०२३

॥ वायुरुवाच ॥

विश्वास-प्रस्तुतिः

एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः।
ब्रह्म यत्र महातेजाः पीतवर्णत्वमागतः ॥ २३.१ ॥

मूलम्

ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः।
प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रवान् ॥ २३.२ ॥

पीतगन्धानुलिप्ताङ्गः पीतमाल्यधरो युवा।
पीतयज्ञोपवीतश्च पीतोष्णीषो महाभुजः ॥ २३.३ ॥

तं दृष्ट्वा ध्यानसंयुक्तं ब्रह्मा लोकेश्वरं प्रभुम्।
मनसा लोकधातारं ववन्दे परमेश्वरम् ॥ २३.४ ॥

ततो ध्यानगतस्तत्र ब्रह्म माहेश्वरीं पराम्।
अपश्यद् गां विरुपां च महेश्वरमुखच्युताम् ॥ २३.५ ॥

चतुष्पदां चतुर्वक्रां चतुर्हस्तां चतुःस्तनीम्।
चतुर्नेत्रां चतुःश्रृङ्गीं चतुर्द्दंष्ट्रां चतुर्मुखीम्।
द्वात्रिंशल्लोकसंयुक्तामीश्वरीं सर्वतोमुखीम् ॥ २३.६ ॥

स तां दृष्ट्वा महातेजाः महादेवीं महेश्वरीम्।
पुनराह महादेवः सर्वदेवनमस्कृतः ॥ २३.७ ॥

मतिः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः।
एह्येहीति महादेवी सोत्तिष्ठत् प्राञ्जलिर्भृशम् ॥ २३.८ ॥

विश्वमावृत्य योगेन जगत्सर्वं वशीकुरु।
अथ वा महादेवेन रुद्राणी त्वं भविष्यसि।
ब्राह्मणानां हितार्थाय परमार्थं भविष्यसि ॥ २३.९ ॥

अथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः।
प्रददौ देवदेवेशश्चतुष्पादां महेश्वरीम्।
ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम् ॥ २३.१० ॥

ब्रह्मा लोकनमस्कार्यः प्रपद्य तां महेश्वरीम्।
गायत्रीन्तु ततो रौद्रीं ध्यात्वा ब्रह्मा सुयन्त्रितः ॥ २३.११ ॥

इत्येतां वैदिकीं विद्यां रौद्रीं गायत्रीमर्पिताम्।
जपित्वा तु महादेवीं रुद्रलोकनमस्कृताम्।
प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा ॥ २३.१२ ॥

ततस्तस्य महादेवो दिव्यं योगं पुनः स्मृतः।
ऐश्वर्यं ज्ञानसम्पत्तिं वैराग्यं च ददौ पुनः ॥ २३.१३ ॥

अथाट्टहासं मुमुचे भीषणं दीप्तमीश्वरः।
ततोऽस्य सर्वतो दीप्ताः प्रादुर्भूताः कुमारकाः ॥ २३.१४ ॥

पीतमाल्याम्बरधराः पीतगन्धविलेपनाः ।
पीतोष्णीषशिरस्काश्च पीतास्याः पीतमूर्द्धजाः ॥ २३.१५ ॥

ततो वर्षसहस्रान्ते उषित्वा विमलौजसः।
योगात्मानस्ततः स्नाता ब्राह्मणानां हितैषिणः ॥ २३.१६ ॥

धर्मयोगबलोपेता ऋषीणां दीर्घसत्रिणाम्।
उपदिश्य तु ते योगं प्रविष्टा रुद्रमीश्वरम् ॥ २३.१७ ॥

एवमेतेन विधिना प्रपन्ना ये महेश्वरम्।
अन्येऽपि नियतात्मानो ध्यानयुक्ता जितोन्द्रियाः ॥ २३.१८ ॥

ते सर्वे पापमुत्सृज्य विरजा ब्रह्मवर्च्चसः।
प्रविशन्ति महादेवं रुद्रन्ते त्वपुनर्भवाः ॥ २३.१९ ॥

ततस्तस्मिन् गते कल्पे पीतवर्णे स्वयम्भुवः।
पुनरन्यः प्रवृत्तस्तु सितकल्पो हि नामतः ॥ २३.२० ॥

एकार्णवे तदावृत्ते दिव्ये वर्षसहस्रके ।
स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥ २३.२१ ॥

तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः ।
कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः ॥ २३.२२ ॥

अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम्।
कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ॥ २३.२३ ॥

कृष्णाम्बरवरोष्णीषं कृष्णयज्ञोपवीतिनम्।
कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम् ॥ २३.२४ ॥

स तं दृष्ट्वा महात्मानममरं घोर मन्त्रिणम्।
ववन्दे देवदेवेशं विश्वेशं कृष्णपिङ्गलम् ॥ २३.२५ ॥

प्राणायामपरः श्रीमान् हृदि कृत्वा महेश्वरम्।
मनसा ध्यानसंयुक्तं प्रपन्नस्तु यतीश्वरम् ।
अघोरेति ततो ब्रह्मा ब्रह्म एवानुचिन्तयन् ॥ २३.२६ ॥

एवं वै ध्यायतस्तस्य ब्रह्मणः परमेष्ठिनः।
मुमोच भगवान् रुद्रः अट्टहासं महास्वनम् ॥ २३.२७ ॥

अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः ।
चत्वारस्तु महात्मानः सम्बभूवुः कुमारकाः ॥ २३.२८ ॥

