॥ सूत उवाच ॥
विश्वास-प्रस्तुतिः
यत्तद्वै कर्णिकामूलमिति वै सम्प्रकीर्तितम्।
तद्योजनसहस्राणां सप्ततीनामधः स्मृतम् ॥ ३५.१ ॥
मूलम्

चत्वरिंशत्तथाष्टौ च सहस्राण्यत्र मण्डलम्।
शैलराजावृतं रम्यं मेरुमूलमिति श्रुतिः ॥ ३५.२ ॥

तेषां गिरिसहस्राणामनेकेषु महोच्छ्रिताः।
दिक्षु सर्वासु पर्यन्तैर्मर्यादाः पर्वताः स्मृताः ॥ ३५.३ ॥

निकुञ्जकन्दरनदीगुहानिर्झरशोभिताः।
बहुप्रासादकटकै स्तटैश्च कुसुमोज्ज्वलैः ॥ ३५.४ ॥

नितम्बपुष्पमालौघैः सानुभिर्धातुमण्डितैः ।
शिखरैर्हेमकपिलैर्नैकप्रस्रवणावृतैः।
शोभिता गिरयः सर्वे पुष्टै रत्न समर्पितैः ॥ ३५.५ ॥

विहङ्गशतसञ्जुष्टैः कुञ्जैरनुपमैरपि।
सिहशार्दूलशरभैर्नैकैश्चामरवारणैः।
नानावर्णाकृतिधरैः सेविता विविधैर्नगैः ॥ ३५.६ ॥

सप्ताश्च हरिकृष्णाङ्गमेकैकं दशपर्वतम्।
बाह्यमाभ्यन्तरा ये तु त्रिवाहास्तु समाः स्मृताः ॥ ३५.७ ॥

जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ।
तौ दक्षिणोत्तरायामावानीलनिषधायतौ ॥ ३५.८ ॥

कैलासो हिमवांश्चैव दक्षिणोत्तरपर्वतौ।
पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ ॥ ३५.९ ॥

योऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः।
विष्कम्भं तस्य वक्ष्यामि तन्मे निगदतः श्रृणु ॥ ३५.१० ॥

महापादास्तु चत्वारो मेरोरथ चतुर्द्दिशम्।
यैर्धृतत्वान्न चलति सप्तद्वीपवती मही ॥ ३५.११ ॥

दशयोजनसाहस्र आयामस्तेषु पठ्यते।
देवगन्धर्वयक्षाणां नानारत्नोपशोभिताः।
नैकनिर्झरवप्राढ्या रम्यकन्दरनिर्मिताः ॥ ३५.१२ ॥

नितम्बपुष्पकादम्बैः शोभिताश्चित्रसानवः।
मनःशिलादरीभिश्च हरितालतलैस्तथा ॥ ३५.१३ ॥

सुवर्णमणिचित्राभिर्गुहाभिश्च समन्ततः।
शुद्धहिङ्गुलकप्रख्यैः काञ्चनैर्धातुमण्डितैः ॥ ३५.१४ ॥

वरकाञ्चनचित्रैश्च प्रवालैः समलङ्कृताः।
रुचिराः शतपर्वाणः सिद्धावासा मुदान्विताः।
महाविमानैः श्रीमद्भिः समन्तात्परिदीपिताः ॥ ३५.१५ ॥

पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः।
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥ ३५.१६ ॥

तेषां सहस्रश्रृङ्गेषु वज्रवैढूर्यवेदिकाः।
शाखासहस्रकलिताः सुमूलाः सुप्रतिष्ठिताः ॥ ३५.१७ ॥

स्रिग्धैर्नीलैर्घनैः पर्णैः सञ्झन्नविविधाश्रयाः ।
अनेकप्रजनोत्सेधा महापुष्पफलोपगाः ॥ ३५.१८ ॥

यक्षगन्धर्वसेव्याश्च सेविताः सिद्धचारणैः।
महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः ॥ ३५.१९ ॥

मन्दरस्य गिरेःश्रृङ्गे महावृक्षः स केतुराट्।
आलम्बशाखाशिखरः कन्दरश्च पादपः ॥ ३५.२० ॥

महाकुम्भप्रमाणैस्तु पुष्पैर्विकचकेसरैः।
महागन्धैर्मनोज्ञैश्च शोभितः सर्वकालजैः ॥ ३५.२१ ॥

सहस्रमधिकं सोऽथ गन्धेनापूरयद्दिशः।
योजनानां समन्ताद्वै मन्दमारुतवीजितः ॥ ३५.२२ ॥

वरकेतुरेव प्रथितो भद्राश्वो नाम यो द्विजाः।
यत्र साक्षात् हृषीकेशः सिद्धसङ्घैर्महीयते ॥ ३५.२३ ॥

