॥सूत उवाच॥
विश्वास-प्रस्तुतिः
ब्रह्मणः सृजतः पुत्रान् पूर्वे स्वायम्भुवेऽन्तरे।
अम्भांसि जज्ञिरे तानि मनुष्यासुरदेवताः ॥ ३०.१ ॥
मूलम्

पितृवन्मन्यमानस्य जज्ञिरे पितरोऽस्य वै।
तेषान्निसर्गः प्रागुक्तो विस्तरस्तस्य वक्ष्यते ॥ ३०.२ ॥

देवासुरमनुष्याणां दृष्ट्वा देवोऽभ्यभाषत।
पितृवन्मन्यमानस्य जज्ञिरे वोपयक्षिताः ॥ ३०.३ ॥

मध्वादयः षडृतवस्तान् पितॄन् परिचक्षते।
ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः ॥ ३०.४ ॥

मन्वन्तरेषु सर्वेषु ह्यतीतानागतेष्वपि।
एते स्वायम्भुवे पूर्वमुत्पन्ना ह्यन्तरे शुभे ॥ ३०.५ ॥

अग्निष्वात्ताः स्मृता नाम्ना तथा बर्हिषदश्च वै।
अयज्वानस्तथा तेषामासन् वै गृहमेधिनः।
अग्निष्वात्ताः स्मृतास्ते वै पितरोऽनाहिताग्नयः ॥ ३०.६ ॥

यज्वानस्तेषु ये ह्यासन् पितरः सोमपीथिनः।
स्मृता बर्हिषदस्ते वै पितरस्त्वग्निहोत्रिणः।
ऋतवः पितरो देवाः शास्त्रेऽस्मिन्निश्चयो मतः ॥ ३०.७ ॥

मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ तु शुष्मिणौ।
नभश्चैव नभस्तश्च जीवावेतावुदाहृतौ ॥ ३०.८ ॥

इषश्चैव तथोर्जश्च सुधावन्तावुदाहृतौ।
सहश्चैव सहस्यश्च मन्युमन्तौ तु तौ स्मृतौ।
तपश्चैव तपस्यश्च घोरावेतौ तु शैशिरौ ॥ ३०.९ ॥

कालावस्थास्तु षट् तेषाम्मासाख्या वै व्यवस्थिताः।
त इमे ऋतवः प्रोक्ताश्चेतनाचेतनास्तु वै ॥ ३०.१० ॥

ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्तेऽभिमानिनः।
मासार्द्धमासस्थानेषु स्थानञ्च ऋतवोर्त्तवाः ॥ ३०.११ ॥

स्थानानां व्यतिरेकेण ज्ञेयाः स्थानाभिमानिनः।
अहोरात्रञ्च मासाश्च ऋतवश्चायनानि च ॥ ३०.१२ ॥

संवत्सराश्च स्थानानि कालावस्थाभिमानिनः।
निमेषाश्च कलाः काष्ठा मुहूर्त्ता वै दिनक्षपाः ॥ ३०.१३ ॥

एतेषु स्थानिनो ये तु कालावस्थास्ववस्थिताः।
तन्मयत्वात्तदात्मानस्तान् वक्ष्यामि निबोधत ॥ ३०.१४ ॥

पर्वण्यास्तिथयः सन्ध्याः पक्षा मासार्द्धसञ्ज्ञिताः।
द्वावर्द्धमासौ मासस्तु द्वौ मासावृतुरुच्यते ॥ ३०.१५ ॥

ऋतुत्रयं चायनं द्वे अयने दक्षिणोत्तरे ।
संवत्सरः सुमेकस्तु स्थानान्येतानि स्थानिनाम् ॥ ३०.१६ ॥

ऋतवः सुमेकपुत्रा विज्ञेया ह्यष्टधा तु षट्।
ऋतुपुत्राः स्मृताः पञ्च प्रजास्त्वार्त्तवलक्षणाः ॥ ३०.१७ ॥

यस्माच्चैवार्त्तवेयास्तु जायन्ते स्थाणुजङ्गमाः।
आर्त्तवाः पितरश्चैव ऋतवश्च पितामहाः ॥ ३०.१८ ॥

सुमेकात्तु प्रसूयन्ते म्रियन्ते च प्रजातयः।
तस्मात् स्मृतः प्रजानां वै सुमेकः प्रपितामहः ॥ ३०.१९ ॥

स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्तिताः।
तदाख्यास्तन्मयत्वाच्च तदात्मनश्च ते स्मृताः ॥ ३०.२० ॥

प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः।
संवत्सरः स्मृतो ह्यग्निः ऋतमित्युच्यते द्वजैः ॥ ३०.२१ ॥

ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः।
मासाः षडृतवो ज्ञेयास्तेषां पञ्चार्त्तवाः सुताः ॥ ३०.२२ ॥

द्विपदाञ्चतुष्पदाञ्चैव पक्षिसंसर्पतामपि।
स्थावराणां च पञ्चानां पुष्पं कालार्त्तवं स्मृतम् ॥ ३०.२३ ॥

ऋतुत्वमार्त्तवत्वञ्च पितृत्वञ्च प्रकीर्तितम्।
इत्येते पितरो ज्ञेया ऋतवश्चार्त्तवाश्च ये ॥ ३०.२४ ॥

सर्वभूतानि तेभ्योऽथ ऋतुकालाद्विजज्ञिरे।
तस्मादेतेऽपि पितर आर्त्तवा इति नः श्रुतम् ॥ ३०.२५ ॥

मन्वन्तरेषु सर्वेषु स्थिताः कालाभिमानिनः।
स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसंयमात् ॥ ३०.२६ ॥

अग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः।
जज्ञाते च पितृभ्यस्तु द्वे कन्ये लोकविश्रुते ॥ ३०.२७ ॥

मेना च धारिणी चैव याभ्यां विश्वमिदं धृतम्।
पितरस्ते निजे कन्ये धर्मार्थं प्रददुः शुभे।
त उभे व्रह्मवादिन्यौ योगिन्यौ चैव ते उभे ॥ ३०.२८ ॥

अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी।
धारणी मानसी चैव कन्या बर्हिषदां स्मृता ॥ ३०.२९ ॥

मेरोस्तु धारणीं नाम पत्न्यर्थं व्यसृजन् शुभाम्।
पितरस्ते बर्हिषदः स्मृता ये सोमपीथिनः ॥ ३०.३० ॥

अग्निष्वात्तास्तु तां मेनां पत्नीं हिमवते ददुः।
स्मृतास्ते वै तु दौहित्रास्तद्दौहित्रान् निबोधत ॥ ३०.३१ ॥

