॥सूत उवाच॥
विश्वास-प्रस्तुतिः
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह।
तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः ॥ ३३.१ ॥
मूलम्

देवाश्च विविधा ये च तस्मिन् मन्वन्तरेऽधिपाः।
ऋषयो मानवाश्चैव सर्वे तुल्याभिमानिनः ॥ ३३.२ ॥

महर्षिसर्गः प्रोक्तो वै वंशं स्वायम्भुवस्य तु।
विस्तरेणानुपूर्व्या च कीर्त्त्यमानं निबोधत ॥ ३३.३ ॥

मनोः स्वायम्भुवस्यासन् दश पौत्रास्तु तत्समाः.
यैरियं पृथिवी सर्वा सप्तद्वीपसमन्विता ॥ ३३.४ ॥
विश्वास-प्रस्तुतिः
ससमुद्राकरवती प्रतिवर्षन्निवेशिता।
स्वायम्भुवेऽन्तरे पूर्वमाद्ये त्रेतायुगे तदा ॥ ३३.५ ॥

प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य तु।
प्रजासर्गतपोयोगैस्तैरियं विनिवेशिता ॥ ३३.६ ॥

प्रियव्रतात् प्रजावन्तः वीरात् कन्या व्यजायत।
कन्या सा तु महाभागा कर्द्दमस्य प्रजापतेः ॥ ३३.७ ॥

कन्ये द्वे शतपुत्रांश्च सम्राट् कुक्षिश्च ते उभे।
तर्योर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥ ३३.८ ॥

अग्नीध्रश्चवपुष्मांश्च मेधा मेधातिथिर्विभुः।
ज्योतिष्मान् द्युतिमान् हव्यः सवनः सर्व एव च ॥ ३३.९ ॥

प्रियव्रतोऽभिषिच्यैतान् सप्त सप्तसु पार्थिवान्।
द्वीपेषु तेषु धर्मेण द्वीपांस्तांश्च निबोधत ॥ ३३.१० ॥

जम्बूद्वीपेश्वरं चक्रे अग्नीध्रन्तु महाबलम्।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ ३३.११ ॥

शाल्मलौ तु वपुष्मन्तं राजानमभिषिक्तवान्।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः ॥ ३३.१२ ॥

द्युतिमन्तञ्च राजानं क्रौज्चद्वीपे समादिशत्।
शाकद्वीपेश्वरञ्चापि हव्यञ्चक्रे प्रियव्रतः ॥ ३३.१३ ॥

पुष्कराधिपतिञ्चापि सवनं कृतवान् प्रभुः।
पुष्करे सवनस्यापि महावीतः सुतोऽभवत्।
धातकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरो ॥ ३३.१४ ॥

महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः।
नाम्ना तु धातकेश्चापि धातकीखण्ड उच्यते ॥ ३३.१५ ॥

हव्यो व्यजनयत् पुत्रान् शाकद्वीपेश्वरान् प्रभुः।
जलदञ्च कुमारञ्च सुकुमारं मणीचकम्।
वसुमोदं सुमोदाकं सप्तमञ्च महाद्रुमम् ॥ ३३.१६ ॥

जलदं जलदस्याथ वर्षं प्रथममुच्यते।
कुमारस्य च कौमारं द्वितीयं परिकीर्तितम् ॥ ३३.१७ ॥

सुकुमारं तृतीयन्तु सुकुमारस्य कीर्तितम्।
मणीचकस्य चतुर्थं मणीचकमिहोच्यते ॥ ३३.१८ ॥

वसुमोदस्य वै वर्षं पञ्चमं वसुमोदकम्।
मोदाकस्य तु मोदाकं वर्षं षष्ठं प्रकीर्तितम् ॥ ३३.१९ ॥

महाद्रुमस्य नाम्ना तु सप्तमन्तु महाद्रुमम्।
एषान्तु मानभिस्तानि सप्तवर्षाणि तत्र वै ॥ ३३.२० ॥

क्रौञ्चद्वीपेश्वरस्यापि पुत्रा द्युतिमतस्तु वै।
कुशलो मनुगश्चोष्णः पीवरश्चान्धकारकः।
मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै ॥ ३३.२१ ॥

तेषां स्वनामभिर्द्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः।
उष्णस्योष्णः स्मृतो देशः पीवरस्यापि पीवरः ॥ ३३.२२ ॥

