०२४

॥ वायुरुवाच ॥

विश्वास-प्रस्तुतिः

चत्वारि भारते वर्षे युगानि मुनयो विदुः ।
कृतं त्रेता द्वापरं च तिष्यं चेति चतुर्युगम् ॥ २४.१ ॥

मूलम्

एतत्सहस्रपर्यन्तमहर्यद्ब्रह्मणः स्मृतम्।
यामाद्यास्तु गणाः सप्त रोमवन्तश्चतुर्द्दश ॥ २४.२ ॥

सशरीराः श्रयन्ते स्म जनलोकं सहानुगाः।
एवं देवेष्वतीतेषु महर्लोकाज्जनं तपः ॥ २४.३ ॥

मन्वन्तरेष्वतीतेषु देवाः सर्वे महौजसः।
ततस्तेषु गतेषूर्ध्वं सायुज्यं कल्पवासिनाम् ॥ २४.४ ॥

समेत्य देवैस्ते देवाः प्राप्ते सङ्कालने तदा।
महर्लोकं परित्यज्य गणास्ते वै चतुर्द्दश ॥ २४.५ ॥

भूतदिष्ववशिष्टेषु स्थावरान्तेषु वै तदा ।
शून्येषु तेषु लोकेषु महान्तेषु भुवादिषु।
देवेष्वथ गतेषूर्ध्वं कल्पवासिषु वै जनम् ॥ २४.६ ॥

तत्संहत्या ततो ब्रह्मा देवर्षिगणदानवान्।
संस्थापयति वै सर्वान् दाहवृष्‌ट्या युगक्षये ॥ २४.७ ॥

योऽतीतः सप्तमः कल्पो मया वः परिकीर्तितः। समुद्रैः सप्तभिर्गाढमेकीभूतैर्महार्णवैः । आसीदेकार्णवं घोरमविभागं तमोमयम् ॥ २४.८
विश्वास-प्रस्तुतिः

माययैकार्णवे तस्मिन् शङ्खचक्रगदाधरः।
जीमूताभोऽम्बुजाक्षश्च किरीटी श्रीपतिर्हरिः ॥ २४.९ ॥

नारायणमुखोद्गीर्णः सोऽष्टमः पुरुषोत्तमः।
अष्टबाहुर्महोरस्को लोकानां योनिरुच्यते।
किमप्यचिन्त्यं युक्तात्मा योगमास्थाय योगवित् ॥ २४.१० ॥

फणासहस्रकलितं तमप्रतिमवर्चसम्।
महाभोगपतेर्भोगमन्वास्तीर्य महोच्छ्रयम्।
तस्मिन्महति पर्यङ्के शेते वै कनकप्रभे ॥ २४.११ ॥

एवं तत्र शयानेन विष्णुना प्रभविष्णुना।
आत्मारामेण क्रीडार्थं सृष्टं नाभ्यां तु पङ्कजम् ॥ २४.१२ ॥

शतयोजनविस्तीर्णं तरुणादित्यवर्च्चसम्।
बज्रदण्डं महोत्सेधं लीलया प्रभविष्णुना ॥ २४.१३ ॥

तस्यैवं क्रीडमानस्य समीपं देवमीढुषः।
हेमब्रह्माण्डजो ब्रह्मा रुक्मवर्णोह्यतीन्द्रियः।
चतुर्मुखो विशालाक्षः समागम्य यदृच्छया ॥ २४.१४ ॥

श्रिया युक्तेन नव्येन सुप्रभेण सुगन्धिना।
तं क्रीडमानं पझेन दृष्ट्वा ब्रह्मा तु भेजिवान् ॥ २४.१५ ॥

स विस्मयमथागम्य शस्य सम्पूर्णया गिरा।
प्रोवाच को भवान् शेते आक्षितो न्ध्यमम्भसाम् ॥ २४.१६ ॥

अथ तस्याच्युतः श्रुत्वा ब्रह्मणस्तु शुभं वचः।
उदतिष्ठत पर्यङ्काद्विस्मयोत्फुल्ललोचनः ॥ २४.१७ ॥

प्रत्युवाचोत्तरं चैव क्रियते यच्च किञ्चन।
द्यौरन्तरिक्षं भूतञ्च परं पदमहं प्रभुः ॥ २४.१८ ॥

