॥शांशपायन उवाच ॥
विश्वास-प्रस्तुतिः
पूर्वापरौ समाख्यातौ द्वौ देशौ नस्त्वया प्रभो।
उत्तराणाञ्च वर्षाणां दक्षिणानाञ्च सर्वशः।
आचक्ष्व नो यथातथ्यं ये च पर्वतवासिनः ॥ ४५.१ ॥
मूलम्

॥सूत उवाच॥
विश्वास-प्रस्तुतिः
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ ४५.२ ॥

सर्वर्तुकामदाः सत्त्वा जरादुर्गन्धवर्जिताः।
शुक्राभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः ॥ ४५.३ ॥

तत्रापि सुमहान् दिव्यो न्यग्रोधो रोहिणो महान्।
तस्य पीत्वा फलरसं पिबन्तो वर्त्तयन्त्युत ॥ ४५.४ ॥

दशवर्षसहस्राणि शतानि दशपञ्च च।
जीवन्ति ते महाभागा सदा हृष्टा नरोत्तमाः ॥ ४५.५ ॥

उत्तरेण तु श्वेतस्य श्रृङ्गसाह्वस्य दक्षिणे।
वर्षं हिरण्यतं नाम यत्र हैरण्यती नदी ॥ ४५.६ ॥

महाबलाः सुतेजस्काजायन्तेतत्र मानवाः।
सर्वर्तुकामदाः सत्वा धनिनः प्रिय दर्शनाः ॥ ४५.७ ॥

एकादश सहस्राणि वर्षाणां तेऽमितौजसः।
आयुष्प्रमाणं जीवन्ति शतानि दशपञ्च च ॥ ४५.८ ॥

तस्मिन् वर्षे महावृक्षो लकुचः षड्रसाश्रयः।
तस्यपीत्वा फलरसं तत्र जीवन्ति मानवाः ॥ ४५.९ ॥

त्रीणि श्रृङ्गवतः श्रृङ्गाण्युच्छ्रितानि महान्ति च ।
एकं मणिमयं तेषामेकञ्चैव हिरण्ययम्।
सर्वरत्न मयं चैकं भवनैरुपशोभितम् ॥ ४५.१० ॥

उत्तरस्य समुद्रस्य समुद्रान्ते च दक्षिणे।
कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ॥ ४५.११ ॥

तत्र वृक्षा मधुफला नित्यं पुष्पफलोपगाः।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ ४५.१२ ॥

सर्वकामफलास्तत्र व्कचिद्वृक्षा मनोरमाः।
गन्धर्वाप्सरसोपेतं प्रक्षरन्ति मधूत्तमम् ॥ ४५.१३ ॥

अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः।
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ॥ ४५.१४ ॥

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चन वालुका।
सर्वातः सुखसंस्पर्शा निष्पङ्का नीरुजा शुभा ॥ ४५.१५ ॥

देवलोकाच्च्युतास्तत्र जायन्ते मानवाः शुभाः।
शुक्लाभिजनसम्पन्नाः सर्वे च स्थिर यौवनाः ॥ ४५.१६ ॥

मिथुनानि प्रसूयन्ते स्त्रियश्चातिमनोहराः।
ते च तं क्षीरिणं वृक्षं पिबन्ति ह्यमृतोपमम् ॥ ४५.१७ ॥

मिथुनं जायते सद्यः समञ्चैव विवर्द्धते।
समं शीलञ्च रूपं च म्रियन्ते चैव ते समम् ॥ ४५.१८ ॥

अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः।
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ ४५.१९ ॥

त्रयोदश सहस्राणि शतानि दशपञ्च च।
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ ४५.२० ॥

कुरूणामपि चैतेषां श्रृणुध्वं विस्तरेण तु।
जारुधेः शैलराजस्याप्युत्तरेणोत्तरस्य हि।
दिक्षु सर्वासु यद्यत्र कीर्त्यमानं निबोधत ॥ ४५.२१ ॥

अनेककन्दरदरीगुहानिर्झरमण्डितौ।
नैककुञ्जवनोपेतौ चित्रधातुविभूषितौ ॥ ४५.२२ ॥

अनेकधातुकलिलौ सर्वधातुविभूषितौ।
पुष्पमूलफलोपेतौ सिद्धचारणसेवितौ ॥ ४५.२३ ॥

द्वावप्येतौ सुमहतावुच्छ्रितौ कुल पर्वतौ।
ताभ्यां कूटशतैर्नैकैस्तद्द्वीपमुपसेवितम् ॥ ४५.२४ ॥

