॥ ऋषय ऊचुः ॥
अत्यद्भुतमिदं सर्वं कल्पानान्ते महामुने।
रहस्यं वै समाख्यातं मन्त्राणाञ्च प्रकल्पनम् ॥ २२. १ ॥
विश्वास-प्रस्तुतिः
न तवाविदितं किञ्चित् त्रिषु लोकेषु विद्यते।
तस्माद्विस्तरतः सर्वाः कल्पसङ्ख्या ब्रवीहि नः ॥ २२.२ ॥
मूलम्

॥वायुरुवाच ॥
विश्वास-प्रस्तुतिः
अत्र वः कथयिष्यामि कल्पसङ्ख्यां यथा तथा।
युगाग्रं च वर्षाग्रन्तु ब्रह्मणः परमेष्ठिनः ॥ २२.३ ॥

एकं कल्पसहस्रन्तु ब्रह्मणोऽब्दः प्रकीर्त्तितः।
एतदष्टसहस्रन्तु ब्रह्मणस्तद्युगं स्मृतम् ॥ २२.४ ॥

एकं युगसहस्रन्तु सवनं तत् प्रजापतेः।
सवनानां सहस्रन्तु द्विगुणं त्रिवृतं तथा ॥ २२.५ ॥

ब्रह्मणः स्थितिकालस्य चैतत् सर्वं प्रकीर्तितम्।
तस्य सङ्ख्यां प्रवक्ष्यामि पुरस्ताद्वै यथाक्रमम् ॥ २२.६ ॥

अष्टाविंशतिर्ये कल्पा नामतः परिकीर्तिताः।
तैषां पुरस्ताद्वक्ष्यामि कल्पसञ्ज्ञां, यथाक्रमम् ॥ २२.७ ॥

रथन्तरस्य साम्नस्तु उपरिष्टान्निबोधत।
कल्पान्ते नाम धेयानि मन्त्रोत्पत्तिश्च यस्य या ॥ २२.८ ॥

एकोनविंशकः कल्पो विज्ञेयः श्रृतलोहितः।
यस्मिंस्तत् परमध्यानं ध्यायतो ब्रह्मणस्तथा ॥ २२.९ ॥

श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिखी।
उत्पन्नस्तु महातेजाः कुमारः पावकोपमः ॥ २२.१० ॥

भीमं मुखं महारौद्रं सुघोरं श्वेतलोहितम्।
दीप्तं दीप्तेन वपुषा महास्यं श्वेतवर्च्चसम् ॥ २२.११ ॥

तं दृष्ट्वा पुरुषः श्रीमान् ब्रह्मा वै विश्वतोमुखः।
कुमारं लोकधातारं विश्वरूपं महेश्वरम् ॥ २२.१२ ॥

पुराणपुरुषं देवं विश्वात्मा योगिनां चिरम्।
ववन्दे देवदेवेशं ब्रह्मा लोकपितामहः ॥ २२.१३ ॥

हृदि कृत्वा महादेवं परमात्मानमीश्वरम्।
सद्योजातं ततो ब्रह्म ब्रह्मा वै सम चिन्तयत्।
ज्ञात्वा मुमोच देवेशो हृष्टो हासं जगत्पतिः ॥ २२.१४ ॥

ततोऽस्य पार्श्वतः श्वेता ऋषयो ब्रह्मवर्च्चसः।
प्रादुर्भूता महात्मानः श्वेतमाल्यानुलेपनाः ॥ २२.१५ ॥

सुनन्दो नन्दकशचवैव विश्वनन्दोऽथ नन्दनः।
शिष्यास्ते वै महात्मानो यैस्तु ब्रह्म ततो वृतम् ॥ २२.१६ ॥

तस्याग्रे श्वेत वर्णाभः श्वेतनामा महामुनिः।
विजज्ञेऽथ महातेजा यस्माज्जज्ञे नरस्त्वसौ ॥ २२.१७ ॥