तमेवमुक्त्वा भगवान् विष्णुः पुनरथाव्रवीत् ।
कस्त्वं खलु समायातः समीपं भगवान् कुतः ।
कुतस्व भूयो गन्तव्यं कुत्र वा ते प्रतिश्रयः ॥ २४.१९ ॥

को भवान् विश्वमूर्तिस्त्वं कर्त्तव्यं किञ्च ते मया।
एवं ब्रुवाण वैकुण्ठं प्रत्युवाच पितामहः ॥ २४.२० ॥

यथा भवांस्तथा चाहमादिकर्त्त प्रजापतिः।
नारायणसमाख्यातः सर्वं वै मयि तिष्ठति ॥ २४.२१ ॥

सविस्मयं परं श्रुत्वा ब्रह्मणा लोककर्तृणा।
सोऽनुज्ञातो भगवता वैकुण्ठो विश्वसम्भवः ॥ २४.२२ ॥

कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम्।
इमानष्टादशद्वीपान् ससमुद्रान् सपर्वतान्।
प्रविश्य स महातेजाश्चातुर्वर्ण्यसमाकुलान्।
ब्रह्मादिस्तम्बपर्यन्तान् सप्तलोकान् सनातनान् ॥ २४.२३ ॥

ब्रह्मणस्तूदरे दृष्ट्वा सर्वान् विष्णुर्महायशाः।
अहोऽस्य तपसो वीर्यं पुनः पुनरभाषत ॥ २४.२४ ॥

पर्यटन् विविधान् लोकान् विष्णुर्नानाविधाश्रमान्।
ततो वर्षसहस्रान्ते नान्तं हि ददृशे तदा ॥ २४.२५ ॥

तदाऽस्य वक्रान्निष्क्रम्य पन्नगेन्द्रारिकेतनः।
अजातशत्रुर्भगवान् पितामहमथाब्रवीत् ॥ २४.२६ ॥

भगवन् आदि मध्यञ्च अन्तं कालदिशोर्न च।
नाहमन्तं प्रपश्यामि ह्युदरस्य तवानघ ॥ २४.२७ ॥

एवमुक्त्वाब्रवीद्भूयः पितामहमिदं हरिः।
भवानप्येवमेवाद्य ह्युदरं मम शाश्वतम्।
प्रविश्य लोकान् पश्यैताननौपम्यान् द्विजोत्तम ॥ २४.२८ ॥

मनःप्रह्लादनीं वाणीं श्रुत्वा तस्याभिनन्द्य च।
श्रीपतेरुदरं भूयः प्रविवेश पितामहः ॥ २४.२९ ॥

तानेव लोकान् गर्भस्थः पश्यन् सोऽचिन्त्यविक्रमः।
पर्यटित्वादिदेवस्य ददर्शान्तं न वै हरेः ॥ २४.३० ॥

ज्ञात्वागमन्तस्य पितामहस्य द्वाराणि सर्वाणि पिधाय विष्णुः।
विभुर्मनः कर्त्तुमियेष चाशु सुखं प्रसुप्तोऽस्मि महाजलौघे ॥ २४.३१ ॥

ततो द्वाराणि सर्वाणि पिहितान्युपलक्ष्यते।
सूक्ष्मं कृत्वात्मनो रूपं नाभ्यां द्वारमविन्दत ॥ २४.३२ ॥

पझसूत्रानुमार्गेण ह्यनुगम्य पितामहः।
उज्जहारात्मनो रूपं पुष्कराच्चतुराननः।
विरराजारविन्दस्थः पझगर्भसमद्युतिः ॥ २४.३३ ॥

एतस्मिन्नन्तरे ताभ्यामेकैकस्य तु कार्त्स्न्यतः।
प्रवर्त्तमाने संहर्षे मध्ये तस्यार्णवस्य तु ॥ २४.३४ ॥

॥सूत उवाच॥
विश्वास-प्रस्तुतिः

ततो ह्यपरिमेयात्मा भूतानां प्रभुरीश्वरः।
शूलपाणिर्महादेवो हैमचीराम्बरच्छदः।
आगच्छद् यत्र सोऽनन्तो नागभोगपतिर्हरिः ॥ २४.३५ ॥

शीघ्रं विक्रमतस्तस्य पद्भ्यामत्यन्तपीडिताः।
उद्धूतास्तूर्णमाकाशे पृथुलास्तोयबिन्दवः।
अत्युष्णाश्चातिशीताश्च वायुस्तत्र ववौ भृशम् ॥ २४.३६ ॥

तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत।
अब्बिन्दवो हि स्थूलोष्णाः कम्पते चाम्बुजं भृशम्।
एतं मे संशयं ब्रूहि किञ्चान्यत् त्वञ्चिकीर्षसि ॥ २४.३७ ॥

एतदेवंविधं वाक्यं पितामहमुखोद्भवम्।
श्रुत्वाप्रतिमकर्माह भगवानसुरान्तकृत् ॥ २४.३८ ॥

किन्नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम् ।
वदन्ति प्रियमत्यर्थं विप्रियेपि च ते मया ॥ २४.३९ ॥

इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम्।
किन्न्वत्र भगवांस्तस्मिन् पुष्करे जातसम्भ्रमः ॥ २४.४० ॥

किं मया यत् कृतं देव यन्मां प्रियमनुत्तमम्।
भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः ॥ २४.४१ ॥

एवं ब्रुवाणं देवेशं लोकया त्रान्तु तत्त्वगाम्।
प्रत्युवाचाम्बुजाभास्को ब्रह्म वेदनिधिः प्रभुः ॥ २४.४२ ॥

योऽसौ तवोदरं पूर्वं प्रविष्टोऽहं त्वदिच्छया।
यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो।
तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे ॥ २४.४३ ॥

ततो वर्षसहस्रान्ते उपावृत्तस्य मेऽनघ।
नूनं मत्सरभावेन मां वशीकर्तुमिच्छता।
आशु द्वाराणि सर्वाणि घटितानि त्वया पुनः ॥ २४.४४ ॥

ततो मया महाभाग सञ्चिन्त्य स्वेन चेतसा।
लब्धो नाभ्यां प्रवेशतु पद्मसूत्राद्विनिर्गमः ॥ २४.४५ ॥

माभूत्ते मनसोऽल्पोऽपि व्याघातोऽयं कथञ्चन।
इत्येषानुगतिर्विष्णोः कार्याणामौपसर्गिकी ॥ २४.४६ ॥

यन्म यानन्तरं कार्यं मयाध्यवसितं त्वयि।
त्वाञ्चाबाधितुकामेन क्रीडापूर्वं यदृच्छया।
आशु द्वाराणि सर्वाणि घटितानि मया पुनः ॥ २४.४७ ॥

न तेऽन्यथावमन्तव्यो मान्यः पूज्यश्च मे भवान्।
सर्वं मर्षय कल्याण यन्मयाऽपकृतन्तव।
तस्मान्मयोच्यमानस्त्वं पझादवतर प्रभो ॥ २४.४८ ॥

नाहं भवन्तं शक्नोमि सोदुन्तेजोमयं गुरुम्।
स चोवाच वरं ब्रूहि पझादवतराम्ययम् ॥ २४.४९ ॥

॥विष्णुरुवाच ॥
विश्वास-प्रस्तुतिः

पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनम्।
सत्यधनो महायोगी त्वमीड्यः प्रणवात्मकः ॥ २४.५० ॥

अद्यप्रभृति सर्वेश श्वेतोष्णीषविभूषणः।
पझयोनिरितीत्येवं ख्यातो नाम्ना भविष्यसि।
पुत्रो मे त्वं भव ब्रह्मन् सर्वलोकाधिप प्रभो ॥ २४.५१ ॥

ततः स भगवान् ब्रह्म वरं गृह्य किरीटिनः ।
एवं भवतु चेत्युक्त्वां प्रीतात्मा गतमत्सरः ॥ २४.५२ ॥

प्रत्यासन्नमथायातं बालार्काभं महाननम्।
भूतमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत् ॥ २४.५३ ॥

अप्रमेयो महावक्रो दंष्ट्री व्यस्तशिरो रुहः।
दशबाहुस्त्रिशूलाङ्को नयनैर्विश्वतोमुखः ॥ २४.५४ ॥

लोकप्रभुः स्वयं साक्षाद्विकृतो मुञ्जमेखली ।
मेढ्रेणोर्ध्वेन महता नदमानोऽतिभैरवम् ॥ २४.५५ ॥

कः खल्वेष पुमान् विष्णो तेजोराशिर्महाद्युतिः।
व्याप्य सर्वा दिशो द्याञ्च इत एवाभिवर्त्तते ॥ २४.५६ ॥