चन्द्रकान्तश्च शैलश्च सूर्यकान्तश्च सानुमान् ।
ययोर्मध्ये न सा याता भद्रसोमा महानदी ॥ ४५.२५ ॥

सहस्रशश्च नद्योऽन्याः प्रसन्नसुरसोदकाः।
पर्याप्तोदाः कुरूणां हि स्नानपानावगाहनैः ॥ ४५.२६ ॥

तथाऽन्याः क्षीरवाहिन्यो महानद्यः सहस्रशः।
मधुमैरेयवाहिन्यो घृतवाहिन्य एव च ॥ ४५.२७ ॥

दध्नः शतह्रदाश्चान्यास्ततः स्वाद्वन्नपर्वतः।
अमृतस्वादुकल्पानि फलानि विविधानि च ॥ ४५.२८ ॥

गन्धवर्णरसाढ्यानि मूलानि च फलानि च।
पञ्चयोजनमानानि महागन्धानि सर्वशः ॥ ४५.२९ ॥

नानावर्णप्रकाराणि पुष्पाणि च सहस्रशः।
उप भोगसहस्राणि भद्राणि च महान्ति च ॥ ४५.३० ॥

गन्धवर्णरसाढ्यानि स्पर्शोपेतानि सर्वशः।
तमालागुरुगन्धानां चन्दनानां वनानि च ॥ ४५.३१ ॥

भ्रमरैरुपगीतानि प्रफुल्लानि सदैव च।
वृक्षगुल्मलताढयानि वनानि सुसुखानि च ॥ ४५.३२ ॥

षट्पदैरुपगीतानि द्विजैश्चान्यैर्द्विजोत्तमाः।
पझोत्पलवनाढ्यानि सरांसि च सहस्रशः ॥ ४५.३३ ॥

भक्ष्यमाल्यसमृद्धाश्च बहुमाल्यानुलेपनाः।
मनोहरमुखैश्चित्रैः पक्षिसङ्घैर्निकूजिताः ॥ ४५.३४ ॥

शयनासनोपभोगाश्च अनेकगुणविस्तराः।
विहारभूमयो रम्याः सर्वर्तुषु सुखप्रदाः ॥ ४५.३५ ॥

आक्रीडाः सर्वतः स्फीताः मणिहेमपरिष्कृताः।
शिलागृहा वृक्षगृहा वरेण्याः कदली गृहाः ॥ ४५.३६ ॥

लतागृहसहस्राणि सुसुखानि समन्ततः।
शुद्धशङ्खदलाभानि भूमिवेश्मशतानि च ॥ ४५.३७ ॥

तपनीयगवाक्षाणि माणिजालान्तराणि च।
सुवर्णमणिचित्राणि सर्वत्र विपुलानि च ॥ ४५.३८ ॥

महावृक्षसहस्राणि वरेण्यानि च सर्वशः।
नानाकाराणि वासांसि सूक्ष्माणि सुसुखानि च ॥ ४५.३९ ॥

मृदङ्ग वेणुपणववीणाद्या बहुविस्तराः।
फलन्ति कल्पवृक्षाणां सहस्राणि शतानि च ॥ ४५.४० ॥

सर्वत्रैव तथोद्यानं सर्वत्रैव हि तत्पुरम्।
सर्वद्वीपप्रमुदितं नरनारी समाकुलम्।
प्रवाति चानिलस्तत्र नानापुष्पाधिवासितः ॥ ४५.४२ ॥

नित्यमङ्गसुखाह्लादस्तस्मिन् द्वीपे श्रमापहे ।
तत्र स्वर्गपरिभ्रष्टा जायन्ते हि नराः सदा।
भौमं तदपि हि स्वर्गं तत्रापि च गुणोत्तमम् ॥ ४५.४२ ॥

चन्द्रकान्ता नरवराः श्यामाङ्काः पूर्वकूलजाः।
श्यामावदाताः सुखिनः सूर्यकान्ता वराः प्रजाः ॥ ४५.४३ ॥

तस्मिन् देशे नराः श्रेष्ठा देवसत्त्वपराक्रमाः।
सदा विहारिणः सर्वे कामवृत्त्या सुवर्चसः ॥ ४५.४४ ॥

