०२१

॥ सूत उवाच ॥

विश्वास-प्रस्तुतिः

ऋषीणामग्निकल्पानां नैमिषारण्यवासिनाम् ।
ऋषिः श्रुतिधरः प्राज्ञः सावर्णिर्नाम नामतः ॥ २१.१ ॥

मूलम्

तेषां सोप्यग्रतो भूत्वा वायुं वाक्यविशारदः।
सातत्यं तत्र कुर्वन्तं प्रियार्थे सत्रयाजिनाम्।
विनयेनोपसङ्गम्य पप्रच्छ स महाद्युतिम् ॥ २१.२ ॥

॥सावर्णिरुवाच ॥
विश्वास-प्रस्तुतिः

विभो पुराणसं बद्धां कथां वै वेदसम्मिताम्।
श्रोतुमिच्छामहे सम्यक् प्रसादात्सर्वदर्शिनः ॥ २१.३ ॥

हिरण्यगर्भो भगवान् ललाटान्नीललोहितम्।
कथं तत्तेजसं देवं लब्धवान् पुत्रमात्मनः ॥ २१.४ ॥

कथं च भगवान् जज्ञे ब्रह्मा कमलसम्भवः।
रुद्रत्वं चैव सर्वस्य स्वात्मजस्य कथं पुनः ॥ २१.५ ॥

कथं च विष्णो रुद्रेण सार्द्धं प्रीतिरनुत्तमा।
सर्वे विष्णुमया देवा सर्वे विष्णुमया गणाः ॥ २१.६ ॥

न च विष्णुसमा काचिद्गतिरन्या विधीयते।
इत्येवं सततं देवा गायन्ते नात्र संशयः।
भवस्य सकथं नित्यं प्रणामं कुरुते हरिः ॥ २१.७ ॥

॥सूत उवाच ॥
विश्वास-प्रस्तुतिः

एवमुक्ते तु भगवान् वायुः सावर्णिमब्रवीत्।
अहो साधु त्वया साधो पृष्टः प्रश्नो ह्यनुत्तमः ॥ २१.८ ॥

भवस्य पुत्रजन्मत्वं ब्रह्मणः सोऽभवद्यथा।
ब्रह्मणः पद्म योनित्वं रुद्रत्वं शङ्करस्य च ॥ २१.९ ॥

द्वाभ्यामपि च सम्प्रीतिर्
विश्वास-प्रस्तुतिः

विष्णोश्चैव भवस्य च ।
यच्चापि कुरुते नित्यं प्रणामं शङ्करस्य च।
विस्तरेणानुपूर्व्याच्च श्रृणुत ब्रुवतो मम ॥ २१.१० ॥

मन्वन्तरस्य संहारे पश्चिमस्य महात्मनः।
आसीत्तु सप्तमः कल्पः पद्मो नाम द्विजोत्तम।
वाराहः साम्प्रतस्तेषां तस्य वक्ष्यामि विस्तरम् ॥ २१.११ ॥

॥सावर्णिरुवाच॥
विश्वास-प्रस्तुतिः

कियता चैव कालेन कल्पः सम्भवते कथम्।
किं च प्रमाणं कल्पस्य तत्र प्रब्रूहि पृच्छताम् ॥ २१.१२ ॥

॥वायुरुवाच॥
विश्वास-प्रस्तुतिः

मन्वन्तराणां सप्तानां कालसङ्ख्या यथाक्रमम्।
प्रवक्ष्यामि समासेन ब्रुवतो मे निबोधत ॥ २१.१३ ॥

कोटीनां द्वे सहस्रे वै अष्टौ कोटिशतानि च ।
द्विषष्टिश्च तथा कोट्यो नियुतानि च सप्ततिः।
कल्पार्द्धस्य तु सङ्ख्यायामेतत् सर्वमुदाहृतम् ॥ २१.१४ ॥