तेनैवमुक्तो भगवान् विष्णुर्ब्रह्माणमब्रवीत्।
पद्भ्यान्तलनिपातेन यस्य विक्रमतोऽर्णवे।
वेगेन महताकाशे व्यथिताश्च जलाशयाः ॥ २४.५७ ॥

छटाभिर्विष्णुतोऽत्यर्थं सिच्यते पझसम्भवः।
घ्राणजेन च वातेन कम्पमानं त्वया सह।
दोधूयते महापझं स्वच्छन्दं मम नाभिजम् ॥ २४.५८ ॥

स एष भगवानीशो ह्यनादिश्चान्तकृद्विभुः।
भवानहञ्च स्तोत्रेण ह्युपतिष्ठाव गोध्वजम् ॥ २४.५९ ॥

ततः क्रुद्धोऽम्बुजाभास्कं ब्रह्मा प्रोवाच केशवम्।
न भवान् न्यूनमात्मानं लोकानां योनिमुत्तमम् ॥ २४.६० ॥

ब्रह्माणं लोककर्त्तारं माञ्च वेत्ति सनातनम्।
कोऽयं भोः शङ्करो नाम ह्यावयोर्व्यतिरिच्यते ॥ २४.६१ ॥

तस्य तत् क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत।
मा मैवं वद कल्याण परिवादं महात्मनः ॥ २४.६२ ॥

मायायोगेश्वरो धर्मो दुराधर्षो वरप्रदः।
हेतुरस्यात्र जगतः पुराणः पुरुषोऽव्ययः ॥ २४.६३ ॥

जीवः खल्वेष जीवानां ज्योतिरेकं प्रकाशते।
बालक्रीडनकैर्द्देवः क्रीडतो शङ्करः स्वयम् ॥ २४.६४ ॥

प्रधानमव्ययं ज्योतिरव्यक्तं प्रकृतिस्तमः।
अस्य चैतानि नामानि नित्यं प्रसवधर्मिणः।
यः कः स इति दुःखार्त्तैर्मृग्यते यतिभिः शिवः ॥ २४.६५ ॥

एष बीजी भवान् बीजमहं योनिः सनातनः।
एवमुक्रोऽथ विश्वात्मा ब्रह्मा विष्णुमभाषत ॥ २४.६६ ॥

भवान्योनिरहं बीजं कथं बीजी महेश्वरः ।
एतन्मे सूक्ष्ममव्यक्तं संशयं छेत्तुमर्हसि ॥ २४.६७ ॥

ज्ञात्वा चैवं समुत्पत्तिं ब्रह्मणा लोकतन्त्रिणा।
इदं परमसादृश्यं प्रश्रमभ्यवदद्धरिः ॥ २४.६८ ॥

अस्मान्महत्तरं गुह्यं भूतमव्यन्न विद्यते।
महतः परमं धाम शिवमध्यात्मिनां पदम् ॥ २४.६९ ॥

द्वैधीभावेन चात्मानं प्रविष्टस्तु व्यवस्थितः।
निष्कलः सूक्ष्ममव्यक्तः सकलश्च महेश्वरः ॥ २४.७० ॥

अस्य मायाविधिज्ञस्य अगम्यगहनस्य च।
पुरा लिङ्गं भवद्बीजं प्रथमं त्वादिसर्गिकम् ॥ २४.७१ ॥

मयि योनौ समायुक्तं तद्बीजं कालपर्ययात्‌।
हिरण्मयमपारन्तद्योन्यामण्डमजायत ॥ २४.७२ ॥

शतानि दशवर्षाणामण्डञ्चाप्सु प्रतिष्ठितम्।
अन्ते वर्षसहस्रस्य वायुना तद्द्विधा कृतम् ॥ २४.७३ ॥

कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः।
उल्वन्तस्य महोत्सेधं योऽसौ कनकपर्वतः ॥ २४.७४ ॥

ततस्तस्मात् प्रबुद्धात्मा देवो देववरः प्रभुः ।
हिरण्यगर्भो भगवानहं जज्ञे चतुर्भुजः ॥ २४.७५ ॥

ततो वर्षसहस्रान्ते वायुना तद्द्विधाकृतम्।
अतारार्केन्दुनक्षत्रं शून्यं लोकमवेक्ष्य च।
कोऽयमत्रे त्यभिध्याते कुमारास्तेऽभवंस्तदा ॥ २४.७६ ॥

प्रियदर्शनास्सुतनवो येऽतीताः पूर्वजास्तव।
भूयो वर्षसहस्रान्ते तत एवात्मजास्तव।
भुवनानलसङ्काशाः पझपत्रायतेक्षणाः ॥ २४.७७ ॥