वलयाङ्गदकेयूरहारकुण्डलभूषिताः ।
स्रग्विणश्चित्र मुकुटाश्चित्राच्छादनवाससः ॥ ४५.४५ ॥

अजीर्णयौवनधराः सुप्रियाः प्रियदर्शनाः।
प्रजा वर्षसहस्राणि जीवन्ति सुबहून्युत ॥ ४५.४६ ॥

न ताः प्रसवधर्मिण्यो न वंशप्रक्षयो विधिः।
मिथुनं जायते वृक्षादुपक्षममनीदृशम् ॥ ४५.४७ ॥

सामान्यविभवाः सर्वे ममत्वपरिवर्जिताः।
न तत्र विद्यते धर्मो नाधर्मः सम्प्रवर्त्तते ॥ ४५.४८ ॥

न व्यधिर्न जरा तत्र न दुर्मेधा न च क्लमः।
पूर्णे काले विनश्यन्ति जलबुद्बुदवच्च ते ॥ ४५.४९ ॥

एवमत्यन्तसुखिनः सर्वदुःखविवर्जिताः।
रक्ता धर्मं न पश्यन्ति दुःखाद्धर्मोऽभिजायते ॥ ४५.५० ॥

उत्तराणां कुरूणान्तु पार्श्वे ज्ञेयन्तु दक्षिणे।
समुद्रमूर्मिमालाढ्यं नानास्वरविभूषितम् ॥ ४५.५१ ॥

पञ्चयोजनसाहस्रमतिक्रम्य सुरालयम्।
चन्द्रद्वीपमिति ख्यातं चद्रमण्डलसंस्थितम् ॥ ४५.५२ ॥

सहस्रयोजनानान्तु सर्वतः परिमण्डलम्।
नाना पुष्पफलोपेतं समृद्ध्या परया युतम्।
शतयोजनविस्तीर्णमुच्छ्रितं तावदेव तु ॥ ४५.५३ ॥

तस्य मध्ये गिरिवरः सिद्धचारणसेवितः।
चन्द्र तुल्यप्रभैः कान्तैश्चन्द्राकारैः सुलक्षणैः ॥ ४५.५४ ॥

श्वेतवैढूर्यकुमुदैश्चित्रोऽसौ कुमुदप्रभः।
अनेकचित्रकोद्यानो नैकनिर्झरकन्दरः।
महासानुदरीकुञ्जैर्विविधैः समलङ्कृतः ॥ ४५.५५ ॥

तस्माच्छैलान्महापुण्या चन्द्रांशुविमलोदका।
प्रवहत्युत्तमनदी चन्द्रावर्त्ता तरङ्गिणी ॥ ४५.५६ ॥

तत्र चन्द्रमसः स्थानं नक्षत्राधिपतेर्वरम्।
सदाऽवतरते तत्र चन्द्रमा ग्रहनायकः ॥ ४५.५७ ॥

तत्र चन्द्रमसो नाम्ना शैलः स तु परिश्रुतः।
चन्द्रद्वीपं महाद्वीपं प्रकाशं दिवि चेह च ॥ ४५.५८ ॥

तत्र चन्द्रप्रतीकाशाः पूर्णचन्द्रनिभाननाः।
चन्द्रकान्ताः प्रजाः सर्वा विमलाश्चन्द्रदैवताः ॥ ४५.५९ ॥

अत्यन्तधार्मिकाः सौम्याः सत्यसन्धाः सुतेजसः।
प्रजास्तत्र सदाचारा दशवर्षशतायुषः ॥ ४५.६० ॥

पश्चिमेन तु द्वीपस्य पश्चिमस्य प्रकीर्त्तितम्।
चतुर्योजनसाहस्रं समतीत्य महोदधिम् ॥ ४५.६१ ॥

दशयोजनसाहस्रं समन्तात् परिमण्डलम्।
द्वीपं भद्राकरं नाम नानापुष्पोपशोभितम् ॥ ४५.६२ ॥

प्रभूतधनधान्याढ्यमनेकनृपपालितम् ।
नित्यं प्रमुदितं स्फीतं महाशैलैश्च शोभितम् ॥ ४५.६३ ॥

तत्र भद्रासनं वायोर्नानारत्नैश्च मण्डितम्।
तत्र विग्रहवान् वायुः सदा पर्वसु पूज्यते ॥ ४५.६४ ॥

तपनीयसुवर्णाभास्तपनीयविभूषिताः।
विराजन्तेऽमर प्रख्यास्तत्र चित्राम्बरस्रजः ॥ ४५.६५ ॥

