०२५

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

सम्पिबन्निव तौ दृष्ट्वा मधुपिङ्गायतेक्षणः ।
प्रहृष्टवदनोऽत्यर्थमभवच्च स्वकीर्त्तनात् ॥ २५.१ ॥

मूलम्

उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः।
पिनाकी खण्डपरशुर्भूतप्रान्तस्त्रिलोचनः ॥ २५.२ ॥

ततः स भगवान् देवः श्रुत्वा वाक्यामृतं तयोः।
जानन्नपि महाभागः प्रीतपूर्वमथाब्रवीत् ॥ २५.३ ॥

कौ भवन्तौ महात्मानौ परस्परहितैषिणौ।
समेतावम्बुजाभाक्षौ तस्मिन् घोरे जलप्लवे ॥ २५.४ ॥

तावूचतूर्महात्मानौ सन्निरीक्ष्य परस्परम्।
भगवन् किञ्च तथ्येन विज्ञातेन त्वया विभो।
कुत्र वा सुखमानन्त्यमिच्छाचारमृते त्वया ॥ २५.५ ॥

उवाच भगवान् देवो मधुरश्लक्ष्णया गिरा।
भो भो हिरण्यगर्भ त्वां त्वां च कृष्ण वदाम्यहम् ॥ २५.६ ॥

प्रीतोऽहमनया भक्त्या शाश्वताक्षरयुक्तया।
भवन्तौ माननीयौ वै मम ह्यर्हतरावुभौ।
युवाभ्यां किं ददाम्यद्य वराणां वरमुत्तमम् ॥ २५.७ ॥

तेनैवमुक्ते वचने ब्रह्माणं विष्णुरब्रवीत् ।
ब्रूहि ब्रूहि महाभाग वरो यस्ते विवक्षितः ॥ २५.८ ॥

प्रजाकामोऽस्म्यहं विष्णो पुत्रमिच्छामि धूर्वहम्।
ततः स भगवान् ब्रह्मा वेरप्सुः पुत्रलिप्सया ॥ २५.९ ॥

अथ विष्णुरुवाचेदं प्रजाकामं प्रजापतिम्।
वीरमप्रतिमं पुत्रं यत्त्वमिच्छसि धूर्वहम् ॥ २५.१० ॥

पुत्रत्वेनाभियुङ्क्ष्व त्वं देवदेवं महेश्वरम्।
सतस्य वाक्यं सम्पूज्य केशवस्य पितामहः ॥ २५.११ ॥

ईशानं वरदं रुद्रमभिवाद्य कृताञ्जलिः ।
उवाच पुत्रकामस्तु वाक्यानि सह विष्णुना ॥ २५.१२ ॥

यदि मे भगवान् प्रीतः पुत्रकामस्य नित्यशः।
पुत्रो मे भव विश्वात्मन् स्वतुल्यो वापि धूर्वहः।
नान्यं वरमहं वव्रे प्रीते त्वयि महेश्वर ॥ २५.१३ ॥

तस्य तां प्रार्थनां श्रुत्वा भगवान् भगनेत्रहा।
निष्कल्मषममायञ्च बाढमित्यब्रवीद्वचः ॥ २५.१४ ॥

यदा कार्यसमारम्भे कस्मिंश्चित्तव सुव्रत।
अनिष्णत्तौ च कार्यस्य क्रोधस्त्वां समुपेष्यति।
आत्मैकादश ये रुद्रा विहिताः प्राण हेतवः ॥ २५.१५ ॥

सोऽहमेकादशात्मा वै शूलहस्तः सहानुगः।
ऋषिर्मित्रो महात्मा वै ललाटाद्भविता तदा ॥ २५.१६ ॥

प्रसादमतुलं कृत्वा ब्रह्मणस्तादृशं पुरा।
विष्णुं पुनरुवाचेदं ददामि च वरन्तव ॥ २५.१७ ॥

स होवाच महाभागो विष्णुर्भवमिदं वचः।
सर्वमेतत् कृतं देव परितुष्टोऽसि मे यदि।
त्वयि मे सुप्रतिष्ठाऽस्तु भक्तिरम्बुदवाहन ॥ २५.१८ ॥

