॥वायु रुवाच॥
विश्वास-प्रस्तुतिः
अत ऊर्ध्वं प्रवक्ष्यामि प्रणवस्य विनिश्वयम्।
ओङ्कारमक्षरं ब्रह्म त्रिवर्णञ्चादितः स्मृतम् ॥ ३२.१ ॥
मूलम्

यो यो यस्य यथा वर्णो विहितो देवतास्तथा।
ऋचो यजूंषि सामानि वायुरग्निस्तथा जलम् ॥ ३२.२ ॥

तस्मात्तु अक्षरादेव पुनरन्ये प्रजज्ञिरे।
चतुर्द्दश महात्मानो देवानां ये तु दैवताः ॥ ३२.३ ॥

तेषु सर्वगतश्चैव सर्वगः सर्वयोगवित् ।
अनुग्रहाय लोकानामादिमध्यान्त उच्यते ॥ ३२.४ ॥

सप्तर्षयस्तथेन्द्रा ये देवाश्च पितृभिः सह।
अक्षरान्निः सृताः सर्वे देवदेवान्महेश्वरात् ॥ ३२.५ ॥

इहामुत्र हितार्थाय वदन्ति परमं पदम्।
पूर्वमेव मयोक्तस्ते कालस्तु युगसञ्ज्ञितः ॥ ३२.६ ॥

कृतं त्रेता द्वापरञ्च युगादिः कलिना सह।
परिवर्त्तमानैस्तैरेव भ्रममाणेषु चक्रवत् ॥ ३२.७ ॥

देवतास्तु तदोद्विग्नाः कालस्य वशमागताः.
न शक्नुवन्ति तन्मानं संस्स्थापयितुमात्मना ॥ ३२.८ ॥
विश्वास-प्रस्तुतिः
तदा ते वाग्यता भूत्वा आदौ मन्वन्तरस्य वै।
ऋषयश्चैव देवाश्च इन्द्रश्चैव महातपाः ॥ ३२.९ ॥

समाधाय मनस्तीव्रं सहस्रं परिवत्सरान्।
प्रपन्नास्ते महादेवं भीताः कालस्य वै तदा ॥ ३२.१० ॥

अयं हि कालो देवेशश्चतुर्मूर्तिश्चतुर्मुखः ।
कोऽस्य विद्यान्महादेव अगाधस्य महेश्वर ॥ ३२.११ ॥

अथ दृष्ट्वा महादेवस्तं तु कालञ्चतुर्मुखम्।
न भेतव्यमिति प्राह को वः कामः प्रदीयताम् ॥ ३२.१२ ॥

तत्करिष्याम्यहं सर्वं न वृथायं परिश्रमः ।
उवाच देवो भगवान् स्वयङ्कालः सुदुर्जयः ॥ ३२.१३ ॥

यदेतस्य मुखं श्वेतं चतुर्जिह्वं हि लक्ष्यते।
एतत् कृतयुगं नाम तस्य कालस्य वै मुखम्।
असौ देवः सुरश्रेष्ठो ब्रह्मा वैवस्वतो मुखः ॥ ३२.१४ ॥

यदेतद्रक्तवर्णाभं तृतीयं वः स्मृतं मया ।
त्रिजिह्वं लेलिहानं तु एतत् त्रेतायुगं द्विजाः ॥ ३२.१५ ॥

अत्र यज्ञप्रवृत्तिस्तु जायते हि महेश्वरात्।
ततोऽत्र इज्यते यज्ञस्तिस्रो जिह्वास्त्रयोऽग्नयः ।
इष्ट्वा चैवाग्नयो विप्राः कालजिह्वा प्रवर्त्तते ॥ ३२.१६ ॥

यदेतद्वै मुखं भीमं द्विजिह्वं रक्तपिङ्गलम्।
द्विपादोऽत्र भविष्यामि द्वापरं नाम तद्युगम् ॥ ३२.१७ ॥

यदेतत् कृष्णवर्णाभं तुरीयं रक्तलोचनम्।
एकजिह्वं पृथुश्यामं लेलिहानं पुनः पुनः ॥ ३२.१८ ॥

ततः कलियुगं घोरं सर्वलोकभयङ्करम्।
कल्पस्य तु मुखं ह्येतच्चतुर्थं नाम भीषणम् ॥ ३२.१९ ॥

न मुखं नापि निर्वाणं तस्मिन् भवति वै युगे।
कालग्रस्ता प्रजा चापि युगे तस्मिन् भविष्यति ॥ ३२.२० ॥

ब्रह्मा कृतयुगे पूज्यस्त्रेतायां यज्ञ इच्यते।
द्वापरे पूज्यते विष्णुरहम्पूज्यश्चतुर्ष्वपि ॥ ३२.२१ ॥

