॥ऋषय ऊचुः ॥
विश्वास-प्रस्तुतिः
एवं प्रजासन्निवेशं श्रुत्वा च ऋषिपुङ्गवः।
पप्रच्छ निपुणः सूतं पृथिव्यायाम विस्तरौ ॥ ३४.१ ॥
मूलम्

कति द्वीपाः समुद्रा वा पर्वताश्च कति प्रभोः।
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥ ३४.२ ॥

महाभूतप्रमाणञ्च लोका लोकौ तथैव च।
पर्यायपारिमाण्यञ्च गतिश्चन्द्रार्कयोस्तथा।
एतत् प्रब्रूहि नः सर्वं विस्तरेण यथा तथा ॥ ३४.३ ॥

॥सूत उवाच॥
विश्वास-प्रस्तुतिः
अत ऊर्ध्वं प्रवक्ष्यामि पृथिव्यायामविस्तरम्।
सङ्ख्याश्चैव समुद्राणां द्वीपानाञ्चैव विस्तरम् ॥ ३४.४ ॥

यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः।
महाभूतप्रमाणञ्च लोकालोकौ तथैव च।
पर्यायपारिमाण्यञ्च गतिश्चन्द्रार्कयोस्तथा ॥ ३४.५ ॥

द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि वै।
न शक्यन्ते प्रमाणेन वक्तुं वर्षशतैरपि ॥ ३४.६ ॥

सप्तद्वीपन्तु वक्ष्यामि चन्द्रादित्यग्रहैः सह।
येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ३४.७ ॥

अचिन्त्याः खलु ये भावा न तांस्तर्केण भावयेत्।
प्रकृतिभ्यः परं यच्च तन्नित्यञ्च प्रजक्ष्यते ॥ ३४.८ ॥

नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथा तथा ।
विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ॥ ३४.९ ॥

शतमेकं सहस्राणां योजनानां प्रमाणतः।
नानाजनपदाकीर्णैः पुरैश्च विविधैः शुभैः ॥ ३४.१० ॥

सिद्धचारणगन्धर्वपर्वतैरुपशोभितम्।
सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः ।
पर्वतप्रभवाभिश्च नदीभिः पर्वतैस्तथा ॥ ३४.११ ॥

जम्बूद्वीपः पृथुः श्रीमान् सर्वतः परिवारितः।
नवभिश्चावृतः सर्वैर्भुवनैर्भूतभावनैः।
लावणेन समुद्रेण सर्वतः परिवारितः ॥ ३४.१२ ॥

जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः।

प्रागायताः सुपर्वाणः षडिमे वर्षपर्वताः।
अवगाढा उभयतः समुद्रौ पूर्वपश्विमौ ॥ ३४.१३ ॥

हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान्।
तरुणादित्यवर्णाभो हैरण्यो निषधः स्मृतः ॥ ३४.१४ ॥

चातुर्वर्णस्तु सौवर्णो मेरुश्चोच्यतमः स्मृतः।
प्लुताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ॥ ३४.१५ ॥

नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः।
नाभिवन्धनसम्भूतो ब्रह्मणोऽव्यक्तजन्मनः ॥ ३४.१६ ॥

पूर्वतः श्वेतवर्णोऽसौ ब्रह्मण्यस्तस्य तेन तत्।
पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥ ३४.१७ ॥

भृङ्गपत्रनिभश्वासौ पक्ष्विमेन महाबलः।
तेनास्य शूद्रता दृष्टा मेरोर्नानार्थकारणात् ॥ ३४.१८ ॥

पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः।
तेनास्य क्षत्रता चस्यादिति वर्णाः प्रकीर्तिताः।
व्यक्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ ३४.१९ ॥

नीलश्च वैढूर्यमयः श्वेतश्रृङ्गो हिरण्मयः।
मयूरबर्हवर्णस्तु शातकौम्भस्तु श्रृङ्गवान् ॥ ३४.२० ॥

एते पर्वतराजानः सिद्धचारणसेविताः।
तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ ३४.२१ ॥

मध्ये त्विलावृतं यस्तु महामेरोः समन्ततः।
नवैव तु सहस्राणि विस्तीर्णः पर्वतस्तु सः।
मध्ये तस्य महामेरोर्निर्धूम इव पावकः ॥ ३४.२२ ॥

वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम्।
वर्षाणि यानि सप्तात्र तेषां ये वर्षपर्वताः।
द्वे द्वे सहस्रे विस्तीर्णा योजनानि समुच्छ्रयात् ॥ ३४.२३ ॥

जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते।
योजनानां सहस्राणि शते द्वे मध्यमौ गिरी ॥ ३४.२४ ॥