श्रीमान् सनत्कुमारस्तु ऋभुश्चैवोर्ध्वरेतसौ ।
सनातनश्च सनकस्तथैव च सनन्दनः।
उत्पन्नाः समकालं ते बुद्धयाऽतीन्द्रियदर्शनाः ॥ २४.७८ ॥

उत्पन्नाः प्रतिघात्मानो जगदुश्च तदैव हि।
नारप्स्यन्ते च कर्माणि तापत्रयविवर्जिताः ॥ २४.७९ ॥

अस्य सौम्यं बहुक्लेशं जराशोकसमन्वितम्।
जीवितं मरणं चैव सम्भवञ्च पुनः पुनः ॥ २४.८० ॥

स्वप्रभूतं पुनः स्वर्गे दुःखानि नरकांस्तथा।
विदित्वा चागमं सर्वमवश्यं भवितव्यताम् ॥ २४.८१ ॥

ऋभुं सनत्कुमारञ्च दृष्ट्वा तव वशे स्थितौ।
त्रयस्तु त्रीन् गुणान् हित्वा आत्मजाः सनकादयः।
वैवर्त्तेन तु ज्ञानेन निवृत्तास्ते महौजसः ॥ २४.८२ ॥

ततस्तेष्वपवृत्तेषु सनकादिषु वै त्रिषु।
भविष्यसि विमूढस्तु मायया शङ्करस्य तु ॥ २४.८३ ॥

एवं कल्पे तु वैकल्पे सञ्ज्ञा नस्यति तेऽनघ।
कल्पशेषाणि भूतानि सूक्ष्माणि पार्थिवानि च ॥ २४.८४ ॥

सा चैषा ह्यैश्वरी माया जगतः समुदाहृता।
स एष पर्वतो मेरु र्देवलोक उदाहृतः ॥ २४.८५ ॥

तवैवेदं हि माहात्म्यं दृष्ट्वा चात्मानमात्मना ।
ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामम्बुजेक्षणम् ॥ २४.८६ ॥

महादेवं महायोगं भूतानां वरदं प्रभुम्।
प्रणवात्मानमासाद्य नमस्कृत्या जगद्गुरुम्।
त्वाञ्च माञ्चैव सङ्क्रुद्धो निःश्वासान्निर्द्दहेदयम् ॥ २४.८७ ॥

एवं ज्ञात्वा महायोगं अभ्युत्तिष्ठन् महाबलः।
अहं त्वामग्रतः कृत्वा स्तोष्येऽहमनलप्रभम् ॥ २४.८८ ॥

ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः।
अतीतैश्च भविष्यैश्च वर्त्तमानैस्तथैव च।
नामभिश्छान्दसैश्चैव इदं स्तोत्रमुदीरयत् ॥ २४.८९ ॥

नमस्तुभ्यं भगवते सुव्रतेऽनन्ततेजसे।
नमः क्षेत्राधिपतये बीजिने शूलिने नमः ॥ २४.९० ॥

अमेढ्रायोर्ध्वमेढ्राय नमो वैकुण्ठरेतसे ।
नमो ज्येष्ठाय श्रेष्ठाय अपूर्वप्रथमाय च ॥ २४.९१ ॥

नमो हव्याय पूज्याय सद्यो जाताय वै नमः ।
गह्वराय धनेशाय हैमचीराम्बराय च ॥ २४.९२ ॥

नमस्ते ह्यस्मदादीनां भूतानां प्रभवाय च।
वेदकर्मावदानानां द्रव्याणां प्रभवे नमः ॥ २४.९३ ॥

नमो योग्स्य प्रभवे साङ्ख्यस्य प्रभवे नमः ।
नमो ध्रुवनिशीथानामृषीणां पतये नमः ॥ २४.९४ ॥

विद्युदशनिमेघानां गर्ज्जितप्रभवे नमः।
उदधीनाञ्च प्रभवे द्वीपानां प्रभवे नमः ॥ २४.९५ ॥

अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः।
नमो नदानां प्रभवे नदीनां प्रभवे नमः ॥ २४.९६ ॥

नमश्चौषधिप्रभवे वृक्षाणां प्रभवे नमः।
धर्माध्यक्षाय धर्माय स्थितीनां प्रभवे नमः ॥ २४.९७ ॥

