॥सूत उवाच॥
विश्वास-प्रस्तुतिः
मर्यादापर्वते शुभ्रे देवकूटे निबोधत।
विस्तीर्णे सिखरे तस्य कूटे गिरिवरस्य ह ॥ ४०.१ ॥
मूलम्

समन्ताद्योजनशतं महाभवनमण्डितम्।
जन्मक्षेत्रं सुपर्णस्य वैनतेयस्य धीमतः ॥ ४०.२ ॥

नैकैर्महा पक्षिगणैर्गारुडैः शीग्रविक्रमैः।
सम्पूर्णवीर्यसम्पन्नैर्दमनैरुरगारिभिः ॥ ४०.३ ॥

पक्षिराजस्य भवनं प्रथमं तन्महात्मनः।
महावायुप्रवेशस्य शाल्मलि द्वीपवासिनः ॥ ४०.४ ॥

तस्यैव चारुमूर्ध्नस्तु कूटेषु च महर्द्धिषु।
दक्षिणेषु विचित्रेषु सप्तस्वपि तु शोभिनः ॥ ४०.५ ॥

सन्ध्याभ्राभाः समुदिता रुक्मप्राकारतोरणाः।
महाभवनमालाभिः शोभिता देवनिर्मिताः ॥ ४०.६ ॥

त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशत्तमायताः।
सप्त गन्धर्वनगरा नर नारीसमाकुलाः ॥ ४०.७ ॥

आग्नेया नाम गन्धर्वा महाबलपराक्रमाः।
कुबेरानुचरा दीप्तास्तेषान्ते भवनोत्तमाः ॥ ४०.८ ॥

तस्य चोत्तरकूटेषु भुवनस्य महागिरेः।
हर्म्यप्रासादबद्धं च उद्यानवनशोभितम् ॥ ४०.९ ॥

पुरमाशीविषैः पुर्णं महाप्राकारतोरणम्।
वादित्रशतनिर्घोषैरानन्दितवनान्तरम् ॥ ४०.१० ॥

दुष्प्रसह्यममित्राणां त्रिंशद्योजनमण्डलम्।
नगरं सैंहिकेयानामुदीर्णं देवविद्विषाम्।
सिद्धदेवर्षिचरितं देवकूटे निबोधत ॥ ४०.११ ॥

द्वितीये द्विजशार्दूल मर्यादापर्वते शुभे।
महाभवनमालाभिर्नानावर्णाभिरावृतम् ॥ ४०.१२ ॥

सुवर्णमणिचित्राभिरनेकाभिरलङ्कृतम् ।
विशालरथ्यं दुर्धर्षं नित्यं प्रमुदितं शिवम् ॥ ४०.१३ ॥

नरनारीगणाकीर्णं प्रांशुप्राकारतोरणम् ।
षष्टियोजनविस्तीर्णं शतयोजनमायतम् ॥ ४०.१४ ॥

नगरं कालकेयानामसुराणां दुरासदम्।
देवकूटतटे रम्ये सन्निविष्टं सुदुर्जयम्।
महाभ्रचयसङ्काशं सुनासन्नाम विश्रुतम् ॥ ४०.१५ ॥

तस्यैव दक्षिणे कूटे विंशद्योजनविस्तरम्।
द्विषष्टियोजनायामं हेमप्राकारतोरणम् ॥ ४०.१६ ॥

हृष्टपुष्टावलिप्तानामावासाः कामरूपिणाम्।
औत्कचानां प्रमुदितं राक्षसानां महापुरम् ॥ ४०.१७ ॥

मध्यमे तु महाकूटे देवकूटस्य वै गिरेः ।
सुवर्णमणिपाषाणैश्चित्रैः श्लक्षणतरैः शुभैः।
शाखाशतसहस्राद्यैर्नैकारोहसमाकुलम् ॥ ४०.१८ ॥

स्रिग्ध पर्णमहामूलमनेकस्कन्धवाहनम्।
रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् ॥ ४०.१९ ॥

तत्र भूतवटन्नाम नानाभूतगणालयम्।
महादेवस्य प्रथितं त्र्यम्बकस्य महात्मनः।
दीप्तमायतनं तत्र सर्वलोकेषु विश्रुतम् ॥ ४०.२० ॥

वराहगजसिंहर्क्षशार्दूलकरभाननैः।
गृध्रोलूकमुखैश्चैव मेषोष्ट्राजमहामुखैः ॥ ४०.२१ ॥

कदम्बैर्विकटैः स्थूलैर्लम्बकेशतनूरुहैः।
नानावर्णाकृतिधरैर्नानासंस्थानसंस्थितैः ॥ ४०.२२ ॥

दीप्तैरनेकैरुग्रास्यैर्भूतैरुग्रपराक्रमैः।
अशून्यमभवन्नित्यं महापारिषदैस्तथा ॥ ४०.२३ ॥

तत्र भूतपतेर्भूता नित्यम्पूजां प्रयुञ्जते।
झर्झरैः शङ्खपटहैर्भेरीडिण्डिमगोमुखैः ॥ ४०.२४ ॥

रणितालसितोद्गीतै र्नित्यं वलितवर्जितैः।
विस्फूर्ज्जितशतैस्तत्र पूजायुक्ता गणेश्वराः।
प्रीताः पुरारिप्रमथास्तत्र क्रीडापराः सदा ॥ ४०.२५ ॥

सिद्धदेवर्षिगन्धर्वयक्षनागेन्द्र पूजितः।
स्थाने तस्मिन् महादेवः साक्षाल्लोकशिवः शिवः ॥ ४०.२६ ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चत्वारिंशोऽध्यायः ॥ ४० ॥