एवमुक्तस्ततो देवस्तमभाषत केशवम्।
विष्णो श्रृणु यथा देव प्रीतोऽहन्तव शाश्वत ॥ २५.१९ ॥

प्रकाशञ्चाप्रकाशञ्च जङ्गमं स्थावरञ्च यत् ।
विश्वरूपमिदं सर्वं रुद्रनारायणात्मकम् ॥ २५.२० ॥

अहमग्निर्भवान् सोमो भवान् रात्रिरहं दिनम्।
भवानृतमहं सत्यं भवान् क्रतुरहं फलम् ॥ २५.२१ ॥

भवान् ज्ञानमहं ज्ञेयं यज्जपित्वा सदा जनाः ।
मां विशन्ति त्वयि प्रीते जनाः सुकृतकारिणः।
आवाभ्यां सहिता चैव गतिर्नान्या युगक्षये ॥ २५.२२ ॥

आत्मानं प्रकृतिं विद्धि मां विद्धि पुरुषं शिवम्।
भवानर्द्धशरीरं मे त्वहन्तव यथैव च ॥ २५.२३ ॥

वामपार्श्वमहम्मह्यं श्यामं श्रीवत्सलक्षणम् ।
त्वञ्च वामेतरं पार्श्वं त्वहं वै नीललोहितः ॥ २५.२४ ॥

त्वञ्च मे ह्वदयं विष्णो तव चाहं हृदि स्थितः।
भवान् सर्वस्य कार्यस्य कर्त्ताहमधिदैवतम् ॥ २५.२५ ॥

तदेहि स्वस्ति ते वत्स गमिष्याम्यम्बुदप्रभ।
एवमुक्त्वा गतो विष्णोर्देवोऽन्तर्द्धानमीश्वरः ॥ २५.२६ ॥

ततः सोऽन्तर्हिते देवे सम्प्रहृष्टस्तदा पुनः।
अशेत शयने भूप प्रविश्यान्तर्जले हरिः ॥ २५.२७ ॥

तं पझं पझगर्भाभं पझाक्षः पझसम्भवः।
सम्प्रहृष्टमना ब्रह्मा भेजे ब्राह्मं तदासनम् ॥ २५.२८ ॥

अथ दीर्घण कालेन तत्राप्यप्रतिमावुभौ।
महाबलौ महासत्त्वौ भ्रातरौ मधुकैटभौ ॥ २५.२९ ॥

ऊचतुश्वैव वचनं भक्ष्यो वै नौ भविष्यसि ।
एवमुक्त्वा तु तौ तस्मिन्नन्तर्द्धानं गतावुभौ ॥ २५.३० ॥

दारुणन्तु तयोर्भावं ज्ञात्वा पुष्करसम्भवः ।
माहात्म्यं चात्मनो बुद्ध्वा विज्ञातुमुपचक्रमे ॥ २५.३१ ॥

कर्णिकाघटनं भूयो नाभ्यजानाद्यदा गतिम्।
ततः स पझनालेन अवतीर्य रसातलम्।
कृष्णा जिनोत्तरासङ्गन्ददृशोऽन्तर्जले हरिम् ॥ २५.३२ ॥

स च तं बोधयामास विबुद्धं चेदमब्रवीत् ।
भूतेभ्यो मे भयं देव त्रायस्वौ त्तिष्ठ शङ्कुरु ॥ २५.३३ ॥

ततः स भगवान् विष्णुः सप्रहासमरिन्दमः।
न भेतव्यं न भेतव्यमित्युवाच मुनिः स्वयम् ॥ २५.३४ ॥

तस्मात्पूर्वं त्वया चोक्तं भूतेभ्यो मे महद्भयम्।
तस्माद्भूतादिवा क्यैस्तौ दैत्यौ त्वं नाशयिष्यसि ॥ २५.३५ ॥

भूर्भूवःस्वस्ततो देवं विविशुस्तमयोनिजम् ।
ततः प्रदक्षिणं कृत्वा तमेवासीनमागतम् ॥ २५.३६ ॥

गते तस्मिन्ततोऽनन्त उद्गीर्य भ्रातरौ मुखात्।
विष्णुं जिष्णुञ्च प्रोवाच ब्रह्माणमभिरक्षराम्।
मधुकैटभयोर्ज्ञात्वा तयोरागमनं पुनः ॥ २५.३७ ॥

