॥सूत उवाच॥
विश्वास-प्रस्तुतिः
गन्धमादनपार्श्वे तु स्फीता चोपरि गण्डिका।
द्वात्रिंशतं सहस्राणि योजनैः पूर्वपश्चिमा ॥ ४३.१ ॥
मूलम्

अस्यायामशचवतुस्त्रिंशत्सहस्राणि प्रमाणतः।
तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः ॥ ४३.२ ॥

तत्र काला नराः सर्वे महासत्त्वा महाबलाः।
स्त्रियश्चोत्पलपत्राभाः सर्वास्ताः प्रिय दर्शनाः ॥ ४३.३ ॥

तत्र दिव्यो महावृक्षः पनसः षड्रसाश्रयः।
ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः।
तस्य पीत्वा फलरसं जीवन्ति हि समायुतम् ॥ ४३.४ ॥

पार्श्वे माल्यवतश्चापि पूर्वे पुर्वा तु गण्डिका।
आयामतोऽथ विस्ताराद्यथैवापरगण्डिका ॥ ४३.५ ॥

भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसा।
भद्रं सालवनं तत्र कालाम्राश्च महाद्रुमाः ॥ ४३.६ ॥

तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः।
स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ॥ ४३.७ ॥

चन्द्रप्रभाश्वन्द्रवर्णाः पूर्णचन्द्रनिभाननाः।
चन्द्रशीतलगात्राश्च स्त्रियश्चोत्पलगन्धिकाः ॥ ४३.८ ॥

दशवर्षसहस्राणि तेषामायुर्निरामयम्।
कालाम्रस्य रसं पीत्वा सर्वदा सिथरयौवनाः ॥ ४३.९ ॥

॥ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः
प्रमाणं वर्णमायुश्च याथातथ्येन कीर्तितम्।
चतुर्णामपि द्वीपानां समासान्न तु विस्तरात् ॥ ४३.१० ॥

भद्राश्वानां यथा चिह्नं कीर्तितं कीर्तिवर्द्धनाः।
तच्छृणुध्वं तु कार्त्स्न्येन पूर्वसिद्धैरुदाहृतम् ॥ ४३.११ ॥

देवकूटस्य सर्वस्य प्रथितस्येह यत्परम्।
पूर्वेण दिक्षु सर्वासु यथावच्च प्रकीर्तितम् ॥ ४३.१२ ॥

कुलाचलानां पञ्चानां नदीनाञ्च विशेषतः।
तथा जनपदानाञ्च यथा दृष्टं यथाश्रुतम् ॥ ४३.१३ ॥

शैवालो वर्णमालाग्रः कोरञ्जश्चाचलोत्तमः।
श्वेतवर्णश्च नीलश्च पञ्चैते कुलपर्वताः ॥ ४३.१४ ॥

तेषां प्रसूतिरन्येपि पर्वता बहुविस्तराः।
कोटिकोटिः क्षितौ ज्ञेयाः शतशोऽथ सहस्रशः ॥ ४३.१५ ॥

तैर्विमिश्रा जनपदैर्नानासत्त्वसमाकुलाः।
नानाप्रकारजातीयास्त्वनेकनृपपालिताः ॥ ४३.१६ ॥

नामधेयैश्च निक्रान्तैः श्रीमद्भिः पुरुषर्षभैः।
अध्यासिता जनपदाः कीर्तनीयाश्च शोभिताः ॥ ४३.१७ ॥

तेषान्तु नामधेयानि राष्ट्राणि विविधानि च।
गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ ४३.१८ ॥

तथा सुमङ्गलाः शुद्धाश्चन्द्रकान्ताः सुनन्दनाः।
व्रजका नीलशैलेयाः सौवीरा विजयस्थलाः ॥ ४३.१९ ॥

महास्थलाः सुकामाश्च महाकेशाः सुमूर्द्धजाः।
वातरंहाः सोपसङ्गाः परिवायाः पराचकाः ॥ ४३.२० ॥

सम्भवक्रा महानेत्राः शैवालास्तनपास्तथा।
कुमुदाः शाकमुण्डाश्च उरः सङ्कीर्णभौमकाः ॥ ४३.२१ ॥

सोदका वत्सकाश्चैके वाराहा हारवामकाः।
शङ्खाख्या भाविसन्द्राश्च उत्तरा हैमभौमकाः ॥ ४३.२२ ॥

कृष्णभौमाः सुभौमाश्च महाभौमाश्च कीर्तिताः।
एते चान्ये च विख्याता नानाजनपदा मया ॥ ४३.२३ ॥

ते पिबन्ति महापुण्यां महागङ्गां महानदीम्।
आदौ त्रैलोक्यविख्याता शीता शीताम्बुवाहिनी ॥ ४३.२४ ॥

तथा च हंसवसतिर्महाचक्रा च निम्नगा।
चक्रा वक्रा च कञ्ची च सुरसा चापगोत्तमा ॥ ४३.२५ ॥

शाखावती चेन्द्रनदी मेघा मङ्गारवाहिनी।
कावेरी हरितोया च सोमावर्त्ता शतह्रदा ॥ ४३.२६ ॥

वनमाला वसुमती पम्पा पम्पावती शुभा।
सुवर्णा पञ्च वर्णा च तथा पुण्या वपुष्मती ॥ ४३.२७ ॥

मणिवप्रा सुवप्रा च ब्रह्मभागा शिलाशिनी।
कृष्णतोया च पुण्योदा तथा नागपदी शुभा ॥ ४३.२८ ॥

शैवालिनी मणितटा क्षारोदा चारुणावती।
तथा विष्णुपदी चैव महापुण्या महानदी ॥ ४३.२९ ॥

हिरण्यवाहिनीला च स्कन्दमाला सुरावती ।
वामोदा च पताका च वेताली च महानदी ॥ ४३.३० ॥

एता गङ्गा महानद्यो नायिकाः परिकीर्तिताः।
क्षुद्रनद्यस्त्वसङ्ख्याताः शतशोऽथ सहस्रशः ॥ ४३.३१ ॥

पूर्वद्वीपस्य वोहिन्यः पुण्यवत्यश्च कीर्तिताः।
कीर्त्तनेनापि चैतासां पूतः स्यादिति मे मतिः ॥ ४३.३२ ॥

समृद्धराष्ट्रं स्फीतञ्च नानाजनपदाकुलम्।
नानावृक्षवनोद्देशं नानानग सुवेष्टितम् ॥ ४३.३३ ॥

नरनारीगणाकीर्णं नित्यं प्रमुदितं शिवम्।
बहुधान्यधनोपेतं नानानृपतिपालितम् ।
उपेतं कीर्तनशतैर्नानारत्नाकराकरम् ॥ ४३.३४ ॥

तस्मिन्देशे समाख्याता हेमशङ्खदलप्रभाः।
महाकाया महावीर्याः पुरुषाः पुरुषर्षभाः ॥ ४३.३५ ॥

सम्भाषणं दर्शनञ्च समस्थानोपसेवनम् ।
देवैः सह महाभागाः कुर्वते तत्र वै प्रजाः ॥ ४३.३६ ॥

दशवर्षसहस्राणि तेषामायुः प्रकीर्तितम्।
धर्माधर्मविशेषश्च न तेष्वस्ति महात्मसु।
अहिंसा सत्यवाक्यञ्च प्रकृत्यैव हि वर्त्तते ॥ ४३.३७ ॥

ते भक्त्या शङ्करं देवं गौरीं परमवैष्णवीम्।
इज्यापूजानमस्कारांस्ताभ्यां नित्यं प्रयुञ्जते ॥ ४३.३८ ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥।