॥सूत उवाच॥
विश्वास-प्रस्तुतिः
भृगोः ख्यातिर्विजज्ञेऽथ ईश्वरौ सुखदुःखयोः।
शुभाशुभप्रदातारौ सर्वप्राणभृतामिह।
देवौ धाताविधातारौ मन्वन्तरविचारिणौ ॥ २८.१ ॥
मूलम्

तयोर्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी।
सा तु नारायणं देवं पतिमासाद्य शोभनम्।
नारायणात्मजौ साध्वी बलोत्साहौ व्यजायत ॥ २८.२ ॥

तस्यास्तु मानसाः पुत्रा ये चान्ये दिव्यचारिणः।
ये वहन्ति विमानानि देवानां पुण्यकर्मणाम् ॥ २८.३ ॥

द्वे तु कन्ये स्मृते भार्ये विधातुर्धातुरेव च।
आयतिर्नियतिश्चैव तयोः पुत्रौ दृढव्रतौ ॥ २८.४ ॥

पाण्डुश्चैव मृकण्डुश्च ब्रह्मकोशौ सनातनौ।
मनस्विन्यां मृकण्जोश्च मार्क्कण्डेयो बभूव ह ॥ २८.५ ॥

सुतो वे दशिरास्तस्य मूर्द्धन्यायामजायत।
पीवर्यां वेदशिरसः पुत्रा वंशकराः स्मृताः।
मार्क्कण्डेया इति ख्याता ऋषयो वेदपारगाः ॥ २८.६ ॥

पाण्डोश्च पुण्डरीकायां द्युतिमानात्मजोऽभवत्।
उत्पन्नौ द्युतिमन्तश्च सृजवानश्च तावुभौ।
तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्परम्।
स्वायम्भुवेऽन्तरेऽतीते मरीचेः श्रृणुत प्रजाः ॥ २८.७ ॥

पत्नी मरीचेः सम्भूतिर्विजज्ञे सात्मसम्भवम्।
प्रजायते पूर्णमासं कन्याश्वेमा विबोधत।
कुष्टिः पृष्टिस्त्विषा चैव तथा चापचितिः शुभा ॥ २८.८ ॥

पूर्णमासः सरस्वत्यां द्वौ पुत्रावुदपादयत्।
विरजञ्चैव धर्मिष्ठं पर्वसञ्चैव तावुभौ ॥ २८.९ ॥

विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः।
सुधामसुतवैराजः प्राच्यान्दिशि सममाश्रितः ॥ २८.१० ॥

लोकपालः सुधर्मात्मा गौरीपुत्रः प्रतापवान् ।
पर्वसः सर्वगणानां प्रविष्टः स महायशाः ॥ २८.११ ॥

पर्वसः पर्वसायान्तु जनयामास वै सुतौ।
यज्ञवामञ्च श्रीमन्तं सुतं काश्यपमेव च।
तयोर्गोत्रकरौ पुत्रौ तौ जातौ धर्मनिश्वितौ ॥ २८.१२ ॥

स्मृतिश्वाङ्गिरसः पत्नी जज्ञे तावात्मसम्भवौ।
पुत्रौ कन्याश्वतस्रश्च पुण्यास्ता लोकविश्रुताः ॥ २८.१३ ॥

सिनीवाली कुहूश्चैव राका चानुमतिस्तथा।
तथैव भरताग्निञ्च कीर्त्तिमन्तञ्च तावुभौ ॥ २८.१४ ॥

अग्नेः पुत्रन्तु पर्जन्यं संहूती सुषुवे प्रभुम्।
हिरण्यरोमा पर्जन्यो मारीच्यामुदपादयत्।
आभूतसम्प्लवस्थायी लोकपालः सवै स्मृतः ॥ २८.१५ ॥

जज्ञे कीर्तिमतश्चापि धेनुका तावकल्मषौ।
वरिष्ठं धृतिमन्तञ्चाप्युभावङ्गिरसां वरौ ॥ २८.१६ ॥

तयोः पुत्राश्च पौत्राश्च येऽतीता वै सहस्रशः।
अनसूयापि जज्ञे तान् पुलहस्य प्रजापतेः ॥ २८.१७ ॥

कन्याञ्चैव श्रुतिं नाम माता शङ्खपदस्य या।
कर्दमस्य तु या पत्नी पुलहस्य प्रजापतेः ॥ २८.१८ ॥