ब्रह्मा विष्णुश्च यज्ञश्च कालस्यैव कलास्त्रयः।
सर्वेष्वेव हि कालेषु चतुर्मूर्तिर्महेश्वरः ॥ ३२.२२ ॥

अहं जनो जनयिता (वः) कालः कालप्रवर्त्तकः।
युगकर्ता तथा चैव परं परपरायणः ॥ ३२.२३ ॥

तस्मात् कलियुगं प्राप्य लोकानां हितकारणात्।
अभयार्थञ्च देवानामुभयोर्लोकयोरपि ॥ ३२.२४ ॥

तदा भव्यश्च पूज्यश्च भविष्यामि सुरोत्तमाः।
तस्माद्भयं न कार्यं च कलिं प्राप्य महौजसः ॥ ३२.२५ ॥

एवमुक्ता स्ततः सर्वा देवता ऋषिभिः सह।
प्रणम्य शिरसा देवं पुनरूचुर्जगत्पतिम् ॥ ३२.२६ ॥

॥देवर्षय ऊचुः॥
विश्वास-प्रस्तुतिः
महातेजा महाकायो महावीर्यो महाद्युतिः।
भीषणः सर्वभूतानां कथं कालश्चतुर्मुखः ॥ ३२.२७ ॥

॥महादेव उवाच॥
विश्वास-प्रस्तुतिः
एष कालश्चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्मुखः।
लोकसंरक्षणार्थाय अतिक्रामति सर्वशः ॥ ३२.२८ ॥

नासाध्यं विद्यते चास्य सर्वस्मिन् सचराचरे।
कालः सृजति भूतानि पुनःसंहरति क्रमात् ॥ ३२.२९ ॥

सर्वे कालस्य वशगा न कालः कस्यचिद्वशे।
तस्मात्तु सर्वभूतानि कालः कलयते सदा ॥ ३२.३० ॥

विक्रमस्य पदान्यस्य पूर्वोक्तान्येकसप्ततिः।
तानि मन्वन्तराणीह परिवृत्तयुगक्रमात् ॥ ३२.३१ ॥

एकं पदं परिक्रम्य पदानामेकसप्ततिः।
यदा कालः प्रक्रमते तदा मन्वन्तरक्षयः ॥ ३२.३२ ॥

एवमुक्त्वा तु भगवान् देवर्षिपितृदानवान्।
नमस्कृतश्च तैः सर्वैस्तत्रैवान्तरधीयत ॥ ३२.३३ ॥

एवं स काले भगवान् देवर्षिपितृदानवान्।
पुनः पुनः संहरते सृजते च पुनः पुनः ॥ ३२.३४ ॥

अतो मन्वन्तरे चैव देवर्षिपितृदानवैः।
पूज्यते भगवानीशो भयात् कालस्य तस्य वै ॥ ३२.३५ ॥

तस्मात् सर्वप्रयत्नेन कलौ कुर्यात्तपो द्विजः।
प्रपन्नस्य महादेवं तस्य पुण्यफलं महत्।
तस्माद्देवा दिवं गत्वा अवतीर्य च भूतले ॥ ३२.३६ ॥

ऋषयश्चैव देवाश्च कलिम्प्राप्य सुदारुणम्।
तप इच्छन्ति भूयिष्ठं कर्त्तुं धर्मपरायणाः।
अवतारान् कलिं प्राप्य करोति च पुनः पुनः ॥ ३२.३७ ॥

एवं कालान्तरे सर्वे येऽतीता वै सहस्रशः।
वैवस्वतेऽन्तरे तस्मिन् देवराजर्षयस्तथा ॥ ३२.३८ ॥

देवापिः पोरवो राजा मनुश्वेक्ष्वाकुवंशजाः।
महायोगबलोपेताः कालान्तरमुपासते ॥३२.३९ ॥

क्षीणे कलियुगे तस्मिस्तिष्ये त्रेतायुगे कृते।
सप्तर्षिभिश्चैव सार्द्धं भाव्ये त्रेतायुगे पुनः
विश्वास-प्रस्तुतिः
गोत्राणां क्षत्रियाणाञ्च भविष्यास्ते प्रकीर्तिताः ॥ ३२.४०।
द्वापरान्ते प्रतिष्ठन्ते क्षत्रिया ऋषिभिः सह।
कृते त्रेतायुगे चैव तथा क्षीणे च द्वापरे।
नराः पातकिनो ये वै वर्त्तन्ते ते कलौ स्मृताः ॥ ३२.४१ ॥

मन्वन्तराणां सप्तानां सान्तानार्था श्रुतिः स्मृतिः।
एवमेतेषु सर्वेषु युगक्षयक्रमस्तथा ॥ ३२.४२ ॥

परस्परं युगानाञ्च ब्रह्मक्षत्रस्य चोद्भवः।
यथा वै प्रकृतिस्तेभ्यः प्रवृत्तानां यथा क्षयम् ॥ ३२.४३ ॥

