०३९

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

अतः परं प्रवक्ष्यामि यस्मिन् यस्मिन् शिलोच्चये।
ये सन्निविष्टा देवानां विविधानां गृहोत्तमाः ॥ ३९.१ ॥

मूलम्

तत्र योऽसौ महाशैलः शीतान्तो नैक विस्तरः।
नैकधातुशतैश्चित्रैर्नैकरत्नाकराकरः ॥ ३९.२ ॥

नितम्बैः पुष्पसालम्बैर्नैकसत्त्वगुणालयः।
महार्हमणिचित्राभिर्हेमवंशैरलङ्कृतः ॥ ३९.३ ॥

नितम्बैः षट्पदोद्गीतैः प्रवालैर्हेमचित्रकैः।
तटैः कुसुमसङ्कीर्णैर्मत्तभ्रमरनादितैः ॥ ३९.४ ॥

लतालम्बैश्चित्रवद्भिश्चित्रैर्धातुशतार्चितैः।
सानुभी रत्नचित्रैश्च पुष्पाढ्यैश्च विभूषितः ॥ ३९.५ ॥

विमलस्वादुपानीयैर्नैकप्रस्रवमैर्युतः।
निकुञ्जैः कुसुमोत्कीर्णैरनेकैश्च विभूषितः ॥ ३९.६ ॥

पुष्मौडुपवहाभिश्च स्रवन्तीभिरलङ्कृतः।
किन्नराचरिताभिश्च दरीभिः सर्वतस्ततः ॥ ३९.७ ॥

यक्षगन्धर्वचरितैरनेकैः कन्दरोदरैः।
शोभितश्च सुखासेव्यैश्चित्रैर्गहनसङ्कटैः ॥ ३९.८ ॥

नानासत्वगणाकीर्णैः सुपानीयैः सुखाश्रयैः।
नानापुष्पफलोपेतैः पादपैः समलङ्कृतः ॥ ३९.९ .

विश्वास-प्रस्तुतिः

तस्मिन् गुहाश्रयाकीर्णे अनेकोदरकन्दरे।
क्रीडावनं महेन्द्रस्य सर्वकामगुणैर्युतम् ॥ ३९.१० ॥

तत्र तद्देवराजस्य पारिजातवनं महत्।
प्रकाशं त्रिषु लोकेषु गीयते श्रुतिनिश्चयात् ॥ ३९.११ ॥

तरुणादित्यसङ्काशै र्महागन्धैर्मनोहरैः।
पुष्पैर्भाति नगश्रेष्ठः सुदीप्त इव सर्वशः ॥ ३९.१२ ॥

समग्रं योजनशतं तं गन्धमनिलो ववौ।
पारिजातकपुष्माणां माहेन्द्र वननिर्गतः ॥ ३९.१३ ॥

वैढूर्यनीलैः कमलैः सौवर्णैर्वज्रकेसरैः।
सर्वगन्धबलोपेतैर्मत्तषट्पदनादितैः ॥ ३९.१४ ॥

व्याकोशौर्विकचैश्चापि शतपत्रैर्मनोहरैः।
सपङ्कजैर्महा पत्रैर्वाप्यस्तत्र विभूषिताः ॥ ३९.१५ ॥

विरेजुरन्तरम्बुस्थाः सौवर्णमणिभूषिताः।
परिप्सन्देक्षणा नित्यं मीनयूथाः सहस्रशः ॥ ३९.१६ ॥

कूर्मैश्चानेकसंस्थानैर्हेमरत्नपरिष्कृतैः।
चञ्चूर्यमाणैः सलिलैर्भाति चित्रं समन्ततः ॥ ३९.१७ ॥

नानावर्णैश्च शखुनैर्नानारत्नतनूरुहैः।
सुवर्णपुष्पैश्चानेकैर्मणितुण्डैर्द्विजातिभिः ॥ ३९.१८ ॥

वल्गुस्वरैः सदोन्मत्तैः सम्पतद्भिः समन्ततः।
शुशुभे तद्वनं रम्यं सहस्राक्षस्य धीमतः ॥ ३९.१९ ॥

मत्तभ्रमरसन्नादैर्विहङ्गानाञ्च कूजितैः।
नित्यमा नन्दितवनं तस्मात् क्रीडावनं महत् ॥ ३९.२० ॥

सुवर्णपार्श्वैश्च नगैर्मणिमुक्तापुरस्कृतैः।
मणिश्रृङ्गकलापन्नैः पतद्भिश्च समन्ततः ॥ ३९.२१ ॥

