॥सूत उवाच ॥
विश्वास-प्रस्तुतिः
अतः परं प्रवक्ष्यामि दक्षिणान्दिशमाश्रिताः।
या द्रोण्यः सिद्धचरिताः शृणु ता ह्यनुपूर्वशः ॥ ३८.१ ॥
मूलम्

शिशिरस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च।
श्लक्ष्णभूमिश्रिया युक्तं लतालिङ्गितपादपम् ॥ ३८.२ ॥

पृथुक्षेपोच्चशिखरैः पादपैरुपशोभितम्।
उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ॥ ३८.३ ॥

पक्वैर्विद्रुमसङ्काशै र्मधुपूर्णैर्मनोरमैः।
ज्वलितं तद्वनं भाति महाकुम्भोपमैः फलैः ॥ ३८.४ ॥

तत् सिद्धयक्षगन्धर्वाः किन्नरा उरगास्तथा।
विद्याधराश्च मुदिता उपजीवन्ति नित्यशः ॥ ३८.५ ॥

प्रसन्नस्वादुसलिलास्तत्र नद्यो बहूदकाः।
सुरसामलतोयास्ताः सरांसि च समन्ततः ॥ ३८.६ ॥

तत्राश्रमं भगवतः कर्द्दमस्य प्रजापतेः।
रम्यं सुरगणाकीर्णं सर्वतश्चित्रकाननम्।
समन्ताद्योजनशतं तद्वनं परिमण्डलम् ॥ ३८.७ ॥

ताम्रवर्णस्य शैलस्य पतङ्गस्यान्तरेण तु।
शतयोजनविस्तीर्णं द्वियोजनशतायतम् ॥ ३८.८ ॥

तरुणादित्यसङ्काशैः पुण्डरीकैः समन्ततः।
सहस्रपत्रैर्विकचैर्महापद्मैरलङ्कृतम् ॥ ३८.९ ॥

तथा भ्रमरसंलीनैः शतपत्रैः सुगन्धिभिः।
प्रफुल्ल्लैः शोभितजलं रक्तनीलैर्महोत्पलैः ॥ ३८.१० ॥

सरोवरं महापुण्यं देवदानवसेवितम्।
महोरगैरध्युषितं नीलजाल विभूषितम् ॥ ३८.११ ॥

तस्य मध्ये जनपदो ह्यायतः शतयोजनः।
त्रिंशद्योजनविस्तीर्णो रक्तधातुविभूषितः ॥ ३८.१२ ॥

तस्योपरि महारम्या प्रांशु प्राकारतोरणा।
नरनारीगणाकीर्णा स्फीता विभवविस्तरैः ॥ ३८.१३ ॥

वलभीकूटनिर्व्यूहैर्मणिभक्तिविचित्रितैः।
रत्नचित्रार्पिततलैः श्लक्ष्णचित्रोत्तरच्छदैः ॥ ३८.१४ ॥

महाभवनमालाभिर्महाप्रांशुभिरुत्तमैः।
विद्याधरपुरं तत्र शोभते भ्राजयच्छुभम् ॥ ३८.१५ ॥

विद्याधरपतिस्तत्र पुलोमा तत्र विश्रुतः।
चित्रवेषधरः स्रग्वी माहेन्द्रसदृशद्युतिः ॥ ३८.१६ ॥

दीप्तानां चित्रवेषाणां सूर्यप्रतिमतेजसाम्।
विद्याधरसहस्राणामनेकेषां स राजराट् ॥ ३८.१७ ॥

विशाखस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च।
सरसस्ताम्रवर्णस्य पूर्वे तीरे परिश्रुतम् ॥ ३८.१८ ॥

पञ्चेषुक्षेपणैर्विद्धं सुशाखं वर्णशोभितम् ।
सर्व कालफलं तत्र स्फीतं चाम्रवणं महत् ॥ ३८.१९ ॥

फलैः कनकसङ्काशैर्महास्वादैः सुगन्धिभिः।
महाकुम्भप्रमाणैश्चातनुशाखैः समन्ततः ॥ ३८.२० ॥