जामदग्न्येन रामेण क्षत्रे निरवशोषिते।
क्रियन्ते कुलटाः सर्वाः क्षत्रियैर्वसुधाधिपैः।
दिवं गतानहं तुभ्यं कीर्त्तयिष्ये निबोधत ॥ ३२.४४ ॥

ऐडमिक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते।
राजानः श्रेणिबन्धास्तु तक्षान्ये क्षत्रिया भुवि ॥ ३२.४५ ॥

ऐडवंशेऽथ सम्भूता यथा चेक्ष्वाकवो नृपाः।
तेभ्य एव शतं पूर्णं कुलानामभिषेचितम् ॥ ३२.४६ ॥

तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः ।
भोजन्तु त्रिशतं क्षत्रं चतुर्द्धा तद्यथादिशम् ॥ ३२.४७ ॥

तेष्वतीतास्तु राजानो ब्रुवतस्तान्निबोधत।
शतं वै प्रतिविन्ध्यानां हैहयानां तथा शतम् ॥ ३२.४८ ॥

धार्त्तराष्ट्रास्त्वेकशतं अशीतिर्जनमेजयाः।
शतं वै ब्रह्मदत्तानां कुलानां वीर्यिणां शतम् ॥ ३२.४९ ॥

ततः शतन्तु पौलानां शतं काशिकुशादयः ।
तथापरं सहस्रन्तु येऽतीताः शशबिन्दवः।
इजानास्तेऽश्वमेधैस्तु सर्वे नियुतदक्षिणैः ॥ ३२.५०।
एवं सङ्क्षेपतः प्रोक्ता न शक्या विस्तरेण तु।
वक्तुं राजर्षयः कृत्स्ना येऽतीतास्तैर्युकैःसह ॥ ३२.५१ ॥

एते ययातिवंशस्य बभूवुर्वंशवर्द्धनाः।
कीर्तिता द्युतिमन्तस्ते ये लोकान् धारयन्ति वै ॥ ३२.५२ ॥

लभन्ते च वरान् पञ्च दुर्लभान् ब्रह्मलौकिकान् ।
आयुः पुत्रा धनं कीर्तिरैश्वर्यं भूतिरेव च ॥ ३२.५३ ॥

धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य धीमताम्।
तथोक्ता लौकिकाश्चैव ब्रह्मलोकं व्रजन्ति वै ॥ ३२.५४ ॥

चत्वार्याहुः सहस्राणि वर्षाणां च कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ ३२.५५ ॥

कृते वै प्रक्रियापादश्चतुःसाहस्र उच्यते।
तस्माच्चतुःशतं सन्ध्या सन्ध्यांशश्च यथाविधः ॥ ३२.५६ ॥

त्रेतादीनि सहस्राणि सङ्ख्यया मुनिभिः सह।
तस्यापि त्रिशती सन्ध्या सन्ध्यांशस्त्रिशतः स्मृतः ॥ ३२.५७ ॥

अनुषङ्गपादस्त्रेतायास्त्रिसाहस्रस्तु सङ्ख्यया।
द्वापरे द्वे सहस्रे तु वर्षाणां सम्प्रकीर्तितम् ॥ ३२.५८ ॥

तस्यापि द्विशती सन्ध्या सन्ध्यांशो द्विशतस्तथा।
उपोद्वातस्तृतीयस्तु द्वापरे पाद उच्यते ॥ ३२.५९ ॥

कलिं वर्षसहस्रन्तु प्राहुः सङ्ख्याविदो जनाः।
तस्यापि शतिका सन्ध्या सन्ध्यांशः शतमेव च ॥ ३२.६० ॥

संहारपादः सङ्ख्यातश्वतुर्थो वै कलौ युगे।
ससन्ध्यानि सहांशानि चत्वारि तु युगानि वै ॥ ३२.६१ ॥

एतद् द्वादशसाहस्रं चतुर्युगमिति स्मृतम्।
एवं पादैः सहस्राणि श्लोकानां पञ्च पञ्च च ॥ ३२.६२ ॥

सन्ध्यासन्ध्यांशकैरेव द्वे सहस्रे तथाऽपरे।
एवं द्वादशसाहस्रं पुराणं कवयो विदुः ॥ ३२.६३ ॥

यथा वेदश्चतुष्पादश्चतुष्पादं तथा युगम्।
यथा युगं चतुष्पादं विधात्रा विहितं स्वयम्।
छचतुष्पादं सुराणान्तु ब्रह्मणा विहितं पुरा ॥ ३२.६४ ॥

इति श्रीमहापुराणे वायुप्रोक्ते युगधर्मनिरूपणं नाम द्वात्रिंशो ऽध्यायः ॥ ३२ ॥