॥सूत उवाच॥
विश्वास-प्रस्तुतिः
अहो विस्मयनीयानि रहस्यानि महामते।
त्वयोक्तानि यथातत्त्वं लोकानुग्रहकारणात् ॥ २६.१ ॥
मूलम्

तत्र वै संशयो मह्यमवता (वा) रेषु शूलिनः।
किं कारणं महादेवः कलिं प्राप्य सुदारुणम्।
हित्वा युगानि पूर्वाणि अवतारं करोति वै ॥ २६.२ ॥

अस्मिन्मन्वन्तरे चैव प्राप्ते वैवस्वते प्रभो।
अवतारं कथञ्चक्रे एतदिच्छामि वेदितुम् ॥ २६.३ ॥

न तेऽस्त्यविदितं किञ्चिदिह लोके परत्र च।
भक्तानामुपदेशार्थं विनयात् पृच्छतो मम।
कथयस्व महाप्राज्ञ यदि श्राव्यं महामतम् ॥ २६.४ ॥

॥लोमश उवाच॥
विश्वास-प्रस्तुतिः
एवं पृष्टोऽथ भगवान् वायुर्लोकहिते रतः।
इदमाह महातेजा वायुर्लोकनमस्कृतः ॥ २६.५ ॥

एतद्घुप्ततमं लोके यन्मान्त्वं परिपृच्छसि।
तत्सर्वं श्रृणु गाधेय उच्यमानं यथाक्रमम् ॥ २६.६ ॥

पुरा ह्येकार्णवे वृत्ते दिव्ये वर्षसहस्रके।
स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःशितः ॥ २६.७ ॥

तस्य चिन्तयमानस्य प्रादुर्भूतः कुमारकः।
दिव्यगन्धः सुधापेक्षी दिव्यां श्रुतिमुदीरयन् ॥ २६.८ ॥

अशब्दस्पर्शरूपान्तामगन्धां रसवर्ज्जिताम्।
श्रुतिं ह्युदीरयन् देवो यामविन्दच्चतुर्मुखः ॥ २६.९ ॥

ततस्तु ध्यानसंयुक्तस्तप आस्थाय भैरवम्।
चिन्तयामास मनसा त्रितयं कोऽन्वयन्त्विति ॥ २६.१० ॥

तस्य चिन्तयमानस्य प्रादुर्भूतं तदक्षरम्।
अशब्दस्पर्शरूपञ्च रसगन्धविवर्ज्जितम् ॥ २६.११ ॥

अथोत्तमं स लोकेषु स्वमूर्त्तिञ्चापि पश्यति।
ध्यायन्वै स तदा देवमथैनं पश्यते पुनः ॥ २६.१२ ॥

तं श्वेतमथ रक्तञ्च पीतं कृष्णं तदा पुनः।
वर्णस्थं तत्र पश्येत न स्त्री न च नपुंसकम् ॥ २६.१३ ॥

तत्सर्वं सुचिरं ज्ञात्वा चिन्तयन् हि तदक्षरम् ।
तस्य चिन्तयमानस्य कण्ठादुत्तिष्ठतेऽक्षरः ॥ २६.१४ ॥

एकमात्रो महाघोषः श्वेतवर्णः सुनिर्मलः।
स ओङ्कारो भवेद्वेदः अक्षरं वै महेश्वरः ॥ २६.१५ ॥

ततश्चिन्तयमानस्य त्वक्षरं वै स्वयम्भुवः।
प्रादुर्भूतन्तु रक्तन्तु स देवः प्रथमः स्मृतः ॥ २६.१६ ॥

ऋग्वेदं प्रथमं तस्य त्वग्निमीळे पुरोहितम्।
एतां दृष्ट्वा ऋचं ब्रह्मा चिन्तयामास वै पुनः।
तदक्षरं महातेजाः किमेतदिति लोककृत् ॥ २६.१७ ॥

तस्य चिन्तयमानस्य तस्मिन्नथ महेश्वरः ।
द्विमात्रमक्षरं जज्ञे ईशित्वेन द्विमात्रिकम् ॥ २६.१८ ॥

ततः पुनर्द्विमात्रं तु चिन्तयामास चाक्षरम्।
प्रादुर्भूतं च रक्तं तच्छेदने गृह्य सा यजुः ॥ २६.१९ ॥

इषे त्वोर्ज्जेत्वा वायवस्थ देवो वः सविता पुनः।
ऋग्वेद एकमात्रस्तु द्विमात्रन्तु यजुः स्मृतम् ॥ २६.२० ॥

ततो वेदं द्विमात्रं तु दृष्ट्वा चैव तदक्षरम्।
द्विमात्रं चिन्तयन् ब्रह्म त्वक्षरं पुनरीश्वरः ॥ २६.२१ ॥

तस्य चिन्तयमानस्य चोङ्कारः सम्बभूव ह।
ततस्तदक्षरं ब्रह्मा ओङ्कारं समचिन्तयत् ॥ २६.२२ ॥

अथापश्यत्ततः पीतामृचं चैव समुत्थिताम्।
अग्न आयाहि वीतये गृणानो हव्यदातये ॥ २६.२३ ॥

ततस्तु स महातेजा दृष्ट्वा वेदानुपस्थितान्।
चिन्तयित्वा च भगवांस्त्रिसन्ध्यं यत्र्रिरक्षरम्।
त्रिवर्णं यत् त्रिषवणमोङ्कारं ब्रह्मसञ्ज्ञितम् ॥ २६.२४ ॥

ततश्वैव त्रिसंयोगात् त्रिवर्णं तु तदक्षरम्।
लक्ष्यालक्ष्यप्रदृश्यं च सहितं त्रिदिवं त्रिकम् ॥ २६.२५ ॥