गन्धर्वकिन्नरा यक्षा नागा विद्याधरास्तथा।
पिबन्त्याम्ररसं तत्र सुस्वादुं ह्यमृतोपमम् ॥ ३८.२१ ॥

तत्राम्ररसपीतानां मुदितानां महात्मनाम्।
श्रूयन्ते हृष्ट पुष्टानां नादास्तस्मिन् महावने ॥ ३८.२२ ॥

सुमूलस्याचलेन्द्रस्य वसुधारस्य चान्तरे।
समा सुरभिपूर्णाढ्या विहङ्गैरुपशोभिता ॥ ३८.२३ ॥

त्रिंशद्योजनविस्तीर्णा पञ्चाशद्योजनायता।
तत्र बिल्वस्थली विप्राः शुद्धा निम्नफलद्रुमाः ॥ ३८.२४ ॥

सुस्वादैर्विद्रुमनिभैः फलैर्बिल्वैर्महोपमैः।
शीर्यमाणैर्विशीर्णैश्च प्रक्लिन्नतलमृत्तिकाः ॥ ३८.२५ ॥

तां स्थलीमुपजीवन्ति यक्षगन्धर्वकिन्नराः।
सिद्धा नागाश्च बहुशो नित्यं बिल्वफलाशिनः ॥ ३८.२६ ॥

अन्तरे वसुधारस्य रत्नधारस्य चान्तरे।
त्रिंशद्योजनविस्तीर्णमायतं शतयोजनम् ॥ ३८.२७ ॥

सुगन्धं किंशुकवनं नित्यं पुष्पितपादपम्।
पुष्पलक्ष्म्यावृतं भाति प्रदीप्तमिव सर्वतः ॥ ३८.२८ ॥

यस्य गन्धेन दिव्येन वास्यते परिमण्डलम्।
समग्रं योजनशतं काननानि समन्ततः ॥ ३८.२९ ॥

तत् सिद्धचारणगणैरप्सरोभिश्च सेवितम् ।
रम्यं तत् किंशुक वनं जलाशयविभूषितम् ॥ ३८.३० ॥

तत्रादित्यस्य देवस्य दीप्तमायतनं महत् ।
मासे मासेऽनतरति तत्र सूर्यः प्रजापतिः ॥ ३८.३१ ॥

तत्र कालस्य कर्त्तारं सहस्रांशुं सुरोत्तमम्।
सिद्धसङ्घा नमस्यन्ति सर्वलोकनमस्कृतम् ॥ ३८.३२ ॥

पञ्चकूटस्य शैलस्य कैलासस्यान्तरेण तु।
षट्त्रिंशद्योजनायामं विस्तीर्णं शतयोजनम् ॥ ३८.३३ ॥

क्षुद्रसत्त्वैरनाधृष्यं सर्वतो हंसपाण्डुरम्।
दुष्पारं सर्वसत्वानां दुर्गमं लोमहर्षणम् ॥ ३८.३४ ॥

इत्येता ह्यन्तरद्रोण्यो दक्षिणे परिकीर्तिताः।
यथानुपूर्वमखिलाः सिद्धसङ्घनिषेविताः ॥ ३८.३५ ॥

पश्विमायां दिशितथा येऽन्तरद्रोणिविस्तराः।
तान् वर्ण्यमानांस्तत्वेन श्रृणुतेमान् द्विजोत्तमाः ॥ ३८.३६ ॥

अन्तराले गिरौ तस्मिन् सुवक्षः शिखिशैलयोः।
समन्ताद्योजनशतमेकभूमं शिलातलम् ॥ ३८.३७ ॥

नित्यतप्तं महाघोरं दुःस्पर्शं रोमहर्षणम्।
अगम्यं सर्वसत्त्वानामीश्वराणां सुदारुणम् ॥ ३८.३८ ॥