मेना हिमवतः पत्नी मैनाकं सान्वसूयत।
गङ्गा सरिद्वरा चैव पत्नी या लवणो दधेः।
मैनाकस्यानुजः क्रौञ्चः क्रौञ्चद्वीपो यतः स्मृतः ॥ ३०.३२ ॥

मेरोस्तु धारणी पत्नी दिव्यौषधिसमन्वितम्।
मन्दरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः ॥ ३०.३३ ॥

वेला च नियतिश्चैव तृतीया चायतिः पुनः।
धातुश्चैवायतिः पत्नी विधातुर्नियतिः स्मृता ॥ ३०.३४ ॥

स्वायम्भुवेऽन्तरे पूर्वन्तयोर्वै कीर्तिताः प्रजाः।
सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम् ॥ ३०.३५ ॥

सावर्णिना च सामुद्री पत्नी प्राचीनबर्हिषः।
सवर्णा साथ सामुद्री दशप्राचीनबर्हिषः।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥ ३०.३६ ॥

तेषां स्वायम्भुवौ दक्षः पुत्रत्वे जज्ञिवान् प्रभुः।
त्र्यम्बकस्याभिशापेन चाक्षुषस्यान्तरे मनोः ॥ ३०.३७ ॥

एतच्छुत्वा ततः सूतमपृच्छच्छांशपायनः।
उत्पन्नः स कथं दक्षो ह्यभिशापाद्भवस्य तु।
चाक्षुषस्यान्वये पूर्वं तन्नः प्रब्रूहि पृच्छताम् ॥ ३०.३८ ॥

इत्युक्तः कथयामास सूतो दक्षाश्रितां कथाम्।
शांशपायनमामन्त्र्य त्र्यम्बकाच्छापकारणम् ॥ ३०.३९ ॥

दक्षस्यासन् सुता ह्यष्टौ कन्या याः कीर्तिता मया।
स्वेब्यो गृहेभ्यो ह्यानाय्य ताः पिताभ्यर्च्चयद्गृहे।
ततस्त्वभ्यर्चिताः सर्वा न्यवसंस्ताः पितुर्गृहे ॥ ३०.४० ॥

तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै।
नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ॥ ३०.४१ ॥

अकरोत्स नतिं दक्षे न कदाचिन्महेश्वरः।
जामाता श्वशुरे तस्मिन् स्वभावात् तेजसि स्थितः ॥ ३०.४२ ॥

ततो ज्ञात्वा सती सर्वाः स्वस्रः प्राप्ताः पितृर्गृहम्।
जगाम साप्यनाहूता सती तत् स्वं पितुर्गृहम् ॥ ३०.४३ ॥

ततोऽब्रवीत् सा पितरं देवी क्रोधादमर्षिता।
यवीयसीब्यो ज्यायसीं किन्तु पूजामिमां प्रभो।
असम्मतामवज्ञाय कृतवानसि गर्हिताम् ॥ ३०.४४ ॥

अहं ज्येष्ठा वरिष्ठा हि न त्वसत् कर्त्तुमर्हसि।
एवमुक्तोऽब्रवीदेनां दक्षः संरक्तलोचनः ॥ ३०.४५ ॥

त्वन्तु श्रेष्ठ वरिष्ठा च पूज्या बाला सदा मम।
तासां ये चैव भर्त्तारस्ते मे बहुमताः सदा ॥ ३०.४६ ॥

ब्रह्नमष्ठाश्च तपिष्ठाश्च महायोगाः सुधार्मिकाः।
गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यम्बकात्सति ॥ ३०.४७ ॥

वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः।
भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥ ३०.४८ ॥

तस्यात्मा स च ते शर्वो भक्ता चासि हि तं सदा।
तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥ ३०.४९ ॥

इत्युवाच तदा दक्षः सम्प्रमूढेन चेतसा।
शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः ॥ ३०.५० ॥

तथोक्ता पितरं सा वै क्रुद्धा देवीदमब्रवीत् ।
वाङ्मनःकर्मभिर्यस्माददुष्ठां मां विगर्हसे।
तस्मात्त्यजाम्यहन्देहमिदन्तात तवात्मजम् ॥ ३०.५१ ॥

ततस्तेनावमानेन सती दुःखादमर्षिता।
अब्रवीद्वचनं तेवी नमस्कृत्य महेश्वरम् ॥ ३०.५२ ॥

यत्राहमुपपत्स्येहं पुनर्देहेन भास्वता।
तत्राप्यहमसम्मूढा सम्भूता धार्मिकी पुनः।
गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धर्मतः ॥ ३०.५३ ॥

तत्रैवाथ समासीना युक्तात्मानं समादधे।
धारयामास चाग्नेयीं धारणां मनसात्मनः ॥ ३०.५४ ॥

तत आग्नेयीसमुत्थेन वायुना समुदीरितः।
सर्वाङ्गेभ्यो विनिः सृत्य वह्निर्भस्म चकार ताम् ॥ ३०.५५ ॥

तदुपश्रुत्य निधनं सत्या देवोऽथ शूलधृक्।
संवादञ्च तयोर्बुद्ध्वा याथातथ्येन शङ्करः।
दक्षस्याथ ऋषीणाञ्च चुकोप भगवान् प्रभुः ॥ ३०.५६ ॥

यस्मादवमता दक्ष मत्कृते मान सा सती।
प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ३०.५७ ॥

तस्माद्वैवस्वतं प्राप्य पुनरेव महर्षयः।
उत्पत्स्यन्ते द्वितीये वै मम यज्ञे ह्ययोनिजाः ॥ ३०.५८ ॥

हुते वै ब्रह्मणा शुक्ते चाक्षुषस्यान्तरे मनोः।
अभिव्याहृत्य च ऋषीन् दक्षमभ्यगमत् पुनः ॥ ३०.५९ ॥

भविता चाक्षुषो राजा चाश्रुषस्य समन्वये।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः ॥ ३०.६० ॥

दक्ष इत्येव नाम्ना त्वं मार्षायां जनयिष्यसि।
कन्यायां शाखिनाञ्चैव प्राप्ते वै चाक्षुषेऽन्तरे ॥ ३०.६१ ॥

अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते।
धर्मार्थकामयुक्तेषु कर्मस्विह पुनः पुनः ॥ ३०.६२ ॥

यस्मात् त्वं मत्कृते क्रूरमृषीन् व्याहृतवानसि।
तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ ३०.६३ ॥

हुत्वाहुतिं ततः क्रूरः अपस्त्यक्ष्यन्ति कर्मसु।
इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात् ॥ ३०.६४ ॥

सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते।
तमहं धारयिष्यामि निदेशात् परमेष्ठिनः ॥ ३०.६५ ॥

