॥सूत उवाच ॥
विश्वास-प्रस्तुतिः
निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् ।
श्रृणुध्वं केतुमालानां विस्तरेण प्रकीर्त्तनम् ॥ ४४.१ ॥
मूलम्

निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः।
पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम् ॥ ४४.२ ॥

कुलाचलानां सप्तानां नदीनाञ्च विशेषतः।
तथा जनपदानाञ्च विस्तरं श्रोतुमर्हथ ॥ ४४.३ ॥

विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः।
अशोको वर्द्धमानश्च सप्तैते कुलपर्वताः ॥ ४४.४ ॥

तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः।
कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः ॥ ४४.५ ॥

तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः।
नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः ॥ ४४.६ ॥

ते नामधेयैर्विक्रान्ता विविधाः प्रथिताः भुवि।
अध्यासिता जनपदैः कीर्त्तनैश्च विभूषिताः ॥ ४४.७ ॥

तेषां सनामधेयानि राष्ट्राणि विविधानि च।
गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ ४४.८ ॥

यथैह कथिताः पौरा गोमनुष्यकपोतकाः।
तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः ॥ ४४.९ ॥

सुमौलाः स्तावकाः क्रौञ्चाः कृष्णाङ्गमणिपुञ्जकाः.
कूटकम्बलमौषीयाः समुद्रान्तरकास्तथा ॥ ४४.१० ॥
विश्वास-प्रस्तुतिः
करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः।
श्वेताङ्गाः कृष्णपादाश्च विहगा कपिलकर्णिकाः ॥ ४४.११ ॥

अत्याकरालगोज्वाला हीनानावनपातकाः।
महिषाः कुमुदाभाश्च करवाटाः सहोत्कचाः ॥ ४४.१२ ॥

शु(नका) कनासा महानासा वनासगजभूमिकाः।
करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकीः ॥ ४४.१३ ॥

कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः।
वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः ॥ ४४.१४ ॥

पित्तलाः काचलाश्चैव श्रवणा मत्तकासिकाः।
गोदावा बकुला वाङ्गा वङ्गका मोदकाः कलाः ॥ ४४.१५ ॥

ते पिबन्ति महाभागाः प्रथमान्तु महानदीम्।
सुवप्रां पुण्यसलिलां महानागनिषेविताम् ॥ ४४.१६ ॥

कम्बलां तामसीं श्यामां सुमेधां बकुलां नदीम्।
विकीर्णां शिखिमालाञ्च तथा दर्भावतीमपि ॥ ४४.१७ ॥

भद्रानदीं शुकनदीं पलाशाञ्च महानदीम्।
भीमां प्रभञ्जनां काञ्चीं पुण्याञ्चैव कुशावतीम् ॥ ४३.१८ ॥

दक्षां शाकवतीञ्चैव पुण्यो दाञ्च महानदीम्।
चन्द्रावतीं सुमूलाञ्च ऋषभाञ्चापगोत्तमाम् ॥ ४४.१९ ॥

नदीं समुद्रमालाञ्च तथा चम्पावतीमपि।
एकाक्षां पुष्कलां वाहां सुवर्णां नन्दि नीमपि ॥ ४४.२० ॥

कालिन्दीञ्चैव पुण्योदां भारतीञ्च महानदीम् ।
सीतोदाम्पातिकां ब्राह्मीं विशालाञ्च महानदीम् ॥ ४४.२१ ॥

पीवरीं कुम्भकारीञ्च रुषा ञ्चैवापगोत्तमाम्।
महिषीं मानुषीं दण्डां तथा नदनदीं शुभाम् ॥ ४४.२२ ॥

एताञ्चान्याञ्च पीयन्ते बह्वयो हि सरितोत्तमाः ।
देवर्षिसिद्धचरिताः पुण्योदाः पापहाः शुभाः ॥ ४४.२३ ॥

नानाजनपदास्फीतं महापगाविभूषितम्।
नानारत्नौघसम्पूर्णं नित्यं प्रमुदितं शिवम् ॥ ४४.२४ ॥

उदीर्णं धनधान्यार्थैर्नरवासैः समन्ततः।
सन्निविष्टं महाद्वीपं पश्चिमं सुकृतात्मनाम् ।
निसर्गः केतुमालानामेष वः परिकीर्त्तितः ॥ ४४.२५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चतुश्वत्वारिंशोऽध्यायः ॥ ४४ ॥