नमो रसानां प्रभवे रत्नानां प्रभवे नमः ।
नमः क्षणानां प्रभवे कलानां प्रभवे नमः ॥ २४.९८ ॥

निमेषप्रभवे चैव काष्ठानां प्रभवे नमः ।
अहोरात्रार्द्धमासानां मासानां प्रभवे नमः ॥ २४.९९ ॥

नम ऋतुनां प्रभवे सङ्ख्यायाः प्रभवे नमः।
प्रभवे च परार्द्धस्य परस्य प्रभवे नमः ॥ २४.१०० ॥

नमः पुराणप्रभवे युगस्य प्रभवे नमः।
चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे ॥ २४.१०१ ॥

कल्पोदये निबद्धानां वार्त्तानां प्रभवे नमः।
नमो विश्वस्य प्रभवे ब्रह्मदिप्रभवे नमः ॥ २४.१०२ ॥

विद्यानां प्रभवे चैव विद्यानां पतये नमः।
नमो व्रतानां पतये मन्त्राणां पतये नमः ॥ २४.१०३ ॥

पितॄणां पतये चैव पशूनां पतये नमः।
वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च ॥ २४.१०४ ॥

सुचारुचारुकेशाय ऊर्ध्वचक्षुःशिराय च।
नमः पशूनां पतये गोवृषेन्द्रध्वजाय च ॥ २४.१०५ ॥

प्रजापतीनां पतये सिद्धानां पतये नमः।
गरुडोरगसर्पाणां पक्षिणां पतये नमः ॥ २४.१०६ ॥

गोकर्णाय च गोष्ठाय शङ्कुकर्णाय वै नमः।
वाराहायाप्रमेयाय रक्षोधिपतये नमः ॥ २४.१०७ ॥

नमो ह्यप्सरसाम्पतये गणानां (पतये) ह्रीमये नमः।
अम्भसां पतये चैव तेजसां पतये नमः ॥ २४.१०८ ॥

नमोऽस्तु लक्ष्मीपतये श्रीमते ह्रीमते नमः।
बलाबलसमूहाय ह्यक्षोभ्यक्षोभणाय च ॥ २४.१०९ ॥

दीर्घश्रृङ्गैकश्रृङ्गाय वृषभाय ककुद्मिने।
नमः स्थैर्याय वपुषे तेजसे सुप्रभाय च ॥ २४.११० ॥

भूताय च भविष्याय वर्त्तमानाय वै नमः।
सुवर्च्चसेऽथ वीराय शूराय ह्यतिगाय च ॥ २४.१११ ॥

वरदाय वरेण्याय नमः सर्वगताय च।
नमो भूताय भव्याय भवाय महते तथा ॥ २४.११२ ॥

जनाय च नमस्तुभ्यं तपसे वरदाय च।
नमो वन्द्याय मोक्षाय जनाय नरकाय च ॥ २४.११३ ॥

भवाय भजमानाय इष्टाय याजकाय च।
अभ्युदीर्णाय दीप्ताय तत्त्वाय निर्गुणाय च ॥ २४.११४ ॥

नमः पाशाय हस्ताय नमः स्वाभरणाय च।
हुताय चापहुताय प्रहुतप्रशिताय च ॥ २४.११५ ॥

नमोऽस्त्विष्टाय मूर्त्ताय ह्यग्निष्टोमर्त्विजाय च।
नम ऋताय सत्याय भूताधिपतये नमः ॥ २४.११६ ॥

सदस्याय नमश्चैव दक्षिणावभृथाय च।
अहिंसायाथ लोकानां पशुमन्त्रौषधाय च ॥ २४.११७ ॥

नमस्तुष्टिप्रदानाय त्र्यम्बकाय सुगन्धिने।
नमोऽस्त्विन्द्रियपतये परिहाराय स्रग्विणे ॥ २४.११८ ॥

विश्वाय विश्वरूपाय विश्वतोऽक्षिमुखाय च।
सर्वतः पाणिपादाय रुद्रायाप्रमिताय च ॥ २४.११९ ॥

नमो हव्याय कव्याय हव्यकव्याय वै नमः।
नमः सिद्धाय मेध्याय चेष्टाय त्वव्ययाय च ॥ २४.१२० ॥

सुवीराय सुघोराय ह्यक्षोभ्यक्षोभणाय च।
सुमेधसे सुप्रजाय दीप्ताय भास्कराय च ॥ २४.१२१ ॥

