०३१

॥सूत उवाच ॥

विश्वास-प्रस्तुतिः

इत्येषा समनुज्ञाता कथा पापप्रणाशिनी।
या दक्षमधिकृत्येह कथा शर्वादुपागता ॥ ३१.१ ॥

मूलम्

पितृवंशप्रसङ्गेन कथा ह्येषा प्रकीर्तिता।
पितॄणामानुपूर्व्येण देवान् वक्ष्याम्यतः परम् ॥ ३१.२ ॥

त्रेतायुगमुखे पूर्वमासन् स्वायम्भुवेऽन्तरे ।
देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः ॥ ३१.३ ॥

अजिता ब्रह्मणः पुत्रा जिता जिदजिताश्च ये।
पुत्राः स्वायम्भुवस्यैते शुक्रनाम्ना मानसाः ॥ ३१.४ ॥

तृप्तिमन्तो गणा ह्येते देवानान्तु त्रयः स्मृताः ।
छन्दोगास्तु त्रयस्त्रिंशत्सर्वे स्वायम्भुवस्य ह ॥ ३१.५ ॥

यदुर्ययातिर्द्वौ देवौ दीधयः स्रवसो मतिः।
विभासश्च क्रतुश्चैव प्रजातिर्विशतो द्युतिः ॥ ३१.६ ॥

वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः।
अभिमन्युरुग्रदृष्टिः समयोऽथ शुचिश्रवाः।
केवलो विश्वरूपश्च सुपक्षो मधुपस्तथा ॥ ३१.७ ॥

तुरीयो निर्हपुश्चैव युक्तो ग्रावाजिनस्तु ते।
यमिनो विश्वदेवाद्यं यविष्ठोऽमृतवानपि ॥ ३१.८ ॥

अजिरो विभुर्विभावश्च मृलिकोऽथ दिदेहकः।
श्रुतिश्रृणो बृहच्छुक्रो देवा द्वादश कीर्तिताः ॥ ३१.९ ॥

आसन् स्वायम्भुवस्यैते अन्तरे सोमपायिनः।
त्विषिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः ॥ ३१.१० ॥

तेषामिन्द्रः सदा ह्यासीद्विश्वभुक् प्रथमो विभुः।
असुरा येतदा तेषामासन् दायादबान्धवाः ॥ ३१.११ ॥

सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः।
अष्टौ ते पितृभिः सार्द्धं नासत्या देवयोनयः ॥ ३१.१२ ॥

स्वायम्भुवेऽन्तरेऽतीताः प्रजास्त्वासां सहस्रशः।
प्रभावरूपसम्पन्ना आयुषा च बलेन च ॥ ३१.१३ ॥

विस्तरादिह नोच्यन्ते मा प्रसङ्गो भवत्विह।
स्वायम्भुवो निसर्गश्च विज्ञेयः साम्प्रतं मनुः ॥ ३१.१४ ॥

अतीते वर्त्तमानेन दृष्टो वैवस्वतेन सः।
प्रजाभिर्देवताभिश्च ऋषिभिः पितृभिः सह ॥ ३१.१५ ॥

तेषां सप्तर्षयः पूर्वमासन्ये तान् निबोधत।
भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ॥ ३१.१६ ॥

अत्रिश्चैव वसिष्ठश्च सप्त स्वायम्भुवेऽन्तरे।
अग्नीध्रश्चातिबाहुश्च मेधा मेधातिथिर्वसुः ॥ ३१.१७ ॥

ज्योतिष्मान् द्युतिमान् हव्यः सवनः पुत्र एव च ॥ मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥ ३१.१८ ॥
विश्वास-प्रस्तुतिः

वायुप्रोक्ता महासत्त्वा राजानः प्रथमेऽन्तरे।
सासुरन्तत्सगन्धर्वं सयक्षोरगराक्षसम्।
सपिशाचमनुष्यञ्च सुपर्णाप्सरसाङ्गणम् ॥ ३१.१९ ॥

नो शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि।
बहुत्वान्नामधेयानां सङ्ख्या तेषां कुले तथा ॥ ३१.२० ॥

या वै व्रजकुलाख्यास्तु आसन् स्वायम्बुवेऽन्तरे।
कालेन बहुनातीता अयनाब्दयुगक्रमैः ॥ ३१.२१ ॥

