॥सूत उवाच॥
विश्वास-प्रस्तुतिः
सरोवरेभ्यः पुण्योदा देव नद्यो विनिर्गताः।
महौघतोया नद्यश्च ताः श्रृणुध्वं यथाक्रमम् ॥ ४२.१ ॥
मूलम्

आकाशाम्भोनिधेर्योऽसौ सोम इत्यभिधीयते।
आधारः सर्वभूतानां देवानाममृताकरः ॥ ४२.२ ॥

तस्मात् प्रवृत्ता पुण्योदा नदी ह्याकाशगामिनी।
सप्तमेनानिलपथा प्रयाता विमलोदका ॥ ४२.३ ॥

सा ज्योतिषि निवर्तन्ती ज्योतिर्गणनिषेविता।
ताराकोजिसहस्राणां नभसश्च समायता ॥ ४२.४ ॥

माहेन्द्रेण गजेन्द्रेण आकाशपथयायिना।
क्रीडिता ह्यन्तरतले या सा विक्षोभितोदका ॥ ४२.५ ॥

नैकैर्विमानसङ्घातैः प्रक्रामद्भिर्नभस्तलम्।
सिद्धैरुपस्पृष्टजला महापुण्यजला शिवा ॥ ४२.६ ॥

वायुना प्रेर्यमाणा च अनेकाभोगगामिनी।
परिवर्त्तत्यहरहर्यथा सूर्यस्तथैव सा ॥ ४२.७ ॥

चत्वार्यशीतिः प्रतता योजनानां समन्ततः।
वेगेन कुर्वती मेरुं सा प्रयाता प्रदक्षिणम् ॥ ४२.८ ॥

विभिद्यमाना सलिलैस्तैजसेनानिलेन च।
मेरोरुत्तरकूटेषु पतिताथ चतुर्ष्वपि ॥ ४२.९ ॥

मेरुकूटतटान्तेभ्य उत्कृष्टेभ्यो निवर्तिता।
विकीर्यमाण सलिला चतुर्द्धासंसृतोदका ॥ ४२.१० ॥

षष्टियोजनसाहस्रं निरालम्बनमम्बरम्।
निपपात महाभाग मेरोस्तस्य चतुर्द्दिशम् ॥ ४२.११ ॥

सा चतुर्ष्वभितश्चैव महापादेषु शोभना।
पुण्या मन्दरपूर्वेण पतिता हि महानदी ॥ ४२.१२ ॥

पूर्वेणांशेन देवानां सर्वसिद्धगणालयम्।
सुवर्णचित्रकटकं नैकनिर्झरकन्दरम् ॥ ४२.१३ ॥

प्लावयन्ती सशैलेन्द्रं मन्दरञ्चारुकन्दरम्।
वप्रप्रतापशमनैरनेकैः स्फाटिकोदकैः ॥ ४२.१४ ॥

तथा चैत्ररथं रम्यं प्लावयन्ती प्रदक्षिणम्।
प्रविष्टा ह्यम्बरनदी ह्यरुणोदसरोवरम् ॥ ४२.१५ ॥

अरुणोदान्निवृत्ताऽथ शीतान्ते रम्यनिर्झरे।
शैले सिद्धगणावासे निपपात सुगामिनी ॥ ४२.१६ ॥

सीता नाम महा पुण्या नदीनां प्रवरा नदी।
सा निकुञ्जनिरुद्धा तु अनेकाभोगगामिनी ॥ ४२.१७ ॥

शीतान्ताशिखराद्भ्रष्टा सुकुञ्जे वरपर्वते।
निपपात महाभागा तस्मादपि सुमञ्जसम् ॥ ४२.१८ ॥

तस्मान्माल्यवतं शैलं भावयन्ती वरापगा।
वैकङ्कं समनुप्राप्ता वैकङ्कान्मणिपर्वतम्।
मणिपर्वतान्महाशैलं ऋषभं नैककन्दरम् ॥ ४२.१९ ॥

