॥सूत उवाच॥
विश्वास-प्रस्तुतिः
शीतान्तस्याचलेन्द्रस्य कुमुञ्जस्यान्तरेण तु।
द्रोण्यो विहङ्गसङ्घुष्टा नानासत्त्वनिषेविताः ॥ ३७.१ ॥
मूलम्

त्रियोजनशतायामा विस्तीर्णाः शतयोजनाः।
सुरसामलपानीयरम्यं तत्र सरोवरम् ॥ ३७.२ ॥
मूलम्
त्रियोजनशतायामा विस्तीर्णाः शतयोजनाः।
सुरसामलपानीयरम्यं तत्र सरोवरम् ॥ ३७.२ ॥
विश्वास-प्रस्तुतिः
द्रोण्यायामप्रमाणैस्तु पुण्डरीकैः सुगन्धिभिः।
सहस्रशतपत्रैर्हि महापद्मैरलङ्कृतम् ॥ ३७.३ ॥

महोरगैरध्युषितं महाभोगैर्दुरासदैः।
देवदानवगन्धर्वैरुपस्पृष्टं जलं शुभम् ॥ ३७.४ ॥

पुण्यं तच्छ्रीसरो नाम प्रकाशं दिवि चेह च।
प्रसन्नजलसम्पूर्णं शरण्यं सर्वदेहिनाम् ॥ ३७.५ ॥

तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य ह।
कोटिपत्रप्रचारं तत्तरुणादित्यवर्चसम् ॥ ३७.६ ॥

नित्यं व्याकोशमजरं चाञ्चल्याच्चातिमण्डलम्।
चारुकेशरजालाढ्यं मत्तषट्पदनादितम् ॥ ३७.७ ॥

तस्मिन् पद्मे भगवती साक्षाच्छ्रीर्नित्यमेव हि।
लक्ष्म्याः पद्मं तदावासं मूर्त्तिमत्या न संशयः ॥ ३७..८ ॥

सरसस्तस्य पूर्वस्मिन् तीरे सिद्धनिषेवित।
सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ॥ ३७.९ ॥

शतयोजनविस्तीर्णं त्रियोजनशताय तम्।
अर्धक्रोशोच्चशिखरैर्महावृक्षैः सहस्रशः ॥ ३७.१० ॥

शाखासहस्रकलितैर्महास्कन्धैः समाकुलम्।
फलैः सुवर्णसङ्काशैर्हरितैः पाण्डरैस्तथा ॥ ३७.११ ॥

अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः।
शीर्यमाणैः पतद्भिश्च कीर्णा भूमिर्निरन्तरा ॥ ३७.१२ ॥

नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम्।
गन्धर्वैः किन्नरैर्यक्षैर्महानागैश्च सेवितम् ॥ ३७.१३ ॥

सिद्धैश्चैव समाकीर्णं नित्यं बिल्वफलाशिभिः।
विविधैर्भूतसङ्घैश्च नित्यमेव निषेवितम् ॥ ३७.१४ ॥

तस्मिन् वने भगवती साक्षाच्छ्रीर्नित्यमेव हि।
देवी सन्निहिता तत्र सिद्धसङ्घैर्नमस्कृता ॥ ३७.१५ ॥

विकङ्कस्याचलेन्द्रस्य मणिशैलस्य चान्तरे।
शतयोजनविस्तीर्णं द्वियोजनशतायतम् ॥ ३७.१६ ॥

विपुलञ्चम्पकवनं सिद्धचारणसेवितम्।
पुष्पलक्ष्म्यावृतं भाति ज्वलन्तमिव नित्यदा ॥ ३७.१७ ॥

अर्द्धक्रोशोच्चशिखरैर्महास्कन्धैः पलाशिभिः ।
प्रफुल्लशाखाशिखरैः पिञ्जरं भाति तद्वनम् ॥ ३७.१८ ॥

द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तरैः ।
मनः शिलाचूर्णनिभैः पाण्डुकेसरशालिभिः ॥ ३७.१९ ॥

पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशालिभिः।
विराजते वनं सर्वं मत्तभ्रमरनादितम् ॥ ३७.२० ॥

तद्वनं दानवैर्देवगन्धर्वैर्यक्षराक्षसैः।
किन्नरैरप्सरोभिश्च महानागैश्च सेवितम् ॥ ३७.२१ ॥

तत्राश्रमं भगवतः कश्यपस्य प्रजापतेः।
सिद्धसाध्यगणा कीर्णं नानाश्रुतिविभूषितम्।
महानीलकुमुञ्जाभ्यामन्तरेप्यचलावथ ॥ ३७.२२ ॥

महानद्याः सुखायास्तु तीरे सिद्धनिषेविते।
पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम्।
रम्यं तालवनं तद्धि अर्द्धक्रोशोच्चमस्तकम् ॥ ३७.२३ ॥

महामूलैर्महासारैः स्थिरैरविरलैः शुभैः।
कुमुदाञ्जनसंस्थानैः परिवृत्तैर्महा फलैः।
मृष्टगन्धरसोपेतैरुपेतं सिद्धसेवितम् ॥ ३७.२४ ॥

माहेन्द्रस्य द्विपेन्द्रस्य तत्र वास उदाहृतः।
ऐरावतस्य भद्रस्य सर्वलोकेषु विश्रुतः ॥ ३७.२५ ॥

वेणुमन्तस्य शैलस्य सुमेधस्योत्तरेण च।
सहस्रयोजनायामं विस्तीर्णं शतयोजनम् ॥ ३७.२६ ॥

वृक्षगुल्मलतागुच्छैः सर्ववीरुद्भिरीरितम्।
दूर्वाप्रस्तारमेवाथ सर्वसत्वविवर्जितम् ॥ ३७.२७ ॥

तथा निषधशैलस्य देवशैलस्य चोत्तरे।
सहस्रयोजनायामा शतयोजनविस्तृता ॥ ३७.२८ ॥
मूलम्
तथा निषधशैलस्य देवशैलस्य चोत्तरे।
सहस्रयोजनायामा शतयोजनविस्तृता ॥ ३७.२८ ॥
विश्वास-प्रस्तुतिः
सवांह्येकशिला भूमिर्वृक्षवीरुद्विवर्जिता।
आप्लुता पादमात्रेण ह्युदकेन समन्ततः ॥ ३७.२९ ॥

इत्येता ह्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः।
मेरोः पूर्वेण विप्रेन्द्रा यथावदनुपूर्वशः ॥ ३७.३० ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