॥ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः

क एष भगवान् कालः सर्वभूतापहारकः।
कस्य योनिः किमादिश्च किन्तत्त्वं स किमात्मजः ॥ ३१.२२ ॥

किमस्य चक्षुः का मूर्तिः के चास्यावयवाः स्मृताः।
किन्नामधेयः कोऽस्यात्मा एतत् प्रब्रूहि पृच्छताम् ॥ ३१.२३ ॥

॥सूत उवाच॥
विश्वास-प्रस्तुतिः

श्रूयतां कालसद्भावः श्रुत्वा चैवावधार्यताम्।
सूर्ययोनिर्निमेषादिः सङ्ख्याचक्षुः स उच्यते ॥ ३१.२४ ॥

मूर्त्तिरस्य त्वहोरात्रे निमेषावयवश्च सः।
संवत्सरशतं त्वस्य नाम चास्य कलात्मकम्।
साम्प्रतानागतातीतकालात्मा स प्रजापतिः ॥ ३१.२५ ॥

पञ्चानां प्रविभक्तानां कालावस्थां निभोधत।
दिनार्द्धमासमासैस्तु ऋतुभिस्त्वयनैस्तथा ॥ ३१.२६ ॥

संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः।
इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ॥ ३१.२७ ॥

वत्सरः पञ्चमस्तेषां कालः स युगसञ्ज्ञितः।
तेषान्तु तत्त्वं वक्ष्यामि कीर्त्त्यमानं निबोधत ॥ ३१.२८ ॥

ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः।
आदित्ये यस्त्वसौ सारः कालाग्निः परिवत्सरः ॥ ३१.२९ ॥

शुक्लकृष्णा गतिश्चापि अपां सारमयः खगः।
स इडावत्सरः सोमः पुराणे निश्चयो मतः ॥ ३१.३० ॥

यश्चायं तपते लोकांस्तनुभिः सप्तसप्तभिः।
आशुकर्त्ता च लोकस्य सवायुरिति वत्सरः ॥ ३१.३१ ॥

अहङ्कारात् रुदन् रुद्रः सद्भूतो ब्रह्मणस्त्रयः।
स रुद्रो वत्सरस्तेषां विजज्ञे नीललोहितः।
तेषां हि तत्त्वं वक्ष्यामि कीर्त्यमानं निबोधत ॥ ३१.३२ ॥

अङ्गप्रत्यङ्गसंयोगात् कालात्मा प्रपितामहः।
ऋक्साम यजुषां योनिः पञ्चानां पतिरीश्वरः ॥ ३१.३३ ॥

सोऽग्निर्यजुश्च सोमश्च स भूतः स प्रजापतिः।
प्रोक्तः संवत्सरश्चेति सूर्यो योऽग्निर्मनीषिभिः ॥ ३१.३४ ॥

यस्मात् कालविभागानां मासर्त्वयनयोरपि।
ग्रहनक्षत्रशीतोष्णवर्षायुःकर्मणां तथा।
योजितः प्रविभागानां दिवसानाञ्च भास्करः ॥ ३१.३५ ॥

वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः।
एकेनैकोऽथ दिवसो मासोऽथर्तुः पितामहः ॥ ३१.३६ ॥

आदित्यः सविता भानुर्जीवनो ब्रह्मसत्कृतः।
प्रभवश्चात्य यश्चैव भूतानां तेन भास्करः ॥ ३१.३७ ॥

ताराभिमानी विज्ञेयस्तृतीयः परिवत्सरः।
सोमः सर्वौषधिपतिर्यस्मात्स प्रपितामहः ॥ ३१.३८ ॥

आजीवः सर्वभूतानां योगक्षेमकृदीश्वरः।
अवेक्षणाणः सततं बिभर्ति जगदंशुभिः ॥ ३१.३९ ॥

तिथीनां पर्वसन्धीनां पूर्णिमादर्शयोरपि।
योनिर्निशाकरो यश्च योऽमृतात्मा प्रजापतिः ॥ ३१.४० ॥

तस्मात् स पितृमान् सोम ऋग्यजुश्छन्दआत्मकः।
प्राणापानसमानाद्यैर्व्यानोदानात्मकैरपि ॥ ३१.४१ ॥

कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्त्तकः।
प्राणापानसमानानां वायूनाञ्च प्रवर्त्तकः ॥ ३१.४२ ॥