पूर्वोक्तौ च गुणच्छेदौ वर्षाग्रं लब्दमादिशेत् ।
शतं चैव तु कोटीनां कोटीनामष्टसप्ततिः।
द्वे च शतसहस्रे तु नवतिर्नियुतानि च ॥ २१.१५ ॥

मानुषेण प्रमाणेन यावद्वैवस्वतान्तरम्।
एष कल्पस्तु विज्ञेयः कल्पार्द्धद्विगुणीकृतः ॥ २१.१६ ॥

अनागतानां सप्तानामेतदेव यथाक्रमम्।
प्रमाणं कालसङ्ख्याया विज्ञेयं मतमैश्वरम् ॥ २१.१७ ॥

नियुतान्यष्टपञ्चाशत्तथाऽशीतिशतानि च।
चतुरशीतिश्चवान्यानि प्रयुतानि प्रमाणतः ॥ २१.१८ ॥

सप्तर्षयो मनुश्चैव देवाश्चेन्द्रपुरोगमाः।
एतत् कालस्य विज्ञेयं वर्षाग्रन्तु प्रमाणतः ॥ २१.१९ ॥

एवं मन्वन्तरं तेषां मानुषान्तः प्रकीर्त्तितः।
प्रणवान्ताशचव ये देवाः साध्या देवगणाश्च ये।
विश्वेदेवाशचव ये नित्याः कल्पं जीवन्ति ते गणाः ॥ २१.२० ॥

अयं यो वर्त्तते कल्पो वाराहः स तु कीर्त्त्यते।
यस्मिन् स्वायम्भुवाद्याश्च मनवश्च चतुर्द्दश ॥ २१.२१ ॥

॥ऋषय ऊचुः॥
विश्वास-प्रस्तुतिः

कस्माद्वाराहकल्पोयं नामतः परिकीर्तितः।
कस्माच्च कारणाद्देवो वराह इति कीर्त्त्यते ॥ २१.२२ ॥

को वा वराहो भगवान् कस्य योनिः किमात्मकः।
वराहः कथमुत्पन्न एतदिच्छाम वेदितुम् ॥ २१.२३ ॥

वराहस्तु यथोत्पन्नो यस्मिन्नर्थे च कल्पितः।
वाराहश्च यथा कल्पः कल्पत्वं कल्पना च या ॥ २१.२४ ॥

कल्पयोरन्तरं यच्च तस्य चास्य च कल्पितम्।
तत्सर्वं सम्प्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ॥ २१.२५ ॥

भवस्तु प्रथमः कल्पो लोकादौ प्रथितः पुरा।
ज्ञातव्यो भगवानत्र ह्यानन्दः साम्प्रतः स्वयम् ॥ २१.२६ ॥

ब्रह्मस्थानमिदं दिव्यं प्राप्तं वा दिव्यसम्भवम्।
द्वितीयस्तु भुवः कल्पस्तृतीयस्तप उच्यते ॥ २१.२७ ॥

भवश्चतुर्थो विज्ञेयः पञ्चमो रम्भ एव च।
ऋतुकल्पस्तथा षष्ठः सप्तमस्तु क्रतुः स्मृतः ॥ २१.२८ ॥

अष्टमस्तु भवेद्वह्निर्नवमो हव्यवहनः।
सावित्रो दशमः कल्पो भुवस्त्वेकादशः स्मृतः ॥ २१.२९ ॥

उशिको द्वादशस्तत्र कुशिकस्तु त्रयोदशः।
चतुर्द्दशस्तु गन्धर्वो गन्धर्वो यत्र वै स्वरः।
उत्पन्नस्तु यथा नादो गन्धर्वा यत्र चोत्थिताः ॥ २१.३० ॥

ऋषभस्तु ततः कल्पो ज्ञेयः पञ्चदशो द्विजाः।
ऋषयो यत्र सम्भूताः स्वरो लोकमनोहरः ॥ २१.३१ ॥

षड्जस्तु षोडशः कल्पः षड्जना यत्र चर्षयः।
शिशिरश्च वसन्तश्च निदाघो वर्ष एव च ॥ २१.३२ ॥