चक्राते रूप सादृश्यं विष्णोर्जिष्णोश्च सत्तमौ।
कृतसादृश्यरूपौ तौ तावेवाभिमुखौ स्थितौ ॥ २५.३८ ॥

ततस्तौ प्रोचतुर्द्दैत्यौ ब्रह्माणं दारुणं वचः।
अस्माकं युध्यमानानां मध्ये वै प्राश्रिको भव ॥ २५.३९ ॥

ततस्तौ जलमाविश्य संस्तम्भ्यापः स्वमायया ।
चक्रतुस्तुमुलं युद्धं यस्य येनेप्सितं तदा ॥ २५.४० ॥

तेषान्तु युध्य मानानां दिव्यं वर्षशतङ्गतम्।
न च युद्धमदोत्सेको ह्यन्योन्यं सन्न्यवर्त्तत ॥ २५.४१ ॥

लक्षणद्वयसंस्थानाद्रूपवन्तौ स्थितेङ्गितौ।
सादृश्याद्व्याकुलमना ब्रह्मा ध्यानमुपागमत् ॥ २५.४२ ॥

स तयोरन्तरं बुद्ध्वा ब्रह्म दिव्येन चक्षुषा।
पझकेसरजं सूक्ष्मं बबन्ध कवचन्तयोः।
आमेखलञ्च गात्रञ्च ततो मन्त्रमुदाहरत् ॥ २५.४३ ॥

जपतस्त्वभवत्कन्या विश्वरूपसमुत्थिता।
पझेन्दुवदनप्रख्या पद्महस्ता शुभा सती।
तां दृष्ट्वा व्यथितौ दैत्यौ भयाद्वर्णविवर्ज्जितौ ॥ २५.४४ ॥

ततः प्रोवाच तां कन्यां ब्रह्मा मधुरया गिरा।
काऽत्र त्वमवगन्तव्या ब्रूहि सत्यमनिन्दिते ॥ २५.४५ ॥

साम्ना सम्पूज्य सा कन्या ब्रह्माणं प्राञ्जलिस्तदा ।
मोहिनीं विद्धि मां मायां विष्णोः सन्देशकारिणीम् ॥ २५.४६ ॥

त्वया सङ्कीर्त्त्यमानाऽहं ब्रह्मन् प्राप्ता त्वरायुता।
अस्याः प्रीतमना ब्रह्मा गौणं नाम चकार ह ॥ २५.४७ ॥

मया च व्याहृता यस्मात्तवञ्चैव समुपस्थिता।
महाव्याहृतिरित्येव नाम ते विचरिष्यति ॥ २५.४८ ॥

इत्थिता च शिरो भित्त्वा सावित्री तेन चोच्यते।
एकानंशात्तु यस्मात्तवमनेकांशा भविष्यसि ॥ २५.४९ ॥

गौणानि तावदेतानि कर्मजान्यपराणि च।
नामानि ते भविष्यन्ति मत्प्रसादात् शुभानने ॥ २५.५० ॥

ततस्तौ पीड्यमानौ तु वरमेनमयाचताम्।
अनावृतं नौ मरणं पुत्रत्वञ्च भवेत्तव ॥ २५.५१ ॥

तथेत्युक्त्वा ततस्तूर्णमनयत् यमसादनम्।
अनयत् कैटभं विष्णुर्जिष्णुश्चाप्यनयन्मधुम् ॥ २५.५२ ॥

एवन्तौ निहतौ दैत्यौ विष्णुना जिष्णुना सह।
प्रीतेन ब्रह्मणा चाथ लोकानां हितकाम्यया ॥ २५.५३ ॥

पुत्रत्वमीशेन यथा ह्यात्मा दत्तो निबोधत।
विष्णुना जिष्णुना सार्द्धं मधुकैटभयोस्तथा।
सम्पराये व्यतिकान्ते ब्रह्मा विष्णुमभाषत ॥ २५.५४ ॥

अद्य वर्षशतं पूर्णं समयः प्रत्युपस्थितः।
सङ्क्षेपसम्प्लवङ्घोरं स्वस्थानं यामि चाप्यहम् ॥ २५.५५ ॥

स तस्य वचसा देवः संहारमकरोत्तदा।
महीं निस्थावरां कृत्वा प्रकृतिस्थांश्च जङ्गमान् ॥ २५.५६ ॥

