०४७

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

सव्ये हिमवतः पार्श्वे कैलासो नाम पर्वतः।
तस्मिन्निवसति श्रीमान् कुबेरः सह राक्षसैः।
अप्सरोगणसंयुक्तो मोदते ह्यलकाधिपः ॥ ४७.१ ॥

मूलम्

कैलासपादात् सम्भूतं पुण्यं शीत जलं शुभम्।
मन्दं नाम्ना कुमुद्वन्तं शरदम्बुदसन्निभम् ॥ ४७.२ ॥

तस्माद्दिव्या प्रभवति नदी मन्दाकिनी शुभा।
दिव्यञ्च नन्दनं तत्र तस्यास्तीरे महद्वनम् ॥ ४७.३ ॥

प्रागुत्तरेण कैलासाद्दिव्यसत्त्वौषधं गिरिम्।
सुरधातुमयं चित्रं सुवर्णं पर्वतं प्रति ॥ ४७.४ ॥

चन्द्रप्रभो नाम गिरिः सशुद्धां रत्नसन्निभः।
तस्य पादे महद्दिव्यमच्छोदं नाम तत्सरः ॥ ४७.५ ॥

तस्माद्दिव्या प्रभवति ह्यच्छोदा नाम निम्नगा।
तस्यास्तीरे महादिव्यं वनं चैत्ररथं स्मृतम् ॥ ४७.६ ॥

तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः।
यक्षसेनापतिः क्रूरगुह्यकैः परिवारितः ॥ ४७.७ ॥

पुण्या मन्दाकिनी चैव निम्नगाच्छोदिका तथा।
महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ॥ ४७.८ ॥

कैलासाद्दक्षिणप्राच्यां शिवसत्त्वौषधिं गुरुम् ।
मनःशिलामयं दिव्यं पिशङ्गं पर्वतं प्रति ॥ ४७.९ ॥

लोहितो हेमश्रृङ्गस्तु गिरिः सूर्य प्रभो महान्।
तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ॥ ४७.१० ॥

तस्मात् पुण्यः प्रभवति लौहित्यः सदनो महान्।
देवारण्यं विशोकञ्च तस्य तीरे महावनम् ॥ ४७.११ ॥

तस्मिन् गिरौ निवसति यक्षो मणिवरो वशी।
सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः ॥ ४७.१२ ॥

कैलासाद्दक्षिणे पार्श्वे क्रूरसत्वौषधं गिरिम्।
वृत्रकायात् किलोत्पन्नमञ्जनं त्रिककुत्प्रति ॥ ४७.१३ ॥

सर्वधातुमयस्तत्र सुमहान् वैद्युतो गिरिः।
तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् ॥ ४७.१४ ॥

तस्मात् प्रभवते पुण्या सरयूर्लोकभावनी।
तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ॥ ४७.१५ ॥

कुबेरानुचरस्तत्र प्रहेतृतनयो वशी।
ब्रह्म पातो निवसति राक्षसोऽनन्तविक्रमः।
अन्तरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ॥ ४७.१६ ॥

अपरेण तु कैलासान्मुख्यसत्त्वौषधिं गिरिम्।
अरुणं पर्वतश्रेष्ठं रुक्मधातुमयं प्रति ॥ ४७.१७ ॥

भवस्य दयितः श्रीमान् पर्वतो मेघसन्निभः।
शातकुम्भमयैः शुभ्रैः शिलाजालैः समावृतः ॥ ४७ .१८ ॥

विश्वास-प्रस्तुतिः

शतसङ्ख्यैस्तापनीयैः श्रृङ्गैर्दिवमिवोल्लिखन्।
मुञ्जवान् स महादिव्यो दुर्गशैलो हिमार्चितः ॥ ४७.१९ ॥

तस्मिन् गिरौ निवसति गिरिशो धूम्रलोहितः।
तस्य पादात् प्रभवति शैलोदं नाम तत्सरः ॥ ४७.२० ॥

