००४

विश्वास-प्रस्तुतिः

ऋषयस्तु ततः श्रुत्वा नैमिषारण्यवासिनः।
प्रत्यूचुस्ते ततः सर्वे सूतं पर्याकुलेक्षणाः ॥१॥

मूलम्

भवान् वै वंशकुशलो व्यासात् प्रत्यक्षदर्शवान्।
तस्मात्त्वं भवनं कृत्स्नं लोकस्यामुष्य वर्णय ॥२॥

यस्य यस्यान्वया ये ये तांस्तानिच्छाम वेदितुम्।
तेषां पूर्वर्षिसृष्टिं च विचित्रां तां प्रजापतेः ॥३॥

असकृत्परिपृष्टस्तैर्महात्मा लोमहर्षणः।
विस्तरेणानुपूर्व्या च कथयामास सत्तमः ॥४॥

॥लोमहर्षण उवाच॥
विश्वास-प्रस्तुतिः

पृष्टां चैतां कथां दिव्यां श्लक्ष्णां पापप्रणाशिनीम्।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मताम् ॥५॥

यश्चेमान्धारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः।
श्रावयेच्चापि विप्रेभ्यो यतिभ्यश्च विशेषतः ॥६॥

शुचिः पर्वसु युक्तात्मा तीर्थेष्वायतनेषु च।
दीर्घमायुरवाप्नोति स पुराणानुकीर्त्तनात्।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते ॥७॥

विस्तारावयवं तेषां यथाशब्दं यथाश्रुतम्।
कीर्त्त्यमानं निबोधध्वं सर्वेषां कीर्त्तिवर्द्धनम् ॥८॥

धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुर्विवर्धनम्।
कीर्त्तनं स्थिरकीर्त्तीनां सर्वेषां पुण्यकारिणाम् ॥९॥

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितञ्चेति पुराणं पञ्चलक्षणम् ॥१०॥

कल्पेभ्योऽपि हि यः कल्पः शुचिभ्यो नियतः शुचिः।
पुराणं सम्प्रवक्ष्यामि मारुतं वेदसम्मितम् ॥११॥

प्रबोधः प्रलयश्चैव स्थितिरुत्पत्तिरेव च।
प्रक्रिया प्रथमः पादः कथ्यवस्तुपरिग्रहः ॥१२॥

उपोद्वातोऽनुषङ्गश्च उपसंहार एव च।
धर्म्यं यशस्यमायुष्यं सर्वपापप्रणाशनम् ॥१३॥

एवं हि पादाश्चत्वारः समासात् कीर्त्तिता मया।
वक्ष्याम्येतान् पुनस्तांस्तु विस्तरेण यथाक्रमम् ॥१४॥

तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च।
अन्ताय प्रथमायैव विशिष्टाय प्रजात्मने।
ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयम्भुवे ॥१५॥

महदाद्यं विशेषान्तं सवैरुप्यं सलक्षणम्।
पञ्चप्रमाणं षट्श्येतं पुरुषाधिष्ठितं नुतम्।
असंशयात् प्रवक्ष्यामि भूतसर्गमनुत्तमम् ॥१६॥

अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम्।
प्रधानं प्रकृतिं चैव यमाहुस्तत्त्व चिन्तकाः ॥१७॥

गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्ज्जितम्।
अजातं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥१८॥

जगद्योनिं महद्भूतं परं ब्रह्म सनातनम्।
विग्रहं सर्वभूतानामव्यक्तमभवत् किल ॥१९॥

मूलम्

जगद्योनिं महद्भूतं परं ब्रह्म सनातनम्।
विग्रहं सर्वभूतानामव्यक्तमभवत् किल ॥१९॥

विश्वास-प्रस्तुतिः

अनाद्यन्तमजं सूक्ष्मन्त्रिगुणं प्रभवाव्ययम्।
असाम्प्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत ॥२०॥

तस्यात्मना सर्वमिदं व्याप्तमासीत्तमोमयम्।
गुणसाम्ये तदा तस्मिन् गुणभावे तमोमये ॥२१॥

गर्गकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै।
गुणभावाद्वाच्यमानो महान् प्रादुर्बभूव ह ॥२२॥

सूक्ष्मेण महता सोऽथ अव्यक्तेन समावृतः।
सत्वोद्रिक्तो महानग्रे सत्त्वमात्रप्रकाशकम्।
मनो महांश्च विज्ञेयो मनस्तत्कारणं स्मृतम् ॥२३॥