सत्यनेत्रश्च हव्यश्च आपोमूर्तिः शनीवरः।
सोमश्च पञ्चमस्तेषामासीत् स्वायम्भुवेऽन्तरे।
यामेऽतीते सहातीताः पञ्चात्रेयाः प्रकीर्तिताः ॥ २८.१९ ॥

तेषां पुत्राश्च पौत्राश्च ह्यत्रिणा वै महात्मना।
स्वायम्भुवेऽन्तरे यामे शतशोऽथ सहस्रशः ॥ २८.२० ॥

प्रीत्यां पुलस्त्यभार्यायां दत्तालिस्तत्सूतोऽभवत्।
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे।
मध्यमो देवबाहुश्च विनीतो नाम ते त्रयः ॥ २८.२१ ॥

स्वसा यवीयसी तेषां सद्वती नाम विश्रुता।
पर्जन्यजननी शुभ्रा पत्नी त्वग्नेः स्मृता शुभा
विश्वास-प्रस्तुतिः
पौलस्त्यस्य ऋषेश्चापि प्रीतिपुत्रस्य धीमतः।
दत्तालेः सुषुवे पत्नी सुजङ्घादीन् बहून् सुतान्।
पौलस्त्या इति विख्याताः स्मृताः स्वायम्भुवेऽन्तरे ॥ २८.२३ ॥

क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः।
ते नाग्निवर्चसः सर्वे येषां कीर्तिः प्रतिष्ठिता ॥ २८.२४ ॥

कर्दमश्चाम्बरीषश्च सहिष्णुश्चेति ते त्रयः ।
ऋषिर्धनकपीवांश्च शुभा कन्या च पीवरी ॥ २८.२५ ॥

कर्दमस्य श्रुतिः पत्नी आत्रेय्य जनयत्सुतान्।
पुत्रं शङ्खपदञ्चैव कन्यां काम्यां तथैव च ॥ २८.२६ ॥

स वै शह्खपदः श्रीमान् लोकपालः प्रजापतिः।
दक्षिणस्यां दिशि रतः साम्यां दत्त्वा प्रियव्रते ॥ २८.२७ ॥

काम्या प्रियव्रताल्लेभे स्वायम्भुवसमान् सुतान्।
दशकन्याद्वयञ्चैव यैः क्षत्रं सम्प्रवर्तितम् ॥ २८.२८ ॥

पुत्रो धनकपीवांश्च सहिष्णुर्नाम विश्रुतः।
यशोधारी विजज्ञे वै कामदेवः सुमध्यमः ॥ २८.२९ ॥

ऋतोः क्रतुसमः पुत्रो विजज्ञे सन्ततिः शुभा।
नैषां भार्यस्ति पुत्रो वा सर्वे ते ह्यूर्ध्व रेतसः।
षष्ट्येतानि सहस्राणि वालखिल्या इति श्रुताः ॥ २८.३० ॥

अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्।
आभूतसम्प्लवात्सर्वे पतङ्गसहचारिणः ॥ २८.३१ ॥

स्वसारौ तु यवीयस्यौ पुण्यात्मसुमती च ते।
पर्वसस्य स्नुषे ते वै पूर्णमाससुतस्य वै ॥ २८.३२ ॥

ऊर्जायान्तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे।
ज्यायसी च स्वसा तेषां पुण्डरीका सुमध्यमा ॥ २८.३३ ॥

जननी सा द्युतिमतः पाण्डोस्तु महिषी प्रिया ।
अस्यां त्विमे यवीयांसो वासिष्ठाः सप्त विश्रुताः ॥ २८.३४ ॥

रजः पुत्रोऽर्द्धबाहुश्च सवनश्चाधनश्च यः।
सुतपाः शुक्ल इत्येते सर्वे सप्तर्षयः स्मृताः ॥ २८.३५ ॥

रजसो वाप्यजनयन्मार्कण्डेयी यशस्विनी।
प्रतीच्यां दिशि राजन्यं केतुमन्तं प्रजापतिम् ॥ २८.३६ ॥

गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम्।
स्वायम्भुवेन्तरेऽतीतास्त्वग्नेस्तु श्रृणुत प्रजाः ॥ २८.३७ ॥

इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्त्तितः।
विस्तरेणानुपूर्व्या चाप्यग्नेस्तु श्रृणुत प्रजाः ॥ २८.३८ ॥

इति श्रीमहापुराणे वायुप्रोक्ते ऋषिवंशानुकीर्त्तनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