अस्यां क्षितौ वृता लोकाः सर्वे तिष्ठन्ति भास्कराः।
तानहं धारयामीह सततं न तवाज्ञया ॥ ३०.६६ ॥

चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुञ्जते।
नाहं तैः सह भोक्ष्यामि ततो दास्यन्ति ते पृथक्।
ततो देवैः स तैः सार्द्धं नेज्यते पृथगिज्यते ॥ ३०.६७ ॥

ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा।
स्वायम्भुवेऽन्तरे त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ ३०.६८ ॥

ज्ञात्वा गृहपतिं दक्षं ज्ञानानामीश्वरं प्रभुम्।
दक्षो नाम महायज्ञैः सोऽयजद्दैवतैः सह ॥ ३०.६९ ॥

अथ देवी सती या तु प्राप्ते वैवस्वतेऽन्तरे।
मैनायां तामुमां देवीं जनयामास शैलराट् ॥ ३०.७० ॥

सा तु देवी सती पूर्वं ततः पश्चादुमाऽभवत्।
सह व्रता भवस्यैषा न तया मुच्यते भवः।
यावदिच्छति संस्थातुं प्रभुर्मन्वन्तरेष्विह ॥ ३०.७१ ॥

मारीचं कश्यपं देवी यथाहितिरनुव्रता।
साध्यं नारायणं श्रीस्तु मघवन्तं शची यथा ॥ ३०.७२ ॥

विष्णुं कीर्ती रुचिः सूर्यं वसिष्ठञ्चाप्यरून्धती।
नैतास्तु विजहत्येतान् भर्तॄन् देव्यः कथञ्चन।
आवर्त्तमानकल्पेषु पुनर्जायन्ति तैः सह ॥ ३०.७३ ॥

एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः ॥ ३०.७४ ॥

दशभ्यस्तु प्रचेतोभ्यो मार्षायाञ्च पुनर्नृपः।
जज्ञे रुद्राभिशापेन द्वितीयेऽस्मिन्निति श्रुतिः ॥ ३०.७५ ॥

भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः।
आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह।
देवस्य महतो यज्ञे रुद्राभिशापेन द्वितीयेऽस्मिन्निति श्रुतिः ॥ ३०.७६ ॥

इति सानुशयोऽह्यासीत्तयोर्जात्यन्तरागतः।
प्रजापतेस्तु दक्षस्य त्र्यम्बकस्य च धीमतः ॥ ३०.७७ ॥

तस्मान्नानुशयः कार्यो वैरिष्विह कदाचन।
जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः।
जन्तुं न मुञ्चति ख्यातिस्तत्र कार्यं विजानता ॥ ३०.७८ ॥

प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे।
विनाशामगमत् सूत हयमेधः प्रजापतेः ॥ ३०.७९ ॥

देव्या मृत्युं कृतं मत्वा क्रुद्धं सर्वात्मकं प्रभुम्।
कथं प्रसादयद्दक्षः स यज्ञः साधितः कथम्।
एतद्वेदितुमिच्छामस्तन्नो ब्रूहि यथातथम् ॥ ३०.८० ॥

पूरा मेरोर्द्विजश्रेष्ठाः श्रृङ्गं त्रैलोक्यविश्रुतम्।
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ॥ ३०.८१ ॥

अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम्।
तस्मिन् देवो गिरिश्रेष्ठे सर्वधातु विभूषिते।
पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह ॥ ३०.८२ ॥

शैलराजसुता चास्य नित्यं पार्श्वस्थिताऽभवत्।
आधित्याश्च महात्मानो वसवश्चामितौजसः ॥ ३०.८३ ॥

तथैव च महात्मानावश्विनौ भिषजां वरौ।
तथा वैश्रवणो राजा गुह्यकैः परिवारितः ॥ ३०.८४ ॥

अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे।
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥ ३०.८६ ॥

अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः।
ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः ॥ ३०.८७ ॥

सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमा स्तथा।
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः ॥ ३०.८८ ॥

महादेवं पशुपतिं पर्युपासन्ति तत्र वै।
भूतानि च तथान्यानि नानारूपधराण्यथ ॥ ३०.८९ ॥

राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः।
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः ॥ ३०.९० ॥

देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः।
नन्दीश्वरश्च भगवान् देवस्यानुम ते स्थितः ॥ ३०.९१ ॥

प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा।
गङ्गा च सरितां श्वेष्ठा सर्वतीर्थजलोद्भवा।
पर्युपासत तन्देवरूपिणी द्विजसत्तमाः ॥ ३०.९२ ॥

एवं स भगवांस्तत्र दीप्यमानः सुरर्षिभिः।
देवैश्च सुमहाबागैर्महादेवो व्यवस्थितः ॥ ३०.९३ ॥

पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमारभत्।
गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ३०.९४ ॥

ततस्तस्य मखे देवाः शतक्रतुपुरोगमाः।
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ३०.९५ ॥

स्वैर्विमानैर्महात्मानो ज्वलद्भिर्ज्वलनप्रभाः।
देवस्यानुमनेऽगच्छन् गङ्गाद्वार इति श्रुतिः ॥ ३०.९६ ॥

गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम्।
ऋषिसङ्घैः परिवृतं दक्षं धर्मभृतां वरम् ॥ ३०.९७ ॥

पृथिव्यामन्तरिक्षे वा ये च स्वर्लोकवासिनः।
सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ॥ ३०.९८ ॥

आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः।
जिष्णुना सहिताः सर्वे आगता यज्ञभागिनः ॥ ३०.९९ ॥

ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा।
अश्विनौ पितरश्चैव आगता ब्रह्मणा सह ॥ ३०.१०० ॥

एते चान्ये च बहवो भूतग्रामास्तथैव च।
जरायुजाण्डजाश्चैव स्वेदजोद्भिज्जकास्तथा ॥ ३०.१०१ ॥

आहूता मन्त्रतः सर्वे देवाश्च सह पत्निभिः।
विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ॥ ३०.१०२ ॥

तान् दष्ट्वा मन्युमाविष्टो दधीचो वाक्यमब्रवीत्।
अपूज्यपूजने चैव पूज्यानां चाप्यपूजने।
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ३०.१०३ ॥

एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत।
पूज्यन्तु पशुभर्त्तारं कस्मान्नाह्वयसे प्रभुम् ॥ ३०.१०४ ॥

सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्द्दिनः।
एकादशावस्थगता नान्यं वेझि महेश्वरम् ॥ ३०.१०५ ॥

सर्वे निमन्त्रिता देवा येन ईशो निमन्त्रितः।
यथाहं शङ्करादूर्ध्वं नान्यं पश्यामि दैवतम्।
तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति ॥ ३०.१०६ ॥