नीलश्च निषधश्चैव ताभ्यां हीनास्तु येऽपरे।
श्वेतश्च हेमकूटश्च हिमवान् श्रृङ्गवांश्च यः ॥ ३४.२५ ॥

नवतिर्द्वीवशीतिर्द्वौ सहस्राण्यायतास्तु ये ।
तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥ ३४.२६ ॥

सम्पातविषमैस्तैस्तु पर्वतैरावृतानि च।
सन्ततानि नदीभेदैरगम्यानि परस्परम्।
वसन्ति तेषु सत्वानि नाना जातीनि भागशः ॥ ३४.२७ ॥

इदं हैमवतं वर्षं भारतं नाम विश्रुतम्।
हेमकूटं परं तस्मान्नाम्ना किम्पुरुषं स्मृतम् ॥ ३४.२८ ॥

नैषधं हेमकूटन्तु हरिवर्षं तदुच्यते।
हरिवर्षात्परञ्चैव मेरोश्च तदिलावृतम् ॥ ३४.२९ ॥

इलावृतपरं नीलं रम्यकं नाम विश्रुतम्।
रम्यात्परतरं श्वेतं विश्रुतन्तद्धिरण्मयम्।
हिरण्मयात्परञ्चापि श्रृङ्गवांस्तु कुरुस्मृतम् ॥ ३४.३० ॥

धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे।
दीर्घाणि तत्र चत्वारि मध्यमन्तदिलावृतम् ॥ ३४.३१ ॥

अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम्।
परं नीलवतो यच्च वेद्यर्द्धन्तु तदुत्तरम्।
वेद्यर्द्धं दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥ ३४.३२ ॥

तयोर्मध्ये तु विज्ञेयं मेरुमध्यमिलावृतम्।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ ३४.३३ ॥

उदगायतो महाशैलो माल्यवान् नाम पर्वतः।
योजनानां सहस्रोरुरानीलनिषधायतः।
आयामतश्वतुस्त्रिशत्सहस्राणि प्रकीर्तितः ॥ ३४.३४ ॥

तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः।
आयामादथ विस्तारान् माल्यवानिति विश्रुतः ॥ ३४.३५ ॥

परिमण्डलयोर्मध्ये मेरुरुत्तमपर्वतः ।
चतुर्वर्णः सुसौवर्णश्चतुरस्रः समुच्छ्रितः।
अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः ॥ ३४.३६ ॥

अव्यक्तात् पृथिवी पद्मं मेरुपर्वतकर्णिकम्।
चतुष्पथं समुत्पन्नं व्यक्तं पञ्चगुणं महत् ॥ ३४.३७ ॥

ततः सर्वाः समुत्पन्ना वृत्तयो द्विजसत्तमाः।
नैककल्पार्जितैः पुण्यौर्वे विधैः प्रागुपार्जितैः ॥ ३४.३८ ॥

कृतात्मभिर्विनीतात्मा महात्मा पुरुषोत्तमः।
महादेवो महायोगी जगज्ज्येष्ठो महेश्वरः ।
सर्वलोकगतोऽनन्तो ह्यमूर्तित्वादजायत ॥ ३४.३९ ॥

न तस्य प्राकृती मूर्त्तिर्मांसमेदोऽस्थिसम्भवा ।
योगाच्चैवेश्वरत्वाच्च सर्वात्मागत एव सः ॥ ३४.४० ॥

तन्निमित्तं समुत्पन्नं लोकपद्मं सनातनम्।
कल्पशेषस्य तस्यादौ कालस्य गतिरीदृशी ॥ ३४.४१ ॥

तस्मिन् पद्मे समुत्पन्नो देवदेवश्चतुर्मुखः।
प्रजापतिपतिर्ब्रह्मा ईशानो जगतः प्रभुः ॥ ३४.४२ ॥

तस्य बीजानि सर्गो हि पुष्करस्य यथार्थवत्।
कृत्स्नः प्रजानिसर्गेण विस्तरेणेह कथ्यते ॥ ३४.४३ ॥

यदब्जं वैष्णवं कार्यं ततस्तन्नाभितोऽभवत्।
पद्माकारा समुत्पन्ना पृथिवी सवनद्रुमा ॥ ३४.४४ ॥

तदस्य लोकपद्मस्य विस्तरेण प्रकाशितम्।
वर्णमानं विभागेन क्रमशः श्रृणुत द्विजाः ॥ ३४.४५ ॥

महाद्वीपास्तु विख्याताश्चत्वारः पत्रसंस्थिताः।
ततः कर्णिकसंस्थानो मेरुर्नाम महाबलः ॥ ३४.४६ ॥