तत्र ते ऋषयः सर्वे सद्योजातं महेश्वरम्।
तस्माद्विश्वेश्वरं देवं ये प्रपश्यन्ति वै द्विजाः।
प्राणायामपरा युक्ता ब्रह्मणि व्यवसायिनः ॥ २२.१८ ॥

ते सर्वे पापनिर्मुक्ता विमला ब्रह्मवर्च्चसः।
ब्रह्मलो कमतिक्रम्य ब्रह्मलोकं व्रजन्ति च ॥ २२.१९ ॥

॥वायुरुवाच॥
विश्वास-प्रस्तुतिः
ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्त्तितः।
रक्तो यत्र महातेजा रक्तवर्ण मधारयत् ॥ २२.२० ॥

ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः।
प्रादुर्भूतो महातेजाः कुमारो रक्तविग्रहः।
रक्तमाल्याम्बरधरो रक्तनेत्रः प्रतापवान् ॥ २२.२१ ॥

स तं दृष्ट्वा महादेवं कुमारं रक्तवाससम्।
ध्यानयोगं परङ्गत्वा बुबुधे विश्वमीश्वरम् ॥ २२.२२ ॥

स तं प्रणम्य भगवान् ब्रह्मा परमयन्त्रितः।
वामदेवं ततो ब्रह्मा ब्रह्मात्मकं व्यचिन्तयत् ॥ २२.२३ ॥

एवं ध्यातो महादेवो ब्रह्मणा परमेष्ठिना।
मनसा प्रीतियुक्तेन पितामहमथाब्रवीत् ॥ २२.२४ ॥

ध्यायता पुत्रकामेन यस्मात्तेहं पितामहः।
दृष्टः परमया भक्त्या ध्यानयोगेन सत्तम ॥ २२.२५ ॥

तस्माद्धयानं परं प्राप्य कल्पे कल्पे महातपाः।
वेत्स्यसे मां महासत्त्व लोकधातारमीश्वरम्।
एवमुक्त्वा ततः शर्वः अट्टहासं मुमोच ह ॥ २२.२६ ॥

ततस्तस्य महात्मानश्चत्वारश्च कुमारकाः।
सम्बभूवुर्ममाहात्मानो विरेजुः शुद्धबुद्धयः ॥ २२.२७ ॥

विरजस्व विवाहश्च विशोको विश्वभावनः।
ब्रह्मण्या ब्रह्मणस्तुल्या वीरा अध्यवसायिनः ॥ २२.२८ ॥

रक्ताम्बरधराः सर्वे रक्तमाल्यानुलेपनाः।
रक्तभस्मानुलिप्ताङ्गा रक्तास्या रक्तलोचनाः ॥ २२.२९ ॥

ततो वर्षसहस्रान्ते ब्रह्मण्या व्यवसायिनः।
गृणन्तशचव महात्मानो ब्रह्म तद्वामदैवकम् ॥ २२.३० ॥

अनुग्रहार्थं लोकानां शिष्याणां हितकाम्यया।
धर्मोपदेशमखिलं कृत्वा ते ब्राह्मणाः स्वयम् ।
पुनरेव महामदेवं प्रविष्टा रुद्रमव्ययम् ॥ २२.३१ ॥

येऽपि चान्ये द्विजश्रेष्ठा युञ्जाना वाममीश्वरम्।
प्रपद्यन्ति महादें तद्भक्तास्तत्परायणाः ॥ २२.३२ ॥
मूलम्
येऽपि चान्ये द्विजश्रेष्ठा युञ्जाना वाममीश्वरम्।
प्रपद्यन्ति महादें तद्भक्तास्तत्परायणाः ॥ २२.३२ ॥
विश्वास-प्रस्तुतिः
ते सर्वे पापनिर्मुक्ता विमला ब्रह्मवर्च्चसः।
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २२.३३ ॥

इति श्रीमहापुराणे वायुप्रोक्ते कल्पसङ्ख्यानिरूपणं नाम द्वाविंशोऽध्यायः ॥ २२ ॥