एतन्मखे शूर सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम्।
विष्णोर्नयाम्यप्रतिमस्य सर्वं प्रभोर्विभो ह्याहवनीयनित्यम् ॥ ३०.१०७ ॥

गतास्तु देवता ज्ञात्वा शैलराजसुता तदा।
उवाच वचनं साध्वी देवं पशुपतिं तदा ॥ ३०.१०८ ॥

भगवन् व्क गता ह्येते देवा- शक्रपुरोगमाः ।
बूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥ ३०.१०९ ॥

दक्षो नाम महाभागो प्रजानां पतिरूत्तमः।
हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ ३०.११० ॥

यज्ञमेतं महाभाग किमर्थं न गतोऽसि वै।
केन वा प्रतिषेधेन गमनं प्रतिषिध्यते ॥ ३०.१११ ॥

सुरैरेव महाभागे सर्वमेतदनुष्ठितम्।
यज्ञेषु मम सर्वेषु न भाग उपकल्पितः ॥ ३०.११२ ॥

पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धीमतः ॥ ३०.११३ ॥

भगवन् सर्वदेवेषु प्रभावानधिको गुणैः ।
अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ ३०.११४ ॥

अनेन तु महाभाग प्रतिषेधेन नामतः ।
अतीव दुःखमापन्ना वेपथुश्च ममानघ ॥ ३०.११५ ॥

किं नाम दानं नियमन्तपो वा कुर्यामहं येन पतिर्ममाद्य।
लभेत भागं भगवानचिन्त्यो यज्ञस्य चार्द्धं त्वथ वा तृतीयम् ॥ ३०.११६ ॥

एवं ब्रुवाणां भगवानचिन्त्यः पत्नीं प्रहृष्टः क्षुभितामुवाच।
न वेत्सि देवेशि कृशोदराङ्गि किं नाम युक्तं वचनन्तवेदम् ॥ ३०.११७ ॥

अहं हि जानामि विशालनेत्रे ध्यानेन सर्वं हि वदन्ति सन्तः।
न वाद्य मोहेन महेन्द्रदेवो लोकत्रयं सर्वथा सम्प्रमूढम् ॥ ३०.११८ ॥

मामध्वरे शंसितारः स्तुवन्ति रथन्तरे साम गायन्ति गेयम्।
मां ब्राह्मणा ब्रह्मसत्रे यजन्ते माध्वर्यवः कल्पयन्ते च भागम् ॥ ३०.११९ ॥

अप्राकृतोऽपि भगवान् सर्वस्त्रीजनसंसदि।
स्तौति गोपा यते वापि स्वमात्मानं न संशयः ॥ ३०.१२० ॥

नात्मानं स्तौमि देवेशि पश्य त्वमुपगच्छ च।
यं स्रक्ष्यामि वरारोहे भागार्थं वरवर्णिनि ॥ ३०.१२१ ॥

एवमुक्त्वा तु भगवान् पत्नीं प्राणैरपि प्रियाम्।
सोऽसृजद्भगवान्वक्राद्भूतं क्रोधाग्निसन्निभम् ॥ ३०.१२२ ॥

सहस्रशीर्षं देवञ्च सहस्रचरणे क्षणम्।
सहस्रमुद्गरधरं सहस्रशरपाणिनम् ॥ ३०.१२३ ॥

शङ्खचक्रगदापाणिं दीप्तकार्मुकधारिणम्।
परश्वसिधरं देवं महारौद्रं भयावहम् ॥ ३०.१२४ ॥

घोर रूपेण दीप्यन्तं चन्द्रार्धकृतभूषणम्।
वसानं चर्म वैयाघ्रं महारुधिरनिःस्रवम् ॥ ३०.१२५ ॥

दंष्ट्राकरालं विभ्रान्तं महावक्त्रं महोदरम्।
विद्युज्जिह्वं प्रलम्बोष्ठं लम्बकर्णं दुरासदम् ॥ ३०.१२६ ॥

कुलिशोद्योतितकरम्भाभिर्ज्वलितमूर्द्धजम्।
ज्वालामालापरिक्षिप्तं मुक्तादामविभूषितम् ॥ ३०.१२७ ॥

तेजसा चैव दीप्यन्तं युगान्तमिव पावकम्।
आकर्णदारितास्यान्तञ्चतुर्दिक्षु भयानकम् ॥ ३०.१२८ ॥

महाबलं महातेजं महापुरुषमीश्वरम्।
विश्वहर्तृमहा कायं महान्यग्रोधमण्डलम्।
युगपच्चन्द्रशतवद्दीप्यन्तं मन्मथाग्निवत् ॥ ३०.१२९ ॥

चतुर्महास्यं सिततीक्ष्णदंष्ट्रं महोग्रतेजोबलकौतुकाढयम्।
युगान्तसूर्याग्निसहस्रभासं सहस्रचन्द्रामलकान्तिकान्तम्।
प्रदीप्तसर्वौषधिमन्दराभं सुमेरुकैलासहिमाद्रितुल्यम् ॥ ३०.१३० ॥

युगार्काभं महावीर्यं चारुनासं महाननम्।
प्रचण्डगण्डं दीप्ताक्षमग्निज्वालाविलाननम् ॥ ३०.१३१ ॥

मृगेन्द्रकृत्तिवसनं महाभुजगवेष्टितम्।
उष्णीषिणं चन्द्रधरं व्कचिदुग्रं व्कचित्समम् ॥ ३०.१३२ ॥

नानाकुसुममूर्द्धानं नानागन्दानुलेपनम् ।
नानारत्नविचित्राङ्गं नानाभरणभूषितम् ॥ ३०.१३३ ॥

कर्णिकारस्रजं दीप्तं क्रोधादुद्भ्रान्तलोचनम्।
व्कचिन्नृत्यति चित्राङ्गं व्कचिद्वदति सुस्वरम् ॥ ३०.१३४ ॥

व्कचिद्ध्यायति युक्तात्मा व्कचित्स्तूलं प्रमार्जति।
व्कचिद्गायति विश्वात्मा व्कचिद्रौति मुहुर्मुहुः ॥ ३०.१३५ ॥

ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः।
प्रभुत्वमात्मसम्बोधो ह्यधिष्ठानगुणैर्युतः ॥ ३०.१३६ ॥

जानुभ्यामवनिं गत्वा प्रणतः प्राञ्जलिः स्थितः।
आज्ञापय त्वं देवेश किं कार्यं करवाणि ते ॥ ३०.१३७ ॥