एवं शैलसहस्राणि दारयन्ती महानदी।
पतिताऽथ महाशैले जठरे सिद्धसेविते ॥ ४२.२० ॥

तस्मादपि महाशैलं देवकूटं तरङ्गिणी।
तस्य कुक्षिसमुद्रान्ता क्रमेण पृथिवीं गता ॥ ४२.२१ ॥

सैवं स्थलीसहस्राणि शैलराजशतानि च।
वनानि च विचित्राणि सरांसि विविधानि च ॥ ४२.२२ ॥

स्रावयन्ती महाभागा विस्फारेष्ववलीकदा।
नदी सहस्रानुगता प्रवृत्ता च महानदी ॥ ४२.२३ ॥

भद्राश्वं सुमहाद्वीपं प्लावयन्ती वरापगा।
प्रविष्टा ह्यर्णवं पूर्वं पूर्वे द्वीपे महानदी ॥ ४२.२४ ॥

दक्षिणेऽपि प्रपन्ना या शैलेन्द्रे गन्धमादने।
चित्रैः प्रपातैर्विधैर्नैकविस्फालितोदका ॥ ४२.२५ ॥

तद्घन्धमादनवनं नन्दनं देवनन्दनम्।
प्लावयन्ती महाभागा प्रयाता सा प्रदक्षिणम् ॥ ४२.२६ ॥

नाम्ना ह्यलकनन्देति सर्वलोकेषु विश्रुता।
प्रविशत्युत्तरसरो मानसं देवमानसम् ॥ ४२.२७ ॥

मानसाच्छैलराजानं रम्यं त्रिशिखरं गता।
त्रिकूटाच्छैलशिखरात् कलिङ्गशिखरं गता ॥ ४२.२८ ॥

कलिङ्गशिखराद्भ्रष्टा रुचके निपपात सा।
रुचकान्निषधं प्राप्ता ताम्राभं निषधादपि ॥ ४२.२९ ॥

ताम्राभशिखरार्द्भ्रष्टा गता श्वेतोदरं गिरिम् ।
तस्मात्सुमूलं शैलेन्द्रं वसुधारञ्च पर्वतम् ॥ ४२.३० ॥

हेमकूटं गता तस्माद्देवश्रृङ्गे ततो गता।
तस्माद्गता महाशैलं ततश्चापि पिशाचकम् ॥ ४२.३१ ॥

पिशाचकाच्छैलवरात् पञ्चकूटङ्गता पुनः।
पञ्चकूटात्तु कैलासं देवावासं शिलोच्चयम् ॥ ४२.३२ ॥

तस्य कुक्षिषु विभ्रान्ता नैककन्दरसानुषु।
हिमवत्युत्तमनदी निपपाताचलोत्तमे ॥ ४२.३३ ॥

सैवं शैलसहस्राणि दारयन्ती महानदी।
स्थलीशतान्यनेकानि प्लावयन्त्याशुगाणिनी ॥ ४२.३४ ॥

वनानाञ्च सहस्राणि कन्दराणां शतानि च ।
स्रावयन्ती महाभागा प्रयाता दक्षिणोदधिम् ॥ ४२.३५ ॥

रम्या योजनविस्तीर्णा शैलकुक्षिषु संवृता।
याधृता देवदेवेन शङ्करेण महात्मना ॥ ४२.३६ ॥

पावनी द्विजशार्दूल घोराणामपि पाप्मनाम्।
शङ्करस्याङ्कसंस्पर्शान्महादेवस्य धीमतः।
द्विगुणं पवित्रसलिला सर्वलोके महानदी ॥ ४२.३७ ॥

अनुशैलं समन्ताच्च निर्गता बहुभिर्मुखैः।
अथोऽन्येनाभिधानेन ख्याता नद्यः सहस्रशः ॥ ४२.३८ ॥

तस्माद्धिमवतो गङ्गा गता सा तु महानदी।
एवं गङ्गेति नाम्नादिप्रकाशा सिद्धसेविता ॥ ४२.३९ ॥

धन्यास्ते सत्तमा देशा यत्र गङ्गा महानदी।
रुद्रसाद्ध्यानिलादित्यैर्जुष्टतोया यशस्वती ॥ ४२.४० ॥