पञ्चानाञ्चेन्द्रियमनोबुद्धिस्मृति जलात्मनाम्।
समानकालकरणः क्रियाः सम्पादयन्निव ॥ ३१.४३ ॥

सर्वात्मा सर्वलोकानामावहः प्रवहादिभिः।
विधाता सर्वभूतानां क्षमी नित्यं प्रभञ्जनः ॥ ३१.४४ ॥

योनिरग्नेरपां भूमे रवेश्चन्द्रमसश्चयः।
वायुः प्रजापिर्भूतं लोकात्मा प्रपितामहः ॥ ३१.४५ ॥

प्रजापति मुखैर्देवैः सम्यगिष्टफलार्थिभिः।
त्रिभिरेव कपालैस्तु अम्बकैरोषधिक्षये।
इज्यते भगवान् यस्मात्तस्मात्र्र्यम्बक उच्यते ॥ ३१.४६ ॥

गायत्री चैव त्रिष्टुप् च जगती चैव या स्मृता।
त्र्यम्बका नामतः प्रोक्ता योनयः सवनस्य ताः ॥ ३१.४७ ॥

ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः।
त्रिसाधनपुरोडाशस्त्रि कपालः स वै स्मृतः ॥ ३१.४८ ॥

इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः।
यच्चैव पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः।
सैकं षट्कं विजज्ञेऽथ मध्वादीनृतवःकिल ॥ ३१.४९ ॥

ऋतुपुत्रार्त्तवः पञ्च इति सर्गः समासतः।
इत्येष पवमानो वै प्राणिनां जीवितानि तु ॥ ३१.५० ॥

नदी वेगसमायुक्तं कालो धावति संहरन्।
अहोरात्रकरस्तस्मात् स वायुरभवत्पुनः ॥ ३१.५१ ॥

एते प्रजानां पतयः प्रधानाः सर्वदेहिनाम् ।
पितरः सर्व लोकानां लोकात्मानः प्रकीर्तिताः ॥ ३१.५२ ॥

ध्यायतो ब्रह्मणो वक्रादुद्यन् समभवद्भवः।
ऋषिर्विप्रो महादेवो भूतात्मा प्रपितामहः ॥ ३१.५३ ॥

ईश्वरः सर्वभूतानां प्रणवायोपपद्यते।
आत्मवेशेन भूतानामङ्गप्रत्यङ्गसम्भवः ॥ ३१.५४ ॥

अग्निः संवत्सरः सूर्यश्चन्द्रमा वायुरेव च।
युगाभिमानी कालात्मा नित्यं सङ्क्षेपकृद्विभुः।
उन्मादकोऽनुग्रहकृत्स इद्वत्सर उच्यते ॥ ३१.५५ ॥

रुद्राविष्टो भगवता जगत्यस्मिन् स्वतेजसा।
आश्रयाश्रयसंयोगात्तनुभिर्नामभिस्तथा ॥ ३१.५६ ॥

ततस्तस्य तु वीर्येण लोकानुग्रहकारकम्।
द्वितीयं भद्रसंयोगं सन्ततस्यैककारकम् ॥ ३१.५७ ॥

देवत्वञ्च पितृत्वञ्च कालत्वञ्चास्य यत्परम्।
तस्माद्वै सर्वथा भद्रस्तद्वद्भिरभिपूज्यते ॥ ३१.५८ ॥

पतिः पतीनां भगवान् प्रजेशानां प्रजापतिः।
भवनः सर्वभूतानां सर्वेषां नीललोहितः।
ओषधीः प्रतिसन्धत्ते रुद्रः क्षीणाः पुनः पुनः ॥ ३१.५९ ॥

इत्येषां यदपत्यं वै न तच्छक्यं प्रमाणतः।
बहुत्वात् परिसङ्ख्यातुं पुत्रपौत्रमनन्तकम् ॥ ३१..६० ॥

इमं वंशं प्रजेशानां महतां पुण्यकर्मणाम्।
कीर्त्तयन् स्थिरकीर्त्तीनां महतीं सिद्धिमाप्नुयात् ॥ ३१.६१ ॥

इति श्रीमहापुराणे वायुप्रोक्ते देववंशवर्णनं नामै कत्रिंशोऽध्यायः ॥ ३१ ॥