त्रिमात्रं त्रिपदं चैव त्रियोगं चैव शाश्वतम्।
तस्मात्तदक्षरं ब्रह्मा चिन्तयामास वै प्रभुः ॥ २६.२६ ॥

तस्मात्तदक्षरं सोऽथ ब्रह्मरूपं स्वयम्भुवः।
चतुर्द्दशमुखं देवं पश्यते दीप्ततेजसम्।
तमोङ्कारं स कृत्वादौ विज्ञेयः स स्वयम्भुवः ॥ २६.२७ ॥

चतुर्मुखमुखात्तस्मादजायन्त चतुर्द्दश।
नानावर्णाः स्वरा दिव्यमाद्यं तच्च तदक्षरम्।
तस्मात् त्रिषष्टिवर्णा वै अकारप्रभवाः स्मृताः ॥ २६.२८ ॥

ततः साधारणार्थाय वर्णानान्तु स्वयम्भुवः।
अकाररूप आदौ तु स्थितः स प्रथमः स्वरः ॥ २६.२९ ॥

ततस्तेभ्यः स्वरेभ्यस्तु चतुर्द्दश महामुखाः।
मनवः सम्प्रसूयन्ते दिव्या मन्वन्तरे स्वराः ॥ २६.३० ॥

चतुर्द्दशमुखो यश्च अकारो ब्रह्मसञ्ज्ञितः।
ब्रह्मकल्पः समाख्यातः सर्ववर्णः प्रजापतिः ॥ २६.३१ ॥

मुखात्तु प्रथमात्तस्य मनुः स्वायम्भुवः स्मृतः।
अकारस्तु स विज्ञेयः श्वेतवर्णः स्वयम्भुवः ॥ २६.३२ ॥

द्वितीयात्तु मुखात्तस्य आकारो वै मुखः स्मृतः।
नाम्ना स्वारोचिषो नाम वर्णः पाण्डुर उच्यते ॥ २६.३३ ॥

तृतीयात्तु मुखात्तस्य इकारो यजुषां वरः।
यजुर्मयः स चादित्यो यजुर्वेदो यतः स्मृतः ॥ २६.३४ ॥

ईकारः स मनुर्ज्ञेयो रक्तवर्णः प्रतापवान्।
ततः क्षत्रं प्रवर्त्तन्त तस्माद्रक्तस्तु क्षत्रियः ॥ २६.३५ ॥

चतुर्थात्तु मुखात्तस्य उकारः स्वर उच्यते।
वर्णतस्तु स्मृतस्ताम्रः स मनुस्तामसः स्मृतः ॥ २६.३६ ॥

पञ्चमात्तु मुखात्तस्य ऊकारो नाम जायते।
पीतको वर्णतश्चैव मनुश्चापि चरिष्णवः ॥ २६.३७ ॥

ततः षष्ठान्मुखात्तस्य ओङ्कारः कपिलः स्मृतः।
वरिष्ठश्च ततः षष्ठो विजयः स महातपाः ॥ २६.३८ ॥

सप्तमात्तु मुखात्तस्य ततो वैवस्वतो मनुः।
ऋकारश्च स्वरस्तत्र वर्णतः कुष्ण उच्यते ॥ २६.३९ ॥

अष्टमात्तु मुखात्तस्य ॠकारः श्यामवर्णतः।
श्यामाक्षरसवर्णश्च ततः सावर्णिरुच्यते ॥ २६.४० ॥

मुखात्तु नवमात्तस्य लृकारो नवमः स्मृतः।
धूम्रो वै वर्णतश्चापि धूम्रस्व मनुरुच्यते ॥ २६.४१ ॥

दशमात्तु मुखात्तस्य लृकारः प्रभुरुच्यते।
समश्चैव सवर्णश्च बभौ सावर्णिको मनुः ॥ २६.४२ ॥

मुखादेकादशात्तस्य एकारो मनुरुच्यते।
पिशङ्गो वर्णतश्चैव पिशङ्गो वर्ण उच्यते ॥ २६.४३ ॥

द्वादशात्तु मुखात्तस्य ऐकारो नाम उच्यते।
पिशङ्गो भस्मवर्णाभः पिशङ्गो मनुरुच्यते ॥ २६.४४ ॥

त्रयोदशान्मुखात्तस्य ओकारो वर्ण उच्यते।
पञ्चवर्णसमायुक्त ओकारो वर्ण उत्तमः ॥ २६.४५ ॥

चतुर्द्दशमुखात्तस्य औकारो वर्ण उच्यते।
कर्बूरो वर्णतश्चैव मनुः सावर्णिरुच्यते ॥ २६.४६ ॥

इत्येते मनवश्चैव स्वरा वर्णाश्च कल्पतः।
विज्ञेया हि यथातत्त्वं स्वरतो वर्णतस्तथा ॥ २६.४७ ॥

परस्परसवर्णाश्च स्वरा यस्माद् वृता हि वै ।
तस्मात्तेषां सवर्णत्वादन्वयस्तु प्रकीर्तितः ॥ २६.४८ ॥

सवर्णाः सदृशाश्चैव यस्माज्जातास्तु कल्पजाः।
तस्मात् प्रजानां लोकेऽस्मिन् सवर्णाः सर्वसन्धयः ॥ २६.४९ ॥

भविष्यन्ति यथाशैलं वर्णाश्च न्यायतोऽर्थतः।
अभ्यासात्सन्धयश्चैव तस्माज्ज्ञेयाः स्वरा इति ॥ २६.५० ॥

इति श्रीमहापुराणे वायुप्रोक्ते स्वरोत्पत्तिर्नाम षड्विंशोऽध्यायः ॥ २६ ॥