यदि गोविन्द भद्रन्ते क्षिप्तस्ते यादसां पतिः।
ब्रूहि यत् करणीयं स्यान्मया ते लक्ष्मि वर्द्धन ॥ २५.५७ ॥

बाढं श्रृणु हेमाभ पझयोने वचो मम ।
प्रसादो यस्त्वया लब्ध ईश्वरात् पुत्रलिप्सया ॥ २५.५८ ॥

तन्तथा सफलं कृत्वा मत्तोऽभूदनृणो भवान्।
चतुर्विधानि भूतानि सृज त्वं विसृजस्व वा ॥ २५.५९ ॥

अवाप्य सञ्ज्ञाङ्गोविन्दात् पझयोनिः पितामहः।
प्रजाः स्रष्टुमनास्तेपे तप उग्रं ततो महत् ॥ २५.६० ॥

तस्यैवन्तप्यमानस्य न किञ्चित्समवर्त्तत।
ततो दीर्घेण कालेन दुःखात् क्रोधो व्यवर्द्धत ॥ २५.६१ ॥

सक्रोधाविष्टनेत्रभ्यामपतन्नश्रुबिन्दवः ।
ततस्तेभ्योऽश्रुबिन्दुभ्यो वातपित्तकफात्मकाः ॥ २५.६२ ॥

महाभागा महासत्त्वाः स्वस्तिकैरभ्यलङ्कृताः।
प्रकीर्णकेशाः सर्पास्ते प्रादुर्भूता महाविषाः ॥ २५.६३ ॥

सर्पांस्तथाग्रजान् दृष्ट्वा ब्रह्मात्मानमनिन्दत।
अहो धिक् तपसा मह्यं फलमीदृशकं यदि।
लोकवैनाशिकी जज्ञे आदावेव प्रजा मम ॥ २५.६४ ॥

तस्य तीव्राभवन्मूर्च्छा क्रोधामर्षसमुद्भवा।
मूर्च्छाभितापेन तदा जहौ प्राणान् प्रजापतिः ॥ २५.६५ ॥

तस्याप्रतिमवीर्यस्य देहात् कारुण्यपूर्वकम्।
आत्मैकादश ते रुद्राः प्रोद्भूता रुदतस्तथा।
रोदनात् खलु रुद्रास्ते रुद्रत्वं तेन तेषु तत् ॥ २५.६६ ॥

ये रुद्राः खलु ते प्राणा ये प्राणास्ते तदात्मकाः।
प्राणाः प्राणभृतां ज्ञेयाः सर्वभूतेष्ववस्थिताः ॥ २५.६७ ॥

अत्युग्रस्य महत्त्वस्य साधुना चरितस्य च।
तस्य प्राणान् ददौ भूयस्त्रिशूली नीललोहितः।
ललाटात् पझयोनेस्तु प्रभुरेकादशात्मकः ॥ २५.६८ ॥

ब्रह्मणः सोऽददात् प्राणानात्मजः स तदा प्रभुः।
प्रहृष्टवदनो रुद्रः किञ्चित् प्रत्यागतासवम्।
अभ्यभाषत्तदा देवो ब्रह्माणं परमं वचः ॥ २५.६९ ॥

उपयाचस्व मां ब्रह्मन् स्मर्त्तुमर्हसि चात्मनः।
मां च वेत्थात्मजं रुद्रं प्रसादं कुरु मे प्रभो ॥ २५.७० ॥

श्रत्वा त्विदं वचस्तस्य प्रभूतञ्च मनोगतम्।
पितामहः प्रसन्नात्मा नेत्रे फुल्लाम्बुजप्रभैः ॥ २५.७१ ॥

ततः प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा।
उवाच भगवान् ब्रह्मा शुद्धजाम्बूनदप्रभः ॥ २५.७२ ॥

भो भो वद महाभाग आनन्दयसि मे मनः।
को भवान् विश्वभूतिस्त्वं स्थित एकादशात्मकः ॥ २५.७३ ॥

एवमुक्तो भगवता ब्रह्मणाऽनन्ततेजसा।
ततः प्रत्यवदद्रुद्रो ह्यभिवाद्यात्मजैः सह ॥ २५.७४ ॥