मनो नमः सुपर्णाय तपनीयनिभाय च।
विरूपाक्षाय त्र्यक्षाय पिङ्गलाय महौजसे ॥ २४.१२२ ॥

दृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च।
नमो धूम्राय श्वेताय कृष्णाय लोहिताय च ॥ २४.१२३ ॥

पिशिताय पिशङ्गाय पीताय च निषङ्गिणे।
नमस्ते सविशेषाय निर्विशेषाय वै नमः ॥ २४.१२४ ॥

नमो वै पझवर्णाय मृत्युघ्नाय च मृत्यवे ।
नमः श्यामाय गौराय कद्रवे रोहिताय च ॥ २४.१२५ ॥

नमः कान्ताय सन्ध्याभ्रवर्णाय बहुरूपिणे।
नमः कपालहस्ताय दिग्वस्त्राय कपर्द्दिने ॥ २४.१२६ ॥

अप्रमेयाय शर्वाय ह्यवध्याय वराय च।
पुरस्तात् पृष्ठतश्चैव बिभ्राणाय कृशानवे ॥ २४.१२७ ॥

दुर्गाय महते चैव रोधाय कपिलाय च।
अर्कप्रभशरीराय बलिने रंहसाय च ॥ २४.१२८ ॥

पिनाकिने प्रसिद्धाय स्फीताय प्रसृताय च।
सुमेधसेऽक्षमालाय दिग्वासाय शिखण्डिने ॥ २४.१२९ ॥

चित्राय चित्रवर्णाय विचित्राय धराय च।
चेकितानाय तुष्टाय नमस्त्वनिहिताय च ॥ २४.१३० ॥

नमः क्षान्ताय शान्ताय वज्रसंहननाय च।
रक्षोघ्नाय मखघ्नाय शितिकण्ठोर्ध्वरेतसे ॥ २४.१३१ ॥

अरिहाय कृतान्ताय तिग्मायुधधराय च।
समोदाय प्रमोदाय इरिणायैव ते नमः ॥ २४.१३२ ॥

प्रणवप्रणवेशाय भक्तानां शर्मदाय च।
मृगव्याधाय दक्षाय दक्षयज्ञहराय च ॥ २४.१३३ ॥

सर्वभूताय भूताय सर्वेशातिशयाय च।
पुरभेत्रे च शान्ताय सुगन्धाय वरेशवे ॥ २४.१३४ ॥

पुष्पवन्तस्वरुपाय भगनेत्रान्तकाय च ।
कणादाय वरिष्ठाय कामाङ्गदहनाय च ॥ २४.१३५ ॥

रवेः करालचक्राय नागेन्द्रदमनाय च।
दैत्यानामन्तकायाथो दिव्याक्रन्दकराय च ॥ २४.१३६ ॥

श्मशानरतिनित्याय नमस्त्र्यम्बकधारिणे।
नमस्ते प्राणपालाय धवमालाधराय च ॥ २४.१३७ ॥

प्रहीणशोकैर्विविधैर्भूतैः परिष्टुताय च।
नरनारीशरीराय देव्याः प्रियकराय च ॥ २४.१३८ ॥

जटिने दण्डिने तुभ्यं व्यालयज्ञोपवीतिने ।
नमोऽस्तु नृत्यशीलाय वाद्यनृत्यप्रियाय च ॥ २४.१३९ ॥

मन्यवे शीतशीलाय सुगीतिगायते नमः।
कटककराय भीमाय चोग्ररूपधराय च ॥ २४.१४० ॥

मूलम्

मन्यवे शीतशीलाय सुगीतिगायते नमः।
कटककराय भीमाय चोग्ररूपधराय च ॥ २४.१४० ॥

विश्वास-प्रस्तुतिः

विभीषणाय भीमाय भगप्रमथनाय च।
सिद्धसङ्घातगीताय महाभागाय वै नमः ॥ २४.१४१ ॥

नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च।
नदते कूर्दते चैव नमः प्रमुदिताय च ॥ २४.१४२ ॥

नमोऽद्भुताय स्वपते धावते प्रस्थिताय च।
ध्यायते जृम्भते चैव तुदते द्रवते नमः ॥ २४.१४३ ॥

चलते क्रीडते चैव लम्बोदरशरीरिणे।
नमः कृताय कम्पाय मुण्डाय विकराय च ॥ २४.१४४ ॥

नम उन्मत्तवेषाय किङ्किणीकाय वै नमः।
नमो विकृतवेषाय क्रूरोग्रामर्षणाय च ॥ २४.१४५ ॥