अन्धकारकदेशस्तु अन्धकारश्च कीर्त्त्यते।
मुनेस्तु मुनिदेशो वै दुन्दुभेर्दुन्दुभिः स्मृतः।
एते जनपदाः सप्त क्रौञ्चद्वीपे तु भास्वराः ॥ ३३.२३ ॥

ज्योतिष्मतः कुशद्वीपे सप्तैते सुमहौजसः।
उद्भिदो वेणुमांश्चैव स्वैरथो लवणो धृतिः।
षष्ठः प्रभाकरश्चैव सप्तमः कपिलः स्मृतः ॥ ३३.२४ ॥

उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्।
तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम् ॥ ३३.२५ ॥

पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम्।
सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितम् ॥ ३३.२६ ॥

तेषां द्वीपाः कुशद्वीपे तत्सनामान एव तु।
आश्रमाचारयुक्ताभिः प्रजाभिः समलङ्कृताः ॥ ३३.२७ ॥

शाल्मलस्येश्वराः सप्त पुत्रास्ते तु वपुष्मतः।
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा।
वैद्युतो मानसश्चैव सुप्रभः सप्तमस्तथा ॥ ३३.२८ ॥

श्वेतस्य श्वेतदेशस्तु रोहितस्य च रोहितः।
जीमूतस्य च जीमूतो हरितस्य च हारितः ॥ ३३.२९ ॥

वैद्युतो वैद्युतस्यापि मानसस्यापि मानसः।
सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः ॥ ३३.३० ॥

सप्तद्वीपे तु वक्ष्यामि जम्बूद्वीपादनन्तरम्।
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरा नृपाः ॥ ३३.३१ ॥

ज्येष्ठः शान्तभयस्तेषां सप्तवर्षाणि तानि वै।
तस्माच्छान्तभयाच्चैव शिशिरस्तु सुखोदयः।
आनन्दश्च ध्रुवश्चैव क्षेमकश्च शिवस्तथा ॥ ३३.३२ ॥

तानि तेषां सनामानि सप्तवर्षाणि भागशः।
निवेशितानि तैस्तानि पूर्वे स्वायम्भुवेऽन्तरे ॥ ३३.३३ ॥

मेधातिथेस्तु पुत्रैस्तैः सप्तद्वीपनिवासिभिः।
वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाः कृताः ॥ ३३.३४ ॥

प्लक्षद्वीपादिकेष्वेव शाकद्वीपान्तरेषु वै।
ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभागशः ॥ ३३.३५ ॥

सुखमायुश्च रूपञ्च बलं धर्मश्च नित्यशः।
पञ्चस्वेतेषु द्वीपेषु सर्वं साधारणं स्मृतम् ॥ ३३.३६ ॥

सप्तद्वीपपरिक्रान्तं जम्बूद्वीपं निबोधत।
आग्नीध्रं ज्येष्ठदायादं कन्यापुत्रं महाबलम्।
प्रियव्रतोऽभ्यषिञ्चत्तं जम्बूद्वीपेश्वरं नृपम् ॥ ३३.३७ ॥

तस्य पुत्रा बभूवुर्हि प्रजापतिसमौजसः।
ज्येष्ठो नाभि रिति ख्यातस्तस्य किम्पुरुषोऽनुजः ॥ ३३.३८ ॥

हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः।
रम्यः स्यात्पञ्चमः पुत्रो हरिन्मान् षष्ठ उच्यते ॥ ३३.३९ ॥

कुरुस्तु सप्तमस्तेषां भद्राश्वो ह्यष्टमः स्मृतः।
नवमः केतुमालस्तु तेषां देशान्निबोधत ॥ ३३.४० ॥

नाभेस्तु दक्षिणं वर्षं हिमाद्वन्तु पिता ददौ ।
हेम कूटं तु यद्वर्षं ददौ किम्पुरुषाय तत् ॥ ३३.४१ ॥

नैषधं यत् स्मृतं वर्षं हरिवर्षाय तद्ददौ।
मध्यमं यत्सुमेरोस्तु स ददौ तदिलावृते ॥ ३३.४२ ॥

नीलन्तु यत् स्मृतं वर्षं रम्यायैतत् पिता ददौ ।
श्वेतं यदुत्तरं तस्मात् पित्रा दत्तं हरिन्मते ॥ ३३.४३ ॥

यदुत्तरं श्रृङ्गवतो वर्ष तत् कुरवे ददौ ।
वर्षं माल्यवत श्चापि भद्राश्वाय न्यवेदयत् ॥ ३३.४४ ॥

गन्धमादनवर्षन्तु केतुमाले न्यवेदयत्।
इत्येतानि महान्तीह नववर्षाणि भागशः ॥ ३३.४५ ॥

आग्नीध्रस्तेषु सर्वेषु पुत्रांस्तानभ्यषिञ्चत।
यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ॥ ३३.४६ ॥

इत्येतैः सप्भिः कृत्स्नाः सप्तद्वीपा निवेशिताः ।
प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य तु ॥ ३३.४७ ॥

यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ शुभानि तु।
तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ॥ ३३.४८ ॥

विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ।
न तेष्वस्ति युगावस्था क्षेत्रेष्वेव तु सर्वशः ॥ ३३.४९ ॥

नाभेर्हि सर्गं वक्ष्यामि हिमाह्वे तन्निबोधत।
नाभिस्त्वजनयत् पुत्रं मेऱुदेव्यां महाद्युतिः।
ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ॥ ३३.५० ॥

ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः।
सोऽभिषिच्याथ भरतः पुत्रं प्राव्राज्यमास्थितः ॥ ३३.५१ ॥

हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत्।
तस्मात्तद्भारतं वर्षं तस्य नाम्ना विदुर्बुधाः ॥ ३३.५२ ॥

भरतस्यात्मजो विद्वान् सुमतिर्नाम धार्मिकः।
बभूव तस्मिंस्तद्राज्यं भरतः सन्न्ययोजयत्।
पुत्र सङ्क्रामितश्रीको वनं राजा विवेश सः ॥ ३३.५३ ॥

तेजसस्तु सुतश्चापि प्रजापतिरमित्रजित्।
तैजसस्यात्मजो विद्वानिन्द्रद्युम्न इति श्रुतः ॥ ३३.५४ ॥

परमेष्ठी सुतश्चाथ निधने तस्य शोभनः ।
प्रतीहारकुले तस्य नाम्ना जज्ञे तदन्वयात्।
प्रतिहर्त्तेति विख्यातो जज्ञे तस्यापि धीमतः ॥ ३३.५५ ॥

उन्नेता प्रतिहर्त्तुस्तु भुवस्तस्य सुतः स्मृतः ।
उद्गीथस्तस्य पुत्रोऽभूत्प्रताविश्चापि तत्सुतः ॥ ३३.५६ ॥

प्रतावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो मतः ।
पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥ ३३.५७ ॥

गयस्य तु नरः पुत्रो नरस्यापि सुतो विराट्।
विराट्सुतो महावीर्यो दीमांस्तस्य सुतोऽभवत् ॥ ३३.५८ ॥

धीमतश्च महान् पुत्रो महतश्चापि भौवनः।
भौवनस्य सुतस्त्वष्टा अरिजस्तस्य चात्मजः ॥ ३३.५९ ॥

अरिजस्य रजः पुत्रः शतजिद्रजसो मतः।
तस्य पुत्रशतं त्वासीद्राजानः सर्व एव ते ॥ ३३.६० ॥

विश्वज्योतिः प्रधानायैस्तैरिमा वर्द्धिताः प्रजाः।
तैरिदं भारतं वर्षं सप्तखण्डं कृतं पुरा ॥ ३३.६१ ॥

तेषां वंशप्रकूतैस्तु भुक्तेयं भारती धरा।
कृतत्रेतादियुक्तानि युगाख्यान्येकसप्ततिः ॥ ३३.६२ ॥

येऽतीतास्तैर्युगैः सार्द्धं राजानस्ते तदन्वयाः।
स्वायम्भुवेऽन्तरे पूर्वं शतशोऽथ सहस्रशः ॥ ३३.६३ ॥

एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत्।
ऋषिभिर्दैवतैश्चापि पितृगन्धर्वराक्षसैः ॥ ३३.६४ ॥

यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः ।
तैषां सृष्टिरियं लोके युगैः सह विवर्त्तते ॥ ३३.६५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते स्वायम्भुव वंशानुकीर्त्तनं नाम त्रयस्त्रिशोऽध्यायः ॥ ३३ ॥।