॥सूत उवाच॥
विश्वास-प्रस्तुतिः
तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम्।
अनुबन्धानि रम्याणि सर्वकालर्त्तुकानि च ॥ ३६.१ ॥
मूलम्

सारिकाभिर्मयूरैश्च चकोरैश्च मदोत्कटैः।
शुकैश्च भृङ्गराजैश्च चित्रकैश्च समन्ततः ॥ ३६.२ ॥

जीवञ्जीवकनादैश्च हेमकानाञ्च नादितैः।
मत्तकोकिलनादैश्च वल्गूनाञ्च निनादितैः ॥ ३६.३ ॥

सुग्रीवकाञ्चनरवैः कलविङ्करुतैस्तथा।
कूजितान्तरशब्दैश्च सुरम्याणि च सर्वशः ॥ ३६.४ ॥

मदात्कटैर्मधुरैश्च भ्रमरैश्च महालसैः।
उपगीतवनान्तानि किन्नरैश्च व्कचित् व्कचित् ॥ ३६.५ ॥

पुष्पवृष्टिं विमुञ्चन्ति मन्दमारुतकम्पिताः।
तरवो यत्र दृश्यन्ते चारुपल्लवशोभिताः ॥ ३६.६ ॥

स्तबकैर्मञ्जरीभिश्च ताम्रैः किसलयैस्तथा।
मन्दवातवशाल्लोलैर्दोलयद्भिर्युतानि च ॥ ३६.७ ॥

नानाधातुविचित्रैश्च कान्तरूपैः शिलाशतैः।
शल्लैः व्कचिद्द्विजश्रेष्ठा विन्यस्तैः शोभितानि च ॥ ३६.८ ॥

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः।
सिद्धाप्सरोगणैश्चैव सेवितानि ततस्ततः ॥ ३६.९ ॥

मनोहराणि चत्वारि देवाक्रीडनकान्यथ।
चतुर्दिशमुदाराणि नाम्ना श्रृणुत तानि मे ॥ ३६.१० ॥

पूर्वञ्चैत्ररथं नाम दक्षिणं नन्दनं वनम्।
वैभ्राजं पश्चिमं विद्यादुत्तरं सवितुर्वनम् ॥ ३६.११ ॥

महावनेषु चैतेषु निविष्टानि यथाक्रमम्।
अनुबन्धानि रम्याणि विहङ्गैः कूजितानि च ॥ ३६.१२ ॥

वनैर्विस्तीर्णतीर्थानि महापुण्यावनानि च।
महानागाधिवासानि सेवितानि महात्मभिः ॥ ३६.१३ ॥

सुरसामललोयानि शिवानि सुसुखानि च।
सिद्धदेवासुरवरैरुपस्पृष्टजलानि च ॥ ३६.१४ ॥

छत्रप्रमाणैर्विकचैर्महागन्धैर्मनोहरैः।
पुण्डरीकैर्महापत्रैरुत्पलैः शोभितानि च।
महासरांसि चत्वारि तानि वक्ष्यामि नामतः ॥ ३६.१५ ॥

अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम्।
सितोदं पश्चिमसरो महाभद्रन्तथोत्तरम् ॥ ३६.१६ ॥

अरुणोदञ्च पूर्वेण ये च शैलास्ततः स्मृताः।
तान् कीर्त्यमानांस्तत्त्वेन श्रृणुध्वं विस्तरान्मम ॥ ३६.१७ ॥

शीतान्तश्च कुमुञ्जश्च सुवीरश्चाचलोत्तमः।
विकङ्को मणिशीलश्च वृषभश्चाचलोत्तमः ॥ ३६.१८ ॥

महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा।
वेणुमांश्च सुमेधश्च निषधो देवपर्वतः ॥ ३६.१९ ॥

इत्येते पर्वतवरा अन्ये च गिरयस्तथा।
पूर्वेण मन्दरस्यैते सिद्धवासा उदाहृताः ॥ ३६.२० ॥

सरसो मानसस्येह दक्षिणा ये महाचलाः।
ये कीर्तिता मया ते वै नामतस्तान्निबोधत ॥ ३६.२१ ॥

शैलस्त्रिशिखरश्चापि शिशिरश्चाचलोत्तमः।
कलिङ्गश्च पतङ्गश्च रुचकश्चैव सानुमान् ॥ ३६.२२ ॥

ताम्राभश्च विशाखश्च तथा श्वेतोदरो गिरिः।
समूलो विषधारश्च रत्नधारश्च पर्वतः ॥ ३६.२३ ॥

एकश्रृङ्गो महामूलो गजशैलः पिशाचकः।
पञ्चशैलोऽथ कैलासो हिमवंश्चाचलोत्तमः ॥ ३६.२४ ॥

इत्येते देवचरिता ह्युत्कृष्टाः पर्वतोत्तमाः।
दिग्भागो दक्षिणे प्रोक्ता मेरोरमरवर्च्चसः ॥ ३६.२५ ॥

अपरेण सितोदस्य सरसो द्विजसत्तमाः।
उत्तमा ये महाशैलास्तान् प्रवक्ष्ये यथाक्रमम् ॥ ३६.२६ ॥

सुवक्षाः शिखिशैलश्च कालो वैढूर्यपर्वतः।
कपिलः पिङ्गलो रुद्रः सुरसश्च महाचलः ॥ ३६.२७ ॥

कुमुदो मधुमांश्चैव अञ्जनीमुकुटस्तथा।
कृष्णश्च पाण्डरश्चैव सहस्रशिखरश्चह ॥ ३६.२८ ॥

पारियात्रश्च शैलेन्द्रस्त्रिश्रृङ्गश्चाचलोत्तमः।
इत्येते पर्वतवरा दिग्भागे पश्चिमे स्मृताः ॥ ३६.२९ ॥

महाभद्रस्य सरस उत्तरेणापि श्रीमतः।
ये मया पूर्वतः प्रोक्तास्तान्वदिष्ये यथाक्रमम् ॥ ३६.३० ॥

शङ्कुकूटो महाशैलो वृषभो हंसपर्वतः।
नागश्च कपिलश्चैव इन्द्रशैलश्च सानुमान् ॥ ३६.३१ ॥

नीलः कनक श्रृङ्गश्च शतश्रृङ्गश्च पर्वतः।
पुष्पको मेघशैलश्च विराजश्चाचलोत्तमः।
जारुधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ३६.३२ ॥

एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम्।
स्थल्योऽह्यन्तरद्रोण्यश्च सरांसि च निबोधत ॥ ३६.३३ ॥

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