तस्य रुद्रकदम्बस्य तदा श्वेतहरो हरिः ।
प्राप्तवानपरश्रेष्ठः स तत्र सहितः पुरा ॥ ३५.२४ ॥

तेन चालोकितं सर्वं द्वीपं द्विपदनायकाः।
यस्य नाम्ना समाख्यातो भद्राश्वो नाम नामतः ॥ ३५.२५ ॥

दक्षिणस्यापि शैलस्य शिखरे देवसेविता।
जम्बूः सदा पुष्पफला सदा माल्योपशोभिता ॥ ३५.२६ ॥

महामूलैर्महास्कन्धैः स्निग्धवर्णैर्विभूषिता।
नवैः सदा पुष्पफलैः शाखाभिश्चोपशोभिता ॥ ३५.२७ ॥

तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च।
फलान्यमृतकल्पानि पतन्ति गिरिमूर्द्धनि ॥ ३५.२८ ॥

तस्माद्गिरिवरप्रस्थात् पुनः प्रस्यन्दवाहिनी।
नदी जम्बूनदी नाम प्रवृत्ता मधुवाहिनी ॥ ३५.२९ ॥

तत्र जाम्बूनदन्नाम सुवर्णं ज्वलनप्रभम्।
देवालङ्कारमतुलं जायते पापनाशनम् ॥ ३५.३० ॥

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः।
यत् पिबन्त्यमृतप्रख्यं मधु जाम्भूरसस्रवम् ॥ ३५.३१ ॥

स केतुर्दक्षिणे द्वीपे जम्भूर्लोकेषु विश्रुता।
यस्या नाम्ना स विख्यातो जम्भूद्वीपः सनातनः ॥ ३५.३२ ॥

विपुलस्यापि शैलस्य पश्चिमस्य महात्मनः।
जातः श्रृङ्गेऽतिसुमहानश्वत्थ श्चैव पादपः ॥ ३५.३३ ॥

विलम्बिवरमालाद्यः सुवर्णमणिवेदिकः।
महोच्चस्कन्धविटपो नैकसत्त्वगुणालयः ॥ ३५.३४ ॥

कुम्भप्रमाणैः सुखदैः फलैः सर्वर्त्तुकैः शुभैः।
स केतुः केतुमालानां देवगन्धर्वसेवितः ॥ ३५.३५ ॥

केतुमालेति च यथा तस्या नाम प्रकीर्तितम्।
तन्निबोधत विप्रेन्द्रा निरुक्तं नाम कर्मतः ॥ ३५.३६ ॥

क्षीरोदमथने वृत्ते दैत्यपक्षे पराजिते।
महासमरसम्मर्दवृक्षक्षोभविमर्दिता ॥ ३५.३७ ॥

सहस्राक्षेण विहिता माला तस्य सुतानिता।
तस्य स्कन्धे समासक्त्या ह्यश्वत्थस्य वनस्पतेः ॥ ३५.३८ ॥

सा तथैव महागन्धा ह्यम्लाना सर्वकामिकी।
इज्यते सुमहाभागा विविधैः सिद्धचारणैः ॥ ३५.३९ ॥

तस्य केतोः सदा माला देवदत्ता विराजते।
पवनेनेरिता दिव्यं वाति गन्धं मनोरमम् ॥ ३५.४० ॥

ताभ्यां नामाङ्कितो द्वीपः पश्चिमे बहुविस्तरः।
केतुमाल इति ख्यातो दिवि चेह च सर्वशः ॥ ३५.४१ ॥

स्वपार्श्वस्योत्तरे चापि श्रृङ्गे जातो महाद्रुमः ।
न्यग्रोधो विपुलस्कन्धोऽनेकयोजनमण्डलः ॥ ३५.४२ ॥

माल्यदामकलापैश्च विविधैर्गन्धशालिभिः।
शाकाविलम्बी शुशुभे सिद्धचारणसेवितः ॥ ३५.४३ ॥

प्रवालकुम्भसदृशैर्मधुपूर्णैः फलैः सदा।
स ह्युत्तर कुरूणान्तु केतुवृक्षः प्रकाशते ॥ ३५.४४ ॥

सनत्कुमारावरजा मानसा ब्रह्मणः सुताः।
सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ३५.४५ ॥

तत्र तैरागतज्ञानैः सत्त्वस्थैः पुण्यकीर्तिभिः।
अक्षयं क्षेममपरं लोकं प्राप्तं सनातनम् ॥ ३५.४६ ॥

तेषां नामाङ्कितो द्वीपः सप्तानां वै महात्मनाम् ।
दिवि चेह च विख्याता उत्तराः कुरवः सदा ॥ ३५.४७ ॥

इति श्रीमहापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