॥सूत उवाच ॥
विश्वास-प्रस्तुतिः
विविक्तचारुशिखरं पत्रितं शङ्खवर्चसम्।
कैलासं देवभक्तानामालयं सुकृतात्मनाम् ॥ ४१.१ ॥
मूलम्

तस्य कूटतटे रम्ये मध्यमे कुन्दसन्निभे।
योजनानां शतायामे पञ्चाशच्च तथायतम् ॥ ४२.२ ॥

सुवर्णमणिचित्राभि अनेकाभिरलङ्कृतम्।
महाभवनमालाभिर्भूषितं नैकविस्तरम् ॥ ४१.३ ॥

धनाध्यक्षस्य देवस्य कुबेरस्य महात्मनः।
नगरन्तदनाधृष्यमृद्धियुक्तं मुदायुतम् ॥ ४१.४ ॥

तस्य मध्ये सभा रम्या नानाकनकमण्डिता।
विपुला नाम विख्याता विपुलस्तम्भतोरणा ॥ ४१.५ ॥

तत्र तत्पुष्पकं नाम नानारत्नविभूषितम्।
महाविमानं रुचिरं सर्वकामगुणैर्युतम् ॥ ४१.६ ॥

मनोजवं कामगमं हेमजालविभूषितम्।
वाहनं यक्षराजस्य कुबेरस्य महात्मनः ॥ ४१.७ ॥

तत्रैकपिङ्गलो देवो महादेवसखः स्वयम्।
वसति स्म स यक्षेन्द्रः सर्वभूतनमस्कृतः ॥ ४१.८ ॥

तत्राप्सरोगणैर्यक्षैर्गन्धर्वैः सिद्धचारणैः।
वसति स्म महात्माऽसौ कुबेरो देवसत्तमः ॥ ४१.९ ॥

तत्र पद्ममहापद्मौ तथा मकरकच्छपौ।
कुमुदः शङ्ख नीलौ च नन्दनो निधिसत्तमः ॥ ४१.१० ॥

अष्टावेतेऽक्षया दिव्या धनेशस्य महात्मनः।
महानिधानास्तिष्ठन्ति सभायां रत्नसञ्चिताः ॥ ४१.११ ॥

तथेन्द्राग्नियमादीनां देवानामप्सरोगणैः।
तेषां कैलास आवासो यत्र यक्षेश्वरः प्रभुः ॥ ४१.१२ ॥

कृत्वा पूर्वमुपस्थानं यक्षेन्द्रस्य महात्मनः।
पश्चाद्गच्छन्ति ये यस्य विहिताः परिचारकाः ॥ ४१.१३ ॥

तत्र मन्दाकिनी नाम सुरम्या विपुलोदका।
सुवर्णमणिसोपाना नानापुष्पोत्कटोत्कटा ॥ ४१.१४ ॥

जाम्बूनदमयैः पद्मैर्गन्धस्पर्शगुणान्वितैः।
नीलवैदूर्यपत्रैश्च गन्धोपैतैर्महोत्पलैः ॥ ४१.१५ ॥

तथा कुमुदखण्डैश्च महापद्मैरलङ्कृता ।
यक्षगन्धर्वनारीभिरप्सरोभिश्च शोभिता ॥ ४१.१६ ॥

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः।
उपस्पृष्टजला रम्या वापी मन्दाकिनी तथा ॥ ४१.१७ ॥

तथा अलकनन्दा च नन्दा च सरितां वरा ।
एतैरेव गुणैर्युक्ता नद्यो देवर्षिसेविताः ॥ ४१.१८ ॥

तस्यैव शैलराजस्य पूर्वे कूटे परिश्रुताः।
सहस्रयोजनायामास्त्रिंशद्योजन विस्तराः ॥ ४१.१९ ॥

दश गन्धर्वनगराः समृद्ध्या परया युताः।
महाभवनमालाभिरनेकाभिर्विभूषिताः ॥ ४१.२० ॥

सुबाहुहरिकेशाद्या श्चित्रसेनजरादयः।
दश गन्धर्वराजानो दीप्तवह्निपराक्रमाः ॥ ४१.२१ ॥

तस्यैव पश्चिमे कूटे कुन्देन्दुसदृशप्रभे।
नानाधातुशतैश्चित्रैः सिद्ध देवर्षिसेविते ॥ ४१.२२ ॥

अशीतियोजनायामं चत्वारिंशत्प्रविस्तरम्।
एकैकयक्षभवनं महाभवनमालिनम् ॥ ४१.२३ ॥
मूलम्
अशीतियोजनायामं चत्वारिंशत्प्रविस्तरम्।
एकैकयक्षभवनं महाभवनमालिनम् ॥ ४१.२३ ॥
विश्वास-प्रस्तुतिः
महायक्षालयान्यत्र त्रिंशदाढ्यानि मे श्रृणु।
मुदाऽथ परमद्धर्या च संयुक्तानि समन्ततः ॥ ४१.२४ ॥