यत्ते वरमहं ब्रह्मन् याचितो विष्णुना सह।
पुत्रो मे भव देवेति त्वत्तुल्यो वापि धूर्वहः ॥ २५.७५ ॥

लोकेषु विश्रुतैः कार्यं सर्वैर्विश्वात्मसम्भवैः।
विषादन्त्यज देवेश लोकांस्त्वं स्रष्टुमर्हसि ॥ २५.७६ ॥

एवं स भगवानुक्तो ब्रह्मा प्रीतमनाभवत् ।
रुद्रं प्रत्यवदद्भूयो लोकान्ते नीललोहितम् ॥ २५.७७ ॥

साहाय्यं मम कार्यार्थं प्रजाः सृज मया सह।
बीजी त्वं सर्वभूतानां तत्प्रपन्नस्तथा भव।
बाढमित्येव तां वाणीं प्रतिजग्राह शङ्करः ॥ २५.७८ ॥

ततः स भगवान् ब्रह्मा कृष्णाजिनविभूषितः।
मनोऽग्रे सोऽसृजद्देवो भूतानां धारणां ततः।
जिह्वां सरस्वतीञ्चैव ततस्तां विश्वरूपिणीम् ॥ २५.७९ ॥

भृगुमङ्गिरसं दक्षं पुलस्त्यं पुलहं क्रतुम्।
वसिष्ठञ्च महातेजाः ससृजे सप्त मानसान् ॥ २५.८० ॥

पुत्रानात्मसमानन्यान् सोऽसृजद्विश्वसम्भवान् ।
तेषां भूयोऽनुमार्गेण गावो वक्राद्विजज्ञिरे ॥ २५.८१ ॥

ओङ्कारप्रमुखान् वेदानभिमान्याश्च देवताः।
एवमेतान् यताप्रोक्तान् ब्रह्मा लोकपितामहः ॥ २५.८२ ॥

दक्षाद्यान् मानसान् पुत्रान् प्रोवाच भगवान् प्रभुः।
प्रजाः सृजत भद्रं वो रुद्रेण सह धीमता ॥ २५.८३ ॥

अनुगम्य महात्मानं प्रजानां पतयस्तदा।
वयमिच्छामहे देव प्रजाः स्रष्टुं त्वया सह।
ब्रह्मणस्त्वेष सन्देशस्तव चैव महेश्वर ॥ २५.८४ ॥

तैरेवमुक्तो भगवान् रुद्रः प्रोवाच तान् प्रभुः।
ब्रह्मणश्चात्मजा मह्यं प्राणान् गृह्य च वै सुराः ॥ २५.८५ ॥

कृत्वाग्रजाग्रजानेतान् ब्राह्मणानात्मजान्मम।
ब्रह्मादिस्तम्बपर्यन्तान् सप्तलोकान्ममात्मकान्।
भवन्तः स्रष्टुमर्हन्ति वचनान्मम स्वस्ति वः ॥ २५.८६ ॥

तेनैवमुक्ताः प्रत्यूचुः रुद्रमाद्यन्त्रिशूलिनम्।
यथाज्ञापयसे देव तथा तद्वै भविष्यति ॥ २५.८७ ॥

अनुमान्य महादेवं प्रजानां पतयस्तदा।
ऊचुर्दक्षं महात्मानं भवान् श्रेष्ठः प्रजापतिः।
त्वां पुरस्कृत्य भद्रन्ते प्रजाः स्रक्ष्यामहे वयम् ॥ २५.८८ ॥

एवमस्त्विति वै दक्षः प्रत्यपद्यत भाषितम्।
तैः सह स्रष्टुमारेभे प्रजाकामः प्रजापतिः।
सर्गस्थिते ततः स्थाणौ ब्रह्मा सर्गमथासृजत् ॥ २५.८९ ॥

अथास्य सप्तमेऽतीते कल्पे वै सम्बभूवतुः।
ऋभुः सनत्कुमारश्च तपो लोकनिवासिनौ।
ततौ महर्षीनन्यान् स मानसानसृजत् प्रभुः ॥ २५.९० ॥

इति श्रीमहापुराणे वायुप्रोक्ते मधुकैटभोत्पत्तिविनाशवर्णनं नाम पञ्चविंशोऽ ध्यायः ॥ २५ ॥