्या महाभागा दुष्टचित्तनिबर्हणी।
महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ॥ ४८.३५ ॥

मूलम्

कुमुदाख्या महाभागा दुष्टचित्तनिबर्हणी।
महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ॥ ४८.३५ ॥

विश्वास-प्रस्तुतिः

तथा वराहद्वीपे च नानाम्लेच्छगणाकुले।
नानाजालिसमाकीर्णे नानाधिष्ठानपत्तने ॥ ४८.३६ ॥

मूलम्

तथा वराहद्वीपे च नानाम्लेच्छगणाकुले।
नानाजालिसमाकीर्णे नानाधिष्ठानपत्तने ॥ ४८.३६ ॥

विश्वास-प्रस्तुतिः

धनधान्ययुते स्फीते धर्मिष्ठजनसङ्कुले।
नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपगैः ॥ ४८.३७ ॥

मूलम्

धनधान्ययुते स्फीते धर्मिष्ठजनसङ्कुले।
नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपगैः ॥ ४८.३७ ॥

विश्वास-प्रस्तुतिः

वराहपर्वतो नाम तत्र रम्यः शिलोच्चयः।
अनेककन्दरदरीगुहानिर्झरशोभितः ॥ ४८.३८ ॥

मूलम्

वराहपर्वतो नाम तत्र रम्यः शिलोच्चयः।
अनेककन्दरदरीगुहानिर्झरशोभितः ॥ ४८.३८ ॥

विश्वास-प्रस्तुतिः

तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी।
वाराही नाम वरदा प्रवृत्तास्य महानदी ॥ ४८.३९ ॥

मूलम्

तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी।
वाराही नाम वरदा प्रवृत्तास्य महानदी ॥ ४८.३९ ॥

विश्वास-प्रस्तुतिः

वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे।
अनन्यदेवतास्तस्मै नमस्कुर्वन्ति विप्रजाः ॥ ४८.४० ॥

मूलम्

वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे।
अनन्यदेवतास्तस्मै नमस्कुर्वन्ति विप्रजाः ॥ ४८.४० ॥

विश्वास-प्रस्तुतिः

एवं षडेते कथिता अनुद्वीपाः समन्ततः।
भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः ॥४८.४१ ॥

मूलम्

एवं षडेते कथिता अनुद्वीपाः समन्ततः।
भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः ॥४८.४१ ॥

विश्वास-प्रस्तुतिः

एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते।
समुद्रजलसम्बिन्नं खण्डं खण्डीकृतं स्मृतम् ॥ ४८.४२ ॥

मूलम्

एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते।
समुद्रजलसम्बिन्नं खण्डं खण्डीकृतं स्मृतम् ॥ ४८.४२ ॥

विश्वास-प्रस्तुतिः

एवञ्चतुर्महाद्वीपः सान्तरद्वीपमण्डितः।
सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः ॥ ४८.४३ ॥

मूलम्

एवञ्चतुर्महाद्वीपः सान्तरद्वीपमण्डितः।
सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः ॥ ४८.४३ ॥

इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टचत्वारिंशो ध्यायः ॥ ४८ ॥