लिङ्गमात्रसमुत्पन्नः) क्षेत्रज्ञाधिष्ठितस्तु सः।
धर्मादीनान्तु रूपाणि लोकतत्त्वार्थहेतवः।
महांस्तु सृष्टिं कुरुते नोद्यमानः सिसृक्षया ॥२४॥

मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः।
प्रज्ञा चितिः स्मृतिः संवित् विपुरं चोच्यते बुधैः ॥२५॥

मनुते सर्वभूतानां यस्माच्चेष्टाफलं विभुः।
सौक्ष्मत्वेन विवृद्धानां तेन तन्मन उच्यते ॥२६॥

तत्त्वानामग्रजो यस्मान्महांश्च परिमाणतः।
शेषेभ्योऽपि गुणेभ्योऽसौ महानिति ततः स्मृतः ॥२७॥

बिभर्ति मानं मनुते विभागं मन्यतेऽपि च।
पुरुषो भोगसम्बन्धात् तेन चासौ मतिः स्मृतः ॥२८॥

बृहत्त्वादृंहणत्वाच्च भावानां सलिलाश्रयात्।
यस्माद्‌बृंहयते भावान् ब्रह्मा तेन निरुच्यते ॥२९॥

आपूरयित्वा यस्माच्च कृत्स्नान् देहाननुग्रहैः।
तत्त्वभावांश्च नियतां स्तेन पूरिति चोच्यते ॥३०॥

बुध्यते पुरुषश्चात्र सर्वभावान् हिताहितान् ।
यस्माद्बोधयते चैव तेन बुद्धिर्निरुच्यते ॥३१॥

ख्यातिः प्रत्युपभोगश्च यस्मात् संवर्त्तते ततः।
भोगश्च ज्ञाननिष्ठत्वात्तेन ख्यातिरिति स्मृतः ॥३२॥

ख्यायते तद्गुणैर्वापि नामादिभिरनेकशः।
तस्माच्च महतः सञ्ज्ञा ख्यातिरित्यभिधीयते ॥३३॥

साक्षात् सर्वं विजानाति महात्मा तेन चेश्वरः।
तस्माज्जाता ग्रहाश्चैव प्रज्ञा तेन स उच्यते ॥३४॥

ज्ञानादीनि च रूपाणि क्रतुकर्मफलानि च।
चिनोति यस्माद्भोगार्थान्तेनासौ चितिरुच्यते ॥३५॥

वर्त्तमानान्यतीतानि तथा चानागतान्यपि।
स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते ॥३६॥

कृत्स्नं च विन्दते ज्ञानं तस्मान्माहात्म्यमुच्यते।
तस्माद्विदेर्विदेश्चैव संविदित्यभिधीयते ॥३७॥

विद्यते स च सर्वस्मिन् सर्वं तस्मिश्च विद्यते।
तस्मात्संविदिति प्रोक्तो महान्वै बुद्धिमत्तरैः ॥३८॥

ज्ञानात्तु ज्ञानमित्याह भगवान् ज्ञानसन्निधिः।
द्वन्द्वानां विपुरीभावाद्विपुरं प्रोच्यते बुधैः ॥३९॥

सर्वेशत्वाच्च लोकानामवश्यं च तथेश्वरः।
बृहत्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भव उच्यते ॥४०॥

क्षेत्रक्षेत्रज्ञविज्ञानादेकत्वाच्च स कः स्मृतः।
यस्मात् पुर्यनुशेते च तस्मात् पुरुष उच्यते।
नोत्पादितत्वात् पूर्वत्वात् स्वयम्भूरिति चोच्यते ॥४१॥

पर्यायवाचकैः शब्दैस्तत्त्वमाद्यमनुत्तमम्।
व्याख्यातं तत्त्वभावज्ञैरेवं सद्भावचिन्तकैः ॥४२॥

महान् सृष्टिं विकुरुते चोद्यमानः सिसृक्षया।
सङ्कल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ॥४३॥

धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः।
त्रिगुणस्तु स विज्ञेयः सत्त्वराजसतामसः ॥४४॥

त्रिगुणाद्रजसोद्रिक्तादहङ्कारस्ततोऽभवत्।
महता चावृतः सर्गो भूतादिविकृतस्तु सः ॥४५॥

तस्माच्च तमसोद्रिक्तादहङ्कारादजायत।
भूततन्मात्रसर्गस्तु भूतादिस्तामसस्तु सः ॥४६॥