कृष्णाः कृष्णाम्बरोष्णीषाः कृष्णास्याः कृष्णवाससः।
तैश्चाट्टहासः सुमहान् हूङ्कारश्चैव पुष्कलः।
नमस्कारश्च सुमहान् पुनः पुनरुदीरितः ॥ २३.२९ ॥

ततो वर्षसहस्रान्ते योगात्तत् पारमेश्वरम्।
उपासित्वा महाभागाः शिष्येब्यः प्रददुस्ततः ॥ २३.३० ॥

योगेन योगसम्पन्नाः प्रविश्य मनसा शिवम्।
अमलं निर्गुणं स्थानं प्रविष्टा विश्वमीश्वरम् ॥ २३.३१ ॥

एवमेतेन योगेन ये चाप्यन्ये द्विजातयः।
स्मरिष्यन्ति विधानज्ञा गन्तारो रुद्रमव्ययम् ॥ २३.३२ ॥

ततस्तस्मिन् गते कल्पे कृष्णरुपे भयानके।
अन्यः प्रवर्त्तितः कल्पो विश्वरुपस्तु नामतः ॥ २३.३३ ॥

विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे।
ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः।
प्रादुर्भूता महानादा विश्वरूपा सरस्वती ॥ २३.३४ ॥

विश्वमाल्याम्बरधरं विश्वयज्ञोपवीतिनम्।
विश्वोष्णीषं विश्वगन्धं विश्वस्थानं महाभुजम् ॥ २३.३५ ॥

अथ तं मनसा ध्यात्वा युक्तात्मा वै पितामहः।
ववन्दे देवमीशानं सर्वेशं सर्वगं प्रभुम् ॥ २३.३६ ॥

ओमीशानं नमस्तेऽस्तु महादेव नमोऽस्तु ते।
एवं ध्यानगतं तत्र प्रणमन्तं पितामहम्।
उवाच भगवानीशः प्रीतोऽहं ते किमिच्छसि ॥ २३.३७ ॥

ततस्तु प्रणतो भूत्वा वाग्भिः स्तुत्वा महेश्वरम्।
उवाच भगवान् ब्रह्मा प्रीतः प्रीतेन चेतसा ॥ २३.३८ ॥

यदिदं विश्वरूपन्ते विश्वगं विश्वमीश्वरम्।
एतद्वेदितुमिच्छामि कश्चायं परमेश्वरः ॥ २३.३९ ॥

कैषा भगवती देवी चतुष्पादा चतुर्मुखी।
चतुःश्रृङ्गी चतुर्वक्रा चतुर्द्दन्ता चतुःस्तनी ॥ २३.४० ॥

चतुर्हस्ता चतुर्नेत्रा विश्वरुपा कथं स्मृता।
किन्नामधेया कोऽस्यात्मा किंवीर्या वापि कर्मतः ॥ २३.४१ ॥

॥महेश्वर उवाच ॥
विश्वास-प्रस्तुतिः

रहस्यं सर्वमन्त्राणां पावनं पुष्ठिवर्द्धनम्।
श्रृणुष्वैतत्परं गुह्यमादिसर्गे यथा तथम् ॥ २३.४२ ॥

अयं यो वर्त्तते कल्पो विश्वरूपस्त्वसौ स्मृतः।
यस्मिन् भवादयो देवाः षड्विंशन्मनवः स्मृताः ॥ २३.४३ ॥

ब्रह्मस्थानमिदं चापि यदा प्राप्तं त्वया विभो।
तदाप्रभृति कल्पश्च त्रयस्त्रिंशत्तमो ह्ययम् ॥ २३.४४ ॥

शतं शतसहस्राणामतीता ये स्वयम्भुवः ।
पुरस्तात्तव देवेश तान् श्रृणुष्व महामुने ॥ २३.४५ ॥

आनन्दस्तु स विज्ञेय आनन्दस्ते महालयः।
गालव्यगोत्रतपसा मम पुत्रस्त्वमागतः ॥ २३.४६ ॥

त्वयि योगश्च साङ्ख्यश्च तपो विद्याविधिः क्रिया।
ऋतं स्त्यञ्च यद्ब्रह्म अहिंसा सन्ततिक्रमाः ॥ २३.४७ ॥

ध्यानं ध्यानवपुः शान्तिर्विद्याऽपिद्यामतिर्धृतिः।
कान्तिः शान्तिः स्मृतिर्मेधा लज्जा शुद्दिः सरस्वती।
तुष्टिः पुष्टिः क्रिया चैव लज्जा क्षान्तिः प्रतिष्ठिता ॥ २३.४८ ॥

षड्‌विंशत्तद्गुणा ह्येषा द्वात्रिशाक्षरसञ्ज्ञिता ।
प्रकृतिं विद्धितां ब्रह्मंस्त्वत्प्रसूतिं महेश्वरीम् ॥ २३.४९ ॥

सैषा भगवती देवी तत्प्रसूतिः स्वयम्भुवः।
चतुर्मुखी जगद्योनिः प्रकृति र्गौः प्रकीर्त्तिता ।
प्रधानं प्रकृतिं चैव यदाहुस्तत्त्वचिन्तकाः ॥ २३.५० ॥

अजामेतां लोहितां शुक्लकृष्णां विश्वं सम्प्रसृजमानां सुरूपाम्। अजोऽहं वै बुद्धिमान्विश्वरूपां गायत्रीं गां विश्वरूपां हि बुद्ध्वा ॥ २३.५१
विश्वास-प्रस्तुतिः