वीर्यवन्तो महाभागाः पञ्चवर्षशतायुषः।
सत्यसन्धा मुदा युक्ताः प्रजास्ता वायुदैवताः ॥ ४५.६६ ॥

एवमेव निसर्गोऽयं वर्षाणां भारते युगे।
दृष्टः परमतत्त्वज्ञैर्भूयः किं कीर्त्तयामि ते ॥ ४५.६७ ॥

आख्याते त्वेवमृषयः सूतपुत्रेण धीमता।
उत्तरश्रवणे भूयः पप्रच्छुस्तदनन्तरम् ॥ ४५.६८ ॥

॥ऋषय ऊचुः।
यदिदं भारतं वर्ष यस्मिन् स्वायम्भुवादयः।
चतुर्दशैते मनवः प्रजासर्गे भवन्त्युत ॥ ४५.६९ ॥

एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम।
एतत् श्रुत्वा वचस्तेषामब्रवील्लोमहर्षणः ॥ ४५.७० ॥

पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम् ।
एत द्विस्तरतो भूयस्तानुवाच समाहितः ॥ ४५.७१ ॥

निसर्ग एष विख्यातः कुरूणान्तु यथार्थवत्।
भारतस्य तु वक्ष्यामि निसर्गं तं निबोधत ॥ ४५.७२ ॥

पुण्यतीर्थे हिमवतो दक्षिणस्याचलस्य हि।
पूर्वपश्चायतस्यास्य दक्षिणेन द्विजोत्तमाः ॥ ४५.७३ ॥

तथा जनपदानां च विस्तरं श्रोतुमर्हथ।
अत्र वो वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः ॥ ४५.७४ ॥

इदं तु मध्यमं चित्रं शुभाशुभफलोदयम्।
उत्तरं यत्समुद्रस्य हिमवद्दक्षिणं च यत् ॥ ४५.७५ ॥

वर्षं यद्भारतं नाम यत्रेयं भारती प्रजा।
भरणाञ्च प्रजानां वै मनुर्भरत उच्यते।
निरुक्तवचनाच्चैव वर्षं तद्भारतं स्मृतम् ॥ ४५.७६ ॥

ततः स्वर्गश्च मोक्षश्च मध्यश्रान्तश्च गम्यते।
न खल्वन्यत्र मर्त्त्यानां भूमौ कर्म विधीयते ॥ ४५.७७ ॥

भारतस्यास्य वर्षस्य नव भेदाः प्रकीर्तिताः।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ ४५.७८ ॥

इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान्।
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ ४५.७९ ॥

अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः।
योजनान्नां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरम् ॥ ४५.८० ॥

आयतो ह्याकुमारिक्यादाङ्गाप्रभवाच्च वै।
तिर्यगुत्तरविस्तीर्णः सहस्राणि नवैव तु ॥ ४५.८१ ॥

द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु नित्यशः।
पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ॥ ४५.८२ ॥

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः।
इज्यायुद्धवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः ॥ ४५.८३ ॥

तेषां संव्यवहारोऽयं वर्त्तते तु परस्परम्।
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ ४५.८४ ॥

सङ्कल्पपञ्चमानां तु आश्रमाणां यथाविधि।
इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी ॥ ४५.८५ ॥

यस्त्वयं नवमो द्वीपस्तिर्यगायत उच्यते।
कृत्स्नं जयति यो ह्येनं स सम्राडिह कीर्त्त्यते ॥ ४५.८६ ॥

अयं लोकस्तु वै सम्राडन्तरिक्षो विराट् स्मृतः।
स्वराडन्यः स्मृतो लोकः पुनर्वक्ष्यामि विस्तरम् ॥ ४५.८७ ॥

सप्त चास्मिन् सुपर्वाणो विश्रुताः कुलपर्वताः।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ ४५.८८ ॥

तेषां सहस्रशश्चान्ये पर्वतास्तु समीपगाः।
अभिजाताः सर्वगुणा विपुलाश्चित्रसानवः ॥ ४५.८९ ॥

मन्दरः पर्वत श्रेष्ठो वैहारो दर्दुरस्तथा।
कोलाहलः ससुरसः मैनाको वैद्युतस्तथा ॥ ४५.९० ॥

पातन्धमो नाम गिरिस्तथा पाण्डुरपर्वतः।
गन्तुप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च ॥ ४५.९१ ॥

पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा।
श्रीपर्वतश्च कारुश्च कूटशैलो गिरिस्तथा ॥ ४५.९२ ॥

अन्ये तेभ्यः परिज्ञाता ह्रस्वाः स्वल्पोपजीविनः।
तैर्विमिश्रा जतपदा आर्यम्लेच्छाश्च नित्यशः ॥ ४५.९३ ॥

पीयन्ते यैरिमा नद्यो गङ्गा सिन्धुः सरस्वती।
शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा ॥ ४५.९४ ॥

इरावती वितस्ता च विपाशा देविका कुहूः ।
गोमती धुतपापा च बाहुदा च दृषद्वती ॥ ४५.९५ ॥

कौशिकी च तृतीया तु निश्चीरा गण्डकी तथा।
इक्षु र्लोहित इत्येता हिमवत्पादनिःसृताः ॥ ४५.९६ ॥

वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च।
वर्णाशा चन्दना चैव सतीरा महती तथा ॥ ४५.९७ ॥

परा चर्मण्वती चैव विदिशा वेत्रवत्यपि।
शिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ॥ ४५.९८ ।
शोणो महानदश्चैव नर्मदा सुमहाद्रुमा।
मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ॥ ४५.९९ ॥

तमसा पिप्पला श्रोणी करतोया पिशाचिका।
नीलोत्पला विपाशा च जम्बुला वालुवाहिनी ॥ ४५.१०० ॥

सितेरजा शुक्तिमती मकुणा त्रिदिवा क्रमात् ।
ऋक्षपादात् प्रसूतास्ता नद्यो मणिनिभोदकाः ॥ ४५.१०१ ॥

तापी पयोष्णी निर्विन्ध्या मद्रा च निषधा नदी।
वेन्वा वैतरणी चैव शितिबाहुः कुमुद्वती ॥ ४५.१०२ ॥

तोया चैव महागौरी दुर्गा चान्तशिला तथा।
विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः ॥ ४५.१०३ ॥

गोदावरी भीमरथी कृष्णा वैण्यथ वञ्जुला।
तुङ्गभद्रा सुप्रयोगा कावेरी च तथापगा।
दक्षिणापथनद्यस्तु सह्यपादाद्विनिःसृताः ॥ ४५.१०४ ॥

कृतमाला ताम्रवर्णा पुष्पजात्युत्पलावती।
मलयाभिजातास्ता नद्यः सर्वाः शीतजलाः शुभाः ॥ ४५.१०५ ॥

त्रिसामा ऋतुकुल्या च इक्षुला त्रिदिवा च या।
लाङ्गुलिनी वंशधरा महेन्द्रतनयाः स्मृताः ॥ ४५.१०६ ॥

ऋषीका सुकुमारी च मन्दगा मन्दवाहिनी।
कूपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥ ४५.१०७ ॥

सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ।
विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ॥ ४५.१०८ ॥

तासां नद्युपनद्योऽपि शतशोऽथ सहस्रशः।
तास्त्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः ॥ ४५.१०९ ॥

शूरसेना भद्रकारा बोधाः शतपथेश्वरैः।
वत्साः किसष्णाः कुल्याश् च कुन्तलाः काशिकोशलाः ॥ ४५.११० ॥

अथ पार्श्वे तिलङ्गाश्च मगधाश्च वृकैः सह।
मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥ ४५.१११ ॥

सह्यस्य चोत्तरार्द्धे तु यत्र गोदावरी नदी।
पृथिव्यामिह कृत्स्नायां सप्रदेशो मनोरमः ॥ ४५.११२ ॥

तत्र गोवर्द्धनो नाम सुरराजेन निर्मितः।
रामप्रियार्थं स्वर्गोऽयं वृक्षा ओषधयस्तथा ॥ ४५.११३ ॥

भरद्वाजेन मुनिना तत्प्रियार्थेऽवतारिताः।
अन्तःपुरवनोद्देशस्तेन जज्ञे मनोरमः ॥ ४५.११४ ॥

वाह्लीका वाढधानाश्च आभीराः कालतोयकाः।
अपरीताश्च शूद्राश्च पह्नवाश्चर्मखण्डिकाः ॥ ४५.११५ ॥

गान्धारा यवनाश्चैव सिन्धुसौवीरभद्रकाः।
शका ह्रदाः कुलिन्दाश्च परिता हारपूरिकाः ॥ ४५.११६ ॥