शरद्धेमन्त इत्येते मानसा ब्रह्मणः सुताः।
उत्पन्नाः षड्ज संसिद्धाः पुत्राः कल्पे तु षोडशे ॥ २१.३३ ॥

यस्माज्जातैश्च तैः षडभिः सद्यो जातो महेश्वरः।
तस्मात् समुत्थितः षड्जः स्वरस्तूदधिसन्निभः ॥ २१.३४ ॥

ततः सप्तदशः कल्पो मार्जालीय इति स्मृतः।
मार्ज्जालीयं तु तत् कर्म यस्माद्ब्राह्मामकल्पयत् ॥ २१.३५ ॥

ततस्तु मध्यमो नाम कल्पोऽष्टादश उच्यते।
यस्मिस्तु मध्यमो नाम स्वरो धैवतपूजितः ।
उत्पन्नः सर्वभूतेषु मध्यमो वै स्वयम्भुवः ॥ २१.३६ ॥

ततस्त्वेकोनविंशस्तु कल्पो वैराजकः स्मृतः।
वैराजो यत्र भगवान् मुनुर्वै ब्रह्मणः सुतः ॥ २१.३७ ॥

तस्य पुत्रस्तु धर्मात्मा ददीचिर्नाम धार्मिकः।
प्रजापतिर्महातेजा बभूव त्रिदशेश्वरः ॥ २१.३८ ॥

अकामयत गायत्री यजमानं प्रजापतिम्।
तस्माज्जज्ञे स्वरः स्रिग्धः पुत्रस्तस्य दधीचिनः ॥ २१.३९ ॥

ततो विंशतिमः कल्पो निषादः परिकीर्त्तितः।
प्रजापतिस्तु तं दृष्ट्वा स्वयम्भूप्रभवं तदा।
विरराम प्रजाः स्रष्टुं निषादस्तु तपोऽतपत् ॥ २१.४० ॥

दिव्यं वर्षसहस्रन्तु निराहारो जीतेन्द्रियः।
तमुवाच महान्तेजा ब्रह्मा लोकपितामहः ॥ २१.४१ ॥

ऊर्ध्वबाहुं तपोग्लानं दुःखितं क्षुत्पिपासितम्।
निषीदेत्यब्रवीदेनं पुत्रं शान्तं पितामहः।
तस्मान्निषादः सम्भूतः स्वरस्तु स निषादवान् ॥ २१.४२ ॥

एकविंशतिमः कल्पो विज्ञेयः पञ्चमो द्विजाः।
प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ २१.४३ ॥

ब्रह्मणो मानसाः पुत्राः पञ्चैते ब्रह्मणः समाः।
तैस्त्वर्थवादिभिर्युक्तैर्वाग्भिरिष्टो महेश्वरः ॥ २१.४४ ॥

यस्मात्परिगतैर्गीतः पञ्चभिस्तैर्महात्मभिः।
स्वरस्तु पञ्चमः स्निग्धः तस्मात्कल्पस्तु पञ्चमः ॥ २१.४५ ॥

द्वाविंशस्तु तथा कल्पो विज्ञेयो मेघवाहनः।
यत्र विष्णुर्महाबाहुर्मेघो भूत्वा महेश्वरम्।
दिव्यं वर्षसहस्रन्तु अवहत् कृत्तिवाससम् ॥ २१.४६ ॥

तस्य निःश्वसमानस्य भाराकान्तस्य वै मुखात्।
निर्जगाम महाकायः कालो लोकप्रकाशनः।
यस्त्वयं पठ्यते विप्रैर्विष्णुर्वै कश्यपात्मजः ॥ २१.४७ ॥

त्रयोविंशतिमः कल्पो विज्ञेयश्चिन्तकस्तथा।
प्रजापतिसुतः श्रीमान् चितिश्च मिथुनञ्च तौ ॥ २१.४८ ॥