एवमुक्तवा महादेवः अट्टहासमथाकरोत् ।
वलितास्फोटितरवं कहाकहनदन्तथा ॥ २३.५२ ॥

मूलम्

एवमुक्तवा महादेवः अट्टहासमथाकरोत् ।
वलितास्फोटितरवं कहाकहनदन्तथा ॥ २३.५२ ॥

विश्वास-प्रस्तुतिः

ततोऽस्य पार्श्वतो दिव्याः सर्वरूपाः कुमारकाः।
जटी मुण्डी शिखण्डी च अर्द्धमुण्डश्च जज्ञिरे ॥ २३.५३ ॥

ततस्ते तु यथोक्तेन योगेन सुमहौजसः।
दिव्यं वर्षसहस्रन्तु उपासित्वा महेश्वरम् ॥ २३.५४ ॥

धर्मोपदेशं नियतं कृत्वा योगमयं दृढम्।
शिष्टानां नियतात्मानः प्रविष्टा रुद्रमीश्वरम् ॥ २३.५५ ॥

॥वायुरुवाच॥
विश्वास-प्रस्तुतिः

ततो विस्मयमापन्नो ब्रह्मा लोकपितामहः।
प्रपन्नस्तु महादेवं भक्तियुक्तेन चेतसा।
उवाच वचनं सर्वं श्वेतत्वन्ते कथं विभो ॥ २३.५६ ॥

॥भगवानुवाच॥
विश्वास-प्रस्तुतिः

श्वेतकल्पो यदा ह्यासीदहं श्वेतस्ततोऽभवम्।
श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिवः ॥ २३.५७ ॥

श्वेतास्थिमांसरोमा च श्वेतत्वक् श्वेतलोहितः।
तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ ॥ २३.५८ ॥

मत्प्रसादाच्च देवेशः श्वेताङ्गः श्वेतलोहितः।
श्वेतवर्णा तदा ह्यासीद्गायत्री ब्रह्मसञ्ज्ञिता ॥ २३.५९ ॥

यस्मादहं च देवेश त्वया गुह्ये पदे स्थितः।
विज्ञातः स्वेन तपसा सद्यो जातः सनातनः।
सद्यो जातेति ब्रह्मैतद् गुह्यं चैव प्रकीर्तितम् ॥ २३.६० ॥

तस्माद् गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः।
तत्समीपङ्गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २३.६१ ॥

यदाऽहं च पुनस्त्वासं लोहितो नाम नामतः।
ममकृतेन वर्णेन कल्पो वै लोहितः स्मृतः ॥ २३.६२ ॥

तदा लोहितमासास्थिलोहितक्षीरसन्निभा ।
लोहिताक्षस्तनवती गायत्री गौः प्रकीर्तिता ॥ २३.६३ ॥

ततोऽस्य लोहितत्वेन वर्णस्य च विपर्यये।
वामत्वाच्चैव योगस्य वामदेवत्क्मागतः ॥ २३.६४ ॥

तथापि हि महासत्त्व त्वयाऽहं नियतात्मना।
विज्ञातः श्वेत वर्णेन तस्माद्वर्णोत्तमः स्मृतः ।
ततोऽहं वामदेवेति ख्यातिं यातो महीतले ॥ २३.६५ ॥

ये चापि वामदेवत्वं ज्ञास्यन्तीह द्विजातयः।
विज्ञाय चेमां रुद्राणीं गायत्रीं मातरं विभो ॥ २३.६६ ॥

सर्वपापविनिर्मुक्ता विरजा ब्रह्मवर्चसः।
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २३.६७ ॥

यदा तु पुनरेवायं कृष्णवर्णो भयानकः।
मत्कृतेन च वर्णेन मत्कल्पः कृष्ण उच्यते ॥ २३.६८ ॥

तत्राऽहं कालसङ्काशः कालो लोकप्रकाशनः ।
विज्ञातोऽहं त्वया ब्रहमन् घोरो घोरपराक्रमः ॥ २३.६९ ॥

तस्माद्घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले।
तेषामघोरः शान्तश्च भविष्याम्यहमव्ययः ॥ २३.७० ॥

तस्माद्विश्वत्वमान्नं ये मां पश्यन्ति बूतले ।
तेषां शिवश्च सौम्यश्च भविष्यामि सदैव तु ॥ २३.७१ ॥

तस्माच्च विश्वरूपो वै कल्पोऽयं समुदाहृतः।
विश्वरूपा तथा चेयं सावित्री समुदाहृता ॥ २३.७२ ॥

सर्वरूपास्तथा चेमे संवृत्ता मम पुत्रकाः।
चत्वारस्ते समाख्याताः पादा वै लोकसम्मताः ॥ २३.७३ ॥

तस्माच्च सर्व वर्णत्वं प्रजात्वं मे भविष्यति।
सर्वभक्ष्या च मेध्या च वर्णतश्च भविष्यति ॥ २३.७४ ॥

मोक्षो धर्मस्तथार्थश्च कामश्चेति चतुष्टयम्।
तस्माद्वेत्ता च वेद्यं च चतुर्द्धा वै भविष्यति ॥ २३.७५ ॥

भूतग्रामाश्च चत्वारः आश्रमाश्चतुरस्तथा।
धर्मस्य पादाश्चत्वार श्चत्वारो मम पुत्रकाः ॥ २३.७६ ॥

तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम्।
चतुर्द्धाऽवस्थितं चैव चतुष्पादं भविष्यति ॥ २३.७७ ॥

भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा।
जनस्तपश्च शान्तश्च रुद्रलोकस्ततः परम् ॥ २३.७८ ॥

स्वर्लोको हि तृतीयस्तु चतुर्थस्तु महः स्मृतः।
तत्र लोकः परं स्थानं परन्तद्योगिनां स्मृतम् ॥ २३.७९ ॥

निर्ममा निरहङ्काराः कामक्रोधविवर्ज्जिताः।
द्रक्ष्यन्ते तद्विदो युक्ता ध्यानतत्परयुञ्जकाः ॥ २३.८० ॥

यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती।
तस्माच्च पशवः सर्वे भविष्यन्ति चतुष्पदाः।
तस्माच्चैषां भविष्यन्ति चत्वारो वै पयोधराः ॥ २३.८१ ॥

सोमश्च मन्त्रसंयुक्तो यस्मान्मम मुखाच्च्युतः।
जीवः प्राणभृतां ब्रह्मन् सर्वः पीत्वा स्तनैर्घृतम् ॥ २३.८२ ॥

तस्मात् सोममयं चैतदमृतं चैव सञ्ज्ञितम्।
चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत् ॥ २३.८३ ॥

यस्माच्चैवं क्रियाभूत्वा द्विपादा वै महेश्वरी।
दृष्टा पुनस्त्वया चैषा सावित्री लोकभाविनी।
तस्माद्वै द्विपदाः सर्वे द्विस्तनाशचव नराः स्मृताः ॥ २३.८४ ॥

यस्माच्चैवमजा भूत्वा सर्ववर्णा महेश्वरी।
दृष्टा त्वया महासत्त्वा सर्वभूतधरा परा।
तस्मात्तु विश्वरूपत्वमजानां वै भविष्यति ॥ २३.८५ ॥

अजश्चैव महातेजा विश्वरूपो भविष्यति।
अमोघरेताः सर्वत्र मुखे चास्य हुताशनः।
तस्मात् सर्वगतो मेध्यः पशुरूपी हुताशनः ॥ २३.८६ ॥

तपसा भावितात्मानो ये वै द्रक्ष्यन्ति वै द्विजाः।
ईशित्वे च शिवत्वे च सर्वगं सर्वतः स्थिरम् ॥ २३.८७ ॥

रजस्तमोविनिर्मुक्तास्त्यक्त्वा मानुष्यकम्बुवि।
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २३.८८ ॥

इत्येवमुक्तो भगवान् ब्रह्मा रुद्रेण वै द्विजाः।
प्रणम्य प्रयतो भूत्वा पुनराह पितामहः ॥ २३.८९ ॥

॥ब्रह्मोवाच॥
विश्वास-प्रस्तुतिः

भगवन्देवदेवेश विश्वरूपी महेश्वरः।
इमास्तव महादेव तनवो लोकवन्दिताः ॥ २३.९० ॥

विश्वरूप महासत्त्व कस्मिन् काले महाभुज।
कस्यां वा युगसम्भूत्यां द्रक्ष्यन्ति त्वां द्विजातयः ॥ २३.९१ ॥

केन वा तत्त्वयोगेन ध्यानयोगेन केन वा ।
तनवस्ते महादेव शक्या द्रष्टुं द्विजातिभिः ॥ २३.९२ ॥

तपसा नैव योगेन दानधर्मफलेन वा।
न तीर्थफलयोगेन क्रतुभिर्वा सदक्षिणैः ॥ २३.९३ ॥

न वेदाध्यापनैर्वापि न चित्तेन विवेदनैः ।
शक्योऽहं मानुर्षैद्रष्टुमृते ध्यानात्परं न हि ॥ २३.९४ ॥

साध्यो नारायणश्चैव विष्णुस्त्रिभुवनेश्वरः ।
भविष्यतीह नाम्ना तु वाराहो नाम विश्रुतः ॥ २३.९५ ॥

चतुर्वाहुश्चतुष्पादशचवतुर्नेत्रश्चतुर्मुखः।
तदा संवत्सरो भूत्वा यज्ञरूपी भविष्यति।
षडङ्गश्च त्रिशीर्षश्च त्रिस्थाने त्रिशरीरवान् ॥ २३.९६ ॥

कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगम्।
एतस्य पादाश्चत्वारः अङ्गानि क्रतवस्तथा ॥ २३.९७ ॥

भुजाशचव वेदाश्चत्वारो ऋतुः सन्धिमुखानि च।
द्वे मुखे द्वे च अयने नेत्राश्च चतुरस्तथा ॥ २३.९८ ॥

शिरांसि त्रीणि पर्वाणि फाल्गुन्याषाढकृत्तिकाः।
दिव्यान्तरिक्षभौमानि त्रीणि स्थानानि यानि तु।
सम्भवः प्रलयश्चैव आश्रमौ द्वौ प्रकीर्त्तितौ ॥ २३.९९ ॥

स यदा कालरूपाभो वराहत्वे व्यवस्थितः।
भविष्यति यदा साध्यो विष्णुर्नारायणः प्रभुः ॥ २३.१०० ॥

तदा त्वमपि देवेश चतुर्वक्रो भविष्यसि।
ब्रह्मलोकनमस्कार्यो विष्णुर्नारायणः प्रभुः ॥ २३.१०१ ॥

एकार्णवे प्लवे चैव शयानं पुरुषं हरिम्।
यदा द्रक्ष्यसि देवेशं ध्यानयुक्तं महामुनिम् ॥ २३.१०२ ॥