महापादं प्रवक्ष्यामि मेरोरपि हि पश्चिमम्।
नानारत्नाकारं पुण्यं पुण्यकृद्भिर्निषेवितम् ॥ ४२.४१ ॥

विपुलं शैलराजानं विपुलोदरकन्दरम् ।
नितम्बकुञ्ज कटकैर्विमलैर्मण्डितोदरम् ॥ ४२.४२ ॥

अपि या त्र्यम्बकस्यैषा त्रिदशैः सेवितोदका।
वायुवेगा गताभोगा लतेव भ्रामिता पुनः ॥ ४२.४३ ॥

मेरुकूटतटाद्भ्रष्टा प्रहतैः स्वादितोदका।
विस्तीर्यमाणसलिला निर्मलांशुकसन्निभा ॥ ४२.४४ ॥

तस्य कूटेऽम्बरनदी सिद्धचारणसेविता ।
प्रदक्षिणमथावृत्य पतिता सा तु गामिनी ॥ ४२.४५ ॥

देवभ्राजं महाभ्राजं सवैभ्राजं महावनम्।
प्लावयन्ती महाभागा नानापुष्पफलोदका ॥ ४२.४६ ॥

प्रदक्षिणं प्रकुर्वाणा नानावनविभूषिता।
प्रविष्टा पश्विमसरः सितोदं विमलोदकम् ॥ ४२.४७ ॥

सा सितोदाद्विनिष्क्रान्ता सुपक्षं पर्वतं गता।
सुपक्षतस्तु पुण्योदात्ततो देवर्षिसेविता ॥ ४२.४८ ॥

सुपक्षकूटतटगा तस्माच्च संशितोदका।
निपपात महाभागा रमण्यं शिखिपर्वतम् ॥ ४२.४९ ॥

शिखेश्च पर्वतात् कङ्कं कङ्काद्वैढूर्यपर्वतम्।
वैढूर्यात् कपिलं शैलं तस्माच्च गन्धमादनम् ॥ ४२.५० ॥

तस्माद्गिरिवरात् प्राप्ता पिञ्जरं वरपर्वतम्।
पिञ्जरात् सरसं याता तस्माच्च कुमुदाचलम् ॥ ४२.५१ ॥

मधुमन्तं जनञ्चैव मुकुटञ्च शिलोच्चयम्।
मुकुटाच्छैलशिखरात् कृष्णं याता महागिरिम् ॥ ४२.५२ ॥

कृष्णात् श्वेतं महाशैलं महानगनिषेवितम्।
श्वेतात् सहस्रशिखरं शैलेन्द्रं पतिता पुनः ॥ ४२.५३ ॥

अनेकाभिः स्रवन्तीभिराप्यायितजला शिवा ।
एवं शैलसहस्राणि सादयन्ती महानदी।
पारिजाते महाशैले निपपाताशुगामिनी ॥ ४२.५४ ॥

अनेकनिर्झरनदी गुहासानुषु राजते।
तस्य कुक्षिष्वनेकासु भ्रान्ततोया तरङ्गिणी ॥ ४२.५५ ॥

व्याहन्यमानसंवेगा गण्डशैलैरनेकशः।
संविद्यमानसलिला गता च धरणीतले ॥ ४२.५६ ॥
मूलम्
व्याहन्यमानसंवेगा गण्डशैलैरनेकशः।
संविद्यमानसलिला गता च धरणीतले ॥ ४२.५६ ॥
विश्वास-प्रस्तुतिः
केतुमालं महाद्वीपं नानाम्लेच्छ गणैर्युतम् ।
प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ॥ ४२.५७ ॥

सुवर्णचित्रपार्श्वे तु सुपार्श्वेऽप्युत्तरे गिरौ ।
मेरोश्चित्रमहापादे महासत्त्वनिषेविते ॥ ४२.५८ ॥

मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका।
अनेकाभोगवक्राङ्गी क्षिप्यमाणा नभस्तले ॥ ४२.५९ ॥

