०२०

॥ वायुरुवाच ॥

विश्वास-प्रस्तुतिः

अत ऊर्ध्वं प्रवक्ष्यामि ओङ्कारप्राप्तिलक्षणम्।
एष त्रिमात्रो विज्ञेयो व्यञ्जनञ्चात्र सस्वरम् ॥ २०.१ ॥

मूलम्

प्रथमा वैद्युती मात्रा द्वितीया तामसी स्मृता।
तृतीया निर्गुणी विद्यान्मात्रामक्षरगामिनीम् ॥ २०.२ ॥

गन्धर्वीति च विज्ञेयो गान्धारस्वरसम्भवा।
पिपीलिकासमस्पर्शा प्रयुक्ता मूर्द्नि लक्ष्यते ॥ २०.३ ॥

तथा प्रयुक्तमोङ्कारं प्रतिनिर्वाति मूर्द्धनि ।
तथोङ्कारमयो योगी ह्यक्षरे त्वक्षरी भवेत् ॥ २०.४ ॥

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते।
अप्रमत्तेन चेद्वध्यं शरवत्तन्मयो भवेत् ॥ २०.५ ॥

ओमित्येकाक्षरं ब्रह्म गुहायां निहितं पदम्।
ओमित्येतत्रयो वेदास्त्रयो लोकास्त्रयोऽग्नयः।
विष्णुक्रमास्त्रयस्त्वेते ऋक्सामानि यजूंषि च ॥ २०.६ ॥

मात्राश्चात्र चतस्रस्तु विज्ञेयाः परमार्थतः।
तत्र युक्तश्च यो योगी तस्य सालोक्यतां व्रजेत् ॥ २०.७ ॥

अकारस्त्वक्षरो ज्ञेय उकारः स्वरितः स्मृतः।
मकारस्तु प्लुतो ज्ञेयस्त्रिमात्र इति सञ्ज्ञितः ॥ २०.८ ॥

अकारस्त्वथ भूर्लोक उकारो भुवरुच्यते।
सव्यञ्जनो मकारश्च स्वर्लोकश्च विधीयते ॥ २०.९ ॥

ओङ्कारस्तु त्रयो लोकाः शिरस्तस्य त्रिविष्टपम्।
भुवनान्तञ्च तत्सर्वं ब्राह्मं तत्पदमुच्यते ॥ २०.१० ॥

मात्रापदं रुद्रलोको ह्यमात्रस्तु शिवं पदम्।
एवन्ध्यानविशेषेण तत्पदं समुपासते ॥ २०.११ ॥

तस्माद्धयानरतिर्नित्यममात्रं हि तदक्षरम्।
उपास्यं हि प्रयत्नेन शाश्वतं पदमिच्छता ॥ २०.१२ ॥

हृस्वा तु प्रथमा मात्रा ततो दीर्घा त्वनन्तरम्।
ततः प्लुतवती चैव तृतीया उपदिश्यते ॥ २०.१३ ॥

एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः ।
यावच्चैव तु शक्यन्ते धार्यन्ते तावदेव हि ॥ २०.१४ ॥

इन्द्रियाणि मनो बुद्धिं ध्यायन्नात्मनि यः सदा ।
अत्राष्टमात्रमपिचेच्छृणुयात्फलमाप्नुयात् ॥ २०.१५ ॥

मासे मासेऽश्वमेधेन यो यजेत शतं समाः ।
न स तत् प्राप्नुयात् पुण्यं मात्रया यदवाप्नुयात् ॥ २०.१६ ॥

अब्बिन्दुं यः कुशाग्रेण मासे मासे पिबेन्नरः।
संवत्सरशतं पूर्णं मात्रया तदवाप्नुयात् ॥ २०.१७ ॥

इष्टापूर्त्तस्य यज्ञस्य सत्यवाक्ये च यत् फलम्।
अभक्षणे च मांसस्य मात्रया तदवाप्नुयात् ॥ २०.१८ ॥

स्वाम्यर्थे युध्यमानानां शूराणामनिवर्त्तिनाम्।
यद्भवेत्तत् फलं दृष्टं मात्रया तदवाप्नुयात् ॥ २०.१९ ॥

न तथा तपसोग्रेण न यज्ञैर्भूरिदक्षिणैः।
यत् फलं प्राप्नुयात् सम्यग् मात्रया तदवाप्नुयात् ॥ २०.२० ॥

तत्र वै योऽर्द्धमात्रो यः प्लुतो नामोपदिश्यते।
एषा एव भवेत् कार्या गृहस्थानान्तु योगिनाम् ॥ २०.२१ ॥

एषा चैव विशेषेण ऐश्वर्यसमलक्षणा।
योगिनान्तु विशेषेण ऐश्वर्ये ह्यष्टलक्षणे।
अणिमाद्येति विज्ञेया तस्माद्युञ्जीत तां द्विजः ॥ २०.२२ ॥