ध्यायतो ब्रह्मणश्चैव यस्माच्चिन्ता समुत्थिता।
तस्मात्तु चिन्तकः सो वै कल्पः प्रोक्तः स्वयम्भुवा ॥ २१.४९ ॥

चतुर्विंशतिमश्चापि ह्याकूतिः कल्प उच्यते।
आकूतिश्च तथा देवी मिथुनं सम्बभूव ह ॥ २१.५० ॥

प्रजाः स्रष्टुं तथाकूतिं यस्मादाह प्रजापतिः।
तस्मात् स पुरुषो ज्ञेय आकूतिः कल्पसञ्ज्ञितः ॥ २१.५१ ॥

पञ्चविंशतिमः कल्पो विज्ञातिः परिकीर्त्तितः।
विज्ञातिशचव तथा देवी मिथुनं सम्प्रसूयते ॥ २१.५२ ॥

ध्यायतः पुत्रकामस्य मनस्यध्यात्मसञ्ज्ञितम्।
विज्ञातं वै समासेन विज्ञातिस्तु ततः स्मृतः ॥ २१.५३ ॥

षड्‌विंशस्तु ततः कल्पो मन इत्यभिधीयते।
देवी च शाङ्करी नाम मिथुनं सम्प्रसूयते ॥ २१.५४ ॥

प्रजा वै चिन्तमा नस्य स्रष्टुकामस्य वै तदा।
यस्मात् प्रजासम्भवनादुत्पन्नस्तु स्वयम्भुवा ।
तस्मात् प्रजासम्भवनाद्भावनासम्भवः स्मृतः ॥ २१.५५ ॥

सप्तविंशतिमः कल्पो भावो वै कल्पसञ्ज्ञितः।
पौर्णमासी तथा देवी मिथुनं समपद्यत ॥ २१.५६ ॥

प्रजा वै स्रष्टुकामस्य ब्रह्मणः परमेष्ठिनः।
ध्यायतस्तु परं ध्यानं परमात्मानमीश्वरम् ॥ २१.५७ ॥

अग्निस्तु मण्डलीभूत्वा रश्मिजालसमावृतः ।
भुवन्दिवञ्चविष्टभ्य दीप्यते स महावपुः ॥ २१.५८ ॥

ततो वर्षसहस्रान्ते सम्पूर्णे ज्योतिमण्डले।
अविष्टया सहोत्पन्नमपस्यत् सूर्यमण्डलम् ॥ २१.५९ ॥

यस्माददृश्यो भूतानां ब्रह्मणा परमेष्ठिना।
दृष्टस्तु भगवान् देवः सूर्यः सम्पूर्णमण्डलः ॥ २१.६० ॥

सर्वे योगाश्च मन्त्राश्च मण्डलेन सहोत्थिताः।
यस्मात् कल्पो ह्ययं दृष्टस्तस्मात्तं दर्शमुच्यते ॥ २१.६१ ॥

यस्मान्मनसि सम्पूर्णो ब्रहमणः परमेष्ठिनः।
पुरा वै भगवान् सोमः पौर्णमासी ततः स्मृता ॥ २१.६२ ॥

तस्मात्तु पर्वदर्शे वै पौर्णमासञ्च योगिभिः।
उभयोः पक्षयोर्ज्येष्ठमात्मनो हितकाम्यया ॥ २१.६३ ॥

दर्शञ्च पौर्णमासञ्च ये यजन्ति द्विजातयः।
न तेषां पुनरावृत्तिर्ब्रह्मलोकात् कदाचन ॥ २१.६४ ॥

मूलम्

दर्शञ्च पौर्णमासञ्च
ये यजन्ति द्विजातयः।
न तेषां पुनरावृत्तिर्
ब्रह्मलोकात् कदाचन ॥ २१.६४ ॥

विश्वास-प्रस्तुतिः

योऽनाहिताग्निः प्रयतो
वीराध्वानं गतोपि वा ।
समाधाय मनस् तीव्रं
मन्त्रमुच्चारयेच् छनैः ॥ २१.६५ ॥