षष्टियोजनसाहस्रे निरालम्बेऽम्बरे शुभे।
विकीर्यमाणा मालेव निपपात महानदी ॥ ४२.६० ॥

एवं कूटतटैर्भ्रष्टा नैकैर्देवर्षिसेवितैः।
विकीर्यमाणसलिला नैकपुष्पोडुपोत्कचा ॥ ४२.६१ ॥

नानारत्नवनोद्देशमरण्यं सवितुर्वनम्।
महावनं महाभागा प्लावयन्ती प्रदक्षिणम् ॥ ४२.६२ ॥

सरोवरं महापुण्यं महाभागनिषेवितम्।
तत्राविवेश कल्याणी महाभद्रं सितोदका ॥ ४२.६३ ॥

भद्रसोमेति नाम्ना हि महापारा महाजवा।
महानदी महापुण्या महाभद्रा विनिर्गता ॥ ४२.६४ ॥

नैकनिर्झरवप्राढ्या शङ्खकूटतटे तु सा।
तत्र कूटे गिरितटे निपपाताशुगामिनी ॥ ४२.६५ ॥

शङ्खकूटतटाद्भ्रष्टा पपात वृषपर्वतम्।
वृषपर्वताद्वत्सगिरिं नागशैलं ततो गता ॥ ४२.६६ ॥

तस्मान्नीलं नगश्रेष्ठं सम्प्राप्ता वर्षपर्वतम्।
नीलात् कपिञ्जलञ्चैव इन्द्रनीलं च निम्नगा ॥ ४२.६७ ॥

ततः परं महानीलं हेमश्रृङ्गञ्च सा ययौ ।
हेमश्रृङ्गाद्गता श्वेतं श्वेताच्च सुनगं ययौ ॥ ४२.६८ ॥

सुनगात् शतश्रृङ्गञ्च सम्प्राप्ता सा महानदी।
शतश्रृङ्गान्महाशैलं पुष्करं पुष्पमण्डितम् ॥ ४२.६९ ॥

पुष्कराच्च महाशैलं द्विराजं सुमहाबलम् ।
वराहपर्वतं तस्मान्मयूरञ्च शिलोच्चयम् ॥ ४२.७० ॥

मयूराच्चैकशिखरं कन्दरोदरमण्डितम् ।
जारुधिं शैल शिखरं निपपाताशुगामिनी ॥ ४२.७१ ॥

एवं गिरिसहस्राणि दारयन्ती महानदी।
त्रिश्रृङ्गं श्रृङ्गकलिलं मर्यादापर्वतं गता ॥ ४२.७२ ॥

त्रिश्रृङ्गतटविभ्रष्टा महाभागनिषेविता।
मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका ॥ ४२.७३ ॥

विरुद्धं पर्वतवरं पपात विमलोदका।
प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ॥ ४२.७४ ॥

सुवर्णभुवि पार्श्वे तु सुपार्श्वेप्युत्तरे गिरौ ॥
मेरोश्वित्रे महापादे महासत्त्वनिषेविते ॥ ४२.७५ ॥
विश्वास-प्रस्तुतिः
कन्दरोदरविभ्रष्टा तस्मादपि तरङ्गिणी।
नैकभोगा पपातोर्वीं चित्रपुष्पोढुपोत्कचा ॥ ४२.७६ ॥

प्लावयन्ती प्रमुदिता उत्तरान् सा कुरून् शिवा।
महाद्वीपस्य मध्येन प्रयाता सोत्तरार्णवम् ॥ ४२.७७ ॥

एवं तास्तु महानद्यश्चतस्रो विमलोदकाः।
महागिरितटभ्रष्टाः सम्प्रयाताश्चतुर्दिशम् ॥ ४२.७८ ॥

तत्सेयं कथितप्राया पृथिवी बहुविस्तरा।
मेरुशैलमहाकीर्णाऽविशच्च सर्वतोदिशम् ॥ ४२.७९ ॥

चतुर्महाद्वीपवती चतुराक्रीडकानना।
चतुष्केतुमहावृक्षा चतुर्वरसरस्वती ॥ ४२.८० ॥

चतुर्महाशैलवती चतुर्भुजगसंश्रया।
अष्टोत्तरमहाशैला तथाष्टवरपर्वता ॥ ४२.८१ ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