एवं हि योगी संयुक्तः शुचिर्द्दान्तो जितेन्द्रियः।
आत्मानं विन्दते यस्तु स सर्वं विन्दते द्विजः ॥ २०.२३ ॥

ऋचो यजूंषि सामानि वेदोपनिषदस्तथा।
योगज्ञानादवाप्नोति ब्राह्मणो ध्यानचिन्तकः ॥ २०.२४ ॥

सर्वभूतलयो भूत्वा अभूतः स तु जायते।
योगी सङ्क्रमणं कृत्वा याति वै शाश्वतं पदम् ॥ २०.२५ ॥

अपि चात्र चतुर्हस्तां ध्यायमानश्चतुर्मुखीम्।
प्रकृतिं विश्वरूपाख्यां दृष्ट्वा दिव्येन चक्षुषा ॥ २०.२६ ॥

अजामेतां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां स्वरूपाम्।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामाजोऽन्यः।
अष्टाक्षरां षोडशपाणिपादां चतुर्मुखीं त्रिशिखामेकश्रृङ्गाम्।
आद्यामजां विश्वसृजां स्वरूपां ज्ञात्वा बुधास्त्वमृतत्वं व्रजन्ति।
ये ब्राह्मणाः प्रणवं वेदयन्ति न ते पुनः संसरन्तीह भूयः ॥ २०.२७ ॥

इत्येतदक्षरं ब्रह्म परमोङ्कारसञ्ज्ञितम्।
यस्तु वेदयते सम्यक् तथा ध्यायति वा पुनः ॥ २०.२८ ॥

संसारचक्रमुत्सृज्य मुक्तबन्धनबन्धनः।
अचलं निर्गुणं स्थानं शिवं प्राप्नोत्यसंशयः।
इत्येतद्वै मया प्रोक्तमोङ्कारप्राप्तिलक्षणम् ॥ २०.२९ ॥

नमो लोकेश्वराय सङ्कल्पकल्पग्रहणाय महान्तमुपतिष्ठते तद्वो हितं यद्ब्रह्मणे नमः।
सर्वत्र स्थानिने निर्गुणाय सम्भक्तयोगीश्वराय च ॥

पुष्करपर्णमिवाद्भिर्विशुद्धमिव ब्रह्ममुपतिष्ठेत्पवित्रं पवित्राणां पवित्रं पवित्रेण परिपूरितेन पवित्रेण ह्रस्वन्दीर्घप्लुतमिति तदेतमोङ्कारमशब्दमस्पर्शमरूपमरसमगन्धं पर्युपासीत अविद्येशानाय विश्वरूपो न तस्य अविद्येशानाय नमो योगीश्वरायेति च येन द्यौरुग्रा पृथिवी च दृढा येन स्वस्तनितं येन नाकस्तयोरन्तरिक्षमिमे वरीयसो देवानां हृदयं विश्वरूपो न तस्य प्राणापानौपम्यं चास्ति ओङ्कारोविश्वविश्वा वै यज्ञः यज्ञो वै वेदः वेदो वै नमस्कारः नमस्कारो रुद्रः नमो रुद्राय योगेश्वराधिपतये नमः।
इति सिद्धिप्रत्युपस्थानं सायम्प्रातर्मध्याह्ने नमः इति॥

विश्वास-प्रस्तुतिः

सर्वकामफलोरुद्रः।
यथा वृन्तात् फलं पक्वं पवनेन समीरितम्।
नमस्कारेण रुद्रस्य तथा पापं प्रणश्यति ॥ २०.३० ॥

यथा रुद्रनमस्कारः सर्वधर्मफलो ध्रुवः।
अन्यदेवनमस्कारो न तत् फलमवाप्नुयात् ॥ २०.३१ ॥

तस्मात् त्रिषवणं योगी उपासीत महेश्वरम्।
दशाविस्तारकं ब्रह्म तथा च ब्रह्म विस्तरम् ॥ २०.३२ ॥

ओङ्कारं सर्वतः काले सर्वं विहितवान् प्रभुः।
तेन तेन तु विष्णुत्वं नमस्कारं महायशाः ॥ २०.३३ ॥

नमस्कारस्तथा चैव प्रणवस्तुवते प्रभुम् ।
प्रणवं स्तुवते यज्ञो यज्ञं संस्तुवते नमः।
नमस्तुवति वै रुद्रस्तस्माद्रुद्रपदं शिवम् ॥ २०.३४ ॥

इत्येतानि रहस्यानि यतीनां वै यथाक्रमम्।
यस्तु वेदयते ध्यानं स परं प्राप्नुयात्पदम् ॥ २०.३५ ॥

इति श्रीमहापुराणे वायुप्रोक्ते ओङ्कारप्राप्तिलक्षणं नाम विंशोऽध्यायः ॥ २० ॥