शाखामृगैश्च चित्राङ्गैर्नानारत्नतनूरुहैः।
नानावर्णप्रकारैश्च सत्वैरन्यैः समाकुलम् ॥ ३९.२२ ॥

मुञ्चन्ति पुष्पवर्षञ्च तत्र बाललता द्रुमाः।
पारिजातकपुष्पाणां मन्दमारुत कम्पिताः ॥ ३९.२३ ॥

शयनासननिर्व्यूहैः स्तीर्णै रत्नविभूषितैः।
विहारभूमयस्तत्र द्विजाः शक्रवने शुभाः।
न च शीतो न चाप्युष्णो रविस्तत्र समः सदा ॥ ३९.२४ ॥

नित्यमुन्मादजननो मधुमाधवसम्भवः।
वाति चाप्यनिलस्तत्र नानापुष्पाधिवासितः।
नित्यं सङ्गसुखाह्लादी श्रमक्लमविनाशनः ॥ ३९.२५ ॥

तस्मिन्निन्द्रवने शुभ्रे देवदानवपन्नगाः।
यक्षराक्षसगुह्याश्च गन्धर्वाश्चामितौजसः ॥ ३९.२६ ॥

विद्याधराश्च सिद्धाश्च किन्नराश्च मुदा युताः।
अथाप्सरोगणाश्चैव नित्यं क्रीडापरायणाः ॥ ३९.२७ ॥

तस्य पर्वतराजस्य पूर्वे पार्श्वे महोचितम्।
कुमुञ्चं शैलराजानं नैकनिर्झरकन्दरम् ॥ ३९.२८ ॥

तस्य धातुविचित्रेषु कूटेषु बहुविस्तराः।
अष्टौ पुर्यो ह्युदीर्णाश्च दानवानां महात्मनाम् ॥ ३९.२९ ॥

वज्रके पर्वते चापि अनेकशिखरोदरैः।
उदीर्णा राक्षसावासा नरनारीसमाकुलाः ॥ ३९.३० ॥

नीलका नाम ते घोरा राक्षसाः कामरूपिणः।
तत्र तेऽभिरता नित्यं महाबलपराक्रमाः ॥ ३९.३१ ॥

महानीलेऽपि शैलेन्द्रे पुराणि दश पञ्च च।
हयाननानां विख्याताः किन्नराणां महात्मनाम् ॥ ३९.३२ ॥

देवसेनो महाबाहुर्बलमिन्द्रादयस्तथा।
तत्र किन्नरराजानो दशपञ्च च गर्विताः ॥ ३९.३३ ॥

सुवर्णपार्श्वाः प्रायेण नानापर्णसमाकुलैः।
बिलप्रवेशैर्नगरैः शैलेन्द्रः सोऽभ्यलङ्कृतः ॥ ३९.३४ ॥

अतिदारुणा दृष्टिविषा ह्यग्निकोपा दुरासदाः।
महोरगशतास्तत्र सुवर्णवशवर्तिनः ॥ ३९.३५ ॥

सुनागेऽपि महाशैले दैत्यावासा- सहस्रशः।
हर्म्यप्रासाद कलिलाः प्रांशुप्राकारतोरणाः ॥ ३९.३६ ॥

वेणुमन्ते महाशैले विद्याधरपुरत्रयम्।
त्रिंशदद्योजनविस्तीर्णं पञ्चाशद्योजनायतम् ॥ ३९.३७ ॥

उलूको रोमशश्चैव महानेत्रश्च वीर्यवान्।
विद्याधरवरास्तत्र शक्रतुल्यपराक्रमाः ॥ ३९.३८ ॥

वैकङ्के शैलशिखरे ह्यन्तःकन्दरनिर्झरे।
महोच्चश्रृङ्गे रुचिरे रत्नधातुविचित्रिते ॥ ३९.३९ ॥

तत्रास्ते गारुडिर्नित्यं उरगारिर्दुरासदः।
महावायुजवश्चण्डः सुग्रीवो नाम वीर्यवान् ॥ ३९.४० ॥

महाप्रमाणै र्विक्रान्तैर्महाबलपराक्रमैः।
सशैलो ह्यावृतः सर्वः पक्षिभिः पन्नगारिभिः ॥ ३९.४१ ॥