तस्मात् प्रभवते हिव्या शैलोदा नाम निम्नगा।
सा चक्षुःशीतयोर्मध्ये प्रविष्टा लवणोदधिम् ॥ ४७.२१ ॥

तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै।
अस्त्युत्तरेण कैलासाच्छिवसत्त्वौषधो गिरिः ॥ ४७.२२ ॥

गौरो नाम गिरिस्तत्र हरितालमयः शुभः।
हिरण्यश्रृङ्गः सुमहान् दिव्यो मणिमयो गिरिः ॥ ४७.२३ ॥

तस्य पादे महद्दिव्यं शुभं काञ्चनवालुकम्।
रम्यं बिन्दुसरो नाम यत्र यातो भगीरथः ॥ ४७.२४ ॥

गङ्गानिमित्तं राजर्षिरुवास बहुलाः समाः ।
दिवं यास्यन्ति मे पूर्वे गङ्गातोयपरिप्लुताः ॥ ४७.२५ ॥

तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता।
सोमपादप्रसूता सा सप्तधा प्रतिपद्य ते ॥ ४७.२६ ॥

यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः ।
तत्रेष्ट्वा तु गतः शर्वं शक्रः सर्वैः सुरैः सह ॥ ४७.२७ ॥

दिविच्छायापथो यस्तु अनुनक्षत्रमण्डलम् ।
दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ॥ ४७.२८ ॥

अन्तरिक्षं दिवञ्चैव भावयन्ती भुवङ्गता।
भवोत्तमाङ्गे पतिता संरुद्धा योगमायया ॥ ४७.२९ ॥

तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिताः क्षितौ।
कृतं बिन्दुसरस्तत्र ततो बिन्दुसरः स्मृतम् ॥ ४७.३० ॥

ततो निरुद्धा देवी सा भवेन स्मयता किल।
चिन्तयामास मनसा शङ्करक्षेपणं प्रति ॥ ४७.३१ ॥

भित्त्वा विशामि पातालं स्रोतसा गृह्य शङ्करम्।
ज्ञात्वा तस्या अभिप्रायं क्रूरं देव्या चिकीर्षितम् ॥ ४७.३२ ॥

तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम्।
तस्यावलेपं तं बुद्ध्वा नद्याः क्रुद्धस्तु शङ्करः।
निरुध्य तु शिरस्येनां वेगेन पतितां भुवि ॥ ४७.३३ ॥

एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः।
धमनीसन्ततं क्षीणं क्षुधापरिगतेन्द्रियम् ॥ ४७.३४ ॥

अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव हि।
बुद्ध्वास्य वरदानं तु कोपं नियतवांस्तु सः ॥ ४७.३५ ॥

ब्रह्मणो हि वचः श्रुत्वा प्रतिज्ञाधारणं प्रति।
ततो विसर्जयामास संरुद्धां स्वेन तेजसा।
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ॥ ४७.३६ ॥

ततो विसृज्यमानायाः स्रोतस्तत्सप्तताङ्गतम्।
त्रयः प्राचीमभिमुखं प्रतीचीं त्रयः एव तु ॥ ४७.३७ ॥

नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा।
नलिनी ह्रादिनी चैव पावनी चैव प्राग्गता ॥ ४७.३८ ॥

सीता चक्षुश्च सिन्धुश्च प्रतीचीं दिशमाक्षिताः।
सप्तमी त्वनुगा तासां दक्षिणेन भगीरथी ॥ ४७.३९ ॥

तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम्।
सप्तैता भावयन्तीह हिमाह्वं वर्षमेव तु ॥ ४७.४० ॥

प्रसूताः सप्त नद्यस्ताः शुभा बिन्दुसरोद्भवाः।
नानादेशान् भावयन्त्यो म्लेच्छप्रायांश्च सर्वशः ॥ ४७.४१ ॥