नानावर्णेषु पार्श्वेषु पूर्वतः श्वेत उच्यते।
पीतन्तु दक्षिणं तस्य शृङ्गं कृष्णं तथापरम् ॥ ३४.४७ ॥

उत्तरं तस्य रक्तं वै शोभिवर्णसमन्वितम्।
मेरुस्तु शोभते शुभ्रो राजवत्स तु धिष्ठितः ॥ ३४.४८ ॥

तरुणादित्यवर्णाभो विधूम इव पावकः।
चतुरशीतिसाहस्र उत्सेधेन प्रकीर्त्तितः ॥ ३४.४९ ॥

प्रविष्टः षोडशाधस्ताद्विस्तृतस्तावदेव तु ।
स शरावस्थितः पूर्वं द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ ३४.५० ॥

विस्तारात् त्रिगुणश्चास्य परिणाहः समन्ततः।
मण्डलेन प्रमाणेन त्र्यस्रेऽर्द्धन्तु तदिष्यते ॥ ३४.५१ ॥

चत्वारिंशत्सहस्राणि योजनानां समन्ततः।
अष्टाभिरधिकानि स्युस्त्र्यस्रे माने प्रकीर्त्तितम् ॥ ३४.५२ ॥

चतुरस्रेण मानेन परिणाहः समन्ततः।
चतुःषष्टिसहस्राणि योजनानां विधीयते ॥ ३४.५३ ॥

स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः।
भुवनैरावृतः सर्वो जातरूपमयैः शुभैः ॥ ३४.५४ ॥

तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः ।
शैलराजैः प्रदृश्यन्ते शुभाश्चाप्सरसाङ्गणाः ॥ ३४.५५ ॥

स तुमेरुः परिवृतो भुवनैर्भूतभावनः।
चत्वारो यस्य देशा वै नानापार्श्वेष्वधिष्ठिताः ॥ ३४.५६ ॥

भद्राश्वो भरतश्चैव केतुमालश्च पश्चिमः।
उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ३४.५७ ॥

कर्णिका तस्य पद्मस्य समन्तात्परिमण्डला।
योजनानां सहस्राणि नवतिः षट् प्रकीर्त्तिताः।
चत्वारश्चाप्यशीतिश्च अन्तरान्तर धिष्ठिताः ॥ ३४.५८ ॥

त्रिशतञ्च सहस्राणि योजनानां प्रमाणतः।
तस्य केशरजालानि विस्तीर्णानि समन्ततः ॥ ३४.५९ ॥

शतसाहस्रिकायामा साशीतिपृथुलायता।
चत्वारि तस्य पत्राणि योजनानां चतुर्द्दिशम् ॥ ३४.६० ॥

तत्र यासौ मया पूर्वं कर्णिकेत्यभिशब्दिता।
तां वर्ण्यमानामेकाग्राः समासेन निबोधत ॥ ३४.६१ ॥

शताश्रिमेनं मेनेऽत्रिः सहस्राश्रिमृषिर्भृगुः।
अष्टाश्रिमेनं सावर्णिश्चतुरस्रन्तु भागुरिः ॥ ३४.६२ ॥

वार्षायणिस्तु सामुद्रं शरावञ्चैव गालवः।
ऊर्ध्ववेणीकृतं गार्ग्यः क्रोष्टकिः परिमण्डलम् ॥ ३४.६३ ॥

यद्यद्यस्य हि यत्पार्श्च पर्वताधिपतेर्ऋषिः।
तत्तदेवास्य वेदासौ ब्रह्मैनं वेद कृत्स्नशः ॥ ३४.६४ ॥

मणिरत्नमयं चित्रं नानावर्णप्रभायुतम्।
अनेकवर्णनिचयं सौवर्णमरुणप्रभम् ॥ ३४.६५ ॥

कान्तं सहस्रपर्वाणं सहस्रोदककन्दरम्।
सहस्र शतपत्रन्तं विद्धि मेरुं नगोत्तमम् ॥ ३४.६६ ॥

मणिरत्नार्पितस्तम्भैर्मणिचित्रितवेदिकैः।
सुवर्णमणिचित्राङ्गं तथा विद्रुमतोरणैः ॥ ३४.६७ ॥

विमानयानैः श्रीमद्भिः शतसङ्ख्यैर्दिवौकसाम्।
प्रभादीपितपर्यन्तं मेरुं पर्वणि पर्वणि ॥ ३४.६८ ॥

तस्य पर्वसहस्रेऽस्मिन् नानाश्रयविभूषिते।
सर्वदेव निकायानि सन्निविष्टान्यनेकशः ॥ ३४.६९ ॥