रमटा रद्धकटकाः केकया दशमानिकाः।
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥ ४५.११७ ॥

काम्बोजा दरदाश्चैव बर्बराः प्रियलौकिकाः।
पीनाश्चैव तुषाराश्च पह्लवा बाह्यतोदराः ॥ ४५.११८ ॥

आत्रेयाश्च भरद्वाजाः प्रस्थलाश्च कसेरुकाः.
लम्पाका स्तनपाश्चैव पीडिका जुहुडैः सह ॥ ४५.११९ ॥
विश्वास-प्रस्तुतिः
अपगाश्चालिमद्राश्च किरातानाञ्च जातयः।
तोमरा हंसमार्गाश्च काश्मीरास्तङ्गणास्तथा ॥ ४५.१२० ॥

चूलिकाश्चाहुकाश्चैव पूर्णदर्वास्तथैव च।
एते देशा ह्युदीच्याश्च प्राच्यान् देशान्निबोधत ॥ ४५.१२१ ॥

अन्ध्रवाकाः सुजरका अन्तर्गिरिबहिर्गिराः।
तथा प्रवङ्गवङ्गेया मालदा मालवर्तिनः ॥ ४५.१२२ ॥

ब्रह्मोत्तराः प्रविजया भार्गवा गेयमर्थकाः।
प्राग्ज्योतिषाश्च मुण्डाश्च विदेहास्तामलिप्तकाः।
माला मगधगोविन्दाः प्राच्यां जनपदाः स्मृताः ॥ ४५.१२३ ॥

अथापरे जनपदा दक्षिणापथ वासिनः ।
पाण्ड्याश्च केरलाश्चैव चौल्याः कुल्यास्तथैव च ॥ ४५.१२४ ॥

सेतुका मूषिकाश्चैव कुमना वनवासिकाः।
महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ ४५.१२५ ॥

अभीराः सह चैषीकाः आटव्याश्च वराश्च ये।
पुलिन्द्रा विन्ध्यमूलीका वैदर्बा दण्डकैः सह ॥ ४५.१२६ ॥

पौनिका मौनिकाश्चैव अस्मका भोगवर्द्धनाः।
नैर्मिकाः कुन्तला आन्ध्रा उद्भिदा नलकालिकाः ॥ ४५.१२७ ॥

दाक्षिणात्याश्च वै देशा अपरांस्तान्निबोधत।
शूर्पाकाराः कोलवनाः दुर्गाः कालीतकैः सह ॥ ४५.१२८ ॥

पुलेयाश्च सुरालाश्च रूपसास्तापसैः सह।
तथा तुरसिताश्चैव सर्वे चैव परक्षराः ॥ ४५.१२९ ॥

नासिक्याद्योश्च ये चान्ये ये चैवान्तरनर्मदाः।
भानुकच्छाः समा हेयाः सहसा शाश्वतैरपि ॥ ४५.१३० ॥

कच्छीयाश्च सुराष्ट्राश्च अनर्त्ताश्चार्बुदैः सह।
इत्येते सम्परीताश्च श्रृणुध्वं विन्ध्यवासिनः ॥ ४५.१३१ ॥

मालवाश्च करूषाश्च मेकलाश्चोत्कलैः सह।
उत्तमर्णा दशार्णाश्च भोजाः किष्किन्धकैः सह ॥ ४५.१३२ ॥

तोसलाः कोसलाश्चैव त्रैपुरा वैदिकास्तथा।
तुमुरास्तुम्बुराश्चैव षट्सुरा निषधैः सह ॥ ४५.१३३ ॥

अनुपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः।
एते जनपदाः सर्वे विन्ध्य पृष्ठनिवासिनः ॥ ४५.१३४ ॥

अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये।
निगर्हरा हंसमार्गाः क्षुपणास्तङ्गणाः खसाः ॥ ४५.१३५ ॥

कुशप्रावरणाश्चैव हूणा दर्वाः सहूदकाः।
त्रिगर्त्ता मालवाश्चैव किरातास्तामसैः सह ॥ ४५.१३६ ॥

चत्वारि भारते वर्षे युगानि कवयो विदुः।
कृतं त्रेता द्वारपञ्च कलिश्चेति चतुष्टयम्।
तेषां निसर्गं वक्ष्यामि उपरिष्टान्निबोधत ॥ ४५.१३७ ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम पञ्चचत्वा रिंशोऽध्यायः ॥ ४५ ॥