०२९

विश्वास-प्रस्तुतिः

योऽसावग्निरभिमानी ह्यासीत् स्वायम्भुवेऽन्तरे।
ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत ॥ २९.१ ॥

मूलम्

पावकः पवमानश्च पावमानश्च यः स्मृतः।
शुचिः शौरस्तु विज्ञेयः स्वाहापुत्रास्त्रयस्तु ते ॥ २९.२ ॥

निर्मथ्य पवमानस्तु शुचिः शौरस्तु यः स्मृतः. पावका वैद्युताश्चैव तेषां स्थानानि यानि वै ॥ २९.३ ॥
विश्वास-प्रस्तुतिः

पवमानात्मजश्चैव कव्यवाहन उच्यते।
पावकात् सहरक्षस्तु हव्यवाहः शुचेः सुतः ॥ २९.४ ॥

देवानां हव्यवाहोऽग्निः पितॄणां कव्यवाहनः।
सहरक्षोऽसुराणान्तु त्रयाणान्तु त्रयोऽग्नयः ॥ २९.५ ॥

एतेषां पुत्रपौत्रास्तु चत्वारिंशन्नवैव तु।
वक्ष्यामि नामतस्तेषां प्रविभागं पृथक् पृथक् ॥ २९.६ ॥

वैद्युतो लौकिकाग्निस्तु प्रथमो ब्रह्मणः सुतः।
ब्रह्मौदनाग्निस्तत्पुत्रो भरतो नाम विश्रुतः ॥ २९.७ ॥

अथर्वा तु भृगुर्ज्ञेयोऽप्यङ्गिराऽथर्वणः सुतः।
तस्मात् स लौकिकाग्निस्तु दध्यङ्चाथर्वणः सुतः ॥ २९.९ ॥

अथ यः पवमानोऽग्निर्निर्मन्थाः कविभिः स्मृतः।
स ज्ञेयो गार्हपत्योऽग्निस्ततः पुत्रद्वयं स्मृतम् ॥ २९.१० ॥

शंस्यस्त्वाहवनीयोऽग्निर्यः स्मृतो हव्यवाहनः।
द्वितीयस्तु सुतः प्रोक्तः शुक्रोऽग्निर्यः प्रणीयते ॥ २९.११ ॥

तथा सभ्यावसथ्यौ वै शंस्यस्याग्नेः सुतावुभौ।
शंस्यास्तु षोडश नदीश्वकमे हव्यवाहनः।
योऽसावाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः ॥ २९.१२ ॥

कावेरीं कृष्णवेणीञ्च नर्मदां यमुनान्तथा।
गोदावरीं वितस्ताञ्च चन्द्रभागामिरावतीम् ॥ २९.१३ ॥

विपाशां कौशिकीञ्चैव शतद्रुं सरयून्तथा।
सीतां सरस्वतीञ्चैव ह्रादिनीं पावनीं तथा ॥ २९.१४ ॥

तासु षोडशधात्मानं प्रविभज्य पृथक् पृथक् ।
आत्मानं व्यदधात्तासु धिष्णीष्वथ बभूव सः ॥ २९.१५ ॥

धिष्णयो दिव्यभिचारिण्यस्तासूत्पन्नास्तु धिष्णयः।
धिष्णीषु जज्ञिरे यस्माद्धिष्णयस्तेन कीर्त्तिताः ॥ २९.१६ ॥

इत्येते वै नदीपुत्रा धिष्णीष्वेव विजज्ञिरे।
तेषां विहरणीया ये उपस्थेयाश्च येऽग्नयः।
तान् श्रृणुध्वं समासेन कीर्त्यमानान् यथा तथा ॥ २९.१७ ॥

ऋतुः प्रवाहणोऽग्नीध्रः पुरस्ताद्धिष्णयोऽपरो। तु. शुक्लयजुर्वेदः ५.३१, ब्रह्माण्डपुराणम् १.२.१२.२७ विधीयन्ते यथास्थानं सौत्येऽह्नि सवनक्रमात् ॥ २९.१८ ॥
विश्वास-प्रस्तुतिः

अनिर्द्देश्यान्यवाच्यानामग्नीनां श्रृणुत क्रमम्।
सम्राडग्निः कृशानुर्यो द्वितीयोत्तरवेदिकः ॥ २९.१९ ॥

सम्राडग्निः स्मृता ह्यष्टौ उपतिष्ठन्ति तान् द्विजाः. अधस्तात्पर्षदन्यस्तु द्वितीयः सोऽत्र दृश्यते ॥ २९.२० ॥
विश्वास-प्रस्तुतिः

प्रतद्वोचे नभो नाम चत्वारि स विभाव्यते।
ब्रह्मज्योतिर्वसुर्नाम ब्रह्मस्थाने स उच्यते ॥ २९.२१ ॥

हव्यसूर्याद्यसंसृष्टः शामित्रे स विभाव्यते।
विश्वस्याथ समुद्रोग्निर्ब्रह्मस्थाने स कीर्त्त्यते ॥ २९.२२ ॥

ऋतुधामा च सुज्योतिरौदुम्बर्यां स कीर्त्त्यते।
ब्रह्मज्योतिर्वसुर्नाम ब्रह्मस्थाने स उच्यते ॥ २९.२३ ॥

अजैकपादुपस्थेयः स वै शालामुखीयकः।
अनुद्देश्योप्यहिर्बुध्न्यः सोऽग्निर्गृहपतिः स्मृतः ॥ २९.२४ ॥

शस्यस्यैव सुताः सर्वे उपस्थेया द्विजैः स्मृताः।
ततो विहरणीयांश्च वक्ष्याम्यष्टौ तु तत्सुतान् ॥ २९.२५ ॥