तमुवाचाक्षिप मखं दक्षस्येह महेश्वरः।
देवस्यानुमतिं श्रुत्वा वीरभद्रो महाबलः।
प्रणम्य शिरसा पादौ देवेशस्य उमापतेः ॥ ३०.१३८ ॥

ततो बन्धात् प्रमुक्तेन सिंहेनेवेह लीलया।
देव्या मन्युकृतं मत्वा हतो दक्षस्य स क्रतुः ॥ ३०.१३९ ॥

मन्युना च महाभीमा भद्रकाली महेश्वरी।
आत्मनः सर्वसाक्षित्वे तेन सार्द्ध सहानुगा ॥ ३०.१४० ॥

स एष भगवान् क्रुद्धः प्रेतावासकृतालयः।
वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः ॥ ३०.१४१ ॥

सोऽसृजद्रोमकूपेभ्यो रौद्रान्नाम गणेश्वरान्।
रुद्रानुगा महावीर्या रुद्रवीर्यपराक्रमाः ॥ ३०.१४२ ॥

रुद्रस्यानुचराः सर्वे सर्वे रुद्रसमप्रभाः।
ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्रशः ॥ ३०.१४३ ॥

ततः किलकिलाशब्द आकाशं पूरयन्निव।
तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः॥ ३०.१४४ ॥

पर्वताश्च व्यशीर्यन्त कम्पते च वसुन्धरा।
मेरुश्च धूर्णते विप्राः क्षुभ्यन्ते वरूणालयाः ॥ ३०.१४५ ॥

अग्नयो नैव दीप्यन्ते न च दीप्यन्ति भस्कराः।
ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ॥ ३०.१४६ ॥

ऋषयो नाभ्यभाषन्त न देवा न च दानवाः।
एवं हि तिमिरीभूतं निर्द्दहन्ति विमानिताः ॥ ३०.१४७ ॥

सिंहनादं प्रमुञ्चन्ते घोररूपा महाबलाः।
प्रभञ्जन्ते परे घोरा यूपानुत्पाटयन्ति च ॥ ३०.१४८ ॥

प्रमर्द्दन्ति तथा चान्ये विनृत्यन्ति तताऽपरे।
आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः ॥ ३०.१४९ ॥

चूर्णन्ते यज्ञपात्राणि यागस्यायतनानि च।
शीर्यमाणानि दृश्यन्ते तारा इव नभस्तलात् ॥ ३०.१५० ॥

षड्रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः।
उच्चावचानि मांसानि भक्ष्याणि विविधानि च ॥ ३०.१५२ ॥

यानि कानि च दिव्यानि लेह्यञ्चोष्यं तथापरे।
भुञ्जते विविधैर्वक्त्रैर्विलुण्ठन्ति च सर्वसः।
क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः ॥ ३०.१५३ ॥

रुद्रकोपप्रयुक्तास्तु सर्वदेवैः सुरक्षितम्।
तं यज्ञमहनन् शीघ्रं रुद्रकल्पाः समीपतः ॥ ३०.१५४ ॥

चक्रुरन्ये तथा नादान् सर्वभूतभयङ्करान्।
छित्त्वा शिरोऽन्ये यज्ञस्य विनदन्ति भयङ्कराः ॥ ३०.१५५ ॥

दक्षो दक्षपतिश्चैव देवो यज्ञपतिस्तथा।
मृगरूपेण चाकाशे प्रपलायितुमारभत् ॥ ३०.१५६ ॥

वीरभद्रोऽप्रमेयात्मा ज्ञात्वा तस्य बलन्तदा।
अन्तरिक्षगतस्याशु चिच्छेदास्य शिरो महान् ॥ ३०.१५७ ॥

दक्षः प्रजापतिश्चैव विनष्ट भ्रान्तचेतनः।
क्रुद्धेन वीरभद्रेण शिरः पादेन पीडितः।
जराभिभूततीव्रात्मा निपपात महीतले ॥ ३०.१५८ ॥

त्रयस्त्रिंशद्देवतानां ताः कोटयो विमलात्मकाः।
पाशेनाग्निबलेनाशु बद्धाः सिंहबलेन च ॥ ३०.१५९ ॥

ततो जग्मुर्महात्मानं सर्वे देवा महाबलम्।
प्रसीद भगवन् रुद्र बृत्यानां मा कुधः प्रभो ॥ ३०.१६० ॥

ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः।
ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति ॥ ३०.१६१ ॥

न च देवो न चादित्यो न च भोक्तुमिहागतः।
नैवद्रष्टुं हि देवेन्द्रान्न च कौतूहलान्वितः ॥ ३०.१६२ ॥

दक्षयज्ञविनाशार्थं सम्प्राप्तं विद्धि मामिह।
वीरभद्र इति ख्यातं रुद्रकोपाद्विनिर्गतम् ॥ ३०.१६३ ॥

भद्रकाली च विज्ञेया देव्याः क्रोधाद्विनिर्गता।
प्रेषिता देवदेवेन यज्ञान्तिकमिहागता ॥ ३०.१६४ ॥

शारणं गच्छ राजेन्द्र देवं ते त्वमुमापतिम्।
वरं क्रोधोऽपि रुद्रस्य वरदानं न देवतः ॥ ३०.१६५ ॥

वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः।
तोषयामास देवेशं शूलपाणिं महेश्वरम् ॥ ३०.१६६ ॥

प्रदुष्टे यज्ञवादे तु विद्रुतेषु द्विजातिषु।
तारामृगमये दीप्ते रौद्रे भीममहानले ॥ ३०.१६७ ॥

शूलनिर्भिन्नवदनैः कूजद्भिः परिचारकैः।
निखातोत्पाटितैर्यूपैरपविद्धै र्यतस्ततः ॥ ३०.१६८ ॥

उत्पत्द्भिः पतद्भिश्च गृध्रैरामिषगृध्रुभिः।
पक्षपातविनिर्धूतैः शिवाशतनिनादितैः ॥ ३०.१६९ ॥

प्राणापानौ सन्निरुध्य ततः स्थानेन यत्नतः।
विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् ॥ ३०.१७० ॥

सहसा देवदेवेशः अग्निकुण्डादुपागतः।
चन्द्रसूर्यसहस्रस्य तेजः संवर्त्तकोपमम् ॥ ३०.१७१ ॥

प्रहस्य चैनं भगवानिदं वचनमब्रवीत्।
नष्टस्ते ज्ञानतो दक्ष प्रीतिस्ते मयि साम्प्रतम् ॥ ३०.१७२ ॥

स्मितं कृत्वाब्रवीद्वाक्यं ब्रूहि किं करवाणि ते।
श्रावितञ्च समाख्याय देवानां गुरुभिः सह ॥ ३०.१७३ ॥

तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः।
भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः ॥ ३०.१७४ ॥

यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः।
यदि वाहमनुग्राह्यो यदि देयो वरो मम ॥ ३०.१७५ ॥

यज्जग्धं भक्षितं पीतमशितं यच्च नाशितम्।
चूर्णीकृतञ्जापविद्धं यज्ञसम्भारमीदृशम् ॥ ३०.१७६ ॥

दीर्घकालेन महता प्रयत्नेन च सञ्चितम्।
तन्न मिथ्या भवेन्मह्यं वरमेतं वृणोम्यहम् ॥ ३०.१७७ ॥

तथास्त्वित्याह भगवान् भगनेत्रहयो हरः।
धर्माध्यक्षं महादेवं त्र्यक्षन्तं वै प्रजापतिः ॥ ३०.१७८ ॥

जानुभ्यामवनिं गत्वा दक्षो लब्ध्वा भवाद्वरम्।
नाम्नामष्टसहस्रेण स्तुतवान् वृषभध्वजम् ॥ ३०.१७९ ॥

नमस्ते देवदेवेश देवारिबलसूदन।
देवेन्द्र ह्यमरश्रेष्ठ देवदानवपूजित ॥ ३०.१८० ॥

सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय।
सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः।
सर्वतः श्रुतिमान् लोके सर्वानावृत्य तिष्ठसि ॥ ३०.१८१ ॥

शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय।
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ॥ ३०.१८२ ॥

शतोदर शतावर्त्त शतजिह्व शतानन।
गायन्ति त्वां गायत्रिणो ह्यर्च्चयन्ति तथार्च्चिनः ॥ ३०.१८३ ॥

देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः।
मूर्त्तीशस्त्वं महामूर्ते समुद्राम्बु धराय च ॥ ३०.१८४ ॥

सर्वा ह्यस्मिन् देवतास्ते गावो गोष्ठ इवासते।
शरीरन्ते प्रपश्यामि सोममग्निं जलेश्वरम् ॥ ३०.१८५ ॥

आदित्यमथ विष्णुञ्च ब्रह्माणं सबृहस्पतिम्।
क्रिया कार्यं कारणञ्च कर्त्ता करणमेव च ॥ ३०.१८६ ॥

असच्च सदसच्चैव तथैव प्रभवाव्ययम्।
नमो भवाय शर्वाय रुद्राय वरदाय च ॥ ३०.१८७ ॥

पशूनां पतये चैव नमस्त्वन्धकघातिने।
त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ॥ ३०.१८८ ॥

त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः।
नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च ॥ ३०.१८९ ॥

दण्डि(?) मासक्तकर्णाय दण्डिमुण्डाय वै नमः।
नमोऽर्द्धदण्डकेशाय निष्काय विकृताय च ॥ ३०.१९० ॥

विलोहिताय धूम्राय नालग्रीवाय ते नमः।
नमस्त्वप्रतिरूपाय शिवाय च नमोऽस्तु ते ॥ ३०.१९१ ॥

सूर्याय सूर्यपतये सूर्यध्वजपताकिने।
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ॥ ३०.१९२ ॥

नमो हिरण्यगर्भाय हिरण्यकवचाय च।
हिरण्यकृतचूडाय हिरण्यपतये नमः ॥ ३०.१९३ ॥

सत्रघाताय दण्डाय वर्णपानपुटाय च।
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥ ३०.१९४ ॥

सर्वायाभक्ष्यभक्ष्याय सर्वभूतान्त्तरात्मने।
नमो होत्राय मन्त्राय शुक्लध्वजपताकिने ॥ ३०.१९५ ॥

नमो नमाय नम्याय नमः किलिकिलाय च।
नमस्ते शयमानाय शयितायोत्थिताय च ॥ ३०.१९६ ॥

स्थिताय चलमानाय मुद्राय कुटिलाय च।
नप्नो नर्त्तनशीलाय मुखवादित्रकारिणे ॥ ३०.१९७ ॥

नाट्योपहारलुब्धाय गीतवाद्यरताय च।
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ॥ ३०.१९८ ॥

कलनाय च कल्पाय क्षयायोपक्षयाय च।
भीमदुन्दुभिहासाय भीमसेनप्रियाय च ॥ ३०.१९९ ॥

उग्राय च नमो नित्यं नमस्ते दशबाहवे।
नमः कपालहस्ताय चिताभस्मप्रियाय च ॥ ३०.२०० ॥

विभीषणाय भीष्माय भीष्मव्रतधराय च।
नमो विकृतवक्षाय खड्गजिह्वाग्रदंष्ट्रिणे ॥ ३०.२०१ ॥

पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च।
नमो वृषाय वृष्याय वृष्णये वृषणाय च ॥ ३०.२०२ ॥

कटङ्कटाय चण्डाय नमः सावयवाय च।
नमस्ते वरकृष्णाय वराय वरदाय च ॥ ३०.२०३ ॥

वरगन्धमाल्यवस्त्राय वरातिवरये नमः ।
नमो वर्षाय वाताय छायायै आतपाय च ॥ ३०.२०४ ॥

नमो रक्तविरक्ताय शोभनायाक्षमालिने।
सम्भिन्नाय विभान्नाय विविक्तविकटाय च ॥ ३०.२०५ ॥

अघोररूपरूपाय घोरघोरतराय च ।
नमः शिवाय शान्ताय नमः शान्ततराय च ॥ ३०.२०६ ॥

एकपाद्बहुनेत्राय एकशीर्षन्नमोऽस्तु ते।
नमो वृद्धाय लुब्धाय संविभागप्रियाय च ॥ ३०.२०७ ॥

पञ्चमालार्चिताङ्गाय नमः पाशुपताय च।
नमश्चण्डाय घण्टाय घण्टया जग्धरन्ध्रिणे ॥ ३०.२०८ ॥

सहसशतघण्टाय घण्टामालाप्रियाय च।
प्राणदण्डाय त्यागाय नमो हिलिहिलाय च ॥ ३०.२०९ ॥

हूंहूङ्काराय पाराय हूंहूङ्कारप्रियाय च।
नमश्च शम्भवे नित्यं गिरि वृक्षकलाय च ॥ ३०.२१० ॥

गर्भमांसश्रृगालाय तारकाय तराय च ।
नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ॥ ३०.२११ ॥

यज्ञवाहाय दानाय तप्याय तपनाय च।
नमस्तटाय भव्याय तडितां पतये नमः ॥ ३०.२१२ ॥

अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च।
नमः सहस्रशीर्ष्णे च सहस्रचरणाय च ॥ ३०.२१३ ॥