अप्रमेयाय दीप्ताय दीप्तये निर्गुणाय च।
नमः प्रियाय वादाय मुद्रामणिधराय च ॥ २४.१४६ ॥

नमस्तोकाय तनवे गुणैरप्रतिमाय च।
नमो गणाय गुह्याय अगम्यागमनाय च ॥ २४.१४७ ॥

लोक धात्री त्वियं भूमिः पादौ सज्जनसेवितौ।
सर्वेषां सिद्धयोगानामधिष्ठानन्तवोदरम् ॥ २४.१४८ ॥

मध्येऽन्तरिक्षं विस्तीर्णन्तारागणविभूषितम्।
तारापथ इवा भाति श्रीमान् हारस्तवोरसि ॥ २४.१४९ ॥

दिशो दश भुजास्ते वै केयूराङ्गदभूषिताः।
विस्तीर्णपरिणाहश्च नीलाम्बुदचयोपमः ॥ २४.१५० ॥

कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः ।
दंष्ट्राकरालदुर्द्धर्षमनौपम्यं मुखं तव ॥ २४.१५१ ॥

पझमालाकृतोष्णीषं शीर्षण्यं शोभते कथम्।
दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्ये भूर्ह्यनिलो बले ॥ २४.१५२ ॥

तैक्ष्ण्यमग्नौ प्रभा चन्द्रे खे शब्दः शैत्यमप्सु च।
अक्षरोत्तमनिष्पन्दान् गुणानेतान्विदुर्बुधाः ॥ २४.१५३ ॥

जपो जप्यो महायोगी महादेवो महेश्वरः।
पुरेशयो गुहावासी खेचरो रजनीचरः ॥ २४.१५४ ॥

तपोनिधिर्गुहगुरुर्नन्दनो नन्दिवर्द्धनः।
हयशीर्षो धराधाता विधाता भूतिवाहनः ॥ २४.१५५ ॥

बोद्धव्यो बोधनो नेता धूर्वहो दुष्प्रकम्पकः।
बृहद्रथो भीमकर्मा बृहत्कीर्तिर्धनञ्जयः ॥ २४.१५६ ॥

घण्टाप्रियो ध्वजीछत्री पताकाध्वजिनीपतिः।
कवची पट्टिशी शङ्खी पाशहस्तः परश्वभृत् ॥ २४.१५७ ॥

अगमस्त्वनघः शूरो देवराजारिमर्दनः।
त्वां प्रसाद्य पुराऽस्माभिर्द्विषन्तो निहता युधि ॥ २४.१५८ ॥

अग्निस्त्वं चार्णवान् सर्वान् पिभन्नैव न तृप्यसे।
क्रोधागारः प्रसन्नात्मा कामहा कामदः प्रियः ॥ २४.१५९ ॥

ब्रह्मण्यो ब्रह्मचारी च गोघ्नस्त्वं शिष्टपूजितः।
वेदानामव्ययः कोशस्त्वया यज्ञः प्रकल्पितः ॥ २४.१६० ॥

हव्यञ्च वेदं वहति वेदोक्तं हव्यवाहनः।
प्रीते त्वयि महादेव वयं प्रीता भवामहे ॥ २४.१६१ ॥

भवानीशो नादिमान् धामराशिर्ब्रह्मम लोकानान्त्वं कर्त्ता त्वादिसर्गः।
साङ्ख्याः प्रकृतिभ्यः परमं त्वां विदित्वा क्षीणध्यानास्ते न मृत्युं विशन्ति ॥ २४.१६२ ॥

योगेन त्वान्ध्यानिनो नित्ययुक्ताः ज्ञात्वा भोगान् सन्त्यजन्ते पुनस्तान् ।
येऽन्ये मर्त्त्यास्त्वां प्रपन्ना विशुद्धास्ते कर्मभिर्दिव्यभोगान् भजन्ते ॥ २४.१६३ ॥

अप्रमेयस्य तत्त्वस्य यथा विझः स्वशक्तितः।
कीर्तितं तव माहात्म्यमपारं परमात्मनः।
शिवो नो भव सर्वत्र योऽसि सोऽसि नमोऽस्तु ते ॥ २४.१६४ ॥

इति श्रीमहापुराणे वायुप्रोक्ते शार्वस्तवं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