तदावां मम योगेन मोहितौ नष्टचेतसौ।
अन्योन्यस्पर्द्धिनौ रात्रावविज्ञाय परस्परम् ॥ २३.१०३ ॥

एकैकस्योदरस्थांस्तु दृष्ट्वा लोकांश्चराचरान्।
विस्मयं परमं गत्वा ध्यानाद्‌बुह्द्वा तु मानुषौ ॥ २३.१०४ ॥

ततस्त्वं पझसम्भूतः पझनाभः सनातनः।
पझाङ्कितस्तदा कल्पे ख्यातिं यास्यसि पुष्कलाम् ॥ २३.१०५ ॥

ततस्तस्मिस्तदा कल्पे पाराहे सप्तमे प्रभोः।
पुनर्विष्णुर्महातेजाः कालो लोकप्रकालनः।
मनुर्वैवस्वतो नाम तव पुत्रो भविष्यति ॥ २३.१०६ ॥

तदा चतुर्युगावस्थे कल्पे तस्मिन् युगान्तके।
भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः ॥ २३.१०७ ॥

हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे।
चतुःशिष्याः शिवे युक्ता भविष्यन्ति तदा मम ॥ २३.१०८ ॥

श्वेतश्चैव शिखश्चैव श्वेताश्वः श्वेतलोहितः।
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ २३.१०९ ॥

ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम् ।
तत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २३.११० ॥

पुनस्तु मम देवेशो द्वितीयद्वापरे प्रभुः।
प्रजापतिर्यदा व्यासः सत्यो नाम भविष्यति ॥ २३.१११ ॥

तदा लोकहितार्थाय सुतारे नाम नामतः।
भविष्यामि कलौ तस्मिन् लोकानुग्रहकारणात् ॥ २३.११२ ॥

तत्रापि मम ते पुत्रा भविष्या नाम नामतः।
दुन्दुभिः शतरूपश्च ऋचीकः क्रतुमांस्तथा ॥ २३.११३ ॥

प्राप्य योगं तथा ज्ञानं ब्रह्म चैव सनातनम्।
रुद्रलोकं गमिष्यन्ति पुनरावृत्ति दुर्लभम् ॥ २३.११४ ॥

तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः।
तदा ह्यहं भविष्यामि दमनस्तु युगन्तिके ॥ २३.११५ ॥

तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः।
विशोकश्च विकेशश्च विशापः शापनाशनः ॥ २३.११६ ॥

तेऽपि तेनैव मार्गेण योगोक्तेन महौजसः।
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २३.११७ ॥

चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः।
तदाऽप्यहं भविष्यामि सुहोत्रो नाम नामतः ॥ २३.११८ ॥

तत्रापि मम सत्पुत्राश्चत्वारश्च तपोधनाः।
भविष्यन्ति द्विजश्रेष्ठा योगात्मानो दृढव्रताः ॥ २३.११९ ॥

सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः।
प्राप्य योगगतिं सूक्ष्मां विमला दग्धकिल्बिषाः।
तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ॥ २३.१२० ॥

पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा।
तदा चापि भविष्यामि कङ्गो नाम महातपाः।
अनुग्रहार्थं लोकानां योगात्मा नैककर्मकृत् ॥ २३.१२१ ॥

चत्वारस्तु महाभागा विरजाः शुद्धयोनयः ।
पुत्रा मम भविष्यन्ति योगात्मानो दृढव्रताः ॥ २३.१२२ ॥

सनः सनन्दनश्चैव प्रभुर्यश्च सनातनः।
ऋतुः सनत्कुमारश्च निर्ममा निरहङ्कृताः।
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २३.१२३ ॥

परिवृत्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः।
तदाप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ॥ २३.१२४ ॥

शिष्याश्च मम ते दिव्या योगात्मानो दृढव्रताः।
भविष्यन्ति महाभागाश्चत्वारो लोकसम्मताः ॥ २३.१२५ ॥

सुधामा विरजश्चैव शङ्खपाद्रव एव च।
योगात्मानो महात्मानस्ते सर्वे दग्धकिल्बिषाः।
तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ॥ २३.१२६ ॥

सप्तमे परिवर्त्ते तु यदा व्यासः शतक्रतुः।
विभुर्नाम महातेजा- पूर्वमासीच्छतक्रतुः ॥ २३.१२७ ॥

तदाऽप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके।
जैगीषव्येति विखयातः सर्वेषां योगिनां वरः ॥ २३.१२८ ॥

तत्रापि मम ते पुत्रा भविष्यन्ति युगे तदा।
सारस्वतः सुमेधाश्च वसुवाहः सुवाहनः ॥ २३.१२९ ॥

तेऽपि तेनैव मार्गेण ध्यानयुक्तिं समाश्रिताः ।
भविष्यन्ति महात्मानो रुद्रलोकपरायणाः ॥ २३.१३० ॥

वसिष्ठश्चाष्टमे व्यासः परिवर्त्ते भविष्यति।
कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः।
वाग्बलिश्च महायोगी सर्व एव महौजसः ॥ २३.१३१ ॥

प्राप्य माहेश्वरं योगं ध्यानिनो दग्धकल्मषाः।
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २३.१३२ ॥

परिवर्त्तेऽथ नवमे व्यासः सारस्वतो यदा।
तदा चाहं भविष्यामि ऋषभो नाम नामतः ।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥ २३.१३३ ॥

पराशरश्च गार्ग्यश्च भार्गवो ह्यङ्गिरास्तथा।
भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगाः ॥ २३.१३४ ॥

सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः।
तेपि तेनैव मार्गेण योगोक्तेन तपस्विनः।
ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते ॥ २३.१३५ ॥

दशमे द्वापरे व्यासस्त्रिधामानाम नामतः।
यदा भविष्यति विप्रास्तदाऽहं भविता पुनः ॥ २३.१३६ ॥

हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे।
नाम्ना भृगोस्तु शिखरन्तस्मात्तच्छिखरम्भृगुः ॥ २३.१३७ ॥

तत्रैव मम ते पुत्रा भविष्यन्ति दृढव्रताः।
बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनः ॥ २३.१३८ ॥

योगात्मानो महात्मानो ध्यानयोगसमन्विताः।
रुद्रलोकं गमिष्यन्ति तपसा दग्धकल्मषाः ॥ २३.१३९ ॥

एकादशे द्वापरे तु त्रिवृद्व्यासो भविष्यति।
तदाऽप्यहं भविष्यामि गङ्गाद्वारे कलेर्धुरि ॥ २३.१४० ॥

उग्रा नाम महानादास्तत्रैव मम पुत्रकाः।
भविष्यन्ति महौजस्काः सुवृत्ता लोकविश्रुताः ॥ २३.१४१ ॥

लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः।
प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः।
तेऽपि तेनैव मार्गेण गमिष्यन्ति परां गतिम् ॥ २३.१४२ ॥

द्वादशे पिरवर्त्ते तु शततेजा महामुनिः।
भविष्यति महासत्त्वो व्यासः कविवरोत्तमः ॥ २३.१४३ ॥

ततोऽप्यहं भविष्यामि अत्रिर्नाम युगान्तिके।
हैमकं वनमासाद्य योगमास्थाय भूतले ॥ २३.१४४ ॥

अत्रापि मा ते पुत्रा भस्मस्नानानुलेपनाः।
भविष्यन्ति महायोग रुद्रलोकपरायणाः ॥ २३.१४५ ॥

सर्वज्ञः समबुद्धिश्च साध्यः सर्वस्तथैव च।
रुद्रलोकं गमिष्यन्ति ध्यानयोगपरायणाः ॥ २३.१४६ ॥

त्रयोदशे पुनः प्राप्ते परिवर्त्ते क्रमेण तु।
धर्मो नरायणो नाम व्यासस्तु भविता यदा ॥ २३.१४७ ॥

तदाप्यहं भविष्यामि वालिर्नाम महामुनिः।
वालखिल्याश्रमे पुण्ये पर्वते गन्धमादने ॥ २३.१४८ ॥

तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
सुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा ॥ २३.१४९ ॥

महायोगबलोपेता विमला ऊर्ध्वरेतसः।
तेनैव योगमार्गेण गमिष्यन्ति न संशयः ॥ २३.१५० ॥

सुरक्षणो यदा व्यासः पर्याये तु चतुर्द्दशे।
तत्रापि पुनरेवाहं भविष्यामि युगान्तिके ॥ २३.१५१ ॥

वंशे त्वङ्गिरसः श्रेष्ठो गौतमो नाम योगवित्।
तस्माद्भविष्यते पुण्यं गौतमं नाम तद्वनम् ॥ २३.१५२ ॥

तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तथा।
अत्रिरुग्रतपाश्चैव श्रावणोऽथ स्रविष्टकः ॥ २३.१५३ ॥

योगात्मानो महात्मानो ध्यानयोगपरायणाः।
तेऽपि तेनैव मार्गेण रुद्रलोकनिवासिनः ॥ २३.१५४ ॥

ततः प्राप्ते पञ्चदशे परिवर्त्ते क्रमागते।
आरुणिस्तु यदा व्यासो द्वापरे भविता प्रभुः ॥ २३.१५५ ॥

तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजाः।
तत्र वेदशिरा नाम अस्त्रं तत्पारमेश्वरम् ॥ २३.१५६ ॥

भविष्यति महावीर्यं वेदशीर्षा च पर्वतः।
हिमवत्पृष्ठमाश्रित्य सरस्वत्या नगोत्तमे ॥ २३.१५७ ॥

तदापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ २३.१५८ ॥

योगात्मानो महात्मानो ब्रह्मिष्ठाश्चोर्ध्वरेतसः।
तेऽपि तेनैव मार्गेण रुद्रलोकं गतास्तु ते ॥ २३.१५९ ॥

ततः षोडशमे चापि परिवर्त्ते क्रमागते।
व्यासस्तु सञ्जयो नाम भविष्यति तदा प्रभुः ॥ २३.१६० ॥

तदाप्यहं भविष्यामि गोकर्णो नाम नामतः।
तस्माद्भविष्यते पुण्यं गोकर्णं नाम तद्वनम् ॥ २३.१६१ ॥

तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
कश्यपो ह्युशनाश्चैव च्यवनोऽथ बृहस्पतिः।
तेऽपि तेनैव मार्गेण गमिष्यन्ति परं पदम् ॥ २३.१६२ ॥

ततः सप्तदशे चैव परिवर्त्ते क्रमागते।
तदा भविष्यति व्यासो नाम्ना देवकृतञ्जयः ॥ २३.१६३ ॥

तदाप्यहं भविष्यामि गुहावासीति नामतः।
हिमवच्छिखरे चैव महातुङ्गे महालये।
सिद्धिक्षेत्रं महापुण्यं भविष्यति महालयम् ॥ २३.१६४ ॥