मध्ये तस्यां शिलास्थल्यां त्रिंशद्योजनमण्डलम्।
ज्वालासहस्रकलिलं वह्निस्थानं सुदारुणम् ॥ ३८.३९ ॥

अनिन्धनस्तत्र सदा ज्वालामाली विभावसुः।
ज्वलत्येष सदा देवः शश्वत्तत्र हुताशनः ॥ ३८.४० ॥

अधिदेवकृते योऽसावग्नेर्भागो विधीयते।
स तत्र ज्वलते नित्यं लोकसंवर्त्तकोऽनलः ॥ ३८.४१ ॥

अन्तरे शैलवरयोर्देवा वापि तयोः शुभाः ।
मातुलुङ्गस्थली तत्र ह्यायामाद्दशयोजना ॥ ३८.४२ ॥

मधुव्यञ्जनसंस्थानैः सुरसैः कनकप्रभैः।
फलैः परिणतैः सर्वा शोभिता सा महास्थली ॥ ३८.४३ ॥

तत्राश्रमं महा पुण्यं सिद्धसङ्घनिषेवितम्।
बृहस्पतेः प्रमुदितं सर्वकामगुणैर्युतम् ॥ ३८.४४ ॥

तथैव शैलवरयोः कुमुदाञ्जनयोरपि।
अन्तरे केसरद्रोणी ह्यनेकायाम योजना ॥ ३८.४५ ॥

द्विबाहुपरिणाहैस्तैस्त्रिहस्तायतविस्तृतैः।
चन्द्रांशुवर्णैर्व्याकोशैर्मत्तषट्पदनादितैः ॥ ३८.४६ ॥

मधुसर्पीरजः पृक्तैर्महागन्धैर्मनोहरैः।
शबलं तद्वनं भाति कुसुमैः सर्वकालजैः ॥ ३८.४७ ॥

तत्र विष्णोः सुरगुरोर्दीप्तमायतनं महत्।
प्रकाशन्त्रिषु लोकेषु सर्वलोकनमस्कृतम् ॥ ३८.४८ ॥

अन्तरे शैलवरयोः कृष्णपाण्डुरयोरपि।
त्रिंशद्योजनविस्तीर्णं नवत्यायतयोजनम् ॥ ३८.४९ ॥

श्लक्ष्णमेकशिलं देशं वृक्षवीरुद्विवर्जितम् ।
सुखपादप्रचा रञ्च निम्नोन्नतविवर्जितम् ॥ ३८.५० ॥

मध्ये तु सरसस्तस्य रम्या तु स्थलपद्मिनी।
सहस्रपत्रैर्व्याकोशैः छत्रमात्रैरलङ्कृता ॥ ३८.५१ ॥

पुण्डरीकैर्महापद्मै रुचिरैर्गन्धशालिभिः ।
शतपत्रैश्च विकचैरुत्पलैर्नीलपत्रकैः ॥ ३८.५२ ॥

मदोत्कटैर्मधुकरैर्भ्रमरैश्च मदोत्कटैः।
मृदुगद्घदकण्ठानां किन्नराणाञ्च निस्वनैः ॥ ३८.५३ ॥

उपगीतपद्मखण्डाढ्या विस्तीर्णा स्थलपद्मिनी।
यक्षगन्धर्वचरिता सिद्धचारणसेविता ॥ ३८.५४ ॥

मध्ये तस्याश्च पद्मिन्याः पञ्चयोजनमण्डलः।
न्यग्रोधो विपुलस्कन्धो ह्यनेकारोहिमण्डितः ॥ ३८.५५ ॥

तत्र चन्द्रप्रभः श्रीमान् पूर्णचन्द्रनिभानन)।
सहस्रवदनो देवो नीलवासाः सुरारिहा ॥ ३८.५६ ॥

पद्म माल्यधरस्थल्यां महाभागोऽपराजितः।
इज्यते यक्षगन्धर्वैर्विद्याधरगणैस्तथा ॥ ३८.५७ ॥

तस्मिन्नायतने साक्षादनादिनिधनो हरिः।
पद्मोपहारौर्विविधै रिज्यते सिद्धचारणैः ॥ ३८.५८ ॥