करञ्जेऽभिरतो नित्यं साक्षाद्भूतपतिः प्रभुः।
वृषभाङ्को महादेवः शङ्करो योगिनां प्रभुः ॥ ३९.४२ ॥

नानावेषधरैर्भूतैः प्रमथैश्च दुरासदैः।
करञ्जे सानवः सर्वे ह्यवकीर्णाः समन्ततः ॥ ३९.४३ ॥

वसुधारे वसुमतां वसूनाममितौजसाम्।
अष्टावायतनान्याहुः पूजितानि महात्मनाम् ॥ ३९.४४ ॥

रत्नधातौ गिरिवरे ऋषीणाञ्च महात्मनाम्।
सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि च ॥ ३९.४५ ॥

महाप्रजापतेः स्थानं हेमश्रृङ्गो नगोत्तमे।
चतुर्वक्त्रस्य देवस्य सर्वभूतनमस्कृतम् ॥ ३०.४६ ॥

गजशैले भगवतो नानाभूतगणावृताः ।
रुद्राः प्रमुदिता नित्यं सर्वभूतनमस्कृताः ॥ ३९.४७ ॥

सुमेधे धातुचित्राढ्ये शैलेन्द्रे मेघसन्निभे।
नैकोदरदरीवप्रनिकुञ्जैश्चोपशोभिते ॥ ३९.४८ ॥

आदित्यानां वसूनाञ्च रुद्राणाञ्चामितौजसाम्।
तत्रायतनविन्यासा रम्याश्चैवाश्विनोरपि ॥ ३९.४९ ॥

स्थानानि सिद्धैर्देवानां स्थापितानि नगोत्तमे।
तत्र पूजापरा नित्यं यक्ष गन्धर्वकिन्नराः ॥ ३९.५० ॥

गन्धर्वनगरी स्फीता हेमकक्षे नगोत्तमे।
अशीत्यामरपुर्याभा महाप्राकारतोरणा ॥ ३९.५१ ॥

सिद्धा ह्यपत्तना नाम गन्धर्वा युद्ध शालिनः।
येषामधिपतिर्देवो राजराजः कपिञ्जलः ॥ ३९.५२ ॥

अनले राक्षसावासाः पञ्चकूटेऽपि दानवाः।
ऊर्जिता देवरिपवो महाबलपराक्रमाः ॥ ३९.५३ ॥

शतश्रृह्गे पुरशतं यक्षाणाममितौजसाम्।
ताम्राभे काद्रवेयस्य तक्षकस्य पुरोत्तमम् ॥ ३९.५४ ॥

विशाखे पर्वतश्रेष्ठे नैकवप्रदरीशुभे।
गुहानिरतवासस्य गुहस्यायतनं महत् ॥ ३९.५५ ॥

श्वेतोदरे महाशैले महाभवनमण्डिते।
पुरं गरुढपुत्रस्य सुनाभस्य महात्मनः ॥ ३९.५६ ॥

पिशाचके गिरिवरे हर्म्यं प्रासाद मण्डितम्।
यक्षगन्धर्वचरितं कुबेरभवनं महत् ॥ ३०.५७ ॥

हरिकूटे हरिर्देवः सर्वभूतनमस्कृतः।
प्रभावात्तस्य शैलोऽसौ महानाभः प्रकाशते ॥ ३९.५८ ॥

कुमुदे किन्नरावासा अञ्जने च महोरगाः।
कृष्णे गन्धर्वनगरा महाभवनशालिनः ॥ ३९.५९ ॥

पाण्डुरे चारुशिखरे महाप्राकारतोरणे।
विद्याधरपुरं तत्र महाभवनमालिनम् ॥ ३९.६० ॥

सहस्रशिखरे शैले दैत्यानामुग्रकर्मणाम्।
पुराणि समुदीर्णानां सहस्रं हेममालिनाम् ॥ ३९.६१ ॥

मुकुटे पन्नगावासा अनेकाः पर्वतोत्तमाः।
पुष्पके वै मुनिगणा नित्यमेव मुदा युताः ॥ ३९.६२ ॥

वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च।
सुपक्षे पर्वतवरे चत्वार्यायतनानि च ॥ ३९.६३ ॥

गन्धर्वैः किन्नरैर्यक्षैर्नागैर्विद्याधरोत्तमैः।
सिद्धैर्हि तेषु स्थानेषु नित्यमिष्टः प्रपूज्यते ॥ ३९.६४ ॥

इति श्रीमहा पुराणे वायुप्रोक्ते भुवनविन्यासो नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