तत्रापि मम ते पुत्रा ब्रह्मण्या योगवेदिनः ।
भविष्यन्ति महात्मानः सर्वज्ञा निरहङ्कृताः ॥ २३.१६५ ॥

उतथ्यो वामदेवश्च महाकालो महालयः।
तेषां शतसहस्रन्तु शिष्याणां ध्यानसाधनम् ॥ २३.१६६ ॥

भविष्यन्ति तदा कल्पे सर्वे ते ध्यानयुञ्जकाः।
ते तु सन्निहिता योगे हृदि कृत्वा महेश्वरम् ।
महालये पदं क्षिप्त्वा प्रविष्टाः शिवमव्ययम् ॥ २३.१६७ ॥

ये चान्येऽपि महात्मानः काले तस्मिन् युगान्तिके।
ध्यानयुक्तेन मनसा विमलाः शुद्धबुद्धयः ॥ २३.१६८ ॥

गत्वा महाल्यं पुण्यं दृष्ट्वा माहेश्वरं पदम् ।
तूर्णं तारयते जन्तून् दशपूर्वान् दशापरान् ॥ २३.१६९ ॥

आत्मानमेकविशञ्ञ्च तारयित्वा महार्णवम्।
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः ॥ २३.१७० ॥

ततोऽष्टादशमे चैव परिवर्त्ते यदा भवेत् ।
तदा ऋतञ्जयो नाम व्यासस्तु भविता मुनिः।
तदाऽप्यहं भविष्यामि शिखण्डी नाम नामतः ॥ २३.१७१ ॥

सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते।
हिमवाच्छिखरे पुण्ये शिखण्डी यत्र पर्वतः।
शिखण्डिनो वनञ्चापि ऋषिसिद्धनिषेवितम् ॥ २३.१७२ ॥

मूलम्

सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते।
हिमवाच्छिखरे पुण्ये शिखण्डी यत्र पर्वतः।
शिखण्डिनो वनञ्चापि ऋषिसिद्धनिषेवितम् ॥ २३.१७२ ॥

विश्वास-प्रस्तुतिः

तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
वाचःशवा ऋतीकश्च शावासश्च दृढव्रतः ॥ २३.१७३ ॥

योगात्मानो महाशक्ताः सर्वे ते वेदपारगाः।
प्राप्य माहेश्वरं योगं रुद्रलोकं व्रजन्ति ते ॥ २३.१७४ ॥

ततस्त्वेकोनविंशे तु परिवर्त्ते क्रमागते।
व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः ॥ २३.१७५ ॥

तत्राप्यहं भविष्यामि जटामालीति नामतः।
हिमवच्छिखरे रम्येजटायुर्यत्र पर्वतः ॥ २३.१७६ ॥

मूलम्

तत्राप्यहं भविष्यामि जटामालीति नामतः।
हिमवच्छिखरे रम्येजटायुर्यत्र पर्वतः ॥ २३.१७६ ॥

विश्वास-प्रस्तुतिः

तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
हिरण्यनामा कौशिल्यः काक्षीवः कुथुमिस्तथा ॥ २३.१७७ ॥

ईश्वरा योगधर्माणः सर्वे ते ह्यूर्ध्वरेतसः।
प्राप्य माहेश्वरं योगं गमिष्यन्ति न संशयः ॥ २३.१७८ ॥

ततो विंशतिमे सर्गे परिवर्त्ते क्रमेण तु।
वाचःश्रवाः स्मृतो व्यासो भविष्यति महामतिः ॥ २३.१७९ ॥

तदाप्यहं भविष्यामि ह्यट्टहासीति नामतः।
अट्टहासप्रियाश्चापि भविष्यन्ति तदा नराः ॥ २३.१८० ॥

तत्रैव हिमवत्पृष्ठे सिद्धचारणसेविते।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
युक्तात्मानो महासत्त्वा ध्यानिनो नियतव्रताः ॥ २३.१८१ ॥

सुमन्तुर्वर्वरिर्विद्वान् सुबन्धुः कुशिकन्धरः।
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥ २३.१८२ ॥

एकविशे पुनः प्राप्ते परिवर्त्ते क्रमेण तु।
वाचस्पतिः स्मृतो व्यासो यदा स ऋषिसत्तमः ॥ २३.१८३ ॥

तदाऽप्यहं भविष्यामि दारुको नाम नामतः।
तस्माद्भविष्यते पुण्यं देवदारुवनं महत् ॥ २३.१८४ ॥

मूलम्

तदाऽप्यहं भविष्यामि दारुको नाम नामतः।
तस्माद्भविष्यते पुण्यं देवदारुवनं महत् ॥ २३.१८४ ॥

विश्वास-प्रस्तुतिः

तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
प्लक्षो दाक्षायणिश्चैव केतुमाली बकस्तथा ॥ २३.१८५ ॥

योगात्मानो महात्मानो नियता ह्यूर्ध्वरेतसः।
परमं योगमाक्थाय रुद्रं प्राप्तास्तथानघाः ॥ २३.१८६ ॥

द्वाविंशे परिवर्त्ते तु व्यासः शुक्लायनो यदा।
तदाऽप्यहं भविष्यामि वाराणस्यां महामुनिः ॥ २३.१८७ ॥

नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः।
द्रक्ष्यन्ति मां कलौ तस्मिन्नवतीर्णं हलायुधम् ॥ २३.१८८ ॥

तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः।
तुल्यार्चिर्मधुपिङ्गाक्षः श्वेतकेतुस्तथैव च ॥ २३.१८९ ॥