तदनन्तसदो नाम सर्वलोकेषु विश्रुतम्।
पद्ममालावलम्बाभिर्मालाभिरुपशोभितम् ॥ ३८.५९ ॥

तथा सहस्रशिखरकुमुदस्यान्तरेण च।
पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम् ।
इषुक्षेपोच्चशिखरं नानाविहगसेवितम् ॥ ३८.६० ॥

महागन्धैर्महास्वादैर्गजदेहनिभैः फलैः।
मधुस्रवैर्महावृक्षैरुपेतं तत् समन्ततः ॥ ३८.६१ ॥

तत्राश्रमं महापुण्यं देवर्षिगणसेवितम्।
शुक्रस्य प्रथितं तत्र भास्वरं पुण्यकर्मणः ॥ ३८.६२ ॥

शङ्कुकूटस्य शैलस्य वृषभस्यान्तरेण च।
परूषकस्थली रम्या ह्यनेकायतयोजना ॥ ३८.६३ ॥

बिल्वप्रमाणैश्च शुभैर्महास्वादैः सुगन्धिभिः।
फलैः प्रक्लिद्यते भूमिः परुषैर्वृन्तविच्युतैः ॥ ३८.६४ ॥

तां स्थलीमुपजीवन्ति किन्नरोरगसाधवः।
परूषकरसोन्मत्ता मानाढ्यास्तत्र चारणाः ॥ ३८.६५ ॥

कपिञ्जलस्य शैलस्य नागशैलस्य चान्तरे।
द्वियोजनशतायामा विस्तीर्णा शतयोजना ॥ ३८.६६ ॥

स्थली मनोहरा सा हि नानावनविभूषिता ।
नानापुष्पफलोपेता किन्नरोरगसेविता ॥ ३८.६७ ॥

द्राक्षावनानि रम्याणि तथा नागवनानि च।
खर्जूरवनखण्डानि नीलाशोकवनानि च ॥ ३८.६८ ॥

दाडिमानाञ्च स्वादूनामक्षोटकवनानि च।
अतसीतिलकानाञ्च कदलीनां वनानि च ॥ ३८.६९ ॥

बदरीणाञ्च स्वादूनां वनखण्डानि सर्वशः।
स्वादुशीताम्बुपूर्णाभिर्नदीभिः शोभितानि च ॥ ३८.७० ॥

तथा पुष्पकशैलस्य महामेघस्य चान्तरे।
षष्टियोजनविस्तीर्णा सा भूमिः शतमायता ॥ ३८.७१ ॥

समा पाणितलप्रख्या कठिना पाण्डुरा घना।
वृक्षगुल्मलतागुल्मैस्तृणैश्वापि विवर्जिता ॥ ३८.७२ ॥

वर्जिता विविधैः सत्वैर्नित्यमस्मिन् निराश्रया।
सा काननस्थली नाम दारुणा रोमहर्षणा ॥ ३८.७३ ॥

महासरांसि च तथा महावृक्षास्तथैव च।
महावनानि सर्वाणि कान्तनामानि सर्वशः ॥ ३८.७४ ॥

सरसाञ्च वनानाञ्च सा स्थली च प्रजापतेः।
क्षुद्राणां सरसाञ्चैव सङ्ख्या तत्र न विद्यते ॥ ३८.७५ ॥

दश द्वादश सप्ताष्टौ विंशत्र्रिंशच्च योजनाः।
स्थल्यो द्रोण्यश्च विख्याताः सरांसि च वनानि च ॥ ३८.७६ ॥

केचित् सन्ति महाघोराः श्यामाः पर्वतकुक्षयः।
सूर्यांशुजालैरस्पृष्टा नित्यं शीता दुरासदाः ॥ ३८.७७ ॥

तथा ह्यनलतप्तानि सरांसि द्विजसत्तमाः।
शैलकुक्ष्यन्तरस्थानि सहस्राणि शतानि च ॥ ३८.७८ ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