तमावसच्चोर्ध्वतले देवदेवश्चतुर्मुखः।
ब्रह्मा ब्रह्मविदां श्रेष्ठो वरिष्ठस्त्रिदिवौकसाम् ॥ ३४.७० ॥

महाभुवनसम्पूर्णैः सर्वैः कामफलप्रदैः ।
महासुरसहस्रैस्तं दिक्ष्वनेकसमाकुलम् ॥ ३४.७१ ॥

तत्र ब्रह्मसभा रम्या ब्रह्मर्षिगणसेविता ।
नाम्ना मनोवती नाम सर्वलोकेषु विश्रुता ॥ ३४.७२ ॥

तत्रेशानस्य देवस्य सहस्रादित्यवर्चसम्।
महाविमानं संस्थाप्य महिम्ना वर्तते सदा ॥ ३४.७३ ॥

तत्र सर्षिगणा देवाश्चतुर्वक्त्रस्य ते तदा।
तदेव तेजसां राशिर्देवानां तत्र कीर्त्त्यते ॥ ३४.७४ ॥

तत्रास्ते श्रीपतिः श्रीमान् सहस्राक्षः पुरन्दरः।
उपास्यमानस्त्रिदशैर्महायोगैः सुरर्षिभिः ॥ ३४.७५ ॥

तत्र लोकपतेः स्थानमादित्यसमवर्चसः।
महेन्द्रस्य महाराज्ञः सर्वसिद्धैर्नमस्कृतम् ॥ ३४.७६ ॥

तमिन्द्रलोकं लोकस्य ऋद्ध्या परमया युतम्।
दीप्यते त्वमरश्रेष्ठैस्त्रिदशैर्नित्यसेवितम् ॥ ३४.७७ ॥

द्वितीयेऽप्यन्तरतटे वैदिश्ये पूर्वदक्षिणे।
नानाधातुशतश्चित्रैः सुरम्यमतितेजसम् ॥ ३४.७८ ॥

नैकरत्नार्थिततलमनेकस्तम्भसंयुतम्।
जाम्बूनदकृतोद्यानं नानारत्नसुवेदिकम् ॥ ३४.७९ ॥

कूटागारैर्विनिक्षिप्तमनेकैर्भवनोत्तमैः ।
महाविमानं प्रथितं भास्करं जातवेदसम् ॥ ३४.८० ॥

सा हि तेजोवती नाम हुताशस्य महासभा।
साक्षात्तत्र सुरश्रेष्ठः सर्वदेवमुखोऽनलः ॥ ३४.८१ ॥

शिखाशतसहस्राढ्यो ज्वालामाली विभा वसुः।
स्तूयते हूयते चैव तत्र सर्षिगणैः सुरैः ॥ ३४.८२ ॥

अधिदैवकृतं विप्रैर्विशेषः स तु उच्यते।
स विभागञ्च तेजश्च सर्व एव न संशयः ॥ ३४.८३ ॥

भोगान्तरमनुप्राप्त एकतेजो विभुः स्मृतः।
पृथक्त्वञ्च हि युक्त्या तु कार्यकारणमिश्रितम् ॥ ३४.८४ ॥

तमग्निं लोकलोकज्ञैस्तद्वीर्यैंस्तत्परा क्रमैः ।
महात्मभिर्महासिद्धैर्महाभागैर्नमस्कृतम् ॥ ३४.८५ ॥

तृतीयेऽप्यन्तरतटे एवमेव महासभा।
वैवस्वतस्य विज्ञेया लोके ख्याता सुसंयमा ॥ ३४.८६ ॥

तथा चतुर्थदिग्देशे नैर्ऋत्याधिपतेः सभा।
नाम्ना कृष्णाङ्गना नाम विरूपाक्षस्य धीमतः ॥ ३४.८७ ॥

पञ्चमेऽप्यन्तरतटे एवमेव महासभा।
वैवस्वतस्य विज्ञेया नाम्ना शुभवती सती।
उदकाधिपतेः ख्याता वरुणस्य महात्मनः ॥ ३४.८८ ॥

परोत्तरे तथा देशे षष्ठेऽन्तरतटे शिवे।
वायोर्गन्धवती नाम सभा सर्वगुणोत्तरा ॥ ३४.८९ ॥

सप्त मेऽप्यन्तरतटे नक्षत्राधिपतेः सभा।
नाम्ना महोदया नाम शुद्धवैढूर्यवेदिका ॥ ३४.९० ॥

तथाष्टमेऽन्तरतटे ईशानस्य महात्मनः