तेऽपि माहेश्वरं योगं प्राप्य ध्यानपरायणाः।
विरजा ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः ॥ २३.१९० ॥

परिवर्त्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः।
व्यासो भविष्यति ब्रह्म तदाऽहं भविता पुनः।
श्वेतो नाम महाकायो मुनिपुत्रः सुधार्मिकः ॥ २३.१९१ ॥

तत्र कालञ्जरिष्यामि तदा गिरिवरोत्तमे।
तेन कालञ्जरो नाम भविष्यति स पर्वतः ॥ २३.१९२ ॥

मूलम्

तत्र कालञ्जरिष्यामि तदा गिरिवरोत्तमे।
तेन कालञ्जरो नाम भविष्यति स पर्वतः ॥ २३.१९२ ॥

विश्वास-प्रस्तुतिः

तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः।
उषिजो बृहदुक्थश्च देवलः कविरेव च।
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥ २३.१९३ ॥

परिवर्त्ते चतुर्विंशे ऋक्षो व्यासो भविष्यति।
तत्राऽहं भविता ब्रह्मन् कलौ तस्मिन् युगान्तिके।
शूली नाम महायोगी नैमिषे योगि वन्दिते ॥ २३.१९४ ॥

तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः।
शलिहोत्रोऽग्निवेश्यश्च युवनाश्चः शरद्वसुः ।
तेऽपि योगबलोपेता रुद्रं यास्यन्ति सुव्रताः ॥ २३.१९५ ॥

पञ्चविंशे पुनः प्राप्ते परिवर्त्ते यथाक्रमम्।
वसिष्ठस्तु यदा व्यासः शक्तिर्नाम भविष्यति ॥ २३.१९६ ॥

तदाऽप्यहं भविष्यामि दण्डी मुण्डीशरः प्रभुः।
कोटिवर्षं समासाद्य नगरं देवपूजितम् ॥ २३.१९७ ॥

तत्रापि मम ते पुत्रा भविष्यन्ति क्रमागताः।
योगात्मानो महात्मानः सर्वे ते ह्यूर्ध्वरेतसः ॥ २३.१९८ ॥

छगलः कुम्भकर्षाश्यः कुम्भश्चैव प्रबाहुकः।
प्राप्य माहेश्वरं योगं गमिष्यन्ति तथैव ते ॥ २३.१९९ ॥

षड्‌विंशे परिवर्त्ते तु यदा व्यासः पराशरः।
तदाऽप्यहं भविष्यामि सहिष्णुर्नाम नामतः।
पुण्यं रुद्रवनं प्राप्य कलौ तस्मिन् युगान्तिके ॥ २३.२०० ॥

मूलम्

षड्‌विंशे परिवर्त्ते तु यदा व्यासः पराशरः।
तदाऽप्यहं भविष्यामि सहिष्णुर्नाम नामतः।
पुण्यं रुद्रवनं प्राप्य कलौ तस्मिन् युगान्तिके ॥ २३.२०० ॥

विश्वास-प्रस्तुतिः

तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः।
उलूको वैद्युतश्चैव सर्वको ह्याश्वलायनः।
प्राप्य माहेश्वरं योगं गन्तारस्ते तथैव हि ॥ २३.२०१ ॥

सप्तविंशतिमे प्राप्ते परिवर्त्ते क्रमागते।
जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः ॥ २३.२०२ ॥

तदाऽप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः।
प्रभासतीर्थमासाद्य योगात्मा लोकविश्रुतः ॥ २३.२०३ ॥

मूलम्

तदाऽप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः।
प्रभासतीर्थमासाद्य योगात्मा लोकविश्रुतः ॥ २३.२०३ ॥

विश्वास-प्रस्तुतिः

तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
अक्षपादः कणादश्च उलूको वत्स एव च ॥ २३.२०४ ॥

योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः।
प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः ॥ २३.२०५ ॥

अष्टाविंशे पुनः प्राप्ते परिवर्त्ते क्रमागते।
पराशरसुतः श्रीमान् विष्णुर्लोकपितामहः ॥ २३.२०६ ॥

यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः।
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः।
वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति ॥ २३.२०७ ॥

तदा चाहं भविष्यामि योगात्मा योगमायया।
लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः ॥ २३.२०८ ॥

श्मशावे मृतमुत्सृष्टं दृष्ट्वा लोकमनाथकम्।
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥ २३.२०९ ॥

दिव्यां मेरुगुहां पुण्यां त्वया सार्द्धञ्च विष्णुना।
भविष्यामि तदा ब्रह्मन् नकुली नाम नामतः ॥ २३.२१० ॥

कायारोहणमित्येवं सिद्धक्षेत्रञ्च वैतदा।
भविष्यति तु विख्यातं यावद्भूमिर्द्धरिष्यति ॥ २३.२११ ॥

तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ।
कुशइकश्चैव गार्ग्यश्च मित्रको रुष्ट एव च ॥ २३.२१२ ॥

योगयुक्ता महात्मानो ब्राह्मणा वेदपारगाः। प्राप्य माहेश्वरं योगं विमला ह्यूर्ध्वरेतसः। रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २३. २१३ ॥
विश्वास-प्रस्तुतिः

इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम्।
मन्वादिकृष्णपर्यन्तमष्टाविंशयुगक्रमात्।
तत्र स्मृतिसमूहानां विभागो धर्मलक्षणम् ॥ २३.२१४ ॥

इति श्रीमहापुराणे वायु प्रोक्ते माहेश्वरावतारयोगो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥।