०२७

॥ऋषयः ऊचुः॥

विश्वास-प्रस्तुतिः

अस्मिन् कल्पे त्वया चोक्तः प्रादुर्भावो महात्मनः।
महादेवस्य रुद्रस्य साधकैर्मुनिभिः सह ॥ २७.१ ॥

मूलम्

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

उत्पत्तिरादिसर्गस्य मया प्रोक्त समासतः।
विस्तरेणास्य वक्ष्यामि नामानि तनुभिः सह ॥ २७.२ ॥

पत्नीषु जनयामास महादेवः सुतान् बहून्।
कल्पेऽष्टमे व्यतीते तु यस्मिन् कल्पे तु तच्छृणु ॥ २७.३ ॥

कल्पादौ चात्मानस्तुल्यं सुतं प्रध्यायतः प्रभोः।
प्रादुरासीत्ततोङ्केऽस्य कुमारो नीललोहितः।
तं दधे सुस्वरं घोरं निर्दहन्निव तेजसा ॥ २७.४ ॥

दृष्ट्वा रुदन्तं सहसा कुमारं नीललोहितम्।
व्क रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ॥ २७.५ ॥

सोऽब्रवीद्देहि मे नाम प्रथमं वै पितामह।
रुद्रस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ॥ २७.६ ॥

कि रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ।
नाम देहि द्वितीयं मे इत्युवाच स्वयम्भुवम् ॥ २७.७ ॥

भवस्त्वं देव नाम्नासि ङ्त्युक्तः सोऽरुदत्पुनः।
किं रोदिषीति तं ब्रह्मा प्रत्युवाचाथ शङ्करम् ॥ २७.८ ॥

तृतीयं देहि मे नाम इत्युक्तः प्रत्युवाच तम्।
शिवस्त्वं देव नाम्नासि इत्युक्तः प्रत्युवाच तम्।
शिवस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ॥ २७.९ ॥

किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत्।
चतुर्थं देहि मे नाम इत्युवाच स्वयम्भुवम् ॥ २७.१० ॥

पशूनां त्वं पतिर्देव इत्युक्तः सोऽरुदत्पुनः।
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ॥ २७.११ ॥

पञ्चमं देहि मे नाम इत्युक्तः प्रत्युवाच तम्।
ईशस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ॥ २७.१२ ॥

मूलम्

पञ्चमं देहि मे नाम इत्युक्तः प्रत्युवाच तम्।
ईशस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ॥ २७.१२ ॥

विश्वास-प्रस्तुतिः

किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत्।
षष्ठं मे नाम देहीति इत्युवाचाथ तं प्रभुम् ॥ २७.१३ ॥

भीमस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ।
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ॥ २७.१४ ॥

सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच तम्।
उग्रस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ॥ २७.१५ ॥

मूलम्

सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच तम्।
उग्रस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ॥ २७.१५ ॥

विश्वास-प्रस्तुतिः

किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत्।
अष्ठमं देहि मे नाम त्वं विभो पुनरब्रवीत्।
महादेवस्तु नाम्नासि इत्युक्तो विरराम ह ॥ २७.१६ ॥

लब्ध्वा नामानि चैतानि ब्रह्मणो नीललोहितः।
प्रोवाच नाम्नामेतेषां भूतानि प्रदिशेति ह ॥ २७.१७ ॥

ततोऽभिशृष्टास्तनव एषां नाम्नां स्वयम्भुवा।
सूर्यो मही जलं वह्निर्वायुराकाशमेव च ॥ २७.१८ ॥

दीक्षितो ब्रह्मणश्चन्द्र इत्येते ब्रह्मधातवः।
तेषु पूज्यश्च वन्द्यः स्याद्रुद्रस्तान् हिनस्ति वै ॥ २७.१९ ॥

ततोऽब्रवीत् पुनर्ब्रह्मा तं देवं नीललोहितम् ।
द्वितीयं नामधेयन्ते मया प्रोक्तं भवेति यत्।
एतस्यापो द्वितीया ते तनुर्नाम्ना भविष्यति ॥ २७.२० ॥

इत्युक्ते यत् स्थिरं तस्य शरीरस्थं रसात्मकम्।
तद्विवेश ततस्तोयं तस्मादापो भवः स्मृतः ॥ २७.२१ ॥

यस्माद्भवन्ति भूतानि ताभ्यस्ता भावयन्ति च।
भवनाद्भावनाच्चैव भूतानां सम्भवः स्मृतः ॥ २७.२२ ॥

तस्मान्मूत्रं पुरीषञ्च नाप्सु कुर्वीत सर्वदा।
न स्नायेदप्सु नग्नश्च न निष्ठीवेत् कदाचन ॥ २७.२३ ॥

मैथुनं नैव सेवेत शिरःस्नानञ्च वर्जयेत्।
न प्रीतः परिचक्षीत वहन्न संस्थितोऽपि वा ॥ २७.२४ ॥

मेध्यामेध्यशरीरत्वान्नैव दुष्यन्त्यपः क्वचित् ।
विवर्णरसगन्धाश्च अल्पाश्च परिवर्जयेत् ॥ २७.२५ ॥

अपां योनिः समुद्रश्च तस्मात्तं कामयन्ति ताः।
मेध्याश्चैवामृताश्चैव भवन्ति प्राप्य सागरम् ॥ २७.२६ ॥

तस्मादपो न रुन्धीत समुद्रं कामयन्ति ताः।
न हिनस्ति भवो देवः सदैवं योऽप्सु वर्त्तते ॥ २७.२७ ॥

ततोऽब्रवीत् पुनर्ब्रह्मा तं देवं कृष्णलोहितम्।
शर्वस्त्वमिति यन्नाम तृतीयं समुदाहृतम्।
तस्य भूमिस्तृतीया तु तनुर्नाम्ना भवत्वियम् ॥ २७.२८ ॥

इत्युक्ते यत् स्थिरं तस्य शरीरस्यास्थिसञ्ज्ञितम्।
तद्विवेश ततो भूमिस्तस्माद्भूः शर्व उच्यते ॥ २७.२९ ॥

तस्मात् कुर्वीत नो विद्वान् पुरीषम्मूत्रमेव वा।
न च्छायायां न सोपाने स्वच्छायां नापि मेहयेत् ॥ २७.३० ॥

शिरः प्रापृत्य कुर्वीत अन्तर्द्धाय तृणैर्महीम्।
य एवं वर्त्तते भूमौ तं शर्वो न हिनस्ति वै ॥ २७.३१ ॥

ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं नीललोहितम्।
ईशान इति यत्‌प्रोक्तं चतुर्थं नाम ते मया ॥ २७.३२ ॥

चतुर्थस्य चतुर्थी स्याद्वायुर्नाम्ना तनुस्तव।
इत्युक्ते यच्छरीरस्थं पञ्चधा प्राणसञ्ज्ञितम् ॥ २७.३३ ॥

विवेश तं तदा वायुरीशानो वायुरुच्यते।
तस्मादेनं परिवदेदायतं वायुमीश्वरम्।
एवं युक्तमथेशानो नैव देवो हिनस्ति तम् ॥ २७.३४ ॥

ततोऽब्रवीत् पुनर्ब्रह्मा तं देवं धूम्रलोहितम्।
यत्ते पशुपतीत्युक्तं मया नामेह पञ्चमम्।
पञ्चमी पञ्चमस्यैव तनुर्नाम्नाऽग्निरस्तु ते ॥ २७.३५ ॥

इत्युक्ते यच्छरीरस्थं तेजस्तस्योपसञ्ज्ञितम्।
विवेश तत्तदा ह्यग्निस्तस्मात्पशुपतिः पतिः ॥ २७.३६ ॥

चन्द्रमास्तु स्मृतः सोमस्तस्यात्मा ह्योषधीगणः।
एवं यो वर्त्तते विद्वान् सदा पर्वणि पर्वणि।
न हन्ति तं महादेव एवं वन्देत तं प्रभुम् ॥ २७.३७ ॥

गोपायति दिवादित्यः प्रजा नक्तन्तु चन्द्रमाः।
एकरात्रे समेयातां सूर्याचन्द्रमसावुभौ।
अमावास्यानिशायान्तु तस्यां युक्तः सदा वसेत् ॥ २७.३८ ॥

तत्राविष्टं सर्वमिदन्तनुभिर्नामभिः सह।
एकाकी यश्चरत्येषः सूर्याऽसौ चन्द्र उच्यते ॥ २७.३९ ॥

सूर्यस्य यत् प्रकाशेन वीक्ष्यन्ते चक्षुषा प्रजाः।
शुक्लात्मा संस्थितो रुद्रः पिबत्यम्भो गभस्तिभिः ॥ २७.४० ॥

अद्यते पीयते चैवाप्यन्नपानात्मकानिया।
तनुरात्मभवा सा वै देहेष्वेवोपचीयते ॥ २७.४१ ॥

यया धत्ते प्रजाः सर्वाः स्थिरीभूतेन चेतसा।
पार्थिवी सा तनुस्तस्य शार्वी धारयति प्रजाः ॥ २७.४२ ॥

यावत् स्थिता शरीरेषु भूतानां प्राणवृत्तिभिः।
वाय्वात्मिका तु ऐशानी सा प्राणाः प्राणिना सह ॥ २७.४३ ॥

पीताशितानि पचति भूतानां जठरेषु या।
ततः पाशुपती तस्य पाचिका शक्तिरुच्यते ॥ २७.४४ ॥

यानीह सुषिराणि स्युर्देहेष्वन्तर्गतानि वै।
वायोः सञ्चरणार्थाय सा भीमा चोच्यते तनुः ॥ २७.४५ ॥

वैतानदीक्षितानां तु या स्थितिर्ब्रह्मवादिनाम्।
तनुरुग्रात्मिका सा तु तेनोग्रो दीक्षितः स्मृतः ॥ २७.४६ ॥

यत्तु सङ्कल्पकं तस्य प्रजास्विह समं स्थितम्।
सा तनुर्मानसी तस्य चन्द्रमाः प्राणिषु स्थितः ॥ २७.४७ ॥

नवो नवो भवति हि जायमानः पुनः पुनः।
नीयते यो यथाकामं विभुधैः पितृभिः सह।
महादेवोऽमृतात्माऽसौ ह्यम्मयश्चन्द्रमाः स्मृतः ॥ २७.४८ ॥

तस्य या प्रथमा नाम्ना तनू रौद्री प्रकीर्तिता।
पत्नी सुवर्चला तस्य पुत्रस्तस्याः शनैश्वरः ॥ २७.४९ ॥

भवस्य या द्वितीया तु तनुरापः स्मृता तु वै ।
तस्यो षाऽत्र स्मृता पत्नी पुत्रश्चाप्युशना स्मृतः ॥ २७.५० ॥

शर्वस्य या तृतीया तु नाम भूमिस्तनुः स्मृता।
पत्नी तस्य विकेशीति पुत्रश्चाङ्गारकः स्मृतः ॥ २७.५१ ॥

ईशानस्य चतुर्थस्य स्वर्गतस्य च या तनुः।
तस्य पत्नी शिवा नाम पुत्रश्चास्य मनोजवः ॥ २७.५२ ॥

नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता।
तस्य पत्नी स्मृता स्वाहा स्कन्दश्चापि सुतः स्मृतः ॥ २७.५३ ॥

नाम्ना षष्ठस्य या भीमा तनुराकाश उच्यते।
दिशः पत्न्यः स्मृतास्तस्य स्वर्गश्चास्य सुतः स्मृतः ॥ २७.५४ ॥

उग्रा तनुः सप्तमी या दीक्षितैर्ब्राह्मणैः स्मृता।
दीक्षा पत्नी स्मृता तस्य सन्तानः पुत्र उच्यते ॥ २७.५५ ॥

नाम्नाऽष्टमस्य महतस्तनुर्या चन्द्रमाः स्मृतः।
पत्नी तु रोहिणी तस्य पुत्रश्चास्य बुधः स्मृतः ॥ २७.५६ ॥

इत्येतास्तनवस्तस्य नामभिः परिकीर्तिताः।
तास्तु वन्द्य नमस्याश्च प्रतिनाम तनूषु वै ॥ २७.५७ ॥

भक्तेः सूर्येऽप्सु पृथिव्यां वाय्वग्निव्योमदीक्षिते।
तथा च वै चन्द्रमसि तनुभिर्नामभिः सह।
प्रजावानेति सायुज्यमीश्वरस्य नरो हि सः ॥ २७.५८ ॥

इत्येतद्वो मयाख्यातं गुह्यं भीमस्य तद्यशः।
शन्नोऽस्तु द्विपदे नित्यं शन्नोऽस्तु च चतुष्पदे ॥ २७.५९ ॥

एतत् प्रोक्तं निदानं वस्तनूनां नामभिः सह।
महादेवस्य देवस्य भृगोस्तु श्रृणुत प्रजाः ॥ २७.६० ॥

इति श्रीमहापुराणे वायुप्रोक्ते महादेवतनुवर्णनं नाम सप्तविशोऽध्यायः ॥ २७ ॥