मूलम्

योऽनाहिताग्निः प्रयतो वीराध्वानं गतोपि वा ।
समाधाय मनस्तीव्रं मन्त्रमुच्चारयेच्छनैः ॥ २१.६५ ॥

विश्वास-प्रस्तुतिः

त्वम् अग्ने रुद्रो असुरो मही दिवस्
त्वं शर्वो मारुतं पृष्ट ईशिषे।
त्वं पाश-गन्धर्व-शिषं पूषा विधत्त-पासिना।

मूलम्

त्वमग्ने रुद्रो असुरो मही दिवस्त्वं शर्वो मारुतं पृष्ट ईशिषे।
त्वं पाशगन्धर्वशिषं पूषा विधत्तपासिना।

मानसतरङ्गिणीकृत् - टिप्पनी

The ऋच (Ṛca) in ऋग्वेद-शकल-शाखा-संहिता 2.1.6 is as follows:
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै॑र् अरु॒णैर् या॑सि शंग॒यस् त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑

The occurrence of “gandharva” in this śloka of the Vāyupurāṇa may not be a textual corruption, in light of this mantra & its brãhmaṇa from the Kaṭhāraṇyakam, which identifies Rudra as the Gandharva-Bhuvanapati.

I too have been puzzled by this variant – have not been able to find any variation across the different vaidika saMhitA-s that have the mantra. However, as you say all editions of the vAyupurANa have it that way. I thought it was a corruption. But may be it is a somewhat corrupt record of a lost saMhitA? If we take it to be uncorrupted then we should interpret based on the root shiSh to destroy – destroying the pAsha-s & gandharva-s (negative in Iranic sense, also seen occasionally in AV) but puShA vidhatta pAsinA looks corrupt.

विश्वास-प्रस्तुतिः

इत्येव मन्त्रं मनसा
सम्यग् उच्चारयेद् ‌द्विजः।
अग्निं प्रविशते यस् तु
रुद्रलोकं स गच्छति ॥ २१.६६ ॥

मूलम्

इत्येव मन्त्रं मनसा सम्यगुच्चारयेद्‌द्विजः।
अग्निं प्रविशते यस्तु रुद्रलोकं स गच्छति ॥ २१.६६ ॥

विश्वास-प्रस्तुतिः

सोमश्चाग्निस्तु भगवान् कालो रुद्र इति श्रुतिः।
तस्माद्यः प्रविशेदग्निं स रुद्रान्न निवर्त्तते ॥ २१.६७ ॥

अष्टाविंशतिमः कल्पो बृहदित्यभिसञ्ज्ञितः।
ब्रह्मणः पुत्रकामस्य स्रष्ठुकामस्य वै प्रजाः।
ध्यायमानस्य मनसा बृहत्साम रथन्तरम् ॥ २१.६८ ॥

यस्मात्तत्र समुत्पन्नो बृहतः सर्वतोमुखः।
तस्मात्तु बृहतः कल्पो विज्ञेयस्तत्त्वचिन्तकैः ॥ २१.६९ ॥

अष्टाशीतिसहस्राणां योजनानां प्रमाणतः ।
रथन्तरन्तुविज्ञेयं परमं सूर्यमण्डलम्।
तस्मादण्डन्तु विज्ञेयमभेद्यं सूर्यमण्डलम् ॥ २१.७० ॥

युत्सूर्यमण्डलञ्चापि बृहत्साम तु भिद्यते।
भित्वा चैवं द्विजा यान्ति योगात्मानो दृढव्रताः।
सङ्घातमुपनीताश्च अन्ये कल्पा रथन्तरे ॥ २१.७१ ॥

इत्येतत्तु मया प्रोक्तं चित्रमध्यात्मदर्शनम्।
अतः परं प्रवक्ष्यामि कल्पानां विस्तरं शुभम् ॥ २१.७२ ॥

इति श्रीमहापुराणे वायुप्रोक्ते कल्पनिरूपणं नामैकविंशोध्यायः ॥ २१ ॥