सहस्रोद्यतशूलाय सहस्रनयनाय च।
नमोऽस्तु बालरूपाय बालरूपधराय च ॥ ३०.२१४ ॥

बालानाञ्चैव गोप्त्रे च बालक्रीडनकाय च।
नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च ॥ ३०.२१५ ॥

तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः।
नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ॥ ३०.२१६ ॥

वर्णाश्रमाणां विधिवत् पृथक्कर्मप्रवर्तिने।
मनो घोषाय घोष्याय नमः कलकलाय च ॥ ३०.२१७ ॥

श्वेतपिङ्गलनेत्राय कृष्णरक्तक्षणाय च ।
धर्मार्थ काममोक्षाय क्रथाय कथनाय च ॥ ३०.२१८ ॥

साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः।
नमोरथ्यविरथ्याय चतुष्पथरताय च ॥ ३०.२१९ ॥

कृष्णा जिनोत्तरीयाय व्यालयज्ञोपवीतिने।
ईशानवज्रसंहाय हरिकेश नमोऽस्तु ते।
अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ॥ ३०.२२० ॥

काम कामद कामध्न धृष्टोदृप्तनिषूदन।
सर्व सर्वद सर्वज्ञ सन्ध्याराग नमोऽस्तु ते ॥ ३०.२२१ ॥

महाबाल महाबाहो महासत्त्व महाद्युते।
महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते ॥ ३०.२२२ ॥

स्थूलजीर्णणाङ्गजटिने वल्कलाजिनधारिणे।
दीप्तशूर्याग्निजटिने वल्कलाजिनवाससे।
सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ॥ ३०.२२३ ॥

उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज।
चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते ॥ ३०.२२४ ॥

त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि।
अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ॥ ३०.२२५ ॥

चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च।
त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ॥ ३०.२२७ ॥

सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः।
ऋक्सामनि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥ ३०.२२८ ॥

हविर्हावी हवो हावी हुवां वाचाहुतिः सदा।
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥ ३०.२२९ ॥

यजुर्मयो ऋङ्मयस्व सामाथर्वमयस्तथा।
पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ॥ ३०.२३० ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये।
त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम् ॥ ३०.२३१ ॥

संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च।
कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः ॥ ३०.२३२ ॥

वृषाणां ककुदं त्वं हिगिरीणां शिखराणि च।
सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ ३०.२३३ ॥

क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च।
वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च ॥ ३०.२३४ ॥

इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः।
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ ३०.२३५ ॥

त्वं गदी त्वं शरी चापि खट्वाङ्गी झर्झरी तथा ।
छेत्ता भेत्ता प्रहर्त्ता च त्वं नेताप्यन्तको मतः ॥ ३०.२३६ ॥

दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव ।
इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ॥ ३०.२३७ ॥

लतावल्ली तृणौषध्यः पशवो मृगपक्षिणः।
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ ३०.२३८ ॥

आदिश्वान्तश्च मध्यश्च गायत्र्योङ्कार एव च।
हरितो लोहितः कृष्णो नीलः पीतस्तथारुणः ॥ ३०.२३९ ॥

कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा।
सुवर्णरेता विख्यातः सुवर्ण श्चाप्यतो मतः ॥ ३०.२४० ॥

सुवर्णनामा च तथा सुवर्णप्रिय एव च।
त्वमिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ॥ ३०.२४१ ॥

उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च।
होत्रं होता च होमस्त्वं हुतञ्च प्रहुतं प्रभुः ॥ ३०.२४२ ॥

सुपर्णञ्च तथा ब्रह्म यजुषां शतरुद्रियम्।
पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम् ॥ ३०.२४३ ॥

गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च।
सत्त्वं त्वञ्च रजस्त्वञ्च तमश्च प्रजनं तथा ॥ ३०.२४४ ॥

प्राणोऽपानः सामानश्च उदानो व्यान एव च।
उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ॥ ३०.२४५ ॥

लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः।
सुचिरोमा हरिच्छ्मश्रुरूर्ध्वकेशस्त्रिलोचनः ॥ ३०.२४६ ॥

गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः।
मत्स्यो जली जलो जल्य जवः कालः कली कलः ॥ ३०.२४७ ॥

विकालश्च सुकालश्च दुष्कालः कलनाशनः।
मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ॥ ३०.२४८ ॥

संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकौ।
घटो घटीको घण्टीको चूडालोलबलो बलम् ॥ ३०.२४९ ॥

ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक्।
चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ ३०.२५० ॥

चतुरा श्रमवेत्ता च चातुर्वर्ण्यकरश्च ह।
क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ॥ ३०.२५१ ॥

रुद्राक्षमाल्याम्बरधरो गिरिको गिरिकप्रियः।
शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ॥ ३०.२५२ ॥

भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः।
गूढावर्त्तश्च गूढश्च गूढप्रतिनिषेविता ॥ ३०.२५३ ॥

तरणस्ता रकश्चैव सर्वभूतसुतारणः।
धाता विधाता सत्वानां निधाता धारणो धरः ॥ ३०.२५४ ॥

तपो ब्रह्म च सत्यञ्च ब्रह्मचर्यमथार्जवम् ।
भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ॥ ३०.२५५ ॥

भूर्भुवःस्वरितश्चैव तथोत्पत्तिर्महेश्वरः।
ईशानो वीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ॥ ३०.२५६ ॥

ब्रह्मावर्त्त सुरावर्त्त कामावर्त्त नमोऽस्तु ते।
कामबिम्बनिहर्त्ता च कर्णिकाररजःप्रियः ॥ ३०.२५७ ॥

मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः।
चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ॥ ३०.२५८ ॥

हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् ।
अधर्महा महादण्डो दण्डधारो रणप्रियः ॥ ३०.२५९ ॥

गोतमोगोप्रतारश्च गोवृषेश्चरवाहनः।
धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदुत्तमः ॥ ३०.२६० ॥

त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च।
तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥ ३०.२६१ ॥

दुर्वारणो दुर्विषदो दुःसहो दुरतिक्रमः।
दुर्द्धरो दुष्प्रकम्पश्च दुर्विदो दुर्ज्जयो जयः ॥ ३०.२६२ ॥

शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट्।
आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह ॥ ३०.२६३ ॥

सह्यो यज्ञो मृगा व्याधा व्याधीनामाकरोऽकरः ।
शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ॥ ३०.२६४ ॥

दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः।
विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः ॥ ३०.२६५ ॥

मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः।
वृषाश्ववाह्यो वृषभस्तथा वृषभलोचनः ॥ ३०.२६६ ॥

वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः।
चन्द्रादित्यौ चक्षुषी ते हृदयञ्च पितामहः।
अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ॥ ३०.२६७ ॥

न ब्रह्मा न च गोविन्दः पुराणऋषयो न च।
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ३०.२६८ ॥

या मूर्त्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम्।
ताभिर्णां सततं रक्ष पिता पुत्रमिवौरसम् ॥ ३०.२६९ ॥

यः सहस्राण्यनेकानि पुंसामाहृत्य दुर्द्दशः।
तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ ३०.२७१ ॥

यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ३०.२७२ ॥

सम्भक्ष्य सर्व भूतानि युगान्ते समुपस्थिते।
यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सुशायिनम् ॥ ३०.२७३ ॥

प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि ।
ग्रसत्यर्कञ्च स्वर्भानुर्भुत्वा सोमाग्निरेव च ॥ ३०.२७४ ॥

येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम्।
रक्षन्तु ते हि मां नित्यं नित्यमाप्याययन्तु माम् ॥ ३०.२७५ ॥

ये चाप्युत्पतिता गर्भादधोभागगताश्च ये।
तेषां स्वाहाः स्वधाश्चैव आप्नुवन्तु स्वदन्तु च ॥ ३०.२७६ ॥

ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च।
हर्षयन्ति च हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥ ३०.२७७ ॥

ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु न ॥ ३०.२७८ ॥

चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च।
चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ ३०.२७९ ॥

रसातलगता ये च ये च तस्मात्परङ्गताः।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः।
सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ॥ ३०.२८० ॥

सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान्।
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ३०.२८१ ॥

त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः।
त्वमेव कर्त्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ३०.२८२ ॥

अथ वा मायया देव मोहितः सूक्ष्मया त्वया।
एतस्मात् कारणाद्वापि तेन त्वं न निमन्त्रितः ॥ ३०.२८३ ॥

प्रसीद मम देवेश त्वमेव शरणं मम।
त्वं गतिस्त्वं प्रतिष्ठा च न चान्यास्ति न मे गतिः ॥ ३०.२८४ ॥

स्तुत्वैवं स महादेवं विरराम प्रजापातिः।
भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥ ३०.२८५ ॥

परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत।
बहुनात्र किमुक्तेन मत्समीपं गमिष्यसि ॥ ३०.२८६ ॥

अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः।
कृत्वाश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहतम् ॥ ३०.२८७ ॥

दक्ष दक्ष न कर्त्तव्यो मन्युर्विघ्नमिमं प्रति।
अहं यज्ञहा न त्वन्यो दृश्यते तत्पुरा त्वया ॥ ३०.२८८ ॥

भूयश्च तं वरमिमं मत्तो गृह्णीष्व सुव्रत।
प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः श्रृणु ॥ ३०.२८९ ॥

अश्वमेधसहस्रस्य वाजपेयशतस्य च।
प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥ ३०.२९० ॥

वेदान् षडङ्गानुद्धृत्य साङ्ख्यान्योगांश्च कृत्स्नशः।
तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ ३०.२९१ ॥

अर्थैर्द्दशार्द्धसंयुक्तैर्गूढमप्राज्ञनिर्मितम्।
वर्णाश्रमकृतैर्धर्मैंर्विपरीतं क्वचित्समम् ॥ ३०.२९२ ॥

श्रुत्यर्थैरध्यवसितं पशुपाशविमोक्षणम्।
सर्वेषामाश्रमाणान्तु मया पाशुपतं व्रतम्।
उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ॥ ३०.२९३ ॥

अस्य चीर्णस्य यत्सम्यक् फलं भवति पुष्कलम्।
तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ॥ ३०.२९४ ॥

एवमुक्त्वा महादेवः सपत्नीकः सहानुगः।
अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥ ३०.२९५ ॥

अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः।
ज्वरञ्च सर्वधर्मज्ञो बहुधा व्यभजत्तदा।
शान्त्यर्थं सर्वभूतानां श्रृणुध्वं तत्र वै द्विजाः ॥ ३०.२९६ ॥

शीर्षाभितापो नागानां पर्वतानां शिलारुजः।
अपान्तु नालिकां विद्यान्निर्मोकम्भुजगेष्वपि ॥ ३०.२९७ ॥

शौरकः सौरभेयाणामूषरः पृथिवीतले ।
इभा नामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥ ३०.२९८ ॥

रन्ध्रोद्भूतं तथाश्वानां शिखोद्भेदश्च बर्हिणाम्।
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मभिः ॥ ३०.२९९ ॥

अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम्।
शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः।
शार्दूलेष्वपि वै विप्राः श्रमो ज्वर इहोच्यते ॥ ३०.३०० ॥

मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः।
मरणे जन्मनि तथा मध्ये च विशते सदा ॥ ३०.३०१ ॥

एतन्माहेश्वरं तेजौ ज्वरो नाम सुदारुणः।
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ३०.३०२ ॥

इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः ।
विमुक्तरोगः स नरो मुदा युतो लभेत कामान् स यथामनीषितान् ॥ ३०.३०३ ॥

दक्षप्रोक्तं स्तवञ्चापि कीर्त्तयेद्यः श्रृणोति वा।
नाशुभं प्राप्नुयात् किञ्चिद्दीर्घञ्चायुरवाप्नुयात् ॥ ३०.३०४ ॥

यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः।
तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ॥ ३०.३०५ ॥

यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः।
स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ३०.३०६ ॥

व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः।
राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ३०.३०७ ॥

अनेन चैव देहेन गणानां स गणाधिपः।
इह लोके सुखं प्राप्य गण एवोपपद्यते ॥ ३०.३०८ ॥

न च यक्षाः पिशाचा वा न नागा न विनायकाः।
कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ३०.३०९ ॥

श्रृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी।
पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ॥ ३०.३१० ॥

श्रृणुयाद्वा इदं सर्व कीर्त्तयेद्वाप्यभीक्ष्णशः।
तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ ३०.३११ ॥

मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम्।
सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ॥ ३०.३१२ ॥

देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु।
बलिं विभवतः कृत्वा दमेन नियमेन च ॥ ३०.३१३ ॥

ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम्।
ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः।
मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः ॥ ३०.३१४ ॥

सर्व कर्मसु युक्तो वा युक्तो वा सर्वपातकैः।
पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते।
मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ॥ ३०.३१५ ॥

वृषेव विधियुक्तेन विमानेन विराजते।
आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ३०.३१६ ॥

इत्याह भगवान् व्यासः पराशरसुतः प्रभुः ।
नैतद्वेदयते कश्चिन्नेदं श्राव्यन्तु कस्यचित् ॥ ३०.३१७ ॥

श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः।
वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ३०.३१८ ॥

श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु।
रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ३०.३१९ ॥