महामालिसुनेत्राद्यास्तथा मणिवरादयः।
उदीर्णा यक्षराजानस्तत्र त्रिंशत्सदा बभुः ॥ ४१.२५ ॥

इत्येते कथिता यक्षा वाय्वग्निसमतेजसः।
येषामधिपतिर्देवः श्रीमान् वैश्रवणः प्रभुः ॥ ४१.२६ ॥

तस्यैव दक्षिणे पार्श्वे हिमवत्यचलोत्तमे।
निकुञ्जनिर्झरगुहानैकसानुदरीतटे ॥ ४१.२७ ॥

अर्णवादर्णवं यावत् पूर्वपश्चायतेऽचले।
किन्नराणां पुरशतं निविष्टं वै व्कचित् व्कचित् ॥ ४१.२८ ॥

नैकश्रृङ्गकलापस्य शैलराजस्य कुक्षिषु।
नरनारीप्रमुदितं हृष्टपुष्टजनाकुलम् ॥ ४१.२९ ॥

द्रुमसुग्रीवसैन्याद्या भगदत्तपुरःसराः ।
यत्र राजशतं तेषां दीप्तानां बलशालिनाम् ॥ ४१.३० ॥

विवाहो यत्र रुद्रस्य महादेव्योमया सह।
तपस्तप्तवती चैव यत्र देवी वराङ्गना ॥ ४१.३१ ॥

किरातरूपिणा चैव यत्र रुद्रेण क्रीडितम्।
यत्र चैव कृतं ताभ्यां जम्बूद्वीपावलोकनम् ॥ ४१.३२ ॥

यत्र ताः सम्मुदा युक्ता नानाभूतगणैर्युताः।
चित्रपुष्पफलोपेता रुद्रस्याक्रीडभूमयः ॥ ४१.३३ ॥

हृष्टा गिरिदरीवासाः कृशोदर्यो मनोरमाः।
कुन्दर्यो यत्र किन्नर्यो रमन्ते स्म सुलोचनाः ॥ ४१.३४ ॥

विशालाक्षास्तथा यक्षा अन्याश्चाप्सरसाङ्गणाः।
गन्धर्वाश्चाङ्गशालिन्यो यत्र तत्र मुदा युताः ॥ ४१.३५ ॥

तत्रैवोमावनं नाम सर्वलोकेषु विश्रुतम्।
अर्धनारीनरं रुपं धृतवान् यत्र शङ्करः ॥ ४१.३६ ॥

तथा शरवणं नाम यत्र जातः षडाननः ।
यत्र चैव कृतोत्साहः क्रौञ्चशैलवनं प्रति ॥ ४१.३७ ॥

ध्वजापताकिनञ्चैव किङ्किणीजालमालिनम्।
यत्र सिंहरथं युक्तं कार्तिकेयस्य धीमतः ॥ ४१.३८ ॥

चित्रपुष्पनिकुञ्जस्य क्रौञ्चस्य च गिरेस्तटे।
देवारिस्कन्दनः स्कन्दो यत्र शक्तिं विमुक्तवान् ॥ ४१.३९ ॥

यत्राभिषिक्तश्च गुहः सेन्द्रोपेन्द्रैः सुरोत्तमैः।
सेनापत्ये च दैत्यारिर्द्वादशार्कप्रतापवान् ॥ ४१.४० ॥

भूतसङ्घावकीर्णानि एतान्यन्यानि च द्विजाः।
तत्र तत्र कुमारस्य स्थानान्यायतनानि च ॥ ४१.४१ ॥

तथा पाण्डुशिला नाम ह्याक्रीडा क्रौञ्चघातिनः।
नानाभूतगणाकीर्णे पृष्ठे हिमवतः शुभे ॥ ४१.४२ ॥

तस्य पूर्वे तटे रम्ये सिद्धावासमुदाहृतम्।
कलापग्राममित्येवं नाम्ना ख्यातं मनीषिभिः ॥ ४१.४३ ॥

मृकण्डस्य वसिष्ठस्य भरतस्य नलस्य च।
विश्वामित्रस्य विप्रर्षेस्तथैवोद्दालकस्य च ॥ ४१.४४ ॥

अन्येषाञ्चोग्रतपसामृषीणां भावितात्मनाम्।
हिमवत्याश्रमाणाञ्च सहस्राणि शतानि च ॥ ४१.४५ ॥

नैकसिध्दगणावासं स्थानायतनमण्डितम्।
यक्षगन्धर्वचरितं नानाम्लेच्छगणैर्युतम् ॥ ४१.४६ ॥