उपगच्छन्ति ताः सर्वा यतो वर्षति वासनः।
सिरिन्ध्रान् कुन्तलांश्चीनान् बर्भरान् यवसान् द्रुहान् ॥ ४७.४२ ॥

रुषाणांश्च कुणिन्दांश्च अङगलोकवराश्च ये।
कृत्वा द्विधा सिन्धुमरुं सीतागात्पश्चिमोदधिम् ॥ ४७.४३ ॥

अथ चीनमरूंश्चैव नङ्गणान् सर्वमूलिकान् ।
साध्रांस्तु षारांस्तम्पाकान् पह्नवान् दरदान् शकान्।
एतान् जनपदान् चक्षुः स्रावयन्ती गतोदधिम् ॥ ४७.४४ ॥

दरदांश्च सकांश्मीरान् गान्धारान् वरपान् ह्रदान्।
शिवपौरानिन्द्रहासान् वदातींश्च विसर्जयान् ॥ ४७.४५ ॥

सैन्धवान् रन्ध्रकरकान् भ्रमराभीररोहकान् ।
शुनामुखांश्चोर्ध्वमनून् सिद्धचारणसोवितान् ॥ ४७.४६ ॥

गन्धर्वान् किन्नरान् यक्षान् रक्षोविद्याधरोरगान्।
कलापग्रामकांश्चैव पारदान् सीगणान् खसान् ॥ ४७.४७ ॥

किरातांश्च पुलिन्दांश्च कुरून् सभरतानपि।
पञ्चालकाशिमात्स्यांश्च मगधाङ्गांस्तथैव च ॥ ४७.४८ ॥

ब्रह्मोत्तरांश्च वङ्गांश्च तामलिप्तांस्तथैव च।
एतान् जनपदानार्यान् गङ्गा भावयते शुभान् ॥ ४७.४९ ॥

ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोददिम्।
ततक्ष्वाह्लादिनी पुण्या प्राचीनाभिमुखी ययौ ॥ ४७.५० ॥

प्लावयन्त्युपभोगांश्च निषादानां च जातयः।
धीवरानृषिकांश्चैव तथा नीलमुखानपि ॥ ४७.५१ ॥

केरलानुष्ट्रकर्णांश्च किरातानपि चैव हि।
कालोदरान् विवर्णांश्च कुमारान् स्वर्णभूषितान् ॥ ४७.५२ ॥

सा मण्डले समुद्रस्य तिरोभूताऽनुपूर्वतः।
ततस्तु पावनी चैव प्राचीमेव दिशङ्गता ॥ ४७.५३ ॥

अपथान् भावयन्तीह इन्द्रद्युम्नसरोऽपि च।
तता खरथांश्चैव इन्द्रशङ्कुपथानपि ॥ ४७.५४ ॥

मध्येनोद्यानमस्कारान् कुथप्रावरणान् ययौ।
इन्द्रद्वीपसमुद्रे तु प्रविष्टा लवणोदधिम् ॥ ४७.५५ ॥

ततश्च नलिनी चागात् प्राचीमाशां जवेन तु।
तोमरान् भावयन्तीह हंसमार्गान् सहूहुकान् ॥ ४७.५६ ॥

पूर्वान् देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरीन्।
कर्णप्रावरणांश्चैव प्राप्य चाश्वमुखानपि ॥ ४७.५७ ॥

सिकतापर्वतमरून् गत्वा विद्याधरान् ययौ।
नेमिमण्डलकोष्ठे तु प्रविष्टा सा महोदधिम् ॥ ४७.५८ ॥

तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः।
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ॥ ४७.५९ ॥

वस्वोकसायास्तीरे तु वारिसुरभिविश्रुते।
हरिश्रृङ्गे तु वसति विद्वान् कौबैरको वशी ॥ ४७.६० ॥

यज्ञोपेतः स सुमहानमितौजाः सुविक्रमः।
तत्रागस्त्यैः परिवृतो विद्वद्भिर्ब्रह्मराक्षसैः।
कुबैरानुचराः ह्येते चत्वारस्तत्समाः स्मृताः ॥ ४७.६१ ॥

एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम्।
परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ॥ ४७.६२ ॥

हेमकूटस्य पॄष्ठे तु सायनं नाम तत्सरः।
मनस्विनी प्रभवति तस्माज्ज्योतिष्मती च सा ॥ ४७.६३ ॥

अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ॥ ४७.६४ ॥

तस्माद्द्वयं प्रभवति गान्धर्वी नन्वली च या।
मेरोः पश्चात् प्रभवति ह्रदश्चन्द्रप्रभो महान् ॥ ४७.६५ ॥

तत्र जाम्बूनदी पुण्या यस्यां जाम्बूनदं शुभम्।
पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत् ॥ ४७.६६ ॥

पुण्डरीकापयोदा च तस्मान्नद्यौ विनिर्गते।
श्वेतात् प्रभवते पुण्यं सरस्तूत्तरमानसम् ॥ ४७.६७ ॥

ज्योत्स्ना च मृगकान्ता च तस्माद्द्वे सम्बभूवतुः।
मधुमत्सरः पुण्यञ्च पझमीनद्विजाकुलम् ॥ ४७.६८ ॥

कल्पवृक्षसमाकीर्णं मधुवत्सर्वतः सुखम्।
रुद्रकान्तमिति ख्यातं निर्मितं तद्भवेन तु ॥ ४७.६९ ॥

अन्ये चाप्यत्र विख्याताः पझमीनद्विजाकुलाः।
नाम्ना रुद्राजया नाम द्वादशोदधिसन्निभाः ॥ ४७.७० ॥

तेभ्यः शान्ता च माध्वी च द्वे नद्यौ सम्बभूवतुः।
यनि किम्पुरुषाद्यानि तेषु देवो न वर्षति ॥ ४७.७१ ॥

उद्भिद्यान्युदकान्यत्र प्रवहन्ति सरिद्वराः।
ऋषभो दुन्दुभिश्चैव धूम्रश्चैव महागिरिः ॥ ४७.७२ ॥

पूर्वायता महभागा निम्नगा लवणाम्भसि।
चन्द्रकङ्कस्तथा प्राणो महानग्निः शिलोच्चयः।
उदग्याता उदीच्यान्ता अवगाढा महोदधिम् ॥ ४७.७३ ॥

सोमकश्च वराहश्च नारदश्च महीधरः।
प्रतीचीमायतास्ते वै प्रविष्टा लवणोदधिम् ॥ ४७.७४ ॥

चक्रो बलाहकश्चैव मैनाकश्चैव पर्वतः।
आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति।
चन्द्रमैनाकयोर्मध्येविदिशं दक्षिणां प्रति ॥ ४७.७५ ॥

तत्र संवर्त्तको नाम सोऽग्निः पिबति तज्जलम्।
नाम्ना समुद्रपः श्रीमानौर्वः स वडवामुखः ॥ ४७.७६ ॥

द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम्।
महेन्द्रभयवित्रस्ताः पक्षच्छेदभयात्तदा।
यदेतदॄश्यते चन्द्रे श्वेते कृष्णशशाकृतिः ॥ ४७.७७ ॥

भारतस्य तु वर्षस्य भेदास्ते नव कीर्तिताः।
इहोदितस्य दृश्यन्ते तथान्येऽन्यत्र नोदिते ॥ ४७.७८ ॥

उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः।
आरोग्यायुः प्रमाणाभ्यां धर्मतः कामतोऽर्थतः ॥ ४७.७९ ॥

समन्वितानि भूतानि गुणै रेतैस्तु भागतः।
वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै।
इत्येषाऽधारयत् सर्वं पृत्वी विश्वं जगत्स्थिता ॥ ४७.८० ॥

इति महापुराणे वायु प्रोक्ते भुवनविन्यासो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