क्रतुप्रवाहणोऽग्नीध्रस्तत्रस्था धिष्णयोऽपरे।
विह्रियन्ते यथास्थानं सौत्योह्नि सवनक्रमात् ॥ २९.२६ ॥ तु. ब्रह्माण्डपुराणम् १.२.१२.२७, वाजसनेयि संहिता ५.३१

पौत्रेयस्तु ततो ह्यग्निः स्मृतो यो हव्यवाहनः।
शान्तिस्वाग्निः प्रचेतास्तु द्वितीयः सत्य उच्यते ॥ २९.२७ ॥

तथाग्निर्विश्वदेवस्तु ब्रह्मस्थाने स उच्यते।
अवक्षुरच्छावाकस्तु बुवः स्थाने विभाव्यते ॥ २९.२८ ॥

उशीराग्निः सवीर्यस्तु नैष्ठीयः संविभाव्यते।
अष्टमस्तु व्यरत्तिस्तु मार्जालीयः प्रकीर्त्तितः ॥ २९.२९ ॥

धिष्ण्या विहरणीया ये सौम्येनान्येन चैव हि।
तयोर्यः पावको नाम स चापां गर्भ उच्यते ॥ २९.३० ॥

अग्निः सोऽवभृथो ज्ञेयः सम्यक् प्राप्याप्सु हूयते।
हृच्छयस्तत्सुतो ह्यग्निर्जठरे यो नृणां स्थितः ॥ २९.३१ ॥

मन्युमान् जाठरस्याग्नेर्विद्वानग्निः सुतः स्मृतः।
परस्परोच्छ्रितः सोऽग्निर्भूतानां ह विभुर्महान् ॥ २९.३२ ॥

पुत्रः सोऽग्नेर्मन्युमतो घोरः संवर्त्तकः स्मृतः ।
पिबन्नपः स वसति समुद्रे वढवामुखः ॥ २९.३३ ॥

समुद्र वासिनः पुत्रः सहरक्षो विभाव्यते।
सहरक्षसुतः क्षामो गृहाणि स दहेन्नॄणाम् ॥ २९.३४ ॥

क्रव्यादोऽग्निः सुतस्तस्य पुरुषानत्ति यो मृतान् ।
इत्येते पावकस्याग्नेः पुत्रा ह्येवं प्रकीर्तिताः ॥ २९.३५ ॥

ततः शुचेस्तु यैः सौरेर्गन्धर्वैरसुरावृतैः।
मथितो यस्त्वरण्यां वै सोऽग्निरग्निः समिध्यते ॥ २९.३६ ॥

आयुर्नामाथ भगवान् पशौ यस्तु प्रणीयते।
आयुषो महिमान् पुत्रः स शावान्नामतः सुतः ॥ २९.३७ ॥

पाकयज्ञेष्वभिमानी सोऽग्निस्तु सवनः स्मृतः।
पुत्रश्च सवनस्याग्नेरद्भुतः स महायशाः ॥ २९.३८ ॥

विविचिस्त्वद्भुतस्यापि पुत्रोऽग्नेः स महान् स्मृतः।
प्रायश्चित्तेऽथ भीमानां हुतं भुह्क्ते हविः सदा ॥ २९.३९ ॥

विविचेस्तु सुतो ह्यर्को योऽग्निस्तस्य सुतास्त्विमे।
अनीकवान् वासृजवांश्च रक्षोहा पितृकृत्तथा।
सुरभिर्वसुरत्नादौ प्रविष्टो यश्च रुक्मवान् ॥ २९.४० ॥

शुचेरग्नेः प्रजा वह्नयस्तु चतुर्द्दश।
इत्येते वह्नयः प्रोक्ताः प्रणीयन्तेऽध्वरेषु ये ॥ २९.४१ ॥

आदिसर्गे ह्यतीता वै यामैः सह सुरोत्तमैः।
स्वायम्भु वेऽन्तरे पूर्वमग्नयस्तेऽभिमानिनः ॥ २९.४२ ॥

एते विहरणीयास्तु चेतनाचेतनेष्विह।
स्थानाभिमानिनो लोके प्रागासन् हव्यवाहनाः ॥ २९.४३ ॥

काम्यनैमित्तिकाजस्रेष्वेते कर्मस्ववस्थिताः।
पूर्वमन्वन्तरेऽतीते शुक्लैर्यामैः सुतैः सह।
देवैर्महात्मभिः पुण्यैः प्रथमस्यान्तरे मनोः ॥ २९.४४ ॥

इत्येतानि मयोक्तानि स्थानानि स्थानिनश्च ह ।
तैरेव तु प्रसङ्ख्यातमतीतानागतेष्वपि ॥ २९.४५ ॥

मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम्।
सर्वे तपस्विनो ह्येते सर्वे ह्यवभृथा स्तथा।
प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृताः ॥ २९.४६ ॥

स्वारोचिषादिषु ज्ञेयाः सावर्ण्यन्तेषु सप्तसु।
मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः ॥ २९.४७ ॥

वर्त्तन्ते वर्त्तमानैश्च देवैरिह सहाग्नयः।
अनागतैः सुरैः सार्द्धं वर्त्तन्तेऽनागताग्नयः ॥ २९.४८ ॥

इत्येष निनयोऽग्नीनां मया प्रोक्तो यथातथम्।
विस्तरेणानुपूर्व्या च पितॄणां वक्ष्यते ततः ॥ २९.४९ ॥

इति श्रीमहापुराणे वायुप्रोक्ते अग्निवंशवर्णनं नामोनत्रिंशोऽध्यायः ॥ २९ ॥