नानारत्नाकरापूर्णं नानासत्त्वनिषेवितम्।
नानानदीसहस्राणां सम्भवं वरपर्वतम् ॥ ४१.४७ ॥

पश्चिमस्याचलेन्द्रस्य निषधस्य यथार्थवत्।
कीर्त्त्यमानमशेषेण विशेषं श्रृणुत द्विजाः ॥ ४१.४८ ॥

विस्तीर्णे मध्यमे कूटे हेमधा तुविबूषिते।
दीप्तमायतनं विष्णोः सिद्धर्षिगणसेवितम्।
यक्षाप्सरःसमाकीर्णं गन्धर्वगणसेवितम् ॥ ४१.४९ ॥

तत्र साक्षान्महादेवः पीताम्बरधरो हरिः।
वरदः सेव्यते सिर्द्धैर्लोककर्त्ता सनातनः ॥ ४१.५० ॥

तस्यैवाब्यन्तरे कूटे नानाधातुविभूषिते।
तटे निषधकूटस्य श्लक्ष्णचारुशिलातले ॥ ४१.५१ ॥

रुक्मकाञ्चननिर्यूहं तप्तकाञ्चनतोरणम्।
अनेकवलभीकूटप्रलोलीशतसङ्कटम् ॥ ४१.५२ ॥
मूलम्
रुक्मकाञ्चननिर्यूहं तप्तकाञ्चनतोरणम्।
अनेकवलभीकूटप्रलोलीशतसङ्कटम् ॥ ४१.५२ ॥
विश्वास-प्रस्तुतिः
हर्म्यप्रासादमतुलं तप्तकाञ्चनभूषितम्।
हर्म्यप्रासादबद्धञ्च मुदितञ्चातिविस्तरम् ॥ ४१.५३ ॥

उद्यानमालाकलितं त्रिंशद्योजनमायतम्।
दुःप्रसह्यममित्रैस्तत् पूर्णमाशीविषोपमैः।
उलङ्घीनां प्रमुदितं रक्षसां राक्षसं पुरम् ॥ ४१.५४ ॥

तस्यैव दक्षिणे पार्श्वे नैकदैत्यगणालये।
गुहाप्रवेशं नगरं शैलकुक्षौ दुरासदम् ॥ ४१.५५ ॥

तथैव पश्चिमे कूटे पारिजातशिलोच्चये।
देवदानवभागानां समृद्धानि पुराणि तु ॥ ४१.५६ ॥

तत्र सोमशिला नाम गिरेस्तस्य महातटे।
सोमो यत्रावतरति सदा पर्वसु पर्वसु ॥ ४१.५७ ॥

उपासतेऽत्र श्रीमन्तं तारा पतिमनिन्दितम्।
ऋषिकिन्नरगन्धर्वाः साक्षाद्देवं तमोनुदम् ॥ ४१.५८ ॥

तत्रैव चोत्तरे कूटे ब्रह्मपार्श्वमिति स्मृतम्।
स्थानं तत्र सुरेशस्य ब्रह्मणः प्रथितं दिवि ॥ ४१.५९ ॥

इज्यापूजानमस्कारैस्तत्र सिद्धाः स्वयम्भुवम्।
उपासते महात्मानं यक्षगन्धर्वदानवाः ॥ ४१.६० ॥

तथैवायतनं वह्नेः सर्वलोकेषु विश्रुतम्।
तत्र विग्रहवान् वाह्निः सेव्यते सिद्धचारणैः ॥ ४१.६१ ॥

तथैव चोत्तरे रम्ये त्रिश्रृङ्गे वरपर्वते।
ऋषिसिद्धानुचरिते नानाभूतगणालये।
पुरं तत् त्रिषु लोकेषु हेमचित्रन्तु विश्रुतम् ॥ ४१.६२ ॥

त्रयाणां देवमुख्यानां त्रीण्येवायतनानि च।
नारायणस्यायतनं पूर्वकूटे द्विजोत्तमाः ।
मध्यमे ब्रह्मणः स्थानं शङ्करस्य तु पश्चिमे ॥ ४१.६३ ॥

दैत्यदानवगन्धर्वैर्यक्षराक्षसपन्नगैः।
इजाना अभिपूज्यन्ते देवदेवा महाबलाः ॥ ४१.६४ ॥

तथा पुराणि रम्याणि देशे चैव व्कचित् व्कचित्।
यक्षगन्धर्वनागानां त्रिश्रृङ्गे वरपर्वते ॥ ४१.६५ ॥

तथैव चोत्तरे देशे चारुधौ देवपर्वते।
अनेकश्रृङ्गकलिते सिद्धसाधु निषेविते ॥ ४१.६६ ॥

यक्षाणां किन्नराणाञ्च गन्धर्वाणां सहस्रशः।
नागानां राक्षसानाञ्च दैत्यानाञ्च महाबले ॥ ४१.६७ ॥

कूटे तु मध्यमे तस्य सिद्धसङ्घ निषेविते।
रम्ये देवर्षिचरिते रत्नधातुविभूषिते ॥ ४१.६८ ॥

पझोत्पलवनैः फुल्लैः सौगन्धिकवनैस्तथा।
तथा कुमुदखण्डैश्च विकचैरुपशोभिते ॥ ४१.६९ ॥

विहङ्गसङ्घसङ्घुष्टं नानासत्वनिषेवितम्।
हंसकारण्डवाकीर्णं मत्तषट्पदसेवितम् ॥ ४१.७० ॥

नानासत्वगणाकीर्णं विहङ्गैरुपशोभितम्।
चारुतीर्थसुसम्बाधं त्रिंशद्योजनमण्डलम् ॥ ४१.७१ ॥

सिद्धैरुपस्पृष्टजलं जलदोषविवर्जितम्।
तत्रानन्दजलन्नाम महापुण्यजलं सरः ॥ ४१.७२ ॥

तत्र नागपति श्चण्ड श्चण्डो नाम दुरासदः।
शतशीर्षा महाभागो विष्णुचक्राङ्कचिह्नितः।
इत्येवमष्टौ विज्ञेया विचित्रा देवपर्वताः ॥ ४१.७३ ॥।
पुरैरायतनैः पुण्यैः पुण्योदैश्च सरोवरैः।
सुवर्णपर्वतैर्नैकैस्तथा रजतपर्वतैः ॥ ४१.७४ ॥

नानारत्नप्रभासैश्च नैकैश्च मणिपर्वतैः।
हरितालपर्वतैर्नैकैस्तथा हिङ्गुलकाञ्चनैः ॥ ४१.७५ ॥

शुद्धैर्मनः शिलाजालैर्भास्वरैररुणप्रभैः ।
नानाधातुविचित्रैश्च नैकैश्च मणिपर्वतैः ॥ ४१.७६ ॥

पूर्णा वसुमती सर्वा गिरिभिर्नैकविस्तरैः।
नदीकन्दरशैलाद्यैरनेकैश्चित्रसानुभिः ॥ ४१.७७ ॥

इत्येवमचलैर्युक्तैर्दैत्यराक्षससाधुभिः।
किन्नरोरगगन्धर्वैर्विचित्रैः सिद्धचारणैः ॥ ४१.७८ ॥

गन्धर्वैरप्सरोभिश्च सेविता नैक विस्तराः।
पुण्यकृद्भिः समाकीर्णा केसराकृतयो नगाः ॥ ४१.७९ ॥

गिरिजालन्तु तन्मेरोः सिद्धलोकमिति स्मृतम्।
चित्रं नानाश्रयोपेतं प्रचारं सुकृतात्मनाम् ॥ ४१.८० ॥

नात्युग्रकर्मसिद्धानां प्रतिमा मध्यमाः स्मृताः।
स हि स्वर्ग इति ख्यातः क्रमस्त्वेष प्रकीर्तितः ॥ ४१.८१ ॥

नानाभक्ष्यान्नपानैश्च नानाच्छादनभूषणैः।
प्रजाविकारैर्विविधैश्चित्रैरध्युषितैः सह॥ ४१.८३ ॥

चत्वारो नैकवर्णाद्या महाद्वीपाः परिश्रुताः।
भद्राश्च भरताश्चैव केतुमालाश्च पश्चिमाः।
उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ४१.८४ ॥

सैषा चतुर्महाद्वीपा नानाद्वीपसमाकुला।
पृथिवी कीर्तिता कृत्स्ना पद्माकारा मया द्विजाः ॥ ४१.८५ ॥

तदेषा सान्तरद्वीपा सशैलवनकानना।
पद्मेत्यभिहिता कृत्स्ना पृथिवी बहुविस्तरा ॥ ४१.८६ ॥

सब्रह्मसदनं लोकं सदेवासुरमानुषम्।
त्रिलोकमिति विख्यातं यत्सत्त्वैर्व्यवहार्यते ॥ ४१.८७ ॥

चन्द्रादित्यावतप्तं यत्तज्जगत् परिगीयते।
गन्धवर्णरसोपेतं शब्दस्पर्शगुणान्वितम् ॥ ४१.८८ ॥

तं लोकपद्मं श्रुतिभिः पद्ममित्यभिधीयते।
एष सर्वपुराणेषु क्रमः सुपरिनिश्चितः ॥ ४१.८९ ॥